संस्कृत सूची|संस्कृत साहित्य|धर्मः|नारद भक्ति सूत्र| प्रथमोऽध्यायः नारद भक्ति सूत्र प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतियोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः नारद भक्ति सूत्र - प्रथमोऽध्यायः नारद भक्ति सूत्राचे रोज वाचन केल्याने सर्व कलह नष्ट होतात Tags : dharmaधर्मनारदसंस्कृत प्रथमोऽध्यायः Translation - भाषांतर अथातो भक्तिं व्याख्यास्यामः । सा त्वस्मिन परप्रेमरूपा ।अमृतस्वरूपा च । यल्लब्धवा पुमान सिध्दो भवति अमृतो भवति तृप्तो भवति ।यत्प्राप्य न किन्चित वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ।यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति ।सा न कामयमाना निरोधरूपत्वात ।नेरोधस्तु लोकवेदव्यापारन्यासः ।तस्मिन्ननन्यता तद्विरोधिषूदासीनता ।लोकवेदेषु तदनुकूलाचरणं तदविरोधिषूदासीनता ।भवतु निश्चयदाढर्यादूर्ध्वं शास्त्ररक्षणम् ।अन्यथा पातित्यशङ्कया ।लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि ।तल्लक्षणानि वाच्यन्ते नानामतभेदात् ।पूजादिष्वनुराग इति पराशर्यः ।कथादिष्विति गर्गः ।आत्मरत्यविरोधेनेति शाण्डिल्यः ।नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ।अस्त्येवमेवम् । यथा व्रजगोपिकानाम ।तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ।तद्विहीनं जाराणामिव । नास्त्येव तस्मिन तत्सुखसुखित्वम् । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP