पाद २ - खण्ड ८३

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २४ - या इयम् सपादसप्ताध्यायी अनुक्रान्ता एतस्याम् अयम् पादोनः अध्यायः असिद्धः वेदितव्यः ।

२ - २४ - यदि सपादायाम् सप्ताध्याय्याम् अयम् पादोनः अध्यायः असिद्धः इति उच्यते यः इह सप्तमीनिर्देशाः पञ्चमीनिर्देशाः च उच्यन्ते षष्ठीनिर्देशाः च उच्यन्ते ते अपि असिद्धाः स्यूः ।

३ - २४ - तत्र कः दोषः ।

४ - २४ - झलोझलि ह्रस्वादङ्गात् संयोगान्तस्यलोपः इति एतेषाम् निर्देशानाम् असिद्धत्वात् तस्मिन्नितिनिर्देष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति एताः परिभाषाः न प्रकल्पेरन् ।

५ - २४ - न एषः दोषः ।

६ - २४ - यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् ।

७ - २४ - कथम् ।

८ - २४ - कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।

९ - २४ - झलोझलि ।

१० - २४ - ह्रस्वादङ्गात् ।

११ - २४ - संयोगान्तस्यलोपः ।

१२ - २४ - उपस्थितम् इदम् भवति तस्मिन्नितिनिर्दिष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति ।

१३ - २४ - यदि कार्यकालम् सञ्ज्ञापरिभाषम् इति उच्यते इयम् अपि परिभाषा अस्ति विप्रतिषेधे परम् इति सा अपि इह उपतिष्ठेत ।

१४ - २४ - तत्र कः दोषः ।

१५ - २४ - विस्फोर्यम् अवगोर्यम् इति गुणात् दीर्घत्वम् स्यात् विप्रतिषेधेन ।

१६ - २४ - अतः उत्तरम् पठति ।

१७ - २४ - पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः अभावात् उत्तरस्य ।

१८ - २४ - पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः ।

१९ - २४ - किम् कारणम् ।

२० - २४ - अभावात् उत्तरस्य ।

२१ - २४ - द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति न च पूर्वत्रासिद्धे परम् पूर्वम् प्रति भवति ।

२२ - २४ - यदि एवम् दोग्धा दोग्धुम् घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति काष्ठतट् कूटतट् संयोगादिलोप्स्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति ।

२३ - २४ - अपवादः वचनप्रामाण्यात् । अनवकाशौ एतौ वचनप्रामाण्यात् भविष्यतः ।

२४ - २४ - तस्मात् कार्यकालम् सञ्ज्ञापरिभाषम् इति न दोषः

१ - १० - पूर्वत्रासिद्धम् अधिकारः ।

२ - १० - पूर्वत्रासिद्धम् इति अधिकारः अयम् द्रष्टव्यः ।

३ - १० - किम् प्रयोजनम् ।

४ - १० - परस्य परस्य पूर्वत्र पूर्वत्र असिद्धविज्ञानार्थम् । परः परः योगः पूर्वम् पूर्वम् योगम् प्रति असिद्धः यथा स्यात् ।

५ - १० - अनधिकारे हि समुदाये असिद्धविज्ञानम् । अनधिकारे हि सति समुदायस्य समुदाये असिद्धत्वम् विज्ञायेत ।

६ - १० - तत्र कः दोषः ।

७ - १० - तत्र अयथेष्टप्रसङ्गः । तत्र अयथेष्टम् प्रसज्येत ।

८ - १० - योधुङ्मान् गुडलिण्मान् इति ।

९ - १० - घत्वढत्वयोः कृतयोः झयः इति वत्वम् प्रसज्येत ।

१० - १० - तस्मात् अधिकारः । तस्मात् अधिकारः अयम् द्रष्टव्यः

१ - १४ - असिद्धवचनम् किमर्थम् ।

२ - १४ - असिद्धवचने उक्तम् ।

३ - १४ - किम् उक्तम् ।

४ - १४ - तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च इति ।

५ - १४ - एवम् इह अपि पूर्वत्रासिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च ।

६ - १४ - आदेशलक्षणप्रतिषेधार्थम् तावत् ।

७ - १४ - राजभिः तक्षभिः राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते अतः इति ऐस्भावादयः प्राप्नुवन्ति ।

८ - १४ - असिद्धत्वात् न भवन्ति ।

९ - १४ - उत्सर्गलक्षणभावार्थम् च ।

१० - १४ - अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् इति अत्र मुभावे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।

११ - १४ - असिद्धत्वात् भवन्ति ।

१२ - १४ - सुपर्वाणौ सुपर्वाणः ।

१३ - १४ - णत्वे कृते नोपधायाः इति दीर्घत्वम् न प्रप्नोति ।

१४ - १४ - असिद्धत्वात् भवति

१ - ४ - सुब्विधिम् प्रति नलोपः असिद्धः भवति इति उच्यते ।

२ - ४ - भवेत् इह राजभिः तक्षभिः इति नलोपे कृते अतः इति ऐस्भावः न स्यात् ।

३ - ४ - इह तु खलु राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते दीर्घत्वैत्त्वे प्राप्नुतः. न एषः दोषः ।

४ - ४ - सुब्विधिः इति सर्वविभक्त्यन्तः समासः सुपः विधिः सुब्विधिः , सुपि विधिः सुब्विधिः इति

१ - २४ - अथ सञ्ज्ञाविधौ किम् उदाहरणम् ।

२ - २४ - पञ्च सप्त ।

३ - २४ - पञ्च सप्त इति अत्र नलोपे कृते ष्णान्ताषट् इति षट्सञ्ज्ञा न प्राप्नोति ।

४ - २४ - असिद्धत्वात् भवति ।

५ - २४ - सञ्ज्ञाग्रहणानर्थक्यम् च तन्निमित्तत्वात् लोपस्य ।

६ - २४ - सञ्ज्ञाग्रहणम् च अनर्थकम् ।

७ - २४ - किम् कारणम् ।

८ - २४ - तन्निमित्तत्वात् लोपस्य ।

९ - २४ - न अकृतायाम् षट्सञ्ज्ञायाम् जश्शसोः लुक् न च अकृते लुकि पदसञ्ज्ञा न च अकृतायाम् पदसञ्ज्ञायाम् नलोपः प्राप्नोति ।

१० - २४ - तत् एतत् आनुपूर्व्या सिद्धम् भवति ।

११ - २४ - इदम् तर्हि प्रयोजनम् पञ्चभिः सप्तभिः इति षट्त्रिचतुर्भ्योहलादिः झल्युपोत्तमम् इति एषः स्वरः यथा स्यात् ।

१२ - २४ - स्वरे अवधारणात् च । स्वरे अवधारणात् च सञ्ज्ञाग्रहणम् अनर्थकम् ।

१३ - २४ - स्वरे अवधारणम् क्रियते स्वरविधिम् प्रति इति ।

१४ - २४ - तुग्विधौ किम् उदाहरणम् ।

१५ - २४ - वृत्रहभ्याम् वृत्रहभिः ।

१६ - २४ - नलोपे कृते ह्रस्वस्यपितिकृतितुक् इति तुक् प्राप्नोति ।

१७ - २४ - असिद्धत्वात् न भवति ।

१८ - २४ - तुग्विधौ च उक्तम् । किम् उक्तम् ।

१९ - २४ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

२० - २४ - इदम् तर्हि प्रयोजनम् ।

२१ - २४ - कृति इति वक्ष्यामि ।

२२ - २४ - इह मा भूत् ।

२३ - २४ - ब्रह्महच्छत्रम् भ्रूणहच्छाया ।

२४ - २४ - न एषः सन्निपातलक्षणः

१ - २९ - इह ने यत् कार्यम् प्राप्नोति तत् प्रति मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति ।

२ - २९ - एवम् तर्हि न मु टादेशे ।

३ - २९ - न मु टादेशे इति वक्तव्यम् ।

४ - २९ - किम् इदम् टादेशः इति ।

५ - २९ - टायाः आदेशः टादेशः इति ।

६ - २९ - यदि तर्हि टायाः आदेशे इति उच्यते टायाम् आदेशे अप्रसिद्धिः ।

७ - २९ - तत्र कः दोषः ।

८ - २९ - अमुना इति अत्र मुभावस्य असिद्धत्वात् अतोदीर्घोयञि सुपिच इति दीर्घत्वम् प्रसज्येत ।

९ - २९ - न एषः दोषः ।

१० - २९ - सर्वविभक्त्यन्तः समासः टायाः आदेशः टादेशः , टायाम् आदेशः टादेशः इति ।

११ - २९ - सिध्यति ।

१२ - २९ - सूत्रम् तर्हि भिद्यते ।

१३ - २९ - यथान्यासम् एव अस्तु ।

१४ - २९ - ननु च उक्तम् ने यत् कार्यम् प्राप्नोति तस्मिन् मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति इति ।

१५ - २९ - न एषः दोषः ।

१६ - २९ - इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रनिबन्धेन आचार्याणाम् अभिप्रायः लक्ष्यते ।

१७ - २९ - एतत् एव ज्ञापयति भवति अत्र नाभावः इति यत् अयम् ने परतः असिद्धत्वप्रतिषेधम् शास्ति ।

१८ - २९ - अथ वा द्विगताः अपि हेतवः भवन्ति ।

१९ - २९ - तत् यथा ।

२० - २९ - आम्राः च सिक्ताः पितरः च प्रीणिताः भवन्ति ।

२१ - २९ - तथा वाक्यानि अपि द्विगतानि दृश्यन्ते ।

२२ - २९ - श्वेतः धावति ।

२३ - २९ - अलम्बुसानाम् याता इति ।

२४ - २९ - अथ वा वृद्धकुमारीवाक्यवत् इदम् द्रष्टव्यम् ।

२५ - २९ - तत् यथा ।

२६ - २९ - वृद्धकुमारी इन्द्रेण उक्ता वरम् वृणीष्व इति सा वरम् अवृणीत पुत्राः मे बहुक्षीरघृतम् ओदनम् कांस्यपात्र्याम् भुञ्जीरन् इति ।

२७ - २९ - न च तावत् अस्याः पतिः भवति कुतः पुत्राः कुतः गावः कुतः धान्यम् ।

२८ - २९ - तत्र्स् अनया एकेन वाक्येन पतिः पुत्राः गावः धान्यम् इति सर्वम् सङ्गृहीतम् भवति ।

२९ - २९ - एवम् इह अपि ने असिद्धत्वप्रतिषेधम् ब्रुवता नाभावः अपि सङ्गृहीतः भवति

१ - २६ - यण्स्वरः यणादेशे स्वरितयणः स्वरितार्थम् ।

२ - २६ - यण्स्वरः यणादेशे सिद्धः वक्तव्यः ।

३ - २६ - किम् प्रयोजनम् ।

४ - २६ - स्वरितयणः स्वरितार्थम् ।

५ - २६ - स्वरितयणः स्वरितत्वम् यथा स्यात् ।

६ - २६ - खलप्वि अटति ।

७ - २६ - खल्प्वि अश्नाति ।

८ - २६ - तत् तर्हि वक्तव्यम् ।

९ - २६ - न वक्तव्यम् ।

१० - २६ - आह अयम् स्वरितयणः इति न च अस्ति सिद्धः स्वरितः तत्र आश्रयात् सिद्धत्वम् भविष्यति ।

११ - २६ - आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः । आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः भवति ।

१२ - २६ - दध्याश ।

१३ - २६ - मध्वाश ।

१४ - २६ - एवम् तर्हि योगविभागः करिष्यते ।

१५ - २६ - उदात्तयणः परस्य अनुदात्तस्य स्वरितः भवति ।

१६ - २६ - ततः स्वरितयणः ।

१७ - २६ - स्वरितयणः च परस्य अनुदात्तस्य स्वरितः भवति ।

१८ - २६ - उदात्तयणः इति एव ।

१९ - २६ - अथ वा स्वरितग्रहणम् न करिष्यते ।

२० - २६ - केन इदानीम् स्वरितयणः परस्य अनुदात्तस्य स्वरितः भविष्यति ।

२१ - २६ - उदात्तयणः इति एव ।

२२ - २६ - ननु च स्वरितयणा व्यवहितत्वात् न प्राप्नोति ।

२३ - २६ - स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् ।

२४ - २६ - अथ वा न एवम् विज्ञायते स्वरितस्य यण् स्वरितयण् स्वरितयणः इति ।

२५ - २६ - कथम् तर्हि ।

२६ - २६ - स्वरिते यण् स्वरितयण् स्वरितयणः इति

१ - १४ - स्वरितग्रहणम् शक्यम् अकर्तुम् ।

२ - १४ - कथम् ।

३ - १४ - अनुदात्ते परतः पदादौ वा उदात्तः इति एव सिद्धम् ।

४ - १४ - केन इदानीम् स्वरितः भविष्यति ।

५ - १४ - गाङ्गे अनूपे इति ।

६ - १४ - आन्तर्यतः उदात्तानुदात्तयोः एकादेशः स्वरितः भविष्यति ।

७ - १४ - इदम् तर्हि प्रयोजनम् तेन वर्ज्यमानता मा भूत् ।

८ - १४ - अथ क्रियमाणे अपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मात् न भवति ।

९ - १४ - कन्या अनूपे इति ।

१० - १४ - बहिरङ्गलक्षणत्वात् ।

११ - १४ - असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एवम् न भविष्यति ।

१२ - १४ - यथा एव तर्हि क्रियमाणे स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता न भवति एवम् अक्रियमाणे अपि न भविष्यति ।

१३ - १४ - तस्मात् न अर्थः स्वरितग्रहणेन ।

१४ - १४ - बहिरङ्गलक्षणत्वात् सिद्धम्

१ - २०८ - एकादेशस्वरः अन्तरङ्गः ।

२ - २०८ - एकादेशस्वरः अन्तरङ्गः सिद्धः वक्तव्यः ।

३ - २०८ - किम् प्रयोजनम् ।

४ - २०८ - अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम् । अय् ।

५ - २०८ - वृक्षे इदम् प्लक्षे इदम् ।

६ - २०८ - उदात्तानुदात्तयोः एकादेशः ।

७ - २०८ - तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।

८ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः अयादेशः यथा स्यात् ।

९ - २०८ - अवादेशः न अस्ति ।

१० - २०८ - आय् ।

११ - २०८ - कुमार्यै इदम् ।

१२ - २०८ - उदात्तानुदात्तयोः एकादेशः ।

१३ - २०८ - तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।

१४ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आयादेशः यथा स्यात् ।

१५ - २०८ - न एतत् अस्ति प्रयोजनम् ।

१६ - २०८ - एकादेशे कृते उदात्तयणोहल्पूर्वात् इति उदात्तत्वम् भविष्यति ।

१७ - २०८ - इदम् इह सम्प्रधार्यम् ।

१८ - २०८ - उदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।

१९ - २०८ - परत्वात् उदात्तत्वम् ।

२० - २०८ - नित्यः एकादेशः ।

२१ - २०८ - कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

२२ - २०८ - एकादेशः अपि अनित्यः ।

२३ - २०८ - अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

२४ - २०८ - अन्तरङ्गः तर्हि एकादेशः ।

२५ - २०८ - का अन्तरङ्गता ।

२६ - २०८ - वर्णौ आश्रित्य एकादेशः पदस्य उदात्तत्वम् ।

२७ - २०८ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

२८ - २०८ - आट् क्रियताम् उदात्तत्वम् इति किम् अत्र कर्तव्यम् ।

२९ - २०८ - परत्वात् आडागमः ।

३० - २०८ - नित्यम् उदात्तत्वम् ।

३१ - २०८ - कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति ।

३२ - २०८ - आट् अपि नित्यः ।

३३ - २०८ - कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

३४ - २०८ - अनित्यः आट् ।

३५ - २०८ - अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

३६ - २०८ - उदात्तत्वम् अपि अनित्यम् ।

३७ - २०८ - अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते प्राप्नोति शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

३८ - २०८ - उभयोः अनित्ययोः परत्वात् आडागमः आटि कृते अन्तरङ्गः एकादेशः ।

३९ - २०८ - आव् ।

४० - २०८ - वृक्षविदम् ।

४१ - २०८ - उदात्तानुदात्तयोः एकादेशः ।

४२ - २०८ - तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।

४३ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आवादेशः यथा स्यात् ।

४४ - २०८ - एकादेशस्वर ।

४५ - २०८ - गाङ्गे अनूपे इति ।

४६ - २०८ - उदात्तानुदात्तयोः एकादेशः ।

४७ - २०८ - तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।

४८ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् स्वरितोवानुदात्तेपदादौ इति एतत् यथा स्यात् ।

४९ - २०८ - शतृस्वर ।

५० - २०८ - तुदति नुदति ।

५१ - २०८ - उदात्तानुदात्तयोः एकादेशः ।

५२ - २०८ - तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।

५३ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् शतुः अनुमः नद्यजादिः अन्तोदात्तात् इति एषः स्वरः यथा स्यात् ।

५४ - २०८ - न एतत् अस्ति प्रयोजनम् ।

५५ - २०८ - आचार्यप्रवृत्तिः ज्ञापयति सिद्धः एकादेशस्वरः शतृस्वरः इति यत् अयम् अनुमः इति प्रतिषेधम् शास्ति ।

५६ - २०८ - कथम् कृत्वा ज्ञापकम् ।

५७ - २०८ - न हि अन्तरेण उदात्तानुदात्तोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति ।

५८ - २०८ - ननु च इदम् अस्ति यन्ती वन्ती ।

५९ - २०८ - एतत् अपि निघाते कृते न अन्तरेण उदात्तानुदात्तयोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति ।

६० - २०८ - इदम् इह सम्प्रधार्यम् ।

६१ - २०८ - निघातः क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।

६२ - २०८ - परत्वात् निघातः ।

६३ - २०८ - नित्यः एकादेशः ।

६४ - २०८ - कृते अपि निघाते प्राप्नोति अकृते अपि प्राप्नोति ।

६५ - २०८ - एकादेशः अपि अनित्यः ।

६६ - २०८ - अन्यथास्वरस्य कृते निघाते प्राप्नोति अन्यथास्वरस्य अकृते निघाते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

६७ - २०८ - अन्तरङ्गः तर्हि एकादेशः ।

६८ - २०८ - का अन्तरङ्गता ।

६९ - २०८ - वर्णौ आश्रित्य एकादेशः पदस्य निघातः ।

७० - २०८ - निघातः अपि अन्तरङ्गः ।

७१ - २०८ - कथम् ।

७२ - २०८ - उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति ।

७३ - २०८ - उभयोः अन्तरङ्गयोः परत्वात् निघातः निघाते कृते एतत् अपि न अन्तरेण उदात्तानुदात्तयोः एकादेशम् अन्तोदात्तम् भवति ।

७४ - २०८ - शतृस्वर ।

७५ - २०८ - एकानुदात्त ।

७६ - २०८ - तुदन्ति लिखन्ति. उदात्तानुदात्तयोः एकादेशः ।

७७ - २०८ - तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।

७८ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् तेन वर्ज्यमानता यथा स्यात् ।

७९ - २०८ - सर्वानुदात्त ।

८० - २०८ - ब्राह्मणाः तुदन्ति ।

८१ - २०८ - ब्राह्मणाः लिखन्ति ।

८२ - २०८ - उदात्तानुदात्तयोः एकादेशः ।

८३ - २०८ - तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।

८४ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् ।

८५ - २०८ - किम् प्रयोजनम् ।

८६ - २०८ - तिङतिङः इति निघातः यथा स्यात् ।

८७ - २०८ - किम् उच्यते अन्तरङ्गः इति ।

८८ - २०८ - यः हि बहिरङ्गः असिद्धः एव असौ भवति ।

८९ - २०८ - प्रपचतिति ।

९० - २०८ - सोमसुत् पचतिति ।

९१ - २०८ - तत् तर्हि वक्तव्यम् ।

९२ - २०८ - न वक्तव्यम् ।

९३ - २०८ - सर्वत्र एव नुम्प्रतिषेधः ज्ञापकः सिद्धः एकादेशस्वरः अन्तरङ्गः इति ।

९४ - २०८ - संयोगान्तलोपः रोः उत्त्वे हरिवः मेदिनम् त्वा । संयोगान्तलोपः रोः उत्त्वे सिद्धः वक्तव्यः ।

९५ - २०८ - किम् प्रयोजनम् ।

९६ - २०८ - हरिवः मेदिनम् त्वा ।

९७ - २०८ - संयोगान्तलोपस्य असिद्धत्वात् हशि इति उत्त्वम् न प्राप्नोति ।

९८ - २०८ - प्लुतिः च । प्लुतिः च उत्त्वे सिद्धा वक्तव्या ।

९९ - २०८ - सुस्रोत३ अत्र नु असि इति अत्र प्लुतेः असिद्धत्वात् अतः अति इति उत्त्वम् प्राप्नोति ।

१०० - २०८ - अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति ।

१०१ - २०८ - न एतत् अस्ति प्रयोजनम् ।

१०२ - २०८ - क्रियते न्यासे एव ।

१०३ - २०८ - सिज्लोपः एकादेशे । सिज्लोपः एकादेशे सिद्धः वक्तव्यः ।

१०४ - २०८ - अलावीत् अपावीत् ।

१०५ - २०८ - सिज्लोपस्य असिद्धत्वात् सवर्णदीर्घत्वम् न प्राप्नोति ।

१०६ - २०८ - यदि पुनः इडादेः सिचः लोपः उच्येत ।

१०७ - २०८ - न एवम् शक्यम् ।

१०८ - २०८ - इह हि मा हि लावित् मा हि पावित् यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत ।

१०९ - २०८ - इटि पुनः सति उक्तम् एतत् अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशे उदात्तेनोदात्तः इति उदात्तत्वम् सिद्धम् भवति ।

११० - २०८ - संयोगादिलोपः संयोगान्तलोपे । संयोगादिलोपः संयोगान्तस्य लोपे सिद्धः वक्तव्यः ।

१११ - २०८ - काष्ठतट् कूटतट् ।

११२ - २०८ - संयोगादिलोपस्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति ।

११३ - २०८ - न एषः दोषः ।

११४ - २०८ - उकम् एतत् अपवादः वचनप्रामाण्यात् इति ।

११५ - २०८ - निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु । निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धः वक्तव्यः ।

११६ - २०८ - वृक्णः वृक्णवान् ।

११७ - २०८ - निष्ठादेशस्य असिद्धत्वात् झलि इति षत्वम् प्राप्नोति ।

११८ - २०८ - स्वर ।

११९ - २०८ - क्षिवः ।

१२० - २०८ - निष्ठादेशस्य असिद्धत्वात् निष्ठाचद्व्यजनात् इति एषः स्वरः न प्राप्नोति ।

१२१ - २०८ - प्रत्यय ।

१२२ - २०८ - क्षीवेण तरति क्षीविकः ।

१२३ - २०८ - निष्ठादेशस्य असिद्धत्वात् द्व्यचः ठन् इति ठन् न प्राप्नोति ।

१२४ - २०८ - इड्विधि ।

१२५ - २०८ - निष्ठादेशस्य असिद्धत्वात् वलादिलक्षणः इट् प्राप्नोति ।

१२६ - २०८ - ननु च यः प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ ।

१२७ - २०८ - इदम् तर्हि प्रयोजनम् ।

१२८ - २०८ - ओलस्जी लग्नः ।

१२९ - २०८ - निष्ठादेशः सिद्धः वक्तव्यः नेड्वशिकृति इति इट्प्रतिषेधः यथा स्यात् ।

१३० - २०८ - ईदित्करणम् न कर्तव्यम् भवति ।

१३१ - २०८ - एतत् अपि न अस्ति प्रयोजनम् ।

१३२ - २०८ - क्रियते एतत् न्यासे एव ।

१३३ - २०८ - वस्वादिषु दत्वम् सौ दीर्घत्वे । वस्वादिषु दत्वम् सौ दीर्घत्वे सिद्धम् वक्तव्यम् ।

१३४ - २०८ - उखास्रत् ।

१३५ - २०८ - पर्णध्वत् ।

१३६ - २०८ - दत्वस्य असिद्धत्वात् अत्वसन्तस्य इति दीर्घत्वम् प्राप्नोति ।

१३७ - २०८ - अधातोः इति न वक्तव्यम् भवति ।

१३८ - २०८ - न एतत् अस्ति प्रयोजनम् ।

१३९ - २०८ - क्रियते न्यासे एव ।

१४० - २०८ - अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे । अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये ।

१४१ - २०८ - अमी अत्र ।

१४२ - २०८ - अमी आसते ।

१४३ - २०८ - अमू अत्र ।

१४४ - २०८ - अमू आसाते ।

१४५ - २०८ - ईत्त्वोत्वयोः असिद्धत्वात् एचः इति अयावेकादेशाः प्राप्नुवन्ति ।

१४६ - २०८ - किम् उच्यते बहिष्पदलक्षणे इति ।

१४७ - २०८ - यः हि अन्यः असिद्धः एव असौ भवति ।

१४८ - २०८ - अमुया अमुयोः इति ।

१४९ - २०८ - प्रगृह्यसञ्ज्ञायाम् च । प्रगृह्यसञ्ज्ञायाम् च सिद्धे वक्तव्ये ।

१५० - २०८ - अमी अत्र ।

१५१ - २०८ - अमी आसते ।

१५२ - २०८ - अमू अत्र ।

१५३ - २०८ - अमू आसाते ।

१५४ - २०८ - ईत्त्वोत्वयोः असिद्धत्वात् अदसोमात् इति प्रगृह्यसञ्ज्ञा न प्राप्नोति ।

१५५ - २०८ - किम् अर्थम् इदम् उभयम् उच्यते न प्रगृह्यसञ्ज्ञायाम् इति एव स्वरे अपि बहिष्पदलक्षणे चोदितम् स्यात् ।

१५६ - २०८ - पुरस्तात् इदम् आचार्येण दृष्टम् स्वरे बहिष्पदलक्षणे इति तत् पठितम् ।

१५७ - २०८ - ततः उत्तरकालम् इदम् दृष्टम् प्रगृह्यसञ्ज्ञायाम् च इति तद् अपि पठितम् ।

१५८ - २०८ - न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।

१५९ - २०८ - प्लुतिः तुग्विधौ छे । प्लुतिः तुग्विधौ छे सिद्धा वकव्या ।

१६० - २०८ - अग्न३इ च्छत्त्रम् ।

१६१ - २०८ - पट३उ च्छत्त्रम् ।

१६२ - २०८ - प्लुतेः असिद्धत्वात् छेच इति तुक् न प्राप्नोति ।

१६३ - २०८ - किम् उच्यते छे इति ।

१६४ - २०८ - यः हि अन्यः असिद्धः एव असौ भवति ।

१६५ - २०८ - अग्निचि३त् सोमसु३त् ।श्चुत्वम् धुट्त्वे । श्चुत्वम् धुट्त्वे सिद्धम् वक्तव्यम् ।

१६६ - २०८ - अट् श्च्योतति ।

१६७ - २०८ - पट् स्च्योतति ।

१६८ - २०८ - श्चुत्वस्य असिद्धत्वात् डःसिधुट् इति धुट् प्रसज्येत ।

१६९ - २०८ - अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः । अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः सिद्धम् वक्तव्यम् ।

१७० - २०८ - बभणतुः बभणुः ।

१७१ - २०८ - अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति ।

१७२ - २०८ - उचिच्छिषति ।

१७३ - २०८ - अभ्यासादेशस्य असिद्धत्वात् छेच इति तुक् प्राप्नोति ।

१७४ - २०८ - द्विर्वचने परसवर्णत्वम् । द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् ।

१७५ - २०८ - सय्म्̐यन्ता सव्म्̐वत्सरः तल्म्̐ लोकम् यल्म्̐ लोकम् इति परसवर्णस्य असिद्धत्वात् यरः इति द्विर्वचनम् न प्राप्नोति ।

१७६ - २०८ - पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि । पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि ।

१७७ - २०८ - लत्व गरः गरः ।

१७८ - २०८ - गलः गलः ।

१७९ - २०८ - लत्व. घत्व ।

१८० - २०८ - द्रोग्धा द्रोग्धा ।

१८१ - २०८ - द्रोढा द्रोढा ।

१८२ - २०८ - घत्व ।

१८३ - २०८ - नत्व. नुन्नः नुन्नः ।

१८४ - २०८ - नुत्तः नुत्तः ।

१८५ - २०८ - नत्व ।

१८६ - २०८ - रुत्व ।

१८७ - २०८ - अभिनः अभिनः ।

१८८ - २०८ - अभिनत् अभिनत् ।

१८९ - २०८ - रुत्व षत्व ।

१९० - २०८ - मातुःष्वसा मातुःष्वसा ।

१९१ - २०८ - मातुःस्वसा मातुःस्वसा पितुःष्वसा पितुःष्वसा ।

१९२ - २०८ - पितुःस्वसा पितुःस्वसा ।

१९३ - २०८ - षत्व ।

१९४ - २०८ - णत्व ।

१९५ - २०८ - माषवापाणि माषवापाणि ।

१९६ - २०८ - माषवापानि माषवापानि ।

१९७ - २०८ - णत्व ।

१९८ - २०८ - अनुनासिक ।

१९९ - २०८ - नाङ्नयनम् नाङ्नयनम् ।

२०० - २०८ - वाग्नयनम् वाग्नयनम् ।

२०१ - २०८ - अनुनासिक ।

२०२ - २०८ - छत्व ।

२०३ - २०८ - वाक्छयनम् वाक्छयनम् ।

२०४ - २०८ - वाक्शयनम् वाक्शयनम् ।

२०५ - २०८ - उभयथा च अयम् दोषः यदि अपि स्थाने द्विर्वचनम् अथ अपि द्विःप्रयोगः ।

२०६ - २०८ - कथम् ।

२०७ - २०८ - यदि तावत् स्थाने द्विर्वचनम् सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य लत्वाद्यभावः ।

२०८ - २०८ - अथ द्विःप्रयोगः असिद्धत्वात् लत्वादीनि निवर्तेरन्

१ - १० - अन्तग्रहणम् किमर्थम् ।

२ - १० - नलोपे अन्तग्रहणम् पदाधिकारस्य विशेषणत्वात् ।

३ - १० - नलोपे अन्तग्रहणम् क्रियते ।

४ - १० - किम् कारणम् ।

५ - १० - पदाधिकारस्य विशेषणत्वात् ।

६ - १० - पदाधिकारः विशेषणम् ।

७ - १० - कथम् ।

८ - १० - पदस्य इति न एषा स्थानषष्ठी ।

९ - १० - का तर्हि ।

१० - १० - विशेषणषष्ठी

१ - २० - अह्नः नलोपप्रतिषेधः ।

२ - २० - अह्नः नलोपप्रतिषेधः वक्तव्यः ।

३ - २० - अहोभ्याम् अहोभिः इति ।

४ - २० - सः तर्हि प्रतिषेधः वक्तव्यः ।

५ - २० - न वक्तव्यः ।

६ - २० - रुः अत्र बाधकः भविष्यति ।

७ - २० - असिद्धः रुः तस्य असिद्धत्वात् नलोपः प्राप्नोति ।

८ - २० - अनवकाशः रुः नलोपम् बाधिष्यते ।

९ - २० - सावकाशः रुः ।

१० - २० - कः अवकाशः ।

११ - २० - अनन्त्यः अकारः ।

१२ - २० - आचार्यप्रवृत्तिः ज्ञापयति न अनन्त्यस्य रुः भवति इति यत् अयम् अहन्ग्रहणम् करोति ।

१३ - २० - अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् वचनम् । अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् एतत् स्यात् ।

१४ - २० - हे अहः इति ।

१५ - २० - यत् तर्हि रुत्वम् शास्ति ।

१६ - २० - एतत् अपि सम्बुद्ध्यर्थम् एव स्यात् ।

१७ - २० - हे दीर्घाहः अत्र ।

१८ - २० - यत् तर्हि रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् करोति तत् ज्ञापयति आचार्यः न अनन्त्यस्य रुः भवति इति ।

१९ - २० - कथम् कृत्वा ज्ञापकम् ।

२० - २० - न हि अस्ति विशेषः रूपरात्रिरथन्तरेषु अनन्त्यस्य रौ वा रे वा

१ - ३६ - न ङिसम्बुद्ध्योः अनुत्तरपदे ।

२ - ३६ - न ङिसम्बुद्ध्योः अनुत्तरपदे इति वक्तव्यम् ।

३ - ३६ - इह मा भूत् ।

४ - ३६ - चर्मणि तिला अस्य चर्मतिलः इति ।

५ - ३६ - राजन् वृन्दारक राजवृन्दारक इति ।

६ - ३६ - वा नपुंसकानाम् । वा नपुंसकानाम् इति वक्तव्यम् ।

७ - ३६ - हे चर्म हे चर्मन् ।

८ - ३६ - हे वर्म हे वर्मन् ।

९ - ३६ - तत् तर्हि अनुत्तरपदे इति वक्तव्यम् ।

१० - ३६ - न वक्तव्यम् ।

११ - ३६ - न ङिसम्बुद्ध्योः इति उच्यते न च अत्र ङिसम्बुद्धी पश्यामः ।

१२ - ३६ - प्रत्ययलक्षणेन ।

१३ - ३६ - न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

१४ - ३६ - न क्वचित् ङिः लोपेन लुप्यते सर्वत्र लुमता एव ।

१५ - ३६ - यथा एव इह भवति आर्द्रे चर्मन् लोहिते चर्मन् इति एवम् इह अपि स्यात् चर्मणि तिला अस्य चर्मतिलः इति ।

१६ - ३६ - तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।

१७ - ३६ - एवम् तर्हि ङ्यर्थेन तावत् न अर्थः ।

१८ - ३६ - भत्वात् तु ङौ प्रतिषेधानर्थक्यम् । ङौ प्रतिषेधः अनर्थकः ।

१९ - ३६ - किम् कारणम् ।

२० - ३६ - भत्वात् ।

२१ - ३६ - भसञ्ज्ञा अत्र भविष्यति ।

२२ - ३६ - यदि तर्हि भसञ्ज्ञा अत्र भवति रथन्तरे सामन् इति अत्र अल्लोपः अनः इति अल्लोपः प्राप्नोति ।

२३ - ३६ - न एषः दोषः ।

२४ - ३६ - उक्तम् उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते तद् यथा सः सुष्टुभा सः ऋक्वता गणेन पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति ।

२५ - ३६ - एवम् इह अपि पदत्वात् अल्लोपः न भत्वात् नलोपः न भविष्यति ।

२६ - ३६ - तस्मात् न अर्थः ङिग्रहणेन ।

२७ - ३६ - सम्बुद्ध्यर्थेन च अपि न अर्थः ।

२८ - ३६ - कथम् ।

२९ - ३६ - सम्बुद्ध्यन्तानाम् असमासः ।

३० - ३६ - राजवृन्दारक इति ।

३१ - ३६ - किम् वक्तव्यम् एतत् ।

३२ - ३६ - न हि ।

३३ - ३६ - कथम् अनुच्यमानम् गंस्यते ।

३४ - ३६ - इह समानार्थेन वाक्येन भवितव्यम् समासेन च यः च इह अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन गम्यते ।

३५ - ३६ - अवयवसम्बोधनम् वाक्येन गम्यते समुदायसम्बोधनम् समासेन ।

३६ - ३६ - वा नपुंसकानाम् इति एतत् वक्तव्यम् एव

१ - १० - अनन्त्ययोः अपि निष्ठामतुपोः आदेशः ।

२ - १० - निष्ठामतुपोः आदेशः अनन्त्ययोः अपि इति वक्तव्यम् ।

३ - १० - भिन्नवन्तौ भिन्नवन्तः ।

४ - १० - वृक्षवन्तौ वृक्षवन्तः ।

५ - १० - न वक्तव्यम् ।

६ - १० - वचनात् भविष्यति ।

७ - १० - अस्ति वचने प्रयोजनम् ।

८ - १० - किम् ।

९ - १० - भिन्नवान् छिन्नवान् ।

१० - १० - वृक्षवान् प्लक्षवान्

१ - ६ - नार्मते प्रतिषेधः ।

२ - ६ - नार्मते प्रतिषेधः वक्तव्यः ।

३ - ६ - नृमतः नार्मतः इति ।

४ - ६ - उक्तम् वा । किम् उक्तम् ।

५ - ६ - निष्ठामतुपोः तावत् उक्तम् न वा पदाधिकारस्य विशेषणत्वात् इति ।

६ - ६ - नार्मते अपि उक्तम् न वा बहिरङ्गलक्षणत्वात् इति

१ - ११ - किम् अयम् एकयोगः आहोस्वित् नानायोगौ ।

२ - ११ - किम् च अतः ।

३ - ११ - यदि एकयोगः हीवती कपीवती अत्र न प्राप्नोति ।

४ - ११ - अथ नानायोगौ इक्षुमती द्रुमती अत्र अपि प्राप्नोति ।

५ - ११ - यथा इच्छसि तथा अस्तु ।

६ - ११ - अस्तु तावत् एकयोगः ।

७ - ११ - कथम् अहीवती कपीवती ।

८ - ११ - आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् वत्वम् इति यत् अयम् अन्तोऽवत्याः ईवत्याः इति आह ।

९ - ११ - अथ वा पुनः अस्तु नानायोगौ ।

१० - ११ - ननु च उक्तम् इक्षुमती द्रुमती अत्र अपि प्राप्नोति इति ।

११ - ११ - यवादिषु पाथः करिष्यते

१ - २८ - छन्दसि इरः इति उच्यते तत्र ते विश्वकर्माणम् ते सप्तर्षिमन्तम् इति अत्र अपि प्राप्नोति ।

२ - २८ - न एषः दोषः ।

३ - २८ - न एवम् विज्ञायते छन्दसि इरः इति ।

४ - २८ - कथम् तर्हि ।

५ - २८ - छन्दसि ईरः इति ।

६ - २८ - एवम् अपि त्विषीमान् पतीमान् इति अत्र अपि प्राप्नोति ।

७ - २८ - न एषः दोषः ।

८ - २८ - विहितविशेषणम् ईकारग्रहङम् ।

९ - २८ - ईकारान्तात् यः विहितः इति ।

१० - २८ - एवम् अपि सूरम् ते द्यावापृथिवीमन्तम् इति अत्र अपि प्राप्नोति ।

११ - २८ - इह च न प्राप्नोति त्रिवतीः याज्यानुवाक्याः भवन्ति इति ।

१२ - २८ - एवम् तर्हि परिगणनम् कर्तव्यम् ।

१३ - २८ - त्रिहर्यधिपत्यग्निरे ।

१४ - २८ - त्रिवतीः याज्यानुवाक्याः भवन्ति ।

१५ - २८ - त्रि ।

१६ - २८ - हरि ।

१७ - २८ - हरिवः मेदिनम् त्वा ।

१८ - २८ - हरि ।

१९ - २८ - अधिपति ।

२० - २८ - अधिपतिवतीः जुहोति ।

२१ - २८ - अधिपति ।

२२ - २८ - अग्नि ।

२३ - २८ - चरुः अग्निवान् इव ।

२४ - २८ - अग्नि ।

२५ - २८ - रे ।

२६ - २८ - आ रेवन् एतु नो विश इति ।

२७ - २८ - यदि तर्हि परिगणनम् क्रियते सरस्वतीवान् भारतीवान् अपूपवान् दधिवान् चरुः इति अत्र न प्राप्नोति ।

२८ - २८ - एवम् तर्हि छन्दसि इरः बहुलम् इति वक्तव्यम्

१ - ४६ - यदि पुनः अयम् नुट् पूर्वान्तः क्रियेत ।

२ - ४६ - अनः नुकि विनामरुविधिप्रतिषेधः ।

३ - ४६ - अनः नुकि सति विनामः विधेयः ।

४ - ४६ - अक्षण्वान् ।

५ - ४६ - पदान्तस्य न इति प्रतिषेधः प्राप्नोति ।

६ - ४६ - रुः च प्रतिषेध्यः ।

७ - ४६ - सुपथिन्तरः ।

८ - ४६ - नश्छव्यप्रशान् इति रुः प्राप्नोति ।

९ - ४६ - अस्तु तर्हि परादिः ।

१० - ४६ - परादौ वत्वप्रतिषेधः अवग्रहः च । यदि परादिः वत्वस्य प्रतिषेधः वक्तव्यः ।

११ - ४६ - अक्षण्वान् ।

१२ - ४६ - मादुपधायाश्चमतोर्वोऽयवादिभ्यः इति वत्वम् प्राप्नोति ।

१३ - ४६ - अवग्रहः च अनिष्टे देशे प्राप्नोति ।

१४ - ४६ - अक्षण्वान् ।

१५ - ४६ - अस्तु तर्हि पूर्वान्तः ।

१६ - ४६ - ननु च उक्तम् अनः नुकि विनामरुविधिप्रतिषेधः इति ।

१७ - ४६ - भत्वात् सिद्धम् । भसञ्ज्ञा वक्तव्या ।

१८ - ४६ - यदि तर्हि भसञ्ज्ञा अल्लोपोऽनः इति अल्लोपः प्राप्नोति ।

१९ - ४६ - अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि । अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् ।

२० - ४६ - इह तर्हि सुपथिन्तरः नान्तस्य टिः तद्धिते लुप्यते इति लोपः प्राप्नोति ।

२१ - ४६ - घग्रहणम् च । घग्रहणम् च कर्तव्यम् ।

२२ - ४६ - तत् तर्हि इदम् बहु वक्तव्यम् ।

२३ - ४६ - नुक् वक्तव्यः ।

२४ - ४६ - भसञ्ज्ञा च वक्तव्या ।

२५ - ४६ - अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् ।

२६ - ४६ - घग्रहणम् च कर्तव्यम् इति ।

२७ - ४६ - न कर्तव्यम् ।

२८ - ४६ - यत् तावत् उच्यते नुक् वक्तव्यः इति नुकः एषः परिहारः भत्वात् सिद्धम् इति ।

२९ - ४६ - भसञ्ज्ञा वक्तव्या इति क्रियते न्यासे एव अयस्मयादीनि छन्दसि इति ।

३० - ४६ - यत् अपि उच्यते अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि घग्रहणम् च कर्तव्यम् इति न कर्तव्यम् ।

३१ - ४६ - उभयसञ्ज्ञानि अपि हि छन्दांसि दृश्यन्ते ।

३२ - ४६ - तत् यथा ।

३३ - ४६ - सः सुष्टुभा स ऋक्वता गणेन ।

३४ - ४६ - पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति ।

३५ - ४६ - एवम् इह अपि पदत्वात् अल्लोपटिलोपौ न भत्वात् विनामरुविधिप्रतिषेधौ भविष्यतः ।

३६ - ४६ - सिध्यति ।

३७ - ४६ - सूत्रम् तर्हि भिद्यते ।

३८ - ४६ - यथान्यासम् एव अस्तु ।

३९ - ४६ - ननु च उक्तम् परादौ वत्वप्रतिषेधः अवग्रहः च इति ।

४० - ४६ - यत् तावत् उच्यते वत्वप्रतिषेधः इति निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

४१ - ४६ - यः तर्हि निर्दिश्यते तस्य न प्राप्नोति ।

४२ - ४६ - किम् कारणम् ।

४३ - ४६ - नुटा व्यवहितत्वात् ।

४४ - ४६ - असिद्धः नुट् तस्य असिद्धत्वात् भविष्यति ।

४५ - ४६ - अवग्रहे अपि न लक्षणेन पदकाराः अनुवर्त्याः पदकारैः नाम लक्षणम् अनुवर्त्यम् ।

४६ - ४६ - यथालक्षणम् पदम् कर्तव्यम्

१ - ५ - ईत् रथिनः ।

२ - ५ - रथिनः ईत् वक्तव्यः ।

३ - ५ - रथीतरः ।

४ - ५ - भूरिदाव्नः तुट् । भुरिदाव्नः तुट् वक्तव्यः ।

५ - ५ - भूरिदावत्तरः जनः

१ - १५ - कृपणादीनाम् प्रतिषेधः वक्तव्यः ।

२ - १५ - कृपणः कृपाणः कृपीटम् ।

३ - १५ - वालमूललघ्वलमड्गुलीनाम् वा लः रम् आपद्यते इति वक्तव्यम् ।

४ - १५ - अश्ववालः अश्ववारः ।

५ - १५ - मूलदेवः मूरदेवः ।

६ - १५ - वरुणस्य लघुस्यदः वरुणस्य रघुस्यदः ।

७ - १५ - अलम् भक्ताय अरम् भक्ताय ।

८ - १५ - सुबाहुः स्वङ्गुलिः सुबाहुः स्वङ्गुरिः ।

९ - १५ - सञ्ज्ञाछन्दसोः वा कपिलकादीनाम् इति वक्तव्यम् ।

१० - १५ - कपिरकः कपिलकः ।

११ - १५ - तिल्विरीकः तिल्विलीकः ।

१२ - १५ - रोमाणि लोमानि ।

१३ - १५ - पांसुरम् पांसुलम् ।

१४ - १५ - कर्म कल्म ।

१५ - १५ - शुक्रः शुक्लः

१ - २८ - किम् इदम् अयतिग्रहणम् रेफविशेषणम् अयतिपरस्य रेफस्य लः भवति सः चेत् उपसर्गस्य भवति इति ।

२ - २८ - आहोस्वित् उपसर्गविशेषणम् अयतिपरस्य उपसर्गस्य यः रेफः तस्य लः भवति इति ।

३ - २८ - कः च अत्र विशेषः ।

४ - २८ - रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् ।

५ - २८ - रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् कर्तव्यम् ।

६ - २८ - पल्ययते ।

७ - २८ - वचनात् भविष्यति ।

८ - २८ - अस्ति वचने प्रयोजनम् ।

९ - २८ - किम् ।

१० - २८ - प्लायते पलायते ।

११ - २८ - अस्तु तर्हि उपसर्गविशेषणम् ।

१२ - २८ - उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः । उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः भवति ।

१३ - २८ - प्लायते पलायते ।

१४ - २८ - एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।

१५ - २८ - अन्तादिवत् भावेन व्यपवर्गः ।

१६ - २८ - उभयतः आश्रये न अन्तादिवत् ।

१७ - २८ - एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः ।

१८ - २८ - प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।

१९ - २८ - दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।

२० - २८ - अथ वा पुनः अस्तु रेफविशेषणम् ।

२१ - २८ - ननु च उक्तम् रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् इति ।

२२ - २८ - वचनात् भविष्यति ।

२३ - २८ - ननु च उक्तम् अस्ति वचने प्रयोजनम् किम् प्लायते पलायते इति ।

२४ - २८ - अत्र अपि अकारेण व्यवहितत्वात् न प्राप्नोति ।

२५ - २८ - एकादेशे कृते न अस्ति व्यवधानम् ।

२६ - २८ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

२७ - २८ - प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।

२८ - २८ - दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति

१ - १३ - णौ उपसङ्ख्यानम् कर्तव्यम् ।

२ - १३ - इह अपि यथा स्यात् ।

३ - १३ - निगार्यते निगाल्यते ।

४ - १३ - किम् पुनः कारणम् न सिध्यति ।

५ - १३ - अचि इति उच्यते न च अत्र अजादिम् पश्यामः ।

६ - १३ - प्रत्ययलक्षणेन ।

७ - १३ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

८ - १३ - एवम् तर्हि स्थानिवद्भावात् भविष्यति ।

९ - १३ - प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।

१० - १३ - अतः उत्तरम् पठति ।

११ - १३ - गिरतेः लत्वे णौ उक्तम् ।

१२ - १३ - किम् उक्तम् ।

१३ - १३ - तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति

१ - ३ - योगे च इति वक्तव्यम् ।

२ - ३ - इह अपि यथा स्यात् ।

३ - ३ - परियोगः पलियोगः

१ - २७ - सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि ।

२ - २७ - सङि इति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि ।

३ - २७ - किम् प्रयोजनम् ।

४ - २७ - प्रयोजनम् गिरौ गिरः पयः धावति द्विष्टराम् दृषत्स्थानम् काष्ठशक्स्थाता क्रुञ्चा धुर्यः इति । गिऋऔ गिरः इति अत्र अचिविभाषा इति लत्वम् प्राप्नोति ।

५ - २७ - सङि इति वचनात् न भवति ।

६ - २७ - न एतत् अस्ति प्रयोजनम् ।

७ - २७ - उक्तम् एतत् धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति ।

८ - २७ - पयः धावति इति अत्र धिच इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।

९ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।

१० - २७ - वक्ष्यति एतत् धिसकारे सिचः लोपः इति ।

११ - २७ - द्विष्टराम् इति अत्र ह्रस्वात् अङ्गात् इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।

१२ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।

१३ - २७ - अत्र अपि सिचः इति एव अनुवर्तिष्यते ।

१४ - २७ - दृषत्स्थानम् इति अत्र झलोझलि इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।

१५ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।

१६ - २७ - अत्र अपि सिचः इति एव अनुवर्तिष्यते ।

१७ - २७ - काष्ठशक्स्थाता इति अत्र स्कोःसंयोगाद्योरन्तेच इति ककारलोपः प्राप्नोति सङि इति वचनात् न भवति ।

१८ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।

१९ - २७ - काष्ठशक् एव न अस्ति कुतः यः काष्ठशकि तिष्ठेत् ।

२० - २७ - क्रुञ्चा इति अत्र चोःकुः झलि इति कुत्वम् प्राप्नोति सङि इति वचनात् न भवति ।

२१ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।

२२ - २७ - निपातनात् एतत् सिद्धम् ।

२३ - २७ - किम् निपातनम् ।

२४ - २७ - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् इति ।

२५ - २७ - धुर्यः इति अत्र हलिच इति दीर्घत्वम् प्राप्नोति सङि इति वचनात् न भवति ।

२६ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।

२७ - २७ - नभकुर्छुराम् इति प्रतिषेधः भविष्यति ।

१ - १० - संयोगान्तस्य लोपे यणः प्रतिषेधः । संयोगान्तस्य लोपे यणः प्रतिषेधः वक्तव्यः ।

२ - १० - दधि अत्र मधु अत्र इति ।

३ - १० - संयोगादिलोपे च यणः प्रतिषेधः वक्तव्यः ।

४ - १० - काकी अर्थम् वासी अर्थम् ।

५ - १० - न वा झलः लोपात् ।

६ - १० - न वा वक्तव्यः ।

७ - १० - किम् कारणम् ।

८ - १० - झलः लोपात् ।

९ - १० - झलः लोपः संयोगान्तलोपः वक्तव्यः ।

१० - १० - बहिरङ्गलक्षणत्वात् वा । अथ वा बहिरङ्गः यणादेशः अन्तरङ्गः लोपः असिद्धम् बहिरङ्गम् अन्तरङ्गे

१ - ३४ - संयोगान्तलोपे सग्रहणम् ।

२ - ३४ - संयोगान्तलोपे सग्रहणम् कर्तव्यम् ।

३ - ३४ - संयोगान्तलोपः सस्य च इति वक्तव्यम् ।

४ - ३४ - इह अपि यथा स्यात् ।

५ - ३४ - श्रेयान् भूयान् ज्यायान् ।

६ - ३४ - किम् पुनः कारणम् न सिध्यति ।

७ - ३४ - परत्वात् रुः प्राप्नोति ।

८ - ३४ - असिद्धः रुः तस्य असिद्धत्वात् लोपः भविष्यति ।

९ - ३४ - न सिध्यति ।

१० - ३४ - किम् कारणम् ।

११ - ३४ - रुविधानस्य अनवकाशत्वात् । अनवकासः रुः लोपम् बाधेत ।

१२ - ३४ - सावकाशः रुः ।

१३ - ३४ - कः अवकाशः ।

१४ - ३४ - पयः शिरः ।

१५ - ३४ - ननु च अत्र अपि जश्त्वम् प्राप्नोति ।

१६ - ३४ - सः यथा एव रुः जश्त्वम् बाधते एवम् लोपम् अपि बाधेत ।

१७ - ३४ - न बाधते ।

१८ - ३४ - किम् कारणम् ।

१९ - ३४ - येन नाप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते जश्त्वे रुः आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च ।

२० - ३४ - योगविभागात् सिद्धम् । अथ वा योगविभागः करिष्यते ।

२१ - ३४ - एवम् वक्ष्यामि ।

२२ - ३४ - संयोगान्तस्य लोपः अरात् ।

२३ - ३४ - संयोगान्तस्य लोपः भवति अरात् ।

२४ - ३४ - ततः सस्य ।

२५ - ३४ - सस्य च लोपः भवति संयोगान्तस्य ।

२६ - ३४ - किम् अर्थम् पुनः इदम् उच्यते ।

२७ - ३४ - प्रतिषिद्धार्थम् रुबाधनार्थम् च ।

२८ - ३४ - अथ वा यत् एतत् रात् सस्य इति सग्रहणम् तत् पुरस्तात् अपक्रक्ष्यते ।

२९ - ३४ - संयोगान्तस्य लोपः ।

३० - ३४ - ततः सस्य ।

३१ - ३४ - सस्य च संयोगान्तस्य लोपः भवति ।

३२ - ३४ - ततः रात् ।

३३ - ३४ - रात् सस्य एव संयोगान्तस्य लोपः भवति ।

३४ - ३४ - अथ वा रात् सस्य इति अत्र संयोगान्तस्य लोपः इति एतत् अनुवर्तिष्यते

१ - ६२ - धि सकारे सिचः लोपः ।

२ - ६२ - धि सकारे सिचः लोपः वक्तव्यः ।

३ - ६२ - किम् प्रयोजनम् ।

४ - ६२ - चकाद्धि इति प्रयोजनम् । इह मा भूत् ।

५ - ६२ - चकाद्धि पलितम् शिरः ।

६ - ६२ - यदि तर्हि सिचः लोपः इति उच्यते ।

७ - ६२ - आशाध्वम् तु कथम् ते स्यात् । आशाध्वम् इति अत्र न प्राप्नोति ।

८ - ६२ - जश्त्वम् सस्य भविष्यति । जश्त्वम् अत्र सकारस्य भविष्यति ।

९ - ६२ - सर्वत्र एवम् प्रसिद्धम् स्यात् । सर्वत्र एवम् जश्त्वेन सिद्धम् स्यात् ।

१० - ६२ - इह अपि आयन्ध्वम् अरन्ध्वम् इति जश्त्वेन एव सिद्धम् ।

११ - ६२ - श्रुतिः च अपि न भिद्यते । श्रुतिकृतः च अपि न कः चित् भेदः भवति ।

१२ - ६२ - लुङः च अपि न मूर्धन्ये ग्रहणम् । तत्र अयम् अपि अर्थः इणःषीध्वंलुङ्लिटान्धोऽङ्गात् इति अत्र लुङ्ग्रहणम् न कर्तव्यम् ।

१३ - ६२ - इह अपि अच्योड्ढ्वम् अप्लोड्ढ्वम् इति षत्वे सिचः धस्य ष्टुत्वे च कृते जश्त्वेन सिद्धम् ।

१४ - ६२ - सेटि दुष्यति । सेटि दोषः भवति ।

१५ - ६२ - इदम् एव रूपम् स्यात् अलविड्ढ्वम् इदम् न स्यात् अलविध्वम् इति ।

१६ - ६२ - तस्मात् सिचः ग्रहणम् कर्तव्यम् ।

१७ - ६२ - यदि तर्हि सिचः ग्रहणम् क्रियते ।

१८ - ६२ - घसिभस्योः न सिध्येत् तु । घसिभस्योः न सिध्यति ।

१९ - ६२ - सग्धिः च मे सपीतिः च मे, बब्धाम् ते हरी धानाः इति अत्र न प्राप्नोति ।

२० - ६२ - तस्मात् सिज्ग्रहणम् न तत् । तस्मात् धिच इति अत्र सिचः ग्रहणम् न कर्तव्यम् ।

२१ - ६२ - कथम् चकाद्धि पलितम् शिरः इति ।

२२ - ६२ - एवम् तर्हि सिज्ग्रहणम् कर्तव्यम् ।

२३ - ६२ - कथम् सग्धिः च मे सपीतिः च मे , बब्धम् ते हरी धानाः इति ।

२४ - ६२ - इह तावत् सग्धिः इति न एतत् घसेः रूपम् ।

२५ - ६२ - किम् तर्हि सघेः एतत् रूपम् ।

२६ - ६२ - बब्धाम् ते हरी धानाः इति न एतत् भसेः रूपम् ।

२७ - ६२ - किम् तर्हि बन्धेः एतत् रूपम् ।

२८ - ६२ - छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे । अथ वा छान्दसः वर्णलोपः भविष्यति यथा इष्कर्तारमध्वरे ।

२९ - ६२ - तत् यथा ।

३० - ६२ - तुभ्येदम् अग्ने ।

३१ - ६२ - तुभ्यम् इदम् अग्ने इति प्राप्ते ।

३२ - ६२ - आम्बानाम् चरुः ।

३३ - ६२ - नाम्बानाम् चरुः इति प्राप्ते ।

३४ - ६२ - आव्याधिनीः उगणाः ।

३५ - ६२ - आव्याधिनीः सुगणाः इति प्राप्ते ।

३६ - ६२ - इष्कर्तारम् अध्वरस्य ।

३७ - ६२ - निष्कर्तारम् इति प्राप्ते ।

३८ - ६२ - शिवा उद्रस्य भेषजी ।

३९ - ६२ - शिवा रुद्रस्य भेषजीति प्राप्ते ।

४० - ६२ - तस्मात् सिज्ग्रहणम् कर्तव्यम् ।

४१ - ६२ - न कर्तव्यम् ।

४२ - ६२ - यत् एतत् रात्सस्य इति सकारग्रहणम् तत् सिचः ग्रहणम् विज्ञास्यते ।

४३ - ६२ - कथम् ।

४४ - ६२ - रात्सस्य इति उच्यते न च अन्यः रेफात् परः सकारः अस्ति अन्यत् अतः सिचः ।

४५ - ६२ - ननु च अयम् अस्ति मातुः पितुः इति ।

४६ - ६२ - तस्मात् सिचः ग्रहणम् कर्तव्यम् ।

४७ - ६२ - न कर्तव्यम् ।

४८ - ६२ - कस्मात् न भवति चकाद्धि पलितम् शिरः इति ।

४९ - ६२ - इष्टम् एव एतत् सङ्गृहीतम् ।

५० - ६२ - चकाधि इति एव भवितव्यम् ।

५१ - ६२ - धि सकारे सिचः लोपः ।

५२ - ६२ - चकाद्धि इति प्रयोजनम् ।

५३ - ६२ - आशाध्वम् तु कथम् ते स्यात् ।

५४ - ६२ - जश्त्वम् सस्य भविष्यति ।

५५ - ६२ - सर्वत्र एवम् प्रसिद्धम् स्यात् ।

५६ - ६२ - श्रुतिः च अपि न भिद्यते ।

५७ - ६२ - लुङः च अपि न मूर्धन्ये ग्रहणम् ।

५८ - ६२ - सेटि दुष्यति ।

५९ - ६२ - घसिभस्योः न सिध्येत् तु ।

६० - ६२ - तस्मात् सिज्ग्रहणम् न तत् ।

६१ - ६२ - छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे ।

६२ - ६२ - दादेः धातोः घः ।
"http: -  - sa.wikibooks.org - wiki - %E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%B0%

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP