संस्कृत सूची|शास्त्रः|योग शास्त्रः| गोरक्ष-शतकम् -१ योग शास्त्रः भोजवृत्तिः घेरण्ड संहिता श्रीगुरूदत्त योगः हठयोगप्रदीपिका सत्कर्मसंग्रहः व्यास भाष्य योगयात्रा योगरहस्य गोरक्ष-शतकम् -१ गोरक्ष-शतकम् -२ पातञ्जल योग सूत्राणि गोरक्ष-शतकम् -१ प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे. Tags : gorakshayogगोरक्षयोगशास्त्र गोरक्ष-शतकम् Translation - भाषांतर ॐ परम-गुरवे गोरक्षनाथाय नमः ।ॐ गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये ।आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकाम् ॥१॥एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् ।यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥२॥द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् ।शमनं भव-तापस्य योगं भजति सज्जनः ॥३॥आसनं प्राण-संयामः प्रत्याहारोथ धारणा ।ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥४॥आसनानि तु तावन्ति यावत्यो जीव-जातयः ।एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ॥५॥चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् ।ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥६॥आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते ।एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥७॥योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् ।स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोरन्तरम्एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥८॥वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथादक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥९॥आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ।योनि-स्थानं द्वयोर्मध्ये काम-रूपं निगद्यते ॥१०॥आधाराख्ये गुद-स्थाने पङ्कजं यच् चतुर्दलम् ।तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्ध-वन्दिता ॥११॥योनि-मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ।मस्तके मणिवद् भिन्नं यो जानाति स योगवित् ॥१२॥तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् ।चतुरस्रं पुरं वह्नेरधो-मेढ्रम् एवाभिधीयते ॥१३॥स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः ।स्वाधिष्ठानाख्यया तस्मान् मेढ्रम् एवाभिधीयते ॥१४॥तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया ।तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ॥१५॥ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः स्व-गाण्डवत् ।तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥१६॥तेषु नाडि-सहस्रेषु द्विसप्ततिरुदाहृताः ।प्राधान्यात् प्राण-वाहिन्यो भूयस्तत्र दश स्मृताः ॥१७॥इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ।गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥१८॥अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ।एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥१९॥इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा ।सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥२०॥दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे ।यशस्विनी वाम-कर्णे चासने वाप्यलम्बुषा ॥२१॥कूहुश्च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी ।एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश नाडिकाः ॥२२॥सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ।इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ॥२३॥प्राणापानौ समानश्च ह्युदानो व्यान एव च ।नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥२४॥नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः ।एते नाडि-सहस्रेषु वर्तन्ते जीव-रूपिणः ॥२५॥प्राणापान-वशो जीवो ह्य् अधश्चोर्ध्वं च धावति ।वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ॥२६॥आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः ।प्राणापान-समाक्षिप्तस्तथा जीवोनुकृष्यते ॥२७॥रज्जु-बद्धो यथा श्येनो गतोप्याकृष्यते ।गुण-बद्धस्तथा जीवः प्राणापानेन कृष्यते ॥२८॥अपानः कर्षति प्राणः प्राणोपानं च कर्षति ।ऊर्ध्वाधः संस्थिताव् एतौ यो जानाति स योगवित् ॥२९॥कन्दोर्ध्वे कुण्डली-शक्तिरष्टधा कुण्डली-कृता ।ब्रह्म-द्वार-मुखं नित्यं मुखेनावृत्य तिष्ठति ॥३०॥प्रबुद्धा वह्नि-योगेन मनसा मारुता हता ।प्रजीव-गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ॥३१॥महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् ।मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ॥३२॥वक्षो-न्यस्त-हनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणाहस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् ।आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्एषा पातक-नाशिनी सुमहती मुद्रा न्णां प्रोच्यते ॥३३॥कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥३४॥ऊर्ध्वं मेढ्राद् अधो नाभेरुड्डियानं प्रचक्षते ।उड्डियान-जयो बन्धो मृत्यु-मातङ्ग-केसरी ॥३५॥जालन्धरे कृते बन्धे कण्ठ-सङ्कोच-लक्षणे ।न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥३६॥पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् ।अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धो निगद्यते ॥३७॥यतः काल-भयात् ब्रह्मा प्राणायाम-परायणः ।योगिनो मुनयश्चैव ततः प्राणं निबन्धयेत् ॥३८॥चले वाते चलं सर्वं निश्चले निश्चलं भवेत् ।योगी स्थाणुत्वम् आप्नोति ततो वायुं निबन्धयेत् ॥३९॥षट्-त्रिंशद्-अङ्गुलं हंसः प्रयाणं कुरुते बहिः ।वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते ॥४०॥बद्ध-पद्मासनो योगी नमस्कृत्य गुरुं शिवम् ।नासाग्र-दृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥४१॥प्राणो देह-स्थितो वायुरायामस्तन्-निबन्धनम् ।एक-श्वास-मयी मात्रा तद् योगी गगनायते ॥४२॥बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥४३॥अमृतोदधि-सङ्काशं क्षीरोद-धवल-प्रभम् ।ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत् ॥४४॥प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः ।कुम्भयित्वा विधानेन भूयश्चन्द्रेण रेचयेत् ॥४५॥प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् ।ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ॥४६॥रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः ।प्राणायामो भवेत् त्रेधा मात्रा द्वादश-संयुतः ॥४७॥द्वादशाधमके मात्रा मध्यमे द्विगुणास्ततः ।उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ॥४८॥अधमे च घनो घर्मः कम्पो भवति मध्यमे ।उत्तिष्ठत्य् उत्तमे योगी बद्ध-पद्मासनो मुहुः ॥४९॥अङ्गानां मर्दनं शस्तं श्रम-संजात-वारिणा ।कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ॥५०॥मन्दं मन्दं पिबेद् वायुं मन्दं मन्दं वियोजयेत् ।नाधिकं स्तम्भयेद् वायुं न च शीघ्रं विमोचयेत् ॥५१॥ऊर्ध्वम् आकृष्य चापानं वातं प्राणे नियोजयेत् ।मूर्धानं नीयते शक्त्या सर्व-पापैः प्रमुच्यते ॥५२॥प्राणायामो भवत्य् एवं पातकेन्धन-पातकः ।एनोम्बुधि-महा-सेतुः प्रोच्यते योगिभिः सदा ॥५३॥आसनेन रुजो हन्ति प्राणायामेन पातकम् ।विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥५४॥चन्द्रामृत-मयीं धारां प्रत्याहारति भास्करः ।तत्-प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ॥५५॥एका स्त्री भुज्यते द्वाभ्याम् आगता सोम-मण्डलात् ।तृतीयो यो भवेत् ताभ्यां स भवत्य् अजरामरः ॥५६॥नाभिदेशे भवत्य् एको भास्करो दहनात्मकः ।अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥५७॥वर्षत्य् अधोमुखश्चन्द्रो ग्रसत्य् ऊर्ध्व-मुखो रविः ।ज्ञातव्यं करणं तत्र येन पीयूषम् आप्यते ॥५८॥ऊर्ध्व-नाभिरधस्तालु ऊर्ध्व-भानुरधः शशी ।करणं विपरीताख्यं गुरु-वक्त्रेण लभ्यते ॥५९॥त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम् ।अनाहतं च तच् चक्रं हृदये योगिनो विदुः ॥६०॥अनाहतम् अतिक्रम्य चाक्रम्य मणिपूरकम् ।प्राप्ते प्राणं महापद्मं योगित्वम् अमृतायते ॥६१॥विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते ।अतः कण्ठे विशुद्धाख्ये चक्रं चक्र-विदो विदुः ॥६२॥विशुद्धे परमे चक्रे धृत्वा सोम-कला-जलम् ।मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ॥६३॥सम्पीड्य रसनाग्रेण राज-दन्त-बिलं महत् ।ध्यात्वामृतमयीं देवीं षण्-मासेन कविर्भवेत् ॥६४॥अमृतापूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सरात् ।ऊर्ध्वं प्रवर्तते रेतोप्यणिमादि-गुणोदयः ॥६५॥इन्धनानि यथा वह्निस्तैल-वर्ति च दीपकः ।तथा सोमकला-पूर्णं देही देहं न मुञ्चति ॥६६॥आसनेन समायुक्तः प्राणायामेन संयुतः ।प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत् ॥६७॥हृदये पञ्च-भूतानां धारणां च पृथक् पृथक् ।मनसो निश्चलत्वेन धारणा च विधीयते ॥६८॥या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्वितासंयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी ।प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा ॥६९॥अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेम्बु-तत्तवं स्थितंयत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना ।प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्एषा दुर्वह-काल-कूट-जरणा स्याद् वारिणी धारणा ॥७०॥यत् ताल-स्थितम् इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलंतेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम् ।प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्एषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा ॥७१॥यद् भिन्नाञ्जन-पुञ्ज-सान्निभम् इदं तत्त्वं भ्रुवोरन्तरेवृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता ।प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥७२॥आकाशं सुविशुद्ध-वारि-सदृशं यद् ब्रह्म-रन्ध्रे स्थितंतत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरम् ।प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्एषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा ॥७३॥स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा ।शोषणी च भवन्त्य् एवं भूतानां पञ्च धारणाः ॥७४॥कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः ।विधाय सततं योगी सर्व-पापैः प्रमुच्यते ॥७५॥ सर्वं चिन्ता-समावर्ति योगिनो हृदि वर्तते ।यत् तत्त्वे निश्चितं चेतस्तत् तु ध्यानं प्रचक्षते ॥७६॥द्विधा भवति तद् ध्यानं स-गुणं निर्गुणं तथा ।सगुणं वर्ण-भेदेन निर्गुणं केवलं विदुः ॥७७॥आधारं प्रथमं चक्रं तप्त-काञ्चन-सन्निभम् ।नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति किल्बिषम् ॥७८॥स्वाधिष्ठानं द्वितीयं तु सन्-माणिक्य-सुशोभनम् ।नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति पातकम् ॥७९॥तरुणादित्य-संकाशं चक्रं च मणिपूरकम् ।नासाग्रे दृष्टिम् आदाय ध्यात्वा संक्षोभयेज् जगत् ॥८०॥इथे श्लोक उपलब्ध नाही.विद्युत्-प्रभावं हृत्-पद्मे प्राणायाम-विभेदनैः ।नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥८२॥सन्ततं घण्टिका-मध्ये विशुद्धं चामृतोद्भवम् ।नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥८३॥भ्रुवोर्मध्ये स्थितं देवं स्निग्ध-मौक्तिक-सन्निभम् ।नासाग्रे दृष्टिम् आदाय ध्यात्वानन्दमयो भवेत् ॥८४॥निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम् ।नासाग्रे दृष्टिम् आदाय ध्यात्वा दुःखाद् विमुच्यते ॥८५॥गुदं मेढ्रं च नाभिं च हृत्-पद्मे च तद्-ऊर्ध्वतः ।घण्टिकां लम्पिका-स्थानं भ्रू-मध्ये परमेश्वरम् ॥८६॥निर्मलं गगनाकारं मरीचि-जल-सन्निभम् ।आत्मानं सर्वगं ध्यात्वा योगी योगम् अवाप्नुयात् ॥८७॥कथितानि यथैतानि ध्यान-स्थानानि योगिनाम् ।उपाधि-तत्त्व-युक्तानि कुर्वन्त्य् अष्ट-गुणोदयम् ॥८८॥उपाधिश्च तथा तत्त्वं द्वयम् एवम् उदाहृतम् ।उपाधिः प्रोच्यते वर्णस्तत्त्वम् आत्माभिधीयते ॥८९॥उपाधिरन्यथा-ज्ञानं तत्त्वं संस्थितम् अन्यथा ।समस्तोपाधि-विध्वंसि सदाभ्यासेन योगिनाम् ॥९०॥आत्म-वर्णेन भेदेन दृश्यते स्फाटिको मणिः ।मुक्तो यः शक्ति-भेदेन सोयम् आत्मा प्रशस्यते ॥९१॥निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम् ।निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥९२॥शब्दाद्याः पञ्च या मात्रा यावत् कर्णादिषु स्मृताः ।तावद् एव स्मृतं ध्यानं तत्-समाधिरतः परम् ॥९३॥यदा संक्षीयते प्राणो मानसं च विलीयते ।तदा सम-रसैकत्वं समाधिरभिधीयते ॥९४॥इथे श्लोक उपलब्ध नाही.धारणाः पञ्च-नाड्यस्तु ध्यानं च षष्ठि-नाडिकाः ।दिन-द्वादशकेनैव समाधिः प्राण-संयमः ॥९६॥न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम् ।आत्मानं न परं वेत्ति योगी युक्तः समाधिना ॥९७॥खाद्यते न च कालेन बाध्यते न च कर्मणा ।साध्यते न च केनापि योगी युक्तः समाधिना ॥९८॥निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत् ।व्योम-विज्ञानम् आनन्दं ब्रह्म ब्रह्म-विदो विदुः ॥९९॥दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः ।अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥१००॥भव-भय-वने वह्निर्मुक्ति-सोपान-मार्गतः ।अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥१०१॥गोरक्ष-शतकं समाप्तम् । N/A References : गोरक्ष-शतकम् Last Updated : January 30, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP