संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ८|पाद २| खण्ड ८४ पाद २ खण्ड ८३ खण्ड ८४ पाद २ - खण्ड ८४ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ८४ Translation - भाषांतर १ - ८ - इह दोग्धा दोग्धुम् इति घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति ।२ - ८ - न एषः दोषः ।३ - ८ - उक्तम् एतत् अपवादः वचनप्रामाण्यात् इति ।४ - ८ - अथ वा एवम् वक्ष्यामि ।५ - ८ - हः ढः अदादेः ।६ - ८ - हः ढः भवति अदादेः ।७ - ८ - ततः धातोः घः इति ।८ - ८ - दादेः इति अनुवर्तते न इति निवृत्तम्१ - १४ - दादेः इति उच्यते तत्र इदम् न सिध्यति ।२ - १४ - अधोक् ।३ - १४ - क्व तर्हि स्यात् ।४ - १४ - मा स्म धोक्. न एषः दोषः ।५ - १४ - धातोः इति न एषा दादिसमानाधिकरणा षष्ठी ।६ - १४ - दादेः धातोः इति ।७ - १४ - का तर्हि ।८ - १४ - अवयवयोगा एषा षष्ठी ।९ - १४ - धातोः यः दादिः अवयवः इति ।१० - १४ - सा च अवश्यम् अवयवयोगा षष्ठी विज्ञेया उत्तरार्था ।११ - १४ - किम् प्रयोजनम् ।१२ - १४ - एकाचः बशः भष् झषन्तस्य स्ध्वोः इति इह अपि यथा स्यात् गर्दभयतेः अप्रत्ययः गर्धप् इति ।१३ - १४ - यदि अवयवयोगा षष्ठी दोग्धा दोग्धुम् इति अत्र न प्राप्नोति ।१४ - १४ - एषः अपि व्यपदेशिवद्भावेन धातोः दादिः अवयवः भवति ।१ - ६ - हृग्रहोः भः छन्दसि हस्य ।२ - ६ - हृग्रहोः छन्दसि हस्य भत्वम् वक्तव्यम् ।३ - ६ - गर्दभेन सम्भरति ।४ - ६ - मरुत् अस्य ग्रभीता ।५ - ६ - सामिधेन्यः जभ्रिरे ।६ - ६ - उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन्१ - २२ - किमर्थः चकारः ।२ - २२ - स्ध्वोः इति एतत् अनुकृष्यते ।३ - २२ - न एतत् अस्ति प्रयोजनम् ।४ - २२ - सिद्धम् स्ध्वोः पूर्वेण एव ।५ - २२ - न सिध्यति ।६ - २२ - किम् कारणम् ।७ - २२ - अबशादित्वात् ।८ - २२ - ननु च जश्त्वे कृते बशादिः ।९ - २२ - असिद्धम् जश्त्वम् तस्य असिद्धत्वात् न बशादिः ।१० - २२ - एवम् तर्हि सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति ।११ - २२ - एत्त्वतुकोः ग्रहणम् न करिष्यते ।१२ - २२ - अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव ।१३ - २२ - एवम् अपि अझषन्तत्वात् न प्राप्नोति ।१४ - २२ - लोपे कृते झषन्तः ।१५ - २२ - स्थानिवद्भावात् न झषन्तः ।१६ - २२ - अतः उत्तरम् पठति ।१७ - २२ - दधः तथोः अनुकर्षणानर्थक्यम् स्थानिवत्प्रतिषेधात् । दधः तथोः अनुकर्षणम् अनर्थकम् ।१८ - २२ - किम् कारणम् ।१९ - २२ - स्थानिवत्प्रतिषेधात् ।२० - २२ - प्रतिषिध्यते अत्र स्थनिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।२१ - २२ - स च अवश्यम् प्रतिषेधः आश्रयितव्यः ।२२ - २२ - इतरथा हि अलोपे प्रतिषेधः । यः हि मन्यते अनुकर्षणसामर्थ्यात् मे अत्र भवति अलोपे तेन प्रतिषेधः वक्तव्यः स्यात् दधाति दधासि१ - ३ - तथोः च अपि ग्रहणम् शक्यम् अकर्तुम् ।२ - ३ - कथम् ।३ - ३ - झलि झषन्तस्य इति उच्यते तथोः च अयम् झलि झषन्तः भवति न अन्यत्र१ - ५ - अथ अपि एतत् न अस्ति पूर्वत्रासिद्धे न स्थानिवत् इति एवम् अपि न एव अर्थः अनुकर्षणार्थेन चकारेण न अपि तथोः ग्रहणेन ।२ - ५ - आनन्तर्यम् इह आश्रीयते झलि झषन्तस्य इति ।३ - ५ - क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।४ - ५ - लोपे सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।५ - ५ - यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः ।१ - १२ - अधः इति किमर्थम् ।२ - १२ - धत्तः ।३ - १२ - धत्थः ।४ - १२ - अधः इति शक्यम् अकर्तुम् ।५ - १२ - कस्मात् न भवति धत्तः धत्थः इति ।६ - १२ - जश्त्वे योगविभागः करिष्यते ।७ - १२ - इदम् अस्ति दधस्तथोश्च इति ।८ - १२ - ततः वक्ष्यामि झलाम् जशः ।९ - १२ - झलाम् जशः भवन्ति दधः तथोः ।१० - १२ - ततः अन्ते ।११ - १२ - अन्ते च झलाम् जशः भवन्ति ।१२ - १२ - तत्र जश्त्वे कृते अझषन्तत्वात् न भविष्यति ।१ - १३ - रदाभ्याम् इति किमर्थम् ।२ - १३ - चरितम् मुदितम् ।३ - १३ - ननु च रदाभ्याम् इति उच्यमाने अपि अत्र प्राप्नोति ।४ - १३ - अत्र अपि रेफदकाराभ्याम् परा निष्ठा ।५ - १३ - न रेफदकाराभ्याम् निष्ठा विशेष्यते ।६ - १३ - किम् तर्हि ।७ - १३ - तकारः विशेष्यते ।८ - १३ - रफदकाराभ्याम् उत्तरस्य तकारस्य नः भवति स चेत् निष्ठायाः इति ।९ - १३ - अथ पूर्वग्रहणम् किमर्थम् ।१० - १३ - निष्ठादेशे पूर्वग्रहणम् परस्य आदेशप्रतिषेधार्थम् ।११ - १३ - निष्ठादेशे पूर्वग्रहणम् क्रियते परस्य आदेशः मा भूत् इति ।१२ - १३ - भिन्नवद्भ्याम् भिन्नवद्भिः ।१३ - १३ - पञ्चमीनिर्दिष्टात् हि परस्य । पञ्चमीनिर्दिष्टात् हि परस्य इति परस्य प्राप्नोति१ - ३२ - वृद्धिनिमित्तात् प्रतिषेधः ।२ - ३२ - वृद्धिनिमित्तात् प्रतिषेधः वक्तव्यः ।३ - ३२ - किम् प्रयोजनम् ।४ - ३२ - प्रयोजनम् कार्तिक्षैतिफौल्लयः । कार्तिः इति वृद्धौ कृतायाम् रदाभ्याम् इति नत्वम् प्राप्नोति ।५ - ३२ - क्षैतिः इति वृद्धौ कृतायाम् क्षियोदीर्घात् इति नत्वम् प्राप्नोति ।६ - ३२ - फौल्लिः इति वृद्धौ कृतायाम् उदुपधत्वसन्नियोगेन लत्वम् उच्यमानम् न प्राप्नोति ।७ - ३२ - अथ उच्यमाने अपि प्रतिषेधे वृद्धिनिमित्तात् इति कथम् इदम् विज्ञायते ।८ - ३२ - वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति ।९ - ३२ - आहोस्वित् वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति ।१० - ३२ - किम् च अतः ।११ - ३२ - यदि विज्ञायते वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति क्षैतिः सङ्गृहीतः कार्तिः असङ्गृहीतः ।१२ - ३२ - अथ विज्ञायते वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः ।१३ - ३२ - उभयथा च फौल्लिः असङ्गृहीतः ।१४ - ३२ - यथा इच्छसि तथा अस्तु ।१५ - ३२ - अस्तु तावत् वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति ।१६ - ३२ - ननु च उक्तम् क्षैतिः सङ्ग्र्हीतः कार्तिः असङ्गृहीतः इति ।१७ - ३२ - कार्तिः च सङ्गृहीतः ।१८ - ३२ - कथम् ।१९ - ३२ - वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते ।२० - ३२ - अथ वा पुनः अस्तु वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति ।२१ - ३२ - ननु च उक्तम् कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः इति ।२२ - ३२ - क्षैतिः च सङ्गृहीतः ।२३ - ३२ - कथम् ।२४ - ३२ - यत् तत् वृद्धिशास्त्रम् तस्मिन् वृद्धिशब्दः वर्तते ।२५ - ३२ - सः तर्हि प्रतिषेधः वक्तव्यः ।२६ - ३२ - न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् ।२७ - ३२ - किम् कारणम् ।२८ - ३२ - बहिरङ्गलक्षणत्वात् ।२९ - ३२ - बहिरङ्गा वृद्धिः ।३० - ३२ - अन्तरङ्गम् नत्वम् ।३१ - ३२ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।३२ - ३२ - एवम् च कृत्वा लत्वम् अपि सिद्धम् भवति फौल्लिः इति१ - १४ - ऋकारल्वादिभ्यः क्तिन्निष्ठावत् ।२ - १४ - ऋकारल्वादिभ्यः क्तिन् निष्ठावत् भवति इति वक्तव्यम् ।३ - १४ - कीर्णिः गीर्णिः ।४ - १४ - लूनिः धूनिः ।५ - १४ - दुग्वोः दीर्घः च । दुग्वोः दीर्घः च इति वक्तव्यम् ।६ - १४ - आदूनः विगूनः ।७ - १४ - पूञः विनाशे । पूञः विनाशे इति वक्तव्यम् ।८ - १४ - पूनाः यवाः ।९ - १४ - विनाशे इति किमर्थम् ।१० - १४ - पूतम् धान्यम् ।११ - १४ - सिनोतेः ग्रासकर्मकर्तृकस्य । सिनोतेः ग्रासकर्मकर्तृकस्य इति वक्तव्यम् ।१२ - १४ - सिनः ग्रासः ।१३ - १४ - ग्रासकर्मकर्तृकस्य इति किमर्थम् ।१४ - १४ - सिता पाशेन सूकरी१ - २४ - दीर्घात् इति किमर्थम् ।२ - २४ - अक्षितम् असि मा मे क्षेष्ठाः ।३ - २४ - दीर्घात् इति शक्यम् अकर्तुम् ।४ - २४ - कस्मात् न भवति अक्षितम् असि मा मे क्षेष्ठाः इति ।५ - २४ - निर्देशात् एव इदम् अभिव्यक्तम् दीर्घस्य ग्रहणम् इति ।६ - २४ - यदि ह्रस्वस्य ग्रहणम् स्यात् क्षेः इति एव ब्रूयात् ।७ - २४ - न अत्र निर्देशः प्रमाणं शक्यम् कर्तुम् ।८ - २४ - यथा एव अत्र अप्राप्ता विभक्तिः एवम् इयङादेशः अपि ।९ - २४ - न अत्र अप्राप्ता विभक्तिः ।१० - २४ - सिद्धा अत्र विभक्तिः प्रातिपदिकात् इति ।११ - २४ - कथम् प्रातिपदिकसञ्ज्ञा ।१२ - २४ - अर्थवत् प्रातिपदिकम् इति ।१३ - २४ - ननु च अधातुः इति प्रतिषेधः प्राप्नोति ।१४ - २४ - न एषः धातुः धातोः एषः अनुकरणः ।१५ - २४ - यदि अनुकरणः इयङादेशः न प्राप्नोति ।१६ - २४ - प्रकृतिवत् अनुकरणम् भवति इति एवम् इयङादेशः भविष्यति ।१७ - २४ - यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते स्वाद्युत्पत्तिः न प्राप्नोति ।१८ - २४ - एवम् तर्हि आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते ।१९ - २४ - अथ अपि एतत् न अस्ति आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते इति एवम् अपि न दोषः ।२० - २४ - अवश्यम् अत्र सर्वतः नैर्देशिकी विभक्तिः वक्तव्या ।२१ - २४ - तत् यथा ।२२ - २४ - नेर्विशः परिव्यवेभ्यःक्रियः विपराभ्याञ्जेः इति ।२३ - २४ - अथ अपि एतत् न अस्ति प्रकृतिवत् अनुकरणम् भवति इति एवम् अपि न दोषः ।२४ - २४ - धातोः अजादौ यत् रूपम् तत् अनुक्रियते१ - २८ - अञ्चेः नत्वे व्यक्तप्रतिषेधः ।२ - २८ - अञ्चेः नत्वे व्यक्तस्य प्रतिषेधः वक्तव्यः ।३ - २८ - व्यक्तम् अनृतम् कथयति इति ।४ - २८ - अञ्जिविज्ञानात् सिद्धम् । न एतत् अञ्चेः रूपम् ।५ - २८ - अञ्जेः एतत् रूपम् ।६ - २८ - अञ्चत्यर्थः वै गम्यते ।७ - २८ - कः पुनः अञ्चत्यर्थः ।८ - २८ - अञ्चतिः प्रकाशने वर्तते ।९ - २८ - अञ्चितम् गच्छति ।१० - २८ - प्रकाशयति आत्मानम् इति गम्यते ।११ - २८ - न वै लोके अञ्चितम् गच्छति इति प्रकाशनम् गम्यते ।१२ - २८ - किम् तर्हि ।१३ - २८ - समाधानम् गम्यते ।१४ - २८ - समाहितः भूत्वा गच्छति इति ।१५ - २८ - एवम् तर्हि अञ्चतेः अङ्कः अङ्कः च प्रकाशनम् ।१६ - २८ - अङ्किताः गावः इति उच्यते अन्याभ्यः गोभ्यः प्रकाश्यन्ते ।१७ - २८ - अञ्चत्यर्थः इति चेत् अञ्जेः तदर्थत्वात् सिद्धम् । अञ्चत्यर्थः इति चेत् अञ्जिः अपि अञ्चत्यर्थे वर्तते ।१८ - २८ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।१९ - २८ - कथम् अञ्जिः अञ्चत्यर्थे वर्तते ।२० - २८ - अनेकार्थाः अपि धातवः भवन्ति ।२१ - २८ - अस्ति पुनः क्व चित् अन्यत्र अपि अञ्जिः अञ्चत्यर्थे वर्तते ।२२ - २८ - अस्ति इति आह ।२३ - २८ - अञ्जेः अञ्जनम् अञ्जनम् च प्रकाशनम् ।२४ - २८ - अङ्क्तेषिणी इति उच्यते यत् तत् सितम् च असितम् च एतत् प्रकाशयति ।२५ - २८ - तथा अञ्जेः व्यञ्जनम् व्यञ्जनम् च प्रकाशनम् ।२६ - २८ - यत् तत् स्नेहेन मधुरेण च जडीकृतानाम् इन्द्रियाणाम् स्वस्मिन् आत्मनि व्यवस्थापनम् सः रागः तत् व्यञ्जनम् ।२७ - २८ - अन्वर्थम् खलु अपि निर्वचनम् ।२८ - २८ - व्यज्यते अनेन इति व्यञ्जनम् इति१ - ५ - अवाताभिधाने ।२ - ५ - अवाताभिधाने इति वक्तव्यम् ।३ - ५ - इह अपि यथा स्यात् ।४ - ५ - निर्वाणः अग्निः वातेन ।५ - ५ - निर्वाणः प्रदीपः वातेन इति१ - ११ - अनुपसर्गात् इति उच्यते तत्र इदम् न सिध्यति परिकृशम् इति ।२ - ११ - कृशेः कः एषः विहितः इगुपधात् ।३ - ११ - न एतत् निष्ठान्तम् ।४ - ११ - किम् तर्हि कृशः एषः इगुपधात् कः विहितः ।५ - ११ - स्वरे हि दोषः भवति परिकृशे । न एवम् शक्यम् ।६ - ११ - इह हि परिकृशः इति स्वरे दोषः स्यात् ।७ - ११ - अन्तस्थाथघञ्क्ताजबित्रकाणाम् ।८ - ११ - इति एषः स्वरः प्रसज्येत ।९ - ११ - पदस्य लोपः विहितः इति मतम् । एवम् तर्हि पदस्य लोपः द्रष्टव्यः ।१० - ११ - पर्यागतः कार्श्येन परिकृशः ।११ - ११ - जगती अनूना भवति हि रुचिरा ।१ - ८ - फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् ।२ - ८ - फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् कर्तव्यम् उत्फुल्लः अनृतम् कथयति ।३ - ८ - अत्यल्पम् इदम् उच्यते उत्पूर्वात् इति ।४ - ८ - उत्फुल्लसम्फुल्लयोः इति वक्तव्यम् उत्फुल्लः , सम्फुल्लः ।५ - ८ - कृशेः कः एषः विहितः इगुपधात् ।६ - ८ - स्वरे हि दोषः भवति परिकृशे ।७ - ८ - पदस्य लोपः विहितः इति मतम् ।८ - ८ - जगति अनूना भवति हि रुचिरा ।१ - २५ - किम् अयम् विधिः आहोस्वित् प्रतिषेधः ।२ - २५ - किम् च अतः ।३ - २५ - यदि तावत् विधिः नकारग्रहणम् कर्तव्यम् ।४ - २५ - न कर्तव्यम् ।५ - २५ - प्रकृतम् अनुवर्तते ।६ - २५ - क्व प्रकृतम् ।७ - २५ - रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति ।८ - २५ - तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।९ - २५ - अथ प्रतिषेधः ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति ।१० - २५ - यथा इच्छसि तथा अस्तु ।११ - २५ - अस्तु तावत् विधिः ।१२ - २५ - ननु च उक्तम् नकारग्रहणम् कर्तव्यम् ।१३ - २५ - न कर्तव्यम् ।१४ - २५ - प्रकृतम् अनुवर्तते ।१५ - २५ - क्व प्रकृतम् ।१६ - २५ - रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति ।१७ - २५ - तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति ।१८ - २५ - सम्बन्धम् अनुवर्तिष्यते ।१९ - २५ - अथ वा क्रियते न्यासे एव ।२० - २५ - द्विनकारकः निर्देशः ।२१ - २५ - नुदविदोन्दत्राघ्राह्रीभ्यः अन्यतरस्याम् न् न ध्याख्यापृ̄मूर्छिमदाम् इति ।२२ - २५ - अथ वा पुनः अस्तु प्रतिषेधः ।२३ - २५ - ननु च उक्तम् ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति इति ।२४ - २५ - न अनर्थकम् ।२५ - २५ - एतत् एव ज्ञापयति आचार्यः भवति एतस्मात् विधिः इति यत् अयम् ह्रीग्रहणम् करोति१ - १३ - बहवः इमे विदयः पठ्यन्ते ।२ - १३ - तत्र न ज्ञायते कस्य नित्यम् नत्वम् कस्य विभाषा कस्य प्रतिषेधः कस्य इट् इति ।३ - १३ - अतः उत्तरम् पठति ।४ - १३ - यस्य विदेः श्नशकौ तपरत्वे तनवचने तद् उ वाप्रतिषेधौ ।५ - १३ - श्नविकरणस्य विभाषा शविकरणस्य प्रतिषेधः ।६ - १३ - श्यविकरणात् नविधिः छिदितुल्यः । श्यन्विकरणात् विदेः नविधिः छिदिना तुल्यः ।७ - १३ - लुग्विकरणः वलि पर्यवपन्नः । लुग्विकरणः विदिः वलादौ पर्यवपन्नः ।८ - १३ - एष एवार्थः ।९ - १३ - ययोः विद्योः श्नशौ उक्तौ तयोः नत्वस्य वानञौ ।१० - १३ - ययोः तु श्यम्̐ल्लुकौ ताभ्याम् छिदिवच् च इट् च इष्यते । अपरः आह वेत्तेः तु विदितः निष्ठा ।११ - १३ - विद्यतेः विन्नः इष्यते ।१२ - १३ - विन्त्तेः विन्नः च वित्तः च वित्तः भोगेषु विन्दतेः ।१३ - १३ - भित्तम् शकलम्१ - ७ - भित्तम् शकलम् इति उच्यते तत्र इदम् न सिध्यति भित्तम् भिन्नम् इति ।२ - ७ - न एषः दोषः ।३ - ७ - सर्वत्र एव अत्र भिदिः विदारणसामान्ये वर्तते तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।४ - ७ - भिन्नम् किम् भित्तम् इति ।५ - ७ - तत्वम् अभिधायकम् चेत् शकलस्य अनर्थकः प्रयोगः स्यात् ।६ - ७ - शकलेन च अपि अभिहिते न भवति तत्वम् निगमयामः ।७ - ७ - क्विन् प्रत्ययस्य कुः१ - १५ - प्रत्ययग्रहणम् किमर्थम् न क्विनः कुः इति एव उच्येत ।२ - १५ - क्विनः कुः इति इयति उच्यमाने वकारस्य एव कुत्वम् प्रसज्येत ।३ - १५ - ननु च लोपे कृते न भविष्यति ।४ - १५ - अनवकाशम् कुत्वम् लोपम् बाधेत ।५ - १५ - सावकाशम् कुत्वम् ।६ - १५ - कः अवकाशः ।७ - १५ - अनन्त्यः ।८ - १५ - कथम् पुनः सति अन्त्ये अनन्त्यस्य कुत्वम् स्यात् ।९ - १५ - आचार्यप्रवृत्तिः ज्ञापयति नान्त्यस्य कुत्वम् भवति इति यत् अयम् क्विनः कुः इति कवर्गनिर्देशम् करोति ।१० - १५ - इतरथा हि तद्गुणम् एव अयम् निर्दिशेत् ।११ - १५ - इदम् तर्हि प्रयोजनम् येभ्यः क्विन्प्रत्ययः विधीयते तेषाम् अन्यप्रत्ययान्तानाम् अपि पदान्ते कुत्वम् यथा स्यात् ।१२ - १५ - मा नः अस्राक् ।१३ - १५ - मा नः अद्राक् ।१४ - १५ - क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणम् कृतम् ।१५ - १५ - क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वम् इष्यते ।१ - ३ - रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् ।२ - ३ - रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् कर्तव्यम् ।३ - ३ - अहोरूपम् अहोरात्रः अहोरथन्तरम् साम१ - १२ - असुपि रादेशे उपसर्जनसमासे प्रतिषेधः अलुकि ।२ - १२ - असुपि रादेशे उपसर्जनसमासे अलुकि प्रतिषेधः वक्तव्यः ।३ - १२ - दीर्घाहा निदाघः इति ।४ - १२ - सिद्धम् तु सुपि प्रतिषेधात् । सिद्धम् एतत् ।५ - १२ - कथम् ।६ - १२ - सुपि प्रतिषेधात् ।७ - १२ - प्रसज्य अयम् प्रतिषेधः सुपि न इति ।८ - १२ - इह अपि तर्हि न प्राप्नोति ।९ - १२ - अहन् ददाति ।१० - १२ - अहन् भुङ्क्ते इति ।११ - १२ - लुकि च उक्तम् । किम् उक्तम् ।१२ - १२ - अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति१ - ८ - छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् ।२ - ८ - छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् कर्तव्यम् ।३ - ८ - प्रचेतः राजन् ।४ - ८ - प्रचेतर् राजन् ।५ - ८ - अहरादीनाम् पत्यादिषु उपसङ्ख्यानम् कर्तव्यम् ।६ - ८ - अहर्पतिः अहःपतिः ।७ - ८ - अहर्पुत्रः अहःपुत्रः ।८ - ८ - गीर्पतिः गीःपतिः१ - २८ - इह कस्मात् न भवति ।२ - २८ - पपिवान् तस्थिवान् इति ।३ - २८ - सस्य इति वर्तते ।४ - २८ - एवम् अपि अत्र प्राप्नोति ।५ - २८ - लोपे कृते न भविष्यति ।६ - २८ - अनवकाशम् दत्वम् लोपम् बाधेत ।७ - २८ - सावकाशम् दत्वम् ।८ - २८ - कः अवकाशः ।९ - २८ - पपिवद्भ्याम् पपिवद्भिः इति ।१० - २८ - अत्र अपि रुः प्राप्नोति ।११ - २८ - तत् यथा एव रुम् बाधते एवम् लोपम् अपि बाधेत ।१२ - २८ - न बाधते ।१३ - २८ - किम् कारणम् ।१४ - २८ - येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते रौ दत्वम् आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च ।१५ - २८ - यदि तर्हि सस्य इति वर्तते अनडुद्भ्याम् अनडुद्भिः इति अत्र न प्राप्नोति ।१६ - २८ - वचनात् अनडुहि भविष्यति ।१७ - २८ - यदि एवम् ।१८ - २८ - अनडुहः दत्वे नकारप्रतिषेधः ।१९ - २८ - अनडुहः दत्वे नकारस्य प्रतिषेधः वक्तव्यः ।२० - २८ - अनड्वान् ।२१ - २८ - सिद्धम् तु प्रतिपदविधानात् नुमः । सिद्धम् एतत् ।२२ - २८ - कथम् ।२३ - २८ - नुमः प्रतिपदविधानसामर्थ्यात् दत्वम् न भविष्यति ।२४ - २८ - यदि तर्हि यत् यत् अनडुहः प्राप्तम् तत् तत् नुमः प्रतिपदविधानसामर्थ्यात् बाध्यते रुत्वम् अपि न प्राप्नोति ।२५ - २८ - अनड्वान् तत्र इति ।२६ - २८ - न एषः दोषः ।२७ - २८ - यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।२८ - २८ - दत्वम् च प्रति नुमः प्रतिपदविधिः अनर्थकः रोः पुनः निमित्तम् एव१ - १५ - किमर्थम् इदम् उच्यते न हलि इति एव सिद्धम् ।२ - १५ - न सिध्यति ।३ - १५ - धातोः इति तत्र वर्तते तत्र रेफवकाराभ्याम् धातुः विशेष्यते ।४ - १५ - रेफवकारान्तस्य धातोः इति ।५ - १५ - किम् पुनः कारणम् पूर्वस्मिन् योगे रेफवकाराभ्याम् धातुः विशेष्यते ।६ - १५ - इह मा भूत् ।७ - १५ - अग्निः वायुः इति ।८ - १५ - एवम् तर्हि पूर्वस्मिन् योगे यत् धातुग्रहणम् तत् उत्तरत्र निवृत्तम् ।९ - १५ - एवम् अपि कुर्कुरः मुर्मुरः इति अत्र अपि प्राप्नोति ।१० - १५ - एवम् तर्हि अनुवर्तते तत्र धातुग्रहणम् न तु रेफवकाराभ्याम् धातुः विशेष्यते ।११ - १५ - किम् तर्हि ।१२ - १५ - इक् विशेष्यते ।१३ - १५ - रेफवकारान्तस्य इकः धातोः इति ।१४ - १५ - एवम् अपि कुर्कुरीयति मुर्मुरीयति इति अत्र प्राप्नोति ।१५ - १५ - तस्मात् धातुः एव विशेष्यः धातौ च विशेष्यमाणे उपधायाम् च इति वक्तव्यम्१ - २१ - उपधादीर्घत्वे अभ्यासजिव्रिचतुर्णाम् प्रतिषेधः ।२ - २१ - उपधादीर्घत्वे अभ्यासजिवृइचतुर्णाम् प्रतिषेधः वक्तव्यः ।३ - २१ - रिर्यतुः रिर्युः ।४ - २१ - संविव्यतुः संविव्युः ।५ - २१ - जिव्रः ।६ - २१ - चतुर्यिता चतुर्यितुम् ।७ - २१ - उणादिप्रतिषेधः च । उणादीनाम् च प्रतिषेधः वक्तव्यः ।८ - २१ - किर्योः गिर्योः इति ।९ - २१ - अभ्यासप्रतिषेधः तावत् न वक्तव्यः ।१० - २१ - हलि इति उच्यते न च अत्र हलादिम् पश्यामः ।११ - २१ - यणादेशे कृते प्राप्नोति ।१२ - २१ - स्थानिवद्भावात् न भविष्यति ।१३ - २१ - प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति ।१४ - २१ - न एषः अस्ति प्रतिषेधः ।१५ - २१ - उक्तम् एतत् प्रतिषेधे स्वरदिर्घयलोपेषु लोपाजादेशः इति ।१६ - २१ - जिव्रिप्रतिषेधः च न वक्तव्यः ।१७ - २१ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।१८ - २१ - चतुर्यिता चतुर्यितुम् इति सुपि न इति वर्तते ।१९ - २१ - यदि एवम् गीर्भ्याम् गीर्भिः इति अप्रसिद्धिः ।२० - २१ - न सुपः विभक्तिविपरिणामात् गीर्भ्याम् गीर्भिः इति अदोषः ।२१ - २१ - उणादिप्रतिषेधः वक्तव्यः इति परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति१ - २८ - अदसः अनोस्रेः ।२ - २८ - अदसः अनोस्रेः इति वक्तव्यम् ।३ - २८ - किम् इदम् अनोस्रेः इति ।४ - २८ - अनोकारस्य असकारस्य अरेफकस्य इति ।५ - २८ - अनोकारस्य ।६ - २८ - अदः अत्र ।७ - २८ - असकारस्य ।८ - २८ - अदस्यते ।९ - २८ - अरेफकस्य ।१० - २८ - अदः ।११ - २८ - तत् तर्हि वक्तव्यम् ।१२ - २८ - न वक्तव्यम् ।१३ - २८ - क्रियते न्यासे एव ।१४ - २८ - अविभक्तिकः निर्देशः ।१५ - २८ - अदस् , ओ , इति ।१६ - २८ - ओकारात् परः पतिषेधः पूर्वभूतः ।१७ - २८ - ततः सकारः ।१८ - २८ - ततः रेफः इति ।१९ - २८ - अथ वा न एवम् विज्ञायते अदसः असकारस्य इति ।२० - २८ - कथम् तर्हि ।२१ - २८ - अकारः अस्य सकारस्य सः अयम् असिः असेः इति ।२२ - २८ - यदि एवम् अमुमुयङ् इति न सिध्यति अदद्र्यङ् इति प्राप्नोति ।२३ - २८ - अदमुयङ् इति भवितव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति ।२४ - २८ - अदसः अद्रेः पृथक् मुत्वम् केचित् इच्छन्ति लत्ववत् ।२५ - २८ - केचित् अन्त्यसदेशस्य ।२६ - २८ - न इति एके ।२७ - २८ - असेः हि दृश्यते ।२८ - २८ - ।१ - ७ - तत्र पदाधिकारात् अपदान्तस्य अप्राप्तिः ।२ - ७ - तत्र पदाधिकारात् अपदान्तस्य न प्राप्नोति ।३ - ७ - अमुया अमुयोः इति ।४ - ७ - सिद्धम् तु सकारप्रतिषेधात् । सिद्धम् एतत् ।५ - ७ - कथम् ।६ - ७ - सकारप्रतिषेधात् ।७ - ७ - यत् अयम् असेः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अपदान्तस्य अपि भवति इति१ - ५ - अथ दाद्ग्रहणम् किमर्थम् ।२ - ५ - दाद्ग्रहणम् अन्त्यप्रतिषेधार्थम् ।३ - ५ - दाद्ग्रहणम् क्रियते अन्त्यप्रतिषेधार्थम् ।४ - ५ - अलः अन्त्यस्य मा भूत् इति ।५ - ५ - अमुया अमुयोः इति१ - १२ - ईत्त्वम् बहुवचनान्तस्य ।२ - १२ - ईत्त्वम् बहुवचनान्तस्य इति वक्तव्यम् ।३ - १२ - बहुवचने इति इयति उच्यमाने इह एव स्यात् ।४ - १२ - अमीभिः अमीषु. इह न स्यात् ।५ - १२ - अमी अत्र ।६ - १२ - अमी आसते ।७ - १२ - तत् तर्हि वक्तव्यम् ।८ - १२ - न वक्तव्यम् ।९ - १२ - न इदम् पारिभाषिकस्य बहुवचनस्य ग्रहणम् ।१० - १२ - किम् तर्हि ।११ - १२ - अन्वर्थग्रहणम् एतत् ।१२ - १२ - बहूनाम् अर्थानाम् वचनम् बहुवचनम् बहुवचने इति१ - २२ - वाक्याधिकारः किमर्थः ।२ - २२ - वाक्याधिकारः पदनिवृत्त्यर्थः ।३ - २२ - वाक्याधिकारः क्रियते पदनिवृत्त्यर्थः ।४ - २२ - पदाधिकारः निवर्त्यते ।५ - २२ - न हि काकः वाश्यते इति अधिकाराः निवर्तन्ते ।६ - २२ - दोषः खलु अपि स्यात् यदि वाक्याधिकारः पदाधिकारम् निवर्तयेत् ।७ - २२ - इष्यन्ते एव उत्तरत्र पदकार्याणि तानि न सिध्यन्ति ।८ - २२ - नश्छव्यप्रशान् इति ।९ - २२ - पदनिवृत्त्यर्थम् इति न एवम् विज्ञायते पदस्य निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति ।१० - २२ - किम् तर्हि. पदे निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति ।११ - २२ - वाक्ये यावन्ति पदानि तेषाम् सर्वेषाम् टेः प्लुतः प्राप्नोति ।१२ - २२ - इष्यते च वाक्यपदयोः अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थः वाक्याधिकारः ।१३ - २२ - अथ टिग्रहणम् किमर्थम् ।१४ - २२ - टिग्रहणम् अलः अन्त्यनियमे व्यञ्जनान्तार्थम् । टिग्रहणम् क्रियते अलः अन्त्यनियमे व्यञ्जनान्तस्य अपि यथा स्यात् ।१५ - २२ - अग्निचि३त् सोमसु३त् ।१६ - २२ - अस्ति प्रयोजनम् एतत् ।१७ - २२ - किम् तर्हि इति ।१८ - २२ - सर्वादेशप्रसङ्गः तु । सर्वादेशः तु टेः प्लुतः प्राप्नोति ।१९ - २२ - किम् कारणम् ।२० - २२ - अचः इति वचनात् अन्त्यस्य न अन्त्यस्य इति वचनात् अचः न उच्यते च प्लुतः सः सर्वादेशः प्राप्नोति ।२१ - २२ - उक्तम् वा । किम् उक्तम् ।२२ - २२ - ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति१ - १४ - अशूद्रे इति किमर्थम् ।२ - १४ - कुशली असि तुषजक ।३ - १४ - अत्यल्पम् इदम् उच्यते असूद्रे इति ।४ - १४ - अशूद्रस्त्र्यसूयकेषु । अशूद्रस्त्र्यसूयकेषु इति वक्तव्यम् ।५ - १४ - तत्र शूद्रे उदाहृतम् ।६ - १४ - स्त्रियाम् गार्गी अहम् , भोः आयुष्मती भव गार्गि ।७ - १४ - असूयके स्थाली अहम् , भोः आयुष्मान् एधि स्थालि३न् ।८ - १४ - न एषा मम सञ्ज्ञा स्थाली इति ।९ - १४ - किम् तर्हि दण्डिन्यायः मम विवक्षितः ।१० - १४ - सः वक्तव्यः ।११ - १४ - स्थाली अहम् भोः आयुष्मान् एधि स्थालिन् ।१२ - १४ - न मम दण्डिन्यायः विवक्षितः ।१३ - १४ - किम् तर्हि सञ्ज्ञा मम एषा ।१४ - १४ - असूयकः त्वम् असि जाल्म न त्वम् प्रत्यभिवादम् अर्हसि भिद्यस्व वृषल स्थालिन्१ - १६ - भोराजन्यविशाम् वा ।२ - १६ - भोराजन्यविशाम् वा इति वक्तव्यम् ।३ - १६ - देवदत्तः अहम् भोः आयुष्मान् एधि देवदत्त भो३ः ।४ - १६ - देवदत्त भोः ।५ - १६ - भोः ।६ - १६ - राजन्य ।७ - १६ - इन्द्रवर्मा अहम् भोः आयुष्मान् एधि इन्द्रवर्म३न् ।८ - १६ - इन्द्रवर्मन् ।९ - १६ - राजन्य ।१० - १६ - विट् ।११ - १६ - इन्द्रपालितः अहम् भोः आयुष्मान् एधि इन्द्रपालित३ ।१२ - १६ - इन्द्रपालित ।१३ - १६ - अपरः आह ।१४ - १६ - सर्वस्य एव नाम्नः प्रत्यभिवादे भोःशब्दः आदेशः वक्तव्यः ।१५ - १६ - देवदत्तः अहम् भोः आयुष्मान् एधि भो३ः ।१६ - १६ - आयुष्मान् एधि देवदत्त३ इति वा१ - १८ - इह कस्मात् न भवति ।२ - १८ - देवदत्त कुशली असि इति ।३ - १८ - इह किम् चित् उच्यते किम् चित् प्रत्युच्यते ।४ - १८ - अप्रधानम् उच्यते प्रधानम् प्रत्युच्यते ।५ - १८ - तत्र प्रधानस्थस्य टिसञ्ज्ञकस्य प्लुत्या भवितव्यम् न च अत्र प्रधानस्थम् टिसञ्ज्ञम् ।६ - १८ - इह अपि तर्हि न प्राप्नोति ।७ - १८ - आधेयः अग्नि३ः न आधेय३ः इति ।८ - १८ - न एतत् विचार्यते आधेयः न आधेयः अग्निः चेत् भवति इति ।९ - १८ - किम् तर्हि ।१० - १८ - इह अग्निसाधना क्रिया विचार्यते आधेयः अग्निः न आधेयः इति ।११ - १८ - यदि एवम् द्वितीयः अग्निशब्दस्य प्रयोगः प्राप्नोति ।१२ - १८ - उक्तार्थानाम् अप्रयोगः इति न भविष्यति ।१३ - १८ - यदि एवम् आधेयशब्दस्य अपि तर्हि द्वितीयस्य प्रयोगः न प्राप्नोति उक्तार्थानाम् अप्रयोगः नाम भवति इति ।१४ - १८ - न एषः दोषः ।१५ - १८ - उक्तार्थानाम् अपि प्रयोगः दृश्यते ।१६ - १८ - तत् यथा ।१७ - १८ - अपूपौ द्वौ आनय ।१८ - १८ - ब्राह्मणौ द्वौ आनय इति१ - १४ - दूरात् हूते इति उच्यते दूरशब्दः च अयम् अनवस्थितपदार्थकः ।२ - १४ - तत् एव हि कम् चित् प्रति दूरम् कम् चित् प्रति अन्तिकम् भवति ।३ - १४ - एवम् हि कः चित् कम् चित् आह ।४ - १४ - एषः पार्श्वतः करकः तम् आनय इति ।५ - १४ - सः आह ।६ - १४ - उत्थाय गृहाण दूरम् न शक्ष्यामि इति ।७ - १४ - अपरः आह दूरम् मथुरायाः पाटलिपुत्रम् इति ।८ - १४ - सः आह ।९ - १४ - न दूरम् इदम् अन्तिकम् इति ।१० - १४ - एवम् एषः दूरशब्दः अनवस्थितपदार्थकः तस्य अनवस्थितपदार्थकत्वात् न ज्ञायते कस्याम् अवस्थायाम् प्लुत्या भवितव्यम् इति ।११ - १४ - एवम् तर्हि ह्वयतिना अयम् निर्देशः क्रियते ।१२ - १४ - ह्वयतिप्रसङ्गे यत् दूरम् ।१३ - १४ - किम् पुनः तत् ।१४ - १४ - तत्र प्राकृतात् प्रयत्नात् प्रयत्नविशेषे उपादीयमाने सन्देहः भवति श्रोष्यति न श्रोष्यति इति तत् दूरम् इह अवगम्यते१ - १४ - हैहेग्रहणम् किमर्थम् ।२ - १४ - हैहेप्रयोगे हैहेग्रहणम् हैहयोः प्लुत्यर्थम् ।३ - १४ - हैहेप्रयोगे ःैहेग्रहणम् क्रियते हैहयोः प्लुतिः यथा स्यात् ।४ - १४ - देवदत्त है३ ।५ - १४ - देवदत्त हे३ ।६ - १४ - अक्रियमाणे हि हैहेग्रहणे तयोः प्रयोगे अन्यस्य स्यात् ।७ - १४ - अथ प्रयोगग्रहणम् किमर्थम् ।८ - १४ - प्रयोगग्रहणम् अर्थवद्ग्रहणे अनर्थकार्थम् । प्रयोगग्रहणम् क्रियते अर्थवद्ग्रहणे अनर्थकयोः अपि यथा स्यात् ।९ - १४ - देवदत्त है३ ।१० - १४ - देवदत्त हे३ ।११ - १४ - अथ पुनः हैहेग्रहणम् किमर्थम् ।१२ - १४ - पुनः हैहेग्रहणम् अनन्त्यार्थम् । पुनः हैहेग्रहणम् क्रियते अनन्त्ययोः अपि यथा स्यात् ।१३ - १४ - है३ देवदत्त ।१४ - १४ - हे३ देवदत्त इति१ - १५ - गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतप्रसङ्गः अन्येन विहितत्वात् ।२ - १५ - गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतः प्राप्नोति ।३ - १५ - दे३वदत्त ।४ - १५ - किम् कारणम् ।५ - १५ - अन्येन विहितत्वात् ।६ - १५ - अन्येन हि लक्षणेन लघोः अन्त्यस्य प्लुतः विधीयते दूराद्धूतेच इति ।७ - १५ - न वा अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् । न वा एषः दोषः ।८ - १५ - किम् कारणम् ।९ - १५ - अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् भविष्यति ।१० - १५ - अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति ।११ - १५ - ननु च एतत् गुर्वपेक्षम् स्यात् ।१२ - १५ - अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि गुरोः इति ।१३ - १५ - न इति आह ।१४ - १५ - द्व्यपेक्षम् एतत् ।१५ - १५ - अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति१ - २८ - अथ प्राग्वचनम् किमर्थम् ।२ - २८ - प्राग्वचनम् विभाषार्थम् ।३ - २८ - प्राग्वचनम् क्रियते विभाषा यथा स्यात् ।४ - २८ - प्राग्वचनानर्थक्यम् च एकैकस्य इति वचनात् । प्राग्वचनम् अनर्थकम् ।५ - २८ - किम् कारणम् ।६ - २८ - एकैकस्य इति वचनात् ।७ - २८ - एकैकग्रहणम् क्रियते तत् विभाषार्थम् भविष्यति ।८ - २८ - अस्ति अन्यत् एकैकग्रहणस्य प्रयोजनम् ।९ - २८ - किम् ।१० - २८ - युगपत् प्लुतः मा भूत् इति ।११ - २८ - अनुदात्तम् पदम् एकवर्जम् इति वचनात् न अस्ति यौगपद्येन सम्भवः ।१२ - २८ - असिद्धः प्लुतः तस्य असिद्धत्वात् नियमः न प्राप्नोति ।१३ - २८ - न एषः दोषः ।१४ - २८ - यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् ।१५ - २८ - कथम् ।१६ - २८ - कार्यकालम् सञ्ज्ञापरिभाषम् इति यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।१७ - २८ - गुरोः अनृतः अनन्त्यस्य अपि एकैकस्य प्राचाम् ।१८ - २८ - उपस्थितम् इदम् भवति अनुदात्तम्पदमेकवर्जम् इति ।१९ - २८ - इह अपि तर्हि समावेशः न प्राप्नोति ।२० - २८ - देवदत्त३ ।२१ - २८ - सिद्धासिद्धौ एतौ ।२२ - २८ - यौ हि सिद्धौ एव असिद्धौ एव वा तयोः नियमः ।२३ - २८ - यः तर्हि स्वरितप्लुतः तेन समावेशः प्राप्नोति ।२४ - २८ - स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु इति ।२५ - २८ - स्वरिते अपि उदात्तः अस्ति ।२६ - २८ - यः तर्हि अनुदात्तप्लुतः तेन समावेशः प्राप्नोति ।२७ - २८ - अनुदात्तम्प्रश्नान्ताभिपूजितयोः इति ।२८ - २८ - तस्मात् प्राग्वचनम् कर्तव्यम्१ - ७ - ये यज्ञकर्मणि इति अतिप्रसङ्गः ।२ - ७ - ये यज्ञकर्मणि इति अतिप्रसङ्गः भवति ।३ - ७ - इह अपि प्राप्नोति ।४ - ७ - ये देवासः दिव्येकादश स्थ इति ।५ - ७ - सिद्धम् तु ये यजामहे इति ब्रूह्यादिषु उपसङ्ख्यानात् । सिद्धम् एतत् ।६ - ७ - कथम् ।७ - ७ - येयजामहेशब्दः ब्रूह्यादिषु उपसङ्ख्येयः१ - ६ - प्रणवः इति उच्यते कः प्रणवः नाम ।२ - ६ - पादस्य वा अर्धर्चस्य वा अन्त्यम् अक्षरम् उपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रम् ओङ्कारम् त्रिमात्रम् ओकारम् वा विदधति तम् प्रणवः इति आचक्षते ।३ - ६ - अथ टिग्रहणम् किमर्थम् ।४ - ६ - टिग्रहणम् सर्वादेशार्थम् ।५ - ६ - यदा ओकारः तदा सर्वादेशः यथा स्यात् ।६ - ६ - यदा ओङ्कारः तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति१ - ३ - अन्तग्रहणम् किमर्थम् ।२ - ३ - याज्या नाम ऋचः वाक्यसमुदायः तत्र यावन्ति वाक्यानि सर्वेषाम् टेः प्लुतः प्राप्नोति ।३ - ३ - इष्यते च अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अन्तग्रहणम्१ - १२ - अग्नीत्प्रेषणे इति अतिप्रसङ्गः ।२ - १२ - अग्नीत्प्रेषणे इति अतिप्रसङ्गः भवति ।३ - १२ - इह अपि प्राप्नोति ।४ - १२ - अग्नीदग्नीन्विहर ।५ - १२ - सिद्धम् तु ओश्रावये परस्य च इति वचनात् । सिद्धम् एतत् ।६ - १२ - कथम् ।७ - १२ - ओश्रावये परस्य इति वक्तव्यम् ।८ - १२ - ओ३ श्रा३वय ।९ - १२ - आ३ श्रा३वय ।१० - १२ - अपरः आह ओश्रावयाश्रावययोः इति वक्तव्यम् ।११ - १२ - ओ३ श्रा३वय ।१२ - १२ - अ३ श्र३वय१ - १० - बहुलम् अन्यत्र इति वक्तव्यम् ।२ - १० - उद्धर३ उद्धर ।३ - १० - आहर३ आहर ।४ - १० - तत् तर्हि वक्तव्यम् ।५ - १० - न वक्तव्यम् ।६ - १० - योगविभागः करिष्यते ।७ - १० - अग्नीत्प्रेषणे परस्य च विभाषा ।८ - १० - ततः पृष्ठप्रतिवचने हेः ।९ - १० - विभाषा इति एव ।१० - १० - अपरः आह सर्वः एव प्लुतः साहसम् अनिच्छता विभाषा वक्तव्यः१ - ६ - भर्त्सने पर्यायेण ।२ - ६ - भर्त्सने पर्यायेण इति वक्तव्यम् ।३ - ६ - चौर३ चौर ।४ - ६ - चौर चौर३ ।५ - ६ - कुशील३ कुशील ।६ - ६ - कुशील कुशील३१ - ६ - असूयादिषु वावचनम् ।२ - ६ - असूयादिषु वा इति वक्तव्यम् ।३ - ६ - कन्ये३ कन्ये ।४ - ६ - कन्ये कन्ये ।५ - ६ - शक्तिके३ शक्तिके ।६ - ६ - शक्तिके शक्तिके१ - २७ - किमर्थम् इदम् उच्यते ।२ - २७ - ऐचोः उभयविवृद्धिप्रसङ्गात् इदुतोः प्लुतवचनम् ।३ - २७ - ऐचोः उभयविऋद्धिप्रसङ्गात् इदुतोः प्लुतः उच्यते ।४ - २७ - किम् उच्यते उभयविवृद्धिप्रसङ्गात् इति यदा नित्याः शब्दाः नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।५ - २७ - न एषः दोषः ।६ - २७ - उभयविवृद्धिप्रसङ्गात् इति न एवम् विज्ञायते उभयोः विवृद्धिः उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति ।७ - २७ - कथम् तर्हि ।८ - २७ - उभयोः विवृद्धिः अस्मिन् सः अयम् उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति ।९ - २७ - इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः इति तयोः प्लुतः उच्यमाने उभयविवृद्धिः प्राप्नोति ।१० - २७ - तत् यथा ।११ - २७ - अभिवर्धमानः गर्भः सर्वाङ्गपरिपूर्णः वर्धते ।१२ - २७ - अस्ति प्रयोजनम् एतत् ।१३ - २७ - किम् तर्हि इति ।१४ - २७ - तत्र अयथेष्टप्रसङ्गः । तत्र अयथेष्टम् प्रसज्येत ।१५ - २७ - चतुर्मात्रः प्लुतः प्राप्नोति ।१६ - २७ - सिद्धम् तु इदुतोः दीर्घवचनात् । सिद्धम् एतत् ।१७ - २७ - कथम् ।१८ - २७ - इदुतोः दीर्घः भवति इति वक्तव्यम् ।१९ - २७ - तत् एतत् कथम् कृत्वा सिद्धम् भवति ।२० - २७ - यदि समः प्रविभागः मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः ।२१ - २७ - अथ हि अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः अर्धतृतीयमात्रः प्राप्नोति ।२२ - २७ - अथ हि अध्यर्धमात्रा अवर्णस्य अर्धमात्रा इवर्णोवर्णयोः अर्धचतुर्थमात्रः प्राप्नोति ।२३ - २७ - सूत्रम् च भिद्यते ।२४ - २७ - यथान्यासम् एव अस्तु ।२५ - २७ - ननु च उक्तम् तत्र अयथेष्टप्रसङ्गः इति ।२६ - २७ - तत्र सौर्यभगवता उक्तम् अनिष्टिज्ञः वाडवः पठति ।२७ - २७ - इष्यते एव चतुर्मात्रः प्लुतः१ - २१ - एचः प्लुतविकारे पदान्तग्रहणम् । एचः प्लुतविकारे पदान्तग्रहणम् कर्तव्यम् इह मा भूत् भद्रम् करोषि गौ३ः इति ।२ - २१ - विषयपरिगणनम् च ।३ - २१ - विषयपरिगणनम् च कर्तव्यम् ।४ - २१ - प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेषु इति वक्तव्यम् ।५ - २१ - प्रश्नान्त ।६ - २१ - अगम३ः पूर्व३न् ग्राम३न् अग्निभूत३इ ।७ - २१ - पट३उ ।८ - २१ - प्रश्नान्त ।९ - २१ - अभिपूजित ।१० - २१ - सिद्धः असि माणवक अग्निभूत३इ ।११ - २१ - पट३उ ।१२ - २१ - अभिपूजित ।१३ - २१ - विचार्यमाण ।१४ - २१ - होतव्यम् दीक्षितस्य गृह३इ ।१५ - २१ - विचार्यमाण ।१६ - २१ - प्रत्यभिवाद ।१७ - २१ - आयुष्मान् एधि अग्निभूत३इ ।१८ - २१ - प्रत्यभिवाद ।१९ - २१ - याज्यान्त ।२० - २१ - उक्षन्नाय वशन्नाय सोमपृष्ठाय वेधसे ।२१ - २१ - स्तोमैः विधेम अग्नय३इ१ - ३ - आमन्त्रिते छन्दसि उपसङ्ख्यानम् ।२ - ३ - आमन्त्रिते छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।३ - ३ - अग्न३इ पत्नीव३ः सजुः देवेन त्वष्ट्रा सोमम् पिब१ - ९ - अथ कयोः इमौ य्वौ उच्येते ।२ - ९ - इदुतोः इति आह ।३ - ९ - तत् इदुतोः ग्रहणम् कर्तव्यम् ।४ - ९ - न कर्तव्यम् ।५ - ९ - प्र्कृतम् अनुवर्तते ।६ - ९ - क्व प्रकृतम् ।७ - ९ - पूर्वस्य अर्धस्य अदुत्तरस्य इदुतौ इति ।८ - ९ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।९ - ९ - अचि इति एषा सप्तमी इदुतौ इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन्नितिनिर्दिष्टेपूर्वस्य इति१ - ३१ - किमर्थम् इदम् उच्यते न इकः यण् अचि इति एव सिद्धम् ।२ - ३१ - न सिध्यति ।३ - ३१ - असिद्धः प्लुतः प्लुतविकारौ च इमौ ।४ - ३१ - सिद्धः प्लुतः स्वरसन्धिषु ।५ - ३१ - कथम् ज्ञायते ।६ - ३१ - यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति ।७ - ३१ - कथम् कृत्वा ज्ञापकम् ।८ - ३१ - सतः हि कार्यिणः कार्येण भवितव्यम् ।९ - ३१ - इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् ।१० - ३१ - दीर्घत्वम् शाकलम् च मा भूत् इति ।११ - ३१ - अग्ना३यिन्द्रम् ।१२ - ३१ - पटा३वुदकम् ।१३ - ३१ - एतत् अपि न अस्ति प्रयोजनम् ।१४ - ३१ - आरभ्यते प्लुतपूर्वस्य यणादेशः प्लुतपुर्वस्य दीर्घशाकलप्रतिषेधार्थम् इति ।१५ - ३१ - तत् न वक्तव्यम् भवति ।१६ - ३१ - अवश्यम् तत् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् ।१७ - ३१ - भो३यिन्द्र ।१८ - ३१ - भो३यिह इति ।१९ - ३१ - यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् ।२० - ३१ - इदम् अपि अवश्यम् वक्तव्यम् स्वरार्थम् ।२१ - ३१ - तेन हि सति उदात्तस्वरितयोर्यणःस्वरितोऽनुदात्तस्य इति एषः स्वरः प्रसज्येत ।२२ - ३१ - अनेन पुनः सति असिद्धत्वात् न भविष्यति ।२३ - ३१ - यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् तत् न वक्तव्यम् ।२४ - ३१ - ननु च उक्तम् तत् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् भो३यिन्द्र भो३यिह इति ।२५ - ३१ - छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति ।२६ - ३१ - यत् तर्हि न छान्दसम् ।२७ - ३१ - भो३यिन्द्रम् साम गायति ।२८ - ३१ - एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः इति ।२९ - ३१ - किम् नु यणा भवति इह न सिद्धम् य्वौ इदुतोः यत् अयम् विदधाति ।३० - ३१ - तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ।१. इक् तु यदा भवति प्लुतपूर्वः तस्य यणम् विदधाति अपवादम् ।३१ - ३१ - तेन तयोः च न शाकलदीर्घौ यण्स्वरबाधनम् एव तु हेतुः N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP