TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद ३ - खण्ड ५७

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ५७
१ - ३१ - द्विवचने इति उच्यते ।

२ - ३१ - तत्र इदम् न सिध्यति ।

३ - ३१ - दन्तोष्ठस्य दन्ताः स्निग्धतराः ।

४ - ३१ - पाणिपादस्य पादौ सुकुमारतरौ ।

५ - ३१ - अस्माकम् च देवदत्तस्य च देवदत्तः अभिरूपतरः इति ।

६ - ३१ - यदि पुनः द्व्यर्थोपपदे इति उच्येत ।

७ - ३१ - तत्र अयम् अपि अर्थः ।

८ - ३१ - विभज्योपपदग्रहणम् न कर्तव्यम् ।

९ - ३१ - इह अपि शङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति द्व्यर्थोपपदे इति एव सिद्धम् ।

१० - ३१ - न एवञ्जातीयका द्व्यर्थता शक्या विज्ञातुम् ।

११ - ३१ - इह अपि प्रस्ज्येत ।

१२ - ३१ - शङ्काश्यकानाम् पाटलिपुत्रकाणाम् च पाटलिपुत्रकाः अभिरूपतमाः इति ।

१३ - ३१ - अवश्यम् खलु अपि विभज्योपपदग्रहणम् कर्तव्यम् यः हि बहूनाम् विभागः तदर्थम् ।

१४ - ३१ - शङ्काश्यकेभ्यः च पाटलिपुत्रकेभ्यः च माथुराः अभिरूपतराः इति ।

१५ - ३१ - तत् तर्हि द्व्यर्थोपपदे इति वक्तव्यम् ।

१६ - ३१ - न वक्तव्यम् ।

१७ - ३१ - न इदम् पारिभाषिकस्य द्विवचनस्य ग्रहणम् ।

१८ - ३१ - किम् तर्हि अन्वर्थग्रहणम् ।

१९ - ३१ - उच्यते वचनम् ।

२० - ३१ - द्वयोः अर्थयोः वचनम् द्विवचनम् इति ।

२१ - ३१ - एवम् अपि तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् ।

२२ - ३१ - तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् वक्तव्यम् ।

२३ - ३१ - परुत् भवान् पटुः आसीत् ।

२४ - ३१ - पटुतरः च ऐषमः इति ।

२५ - ३१ - सिद्धम् तु गुणप्रधानत्वात् ।

२६ - ३१ - सिद्धम् एतत् ।

२७ - ३१ - कथम् ।

२८ - ३१ - गुणप्रधानत्वात् ।

२९ - ३१ - गुणप्रधानः अयम् निर्देशः क्रियते ।

३० - ३१ - गुणान्तरयोगात् च अन्यत्वम् भवति ।

३१ - ३१ - तत् यथा तम् एव गुणान्तरयुक्तम् वक्तारः भवन्ति अन्यः भवान् संवृत्तः इति ।

१ - १० - एवकारः किमर्थः ।

२ - १० - नियमार्थः ।

३ - १० - न एतत् अस्ति प्रयोजनम् ।

४ - १० - सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति ।

५ - १० - इष्टतः अवधारणार्थः तर्हि ।

६ - १० - यथा एवम् विज्ञायेत ।

७ - १० - अजादी गुणवचनात् एव इति ।

८ - १० - मा एवम् विज्ञायि ।

९ - १० - अजादी एव गुणवचनात् इति ।

१० - १० - किम् च स्यात् न व्यञ्जनादी गुणवचनात् स्याताम् ।

१ - २९ - इदम् अयुक्तम् वर्तते ।

२ - २९ - किम् अत्र अयुक्तम् ।

३ - २९ - अजादी गुणवचनात् एव इति उक्त्वा अगुणवचनानाम् अपि अजाद्योः आदेशाः उच्यन्ते ।

४ - २९ - न एषः दोषः ।

५ - २९ - एतत् एव ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति ।

६ - २९ - एवम् अपि तयोः इति वक्तव्यम् स्यात् ।

७ - २९ - तयोः परतः इति ।

८ - २९ - यदि पुनः अयम् विधिः विज्ञायेत ।

९ - २९ - न एवम् शक्यम् ।

१० - २९ - व्यञ्जनादी हि न स्याताम् उपाधीनाम् च सङ्करः स्यात् पुनर्विधानात् अजाद्योः ।

११ - २९ - ननु च एते विशेषाः अनुवर्तेरन् ।

१२ - २९ - यदि अपि एते अनुवर्तेरन् व्यञ्जनादी तर्हि न स्याताम् ।

१३ - २९ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति ।

१४ - २९ - ननु च उक्तम् तयोः इति वक्तव्यम् इति ।

१५ - २९ - न वक्तव्यम् ।

१६ - २९ - प्रकृतम् अजादीग्रहणम् अनुवर्तते ।

१७ - २९ - क्व प्रकृतम् ।

१८ - २९ - अजादी गुणवचनात् एव इति ।

१९ - २९ - तत् वै प्रथमानिर्दिष्टम् सप्तमीनिर्दिष्टेन च इह अर्थः ।

२० - २९ - अर्थात् विभक्तिविपरिणामः भविष्यति ।

२१ - २९ - तत् यथा ।

२२ - २९ - उच्चानि देवदत्तस्य गृहाणि ।

२३ - २९ - आमन्त्रयस्व एनम् ।

२४ - २९ - देवदत्तम् इति गम्यते ।

२५ - २९ - देवदत्तस्य गाव अश्वा हिरण्यम् इति ।

२६ - २९ - आढ्यः वैधवेयः ।

२७ - २९ - देवदत्तः इति गम्यते ।

२८ - २९ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

२९ - २९ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् सप्तमीनिर्दिष्टम् भविष्यति ।

१ - ४७ - स्त्रीलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।

२ - ४७ - तेन स्त्रीलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च ।

३ - ४७ - पुन्नपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च न स्यात् ।

४ - ४७ - न एषः दोषः ।

५ - ४७ - न अयम् प्रत्ययार्थः ।

६ - ४७ - किम् तर्हि ।

७ - ४७ - प्रकृत्यर्थविशेषणम् एतत् ।

८ - ४७ - प्रशंसायाम् यत् प्रातिपदिकम् वर्तते तस्मात् रूपप् भवति ।

९ - ४७ - कस्मिन् अर्थे ।

१० - ४७ - स्वार्थे इति ।

११ - ४७ - स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

१२ - ४७ - प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः अम्भाववचनम् ।

१३ - ४७ - प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः रूपपः अम्भावः वक्तव्यः ।

१४ - ४७ - पचतिरूपम् ।

१५ - ४७ - पचतोरूपम् ।

१६ - ४७ - पचन्तिरूपम् इति ।

१७ - ४७ - सिद्धम् तु क्रियाप्रधानत्वात् ।

१८ - ४७ - सिद्धम् एतत् ।

१९ - ४७ - कथम् ।

२० - ४७ - क्रियाप्रधानत्वात् ।

२१ - ४७ - क्रियाप्रधानम् आख्यातम् एका च क्रिया ।

२२ - ४७ - द्रव्यप्रधानम् नाम ।

२३ - ४७ - कथम् पुनः ज्ञयते क्रियाप्रधानम् आख्यातम् भवति द्रव्यप्रधानम् नाम इति ।

२४ - ४७ - यत् क्रियाम् पृष्टः तिङा आचष्टे ।

२५ - ४७ - किम् देवदत्तः करोति ।

२६ - ४७ - पचति इति ।

२७ - ४७ - द्रव्यम् पृष्टः कृता आचष्टे ।

२८ - ४७ - कतरः देवदत्तः ।

२९ - ४७ - यः कारकः हारकः इति ।

३० - ४७ - यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिद्यन्ति ।

३१ - ४७ - पचतः ।

३२ - ४७ - पचन्ति इति ।

३३ - ४७ - न एतानि क्रियापेक्षाणि ।

३४ - ४७ - किम् तर्हि साधनापेक्षाणि ।

३५ - ४७ - इह अपि तर्हि प्राप्नुवन्ति ।

३६ - ४७ - पचतिरूपम् ।

३७ - ४७ - पचतोरूपम् ।

३८ - ४७ - पचन्तिरूपम् इति ।

३९ - ४७ - तिङा उक्तत्वात् तस्य अभिसम्बन्धस्य न भविष्यति ।

४० - ४७ - एकवचनम् अपि तर्हि न प्राप्नोति ।

४१ - ४७ - समयात् भविष्यति ।

४२ - ४७ - द्विवचनबहुवचनानि अपि तर्हि समयात् प्राप्नुवन्ति ।

४३ - ४७ - एवम् तर्हि एकवचनम् उत्सर्गः करिष्यते ।

४४ - ४७ - तस्य द्विबह्वोः द्विवचनबहुवचने अपवावौ भविष्यतः ।

४५ - ४७ - एवम् अपि नपुंसकत्वम् वक्तव्यम् ।

४६ - ४७ - न वक्तव्यम् ।

४७ - ४७ - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

१ - १५ - वृषलादिभ्यः उपसङ्ख्यानम् ।

२ - १५ - वृषलादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १५ - वृषलरूपः ।

४ - १५ - दस्युरूपः ।

५ - १५ - चोररूपः इति ।

६ - १५ - सिद्धम् तु प्रकृत्यर्थवैशिष्ट्यवचनात् ।

७ - १५ - सिद्धम् एतत् ।

८ - १५ - कथम् ।

९ - १५ - प्रकृत्यर्थस्य वैशिष्ट्ये इति वक्तव्यम् ।

१० - १५ - वृषलरूपः अयम् ।

११ - १५ - अपि अयम् पलाण्डुना सुराम् पिबेत् ।

१२ - १५ - चोररूपः अयम् ।

१३ - १५ - अपि अयम् अक्ष्णोः अञ्जनम् हरेत् ।

१४ - १५ - दस्युरूपः अयम् ।

१५ - १५ - अपि अयम् धावतः लोहितम् पिबेत् ।

१ - ७४ - ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः ।

२ - ७४ - ईषदसमाप्तौ क्रियाप्रधानत्वात् लिङ्गवचनयोः अनुपपत्तिः ।

३ - ७४ - पटुकल्पः ।

४ - ७४ - पटुकल्पौ ।

५ - ७४ - पटुकल्पाः इति ।

६ - ७४ - एकः अयम् अर्थः ईषदसमाप्तिः नाम ।

७ - ७४ - तस्य एकत्वात् एकवचनम् प्राप्नोति ।

८ - ७४ - प्रकृत्यर्थविशेषणत्वाद् सिद्धम् ।

९ - ७४ - सिद्धम् एतत् ।

१० - ७४ - कथम् ।

११ - ७४ - न अयम् प्रत्ययार्थः ।

१२ - ७४ - किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् ।

१३ - ७४ - ईषदसमाप्तौ यत् प्रातिपदिकम् वर्तते तस्मात् कल्पबादयः भवन्ति ।

१४ - ७४ - कस्मिन् अर्थे ।

१५ - ७४ - स्वार्थे इति ।

१६ - ७४ - स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

१७ - ७४ - प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः ।

१८ - ७४ - प्रकृत्यर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः ।

१९ - ७४ - गुडकल्पा द्राक्षा ।

२० - ७४ - तैलकल्पा प्रसन्ना ।

२१ - ७४ - पयस्कल्पा यवागूः इति ।

२२ - ७४ - सिद्धम् तु तत्सम्बन्धे उत्तरपदार्थे प्रत्ययवचनात् ।

२३ - ७४ - सिद्धम् एतत् ।

२४ - ७४ - कथम् ।

२५ - ७४ - तत्सम्बन्धे ईषदसमाप्तिसम्बन्धे उत्तरपदार्थे प्रत्ययः भवति इति वक्तव्यम् ।

२६ - ७४ - सिध्यति ।

२७ - ७४ - सूत्रम् तर्हि भिद्यते ।

२८ - ७४ - यथान्यासम् एव अस्तु ।

२९ - ७४ - ननु च उक्तम् ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः इति ।

३० - ७४ - परिहृतम् एतत् प्रकृत्यर्थविशेषणत्वाद् सिद्धम् इति ।

३१ - ७४ - ननु च उक्तम् प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः इति ।

३२ - ७४ - न एषः दोषः ।

३३ - ७४ - आचार्यप्रवृत्तिः ज्ञापयति स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति यत् अयम् णचः स्त्रियाम् अञ् इति स्त्रीग्रहणम् करोति ।

३४ - ७४ - यदि एतत् ज्ञाप्यते बहुगुडः द्राक्षा ।

३५ - ७४ - बहुतैलम् प्रसन्ना ।

३६ - ७४ - बहुपयः यवागूः इति अत्र अपि प्राप्नोति ।

३७ - ७४ - न अपि अतिवर्तन्ते ।

३८ - ७४ - किम् पुनः इह उदाहरणम् ।

३९ - ७४ - पटुकल्पः ।

४० - ७४ - मृदुकल्पः इति ।

४१ - ७४ - न एतत् अस्ति ।

४२ - ७४ - निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः ।

४३ - ७४ - इदम् तर्हि ।

४४ - ७४ - गुडकल्पा द्राक्षा ।

४५ - ७४ - तैलकल्पा प्रसन्ना ।

४६ - ७४ - पयस्कल्पा यवागूः इति ।

४७ - ७४ - द्रव्यम् अपि अनिर्ज्ञातम् ।

४८ - ७४ - इदम् तर्हि ।

४९ - ७४ - कृतकल्पम् ।

५० - ७४ - भुक्तकल्पम् ।

५१ - ७४ - पीतकल्पम् इति ।

५२ - ७४ - क्तान्तात् प्रत्ययविधानानुपपत्तिः क्तस्य भूतकाललक्षणत्वात् कल्पादीनाम् च असमाप्तिवचनात् ।

५३ - ७४ - क्तान्तात् प्रत्ययविधानेः अनुपपत्तिः ।

५४ - ७४ - किम् कारणम् ।

५५ - ७४ - क्तस्य भूतकाललक्षणत्वात् ।

५६ - ७४ - भूतकाललक्षणः क्तः ।

५७ - ७४ - कल्पादीनाम् च असमाप्तिवचनात् ।

५८ - ७४ - विसमाप्तिवचनाः च कल्पादयः ।

५९ - ७४ - न च अस्ति सम्भवः यत् भूतकालः च स्यात् असमाप्तिः च इति ।

६० - ७४ - सिद्धम् तु आशंसायाम् भूतवद्वचनात् ।

६१ - ७४ - सिद्धम् एतत् ।

६२ - ७४ - कथम् ।

६३ - ७४ - आशंसायाम् भूतवत् च इति एवम् अत्र क्तः भविष्यति ।

६४ - ७४ - इदम् च अपि उदाहरणम् पटुकल्पः ।

६५ - ७४ - मृदुकल्पः इति ।

६६ - ७४ - ननु च उक्तम् निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः इति ।

६७ - ७४ - लोकतः व्यवहारम् दृष्ट्वा गुणस्य निर्ज्ञानम् ।

६८ - ७४ - तत् यथा पटुः अयम् ब्राह्मणः इति उच्यते यः लघुना उपायेन अथान् साधयति ।

६९ - ७४ - पटुकल्पः अयम् इति उच्यति यः न तथा साधयति ।

७० - ७४ - इदम् च अपि उदाहरणम् गुडकल्पा द्राक्षा ।

७१ - ७४ - तैलकल्पा प्रसन्ना ।

७२ - ७४ - पयस्कल्पा यवागूः इति ।

७३ - ७४ - ननु च उक्तम् द्रव्यम् अपि अनिर्ज्ञातम् इति ।

७४ - ७४ - लोकतः द्रव्यम् अपि निर्ज्ञातम् ।

१ - ८० - विभाषाग्रहणम् किमर्थम् ।

२ - ८० - विभाषा बहुच् यथा स्यात् ।

३ - ८० - बहुचा मुक्ते वाक्यम् अपि यथा स्यात् ।

४ - ८० - न एतत् अस्ति प्रयोजनम् ।

५ - ८० - प्रकृता महाविभाषा ।

६ - ८० - तया वाक्यम् भविष्यति ।

७ - ८० - इदम् तर्हि प्रयोजनम् ।

८ - ८० - कल्पादयः अपि यथा स्युः इति ।

९ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।

१० - ८० - बहुच् उच्यते कल्पादयः अपि ।

११ - ८० - तत् उभयम् वचनात् भविष्यति ।

१२ - ८० - न एवम् शक्यम् ।

१३ - ८० - अक्रियमाणे हि विभाषाग्रहणे अनवकाशः बहुच् कल्पादीन् बाधेत ।

१४ - ८० - कल्पादयः अपि अनवकाशाः ।

१५ - ८० - ते वचनात् भविष्यन्ति ।

१६ - ८० - सावकाशाः कल्पादयः ।

१७ - ८० - कः अवकाशः ।

१८ - ८० - तिङन्तानि अवकाशः ।

१९ - ८० - अथ सुब्ग्रहणम् किमर्थम् ।

२० - ८० - सुबन्तात् उत्पत्तिः यथा स्यात् ।

२१ - ८० - प्रातिपदिकात् मा भूत् इति ।

२२ - ८० - न एतत् अस्ति प्रयोजनम् ।

२३ - ८० - न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा ।

२४ - ८० - यदि एवम् इह अपि न अर्थः सुब्ग्रहणेन ।

२५ - ८० - सुपः आत्मनः क्यच् इति ।

२६ - ८० - इह अपि न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा ।

२७ - ८० - अयम् अस्ति विशेषः ।

२८ - ८० - सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति ।

२९ - ८० - प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति ।

३० - ८० - ननु च प्रातिपदिकात् अपि उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा ।

३१ - ८० - कथम् ।

३२ - ८० - आरभ्यते नः क्ये इति ।

३३ - ८० - तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ नियमार्थम् ।

३४ - ८० - तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति ।

३५ - ८० - इदम् तर्हि प्रयोजनम् ।

३६ - ८० - सुबन्तात् उत्पत्तिः यथा स्यात् ।

३७ - ८० - तिङन्तात् मा भूत् इति ।

३८ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।

३९ - ८० - ङ्याप्प्रातिपदिकात् इति वर्तते ।

४० - ८० - अतः उत्तरम् पठति ।

४१ - ८० - बहुचि सुब्ग्रहणात् पूर्वत्र तिङः विधानम् ।

४२ - ८० - बहुचि सुब्ग्रहणम् क्रियते पूर्वत्र तिङः विधिः यथा विज्ञायेत ।

४३ - ८० - न एतत् अस्ति प्रयोजनम् ।

४४ - ८० - प्रकृतम् तिङ्ग्रहणम् अनुवर्तते ।

४५ - ८० - क्व प्रकृतम् ।

४६ - ८० - अतिशायने तमबिष्ठनौ ।

४७ - ८० - तिङः च इति ।

४८ - ८० - एवम् तर्हि बहुचि सुब्ग्रहणम् पूर्वत्र तिङः विधानात् ।

४९ - ८० - बहुचि सुब्ग्रहणम् क्रियते ।

५० - ८० - किम् कारणम् ।

५१ - ८० - पूर्वत्र तिङः विधानात् ।

५२ - ८० - पूर्वत्र तिङः च इति अनुवर्तते ।

५३ - ८० - तत् इह अपि प्राप्नोति ।

५४ - ८० - ननु च तिङ्ग्रहणम् निवर्तेत ।

५५ - ८० - अवश्यम् उत्तरार्थम् अनुवर्त्यम् अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति पचतकि जल्पतकि इति एवमर्थम् ।

५६ - ८० - यदि सुब्ग्रहणम् क्रियते स्वरः न सिध्यति ।

५७ - ८० - बहुपटवः एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते ।

५८ - ८० - पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थम् इति ।

५९ - ८० - स्वरः कथम् ।

६० - ८० - स्वरः प्रातिपदिकत्वात् ।

६१ - ८० - सुब्लुकि कृते प्रातिपदिकत्वात् स्वरः भविष्यति ।

६२ - ८० - अथ तुग्रहणम् किमर्थम् ।

६३ - ८० - तुग्रहणम् नित्यपूर्वार्थम् ।

६४ - ८० - तुग्रहणम् क्रियते नित्यम् पूर्वः यथा स्यात् ।

६५ - ८० - विभाषा मा भूत् इति ।

६६ - ८० - न एतत् अस्ति प्रयोजनम् ।

६७ - ८० - न विभाषाग्रहणेन पूर्वम् अभिसम्बध्यते ।

६८ - ८० - किम् तर्हि ।

६९ - ८० - बहुच् अभिसम्बध्यते विभाषा बहुच् भवति इति ।

७० - ८० - यदा च भवति तदा पूर्वः भवति ।

७१ - ८० - इदम् तर्हि प्रयोजनम् ।

७२ - ८० - प्राक् उत्पत्तेः यत् लिङ्गम् वचनम् च तत् उत्पन्ने अपि प्रत्यये यथा स्यात् ।

७३ - ८० - बहुगुडः द्राक्षा ।

७४ - ८० - बहुतैलम् प्रसन्ना ।

७५ - ८० - बहुपयः यवागूः इति ।

७६ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।

७७ - ८० - स्वाऋथिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

७८ - ८० - एवम् तर्हि सिद्धे सति यत् तुग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

७९ - ८० - किम् एतस्य ज्ञापने प्रयोजनम् ।

८० - ८० - गुडकल्पा द्राक्षा , तैलकल्पा प्रसन्ना , पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।

१ - १८ - तमादिभ्यः कल्पादयः विप्रतिषेधेन ।

२ - १८ - तमादिभ्यः कल्पादयः भवन्ति विप्रतिषेधेन ।

३ - १८ - तमादीनाम् अवकाशः प्रकर्षस्य वचनम् ईषदसमाप्तेः अवचनम् ।

४ - १८ - पटुतरः ।

५ - १८ - पटुतमः ।

६ - १८ - कल्पादीनाम् ईषदसमाप्तेः वचनम् प्रकर्षस्य अवचनम् ।

७ - १८ - पटुकल्पः ।

८ - १८ - मृदुकल्पः ।

९ - १८ - उभयवचने उभयम् प्राप्नोति ।

१० - १८ - पटुकल्पतरः ।

११ - १८ - मृदुकल्पतरः ।

१२ - १८ - कल्पादयः भवन्ति विप्रतिषेधेन ।

१३ - १८ - यदि एवम् ईषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति प्रकृतेः एव च इष्यते ।

१४ - १८ - तमादिः ईषत्प्रधानात् ।

१५ - १८ - तमादिः ईषत्प्रधानात् अपि भवति ।

१६ - १८ - अस्य प्रकर्षः अस्ति ।

१७ - १८ - तस्य प्रकर्षे भविष्यति ।

१८ - १८ - कस्य च प्रकर्षः अस्ति. प्रकृतेः एव ।

१ - १० - किम् अयम् सुबन्तस्य प्राक् टेः भवति आहोस्वित् ङ्याप्प्रातिपदिकस्य ।

२ - १० - कुतः सन्देहः ।

३ - १० - उभयम् प्रकृतम् ।

४ - १० - अन्यतरत् शक्यम् विशेषयितुम् ।

५ - १० - किम् च अतः ।

६ - १० - यदि सुबन्तस्य युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति न सिध्यति ।

७ - १० - अथ प्रातिपदिकस्य त्वयका मयका त्वयकि मयकि इति अत्र अपि प्राप्नोति ।

८ - १० - अस्तु सुबन्तस्य ।

९ - १० - कथम् युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति ।

१० - १० - अनोकारसकारभकारादौ इति वक्तव्यम् ।

१ - ७ - अकच्प्रकरणे तूष्णीमः काम् ।

२ - ७ - अकच्प्रकरणे तूष्णीमः काम् वक्तव्यः ।

३ - ७ - आसितव्यम् किल तूष्णीकाम् एतत् पश्यतः चिन्तितम् ।

४ - ७ - शीले कः मलोपः च ।

५ - ७ - शीले कः मलोपः च वक्तव्यः ।

६ - ७ - तूष्णीशीलः ।

७ - ७ - तूष्णीकः ।

१ - ८ - इह भिनत्ति छिनत्ति इति शनमि कृते शप् प्राप्नोति ।

२ - ८ - बहुकृतम् बहुभुक्तम् बहुपीतम् इति बहुचि कृते कल्पादयः प्राप्नुवन्ति ।

३ - ८ - उच्चकैः नीचकैः अकचि कृते कादयः प्राप्नुवन्ति ।

४ - ८ - ननु च श्नम्बहुजकचः अपवादाः ते बाधकाः भविष्यन्ति ।

५ - ८ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः ।

६ - ८ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः वक्तव्यः ।

७ - ८ - समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति ।

८ - ८ - नानादेशत्वात् न प्राप्नोति ।

१ - ३१ - कविधेः तमादयः पूर्वविप्रतिषिद्धम् ।

२ - ३१ - कविधेः तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

३ - ३१ - कविधेः अवकाशः कुत्सादीनाम् वचनम् प्रकर्षस्य अवचनम् ।

४ - ३१ - पटुकः ।

५ - ३१ - मृदुकः ।

६ - ३१ - तमादीनाम् अवकाशः प्रकर्षस्य वचनम् कुत्सादीनाम् अवचनम् ।

७ - ३१ - पटुतरः ।

८ - ३१ - पटुतमः ।

९ - ३१ - उभयवचने उभयम् प्राप्नोति ।

१० - ३१ - पटुतरकः ।

११ - ३१ - पटुतमकः ।

१२ - ३१ - तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

१३ - ३१ - कदा चित् छिन्नकतरादयः ।

१४ - ३१ - कदा चित् छिन्नकतरादयः भवन्ति विप्रतिषेधेन ।

१५ - ३१ - छिन्नकतरम् ।

१६ - ३१ - छिन्नकतमम् । एकदेशिप्रधानः च समासः ।

१७ - ३१ - एकदेशिप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन ।

१८ - ३१ - अर्धपिप्पलिका ।

१९ - ३१ - अर्धकोशातकिका ।

२० - ३१ - उत्तरपदार्थप्रधानः च सञ्ज्ञायाम् कन्विध्यर्थम् ।

२१ - ३१ - उत्तरपदार्थप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन ।

२२ - ३१ - किम् प्रयोजनम् ।

२३ - ३१ - सञ्ज्ञायाम् कन्विध्यर्थम् ।

२४ - ३१ - सञ्ज्ञायाम् कन् यथा स्यात् ।

२५ - ३१ - नवग्रामकम् ।

२६ - ३१ - नवराष्ट्रकम् ।

२७ - ३१ - नवनगरकम् ।

२८ - ३१ - कदा चित् द्वन्द्वः ।

२९ - ३१ - कदा चित् द्वन्द्वः कविधेः भवति पूर्वविप्रतिषेधेन ।

३० - ३१ - प्लक्षकन्यग्रोदकौ ।

३१ - ३१ - प्लक्षन्यग्रोधकौ इति ।

१ - ४१ - इह कुत्सितकः अनुकम्पितकः इति स्वशब्देन उक्तत्वात् तस्य अर्थस्य प्रत्ययः न प्राप्नोति ।

२ - ४१ - न एषः दोषः ।

३ - ४१ - कुत्सितस्य अनुकम्पायाम् भविष्यति अनुकम्पितस्य कुत्सायाम् ।

४ - ४१ - अथ वा स्वार्थम् अभिधायः शब्दः निरपेक्षः द्रव्यम् आह समवेतम् ।

५ - ४१ - समवेतस्य च वचने लिङ्गम् वचनम् विभक्तिम् च ।

६ - ४१ - अभिधाय तान् विशेषान् अपेक्षमाणः च कृत्स्नमात्मानम् प्रियकुत्सनादिषु पुनः प्रवर्तते असौ विभक्त्यन्तः ।

७ - ४१ - कथम् पुनः इदम् विज्ञायते कुत्सितादीनाम् अर्थे इति आहोस्वित् कुत्सितादिसमानाधिकरणात् इति ।

८ - ४१ - कः च अत्र विशेषः ।

९ - ४१ - कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः ।

१० - ४१ - कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः ।

११ - ४१ - पटुकम् ।

१२ - ४१ - पटुका ।

१३ - ४१ - पटुकः ।

१४ - ४१ - पटुकौ ।

१५ - ४१ - पटुकाः इति ।

१६ - ४१ - एकः अयम् अर्थः कुत्सितम् नाम ।

१७ - ४१ - तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।

१८ - ४१ - अस्ति तर्हि कुत्सितादिसमानाधिकरणात् इति ।

१९ - ४१ - कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः यथा टाबादिषु ।

२० - ४१ - कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति यथा टाबादिषु ।

२१ - ४१ - कथम् च टाबादिषु ।

२२ - ४१ - उक्तम् तत्र स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः इति ।

२३ - ४१ - एवम् इह अपि कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति ।

२४ - ४१ - इदम् घृतकम् ।

२५ - ४१ - इदम् तैलकम् ।

२६ - ४१ - इदम्शब्दात् अपि प्राप्नोति ।

२७ - ४१ - सिद्धम् तु येन कुत्सितादिवचनम् तद्युक्तात् स्वार्थे प्रत्ययविधानात् ।

२८ - ४१ - सिद्धम् एतत् ।

२९ - ४१ - कथम् ।

३० - ४१ - येन कुत्सितादयः अर्थाः गम्यन्ते तद्युक्तात् स्वार्थे प्रत्ययः भवति इति वक्तव्यम् ।

३१ - ४१ - सिध्यति ।

३२ - ४१ - सूत्रम् तर्हि भिद्यते ।

३३ - ४१ - यथान्यासम् एव अस्तु ।

३४ - ४१ - ननु च उक्तम् कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः इति ।

३५ - ४१ - न एषः दोषः ।

३६ - ४१ - न अयम् प्रत्ययार्थः ।

३७ - ४१ - किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् ।

३८ - ४१ - कुत्सितादिषु यत् प्रातिपदिकम् वर्तते तस्मात् कादयः भवन्ति ।

३९ - ४१ - कस्मिन् अर्थे ।

४० - ४१ - स्वार्थे ।

४१ - ४१ - स्वाऋथिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

१ - २९ - चतुर्थ्यात् ।

२ - २९ - चतुर्थ्यात् लोपः वक्तव्यः ।

३ - २९ - बृहस्पतिदत्तकः ।

४ - २९ - बृहस्पतिकः ।

५ - २९ - प्रजापतिदत्तकः ।

६ - २९ - प्रजापतिकः ।

७ - २९ - अनजादौ च ।

८ - २९ - अनजादौ च लोपः वक्तव्यः ।

९ - २९ - देवदत्तकः ।

१० - २९ - देवकः ।

११ - २९ - यज्ञदत्तकः ।

१२ - २९ - यज्ञकः ।

१३ - २९ - लोपः पूर्वपदस्य च ।

१४ - २९ - पूर्वपदस्य च लोपः वक्तव्यः ।

१५ - २९ - देवदत्तकः ।

१६ - २९ - दत्तकः ।

१७ - २९ - यज्ञदत्तकः ।

१८ - २९ - दत्तकः ।

१९ - २९ - अप्रत्यये तथा एव इष्टः ।

२० - २९ - देवदत्तः ।

२१ - २९ - दत्तः ।

२२ - २९ - यज्ञदत्तः ।

२३ - २९ - दत्तः ।

२४ - २९ - उवर्णात् लः इलस्य च ।

२५ - २९ - उवर्णात् इलस्य च लोपः वक्तव्यः ।

२६ - २९ - भानुदत्तकः ।

२७ - २९ - भानुलः ।

२८ - २९ - वसुदत्तकः ।

२९ - २९ - वसुलः ।

१ - १६ - अथ ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति एव सिद्धम् ।

२ - १६ - ठग्ग्रहणम् उकः द्वितीयत्वे कविधानार्थम् ।

३ - १६ - ठग्ग्रहणम् क्रियते उकः द्वितीयत्वे कविधिः यथा स्यात् ।

४ - १६ - वायुदत्तकः ।

५ - १६ - वायुकः ।

६ - १६ - पितृदत्तकः ।

७ - १६ - पितृकः ।

८ - १६ - अजादिलक्षणे हि माथिकादिवत् प्रसङ्गः ।

९ - १६ - अजादिलक्षणे हि माथिकादिवत् प्रसज्येत ।

१० - १६ - तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् ।

११ - १६ - द्वितीयात् अचः लोपे सन्ध्यक्षरद्वितीयत्वे तदादेः लोपवचनम् ।

१२ - १६ - द्वितीयात् अचः लोपे कर्तव्ये सन्ध्यक्षरद्वितीयत्वे तदादेः लोपः वक्तव्यः ।

१३ - १६ - लहोडः ।

१४ - १६ - लहिकः ।

१५ - १६ - कहोडः ।

१६ - १६ - कहिकः ।

१ - २२ - वरुणादीनाम् च तृतीयात् सः च अकृतसन्धीनाम् ।

२ - २२ - वरुणादीनाम् च तृतीयात् लोपः उच्यते ।

३ - २२ - सः च अकृतसन्धीनाम् वक्तव्यः ।

४ - २२ - सुपर्याशीर्दत्तः ।

५ - २२ - सुपरिकः , सुपरियः , सुपरिलः ।

६ - २२ - इह षडङ्गुलिः षडिकः इति अजादिलोपे कृते पदसञ्ज्ञा न प्राप्नोति ।

७ - २२ - तत्र कः दोषः ।

८ - २२ - जश्त्वम् न स्यात् ।

९ - २२ - षडिके जश्त्वे उक्तम् ।

१० - २२ - किम् उक्तम् ।

११ - २२ - सिद्धम् अचः स्थानिवत्वात् इति ।

१२ - २२ - यदि एवम् वाचिकादिषु पदवृत्तप्रतिषेधः ।

१३ - २२ - वाचिकादिषु पदवृत्तस्य प्रतिषेधः वक्तव्यः ।

१४ - २२ - सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् ।

१५ - २२ - सिद्धम् एतत् ।

१६ - २२ - कथम् ।

१७ - २२ - एकाक्षरपूर्वपदानाम् उत्तरपदस्य लोपः वक्तव्यः ।

१८ - २२ - इह अपि तर्हि प्राप्नोति ।

१९ - २२ - षडङ्गुलिः ।

२० - २२ - षडिकः इति ।

२१ - २२ - षषः ठाजादिवचनात् सिद्धम् ।

२२ - २२ - षषः ठाजादिवचनात् सिद्धम् एतत् ।

१ - १० - किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यत् अल्पम् ह्रस्वम् अपि तत् भवति यत् च ह्रस्वम् अल्पम् अपि तत् भवति ।

२ - १० - न एतयोः आवश्यकः समावेशः ।

३ - १० - अल्पम् घृतम् ।

४ - १० - अल्पम् तैलम् इति उच्यते ।

५ - १० - न कः चित् आह ह्रस्वम् घृतम् ।

६ - १० - ह्रस्वम् तैलम् इति ।

७ - १० - तथा ह्रस्वः पटः ।

८ - १० - ह्रस्वः शाटकः इति उच्यते ।

९ - १० - न कः चित् आह अल्पः पटः ।

१० - १० - अल्पः शाटकः इति ।

१ - १३ - कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः ।

२ - १३ - कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः वक्तव्यः ।

३ - १३ - कुटी ।

४ - १३ - कुटीरः ।

५ - १३ - शमी ।

६ - १३ - शमीरः ।

७ - १३ - शुण्डा ।

८ - १३ - शुण्डारः इति ।

९ - १३ - किम् पुनः कारणम् न सिध्यति ।

१० - १३ - स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

११ - १३ - उक्तम् वा ।

१२ - १३ - किम् उक्तम् ।

१३ - १३ - स्वाऋथिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

१ - ७ - वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः ।

२ - ७ - वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः वक्तव्यः ।

३ - ७ - कृशः वत्सः वत्सतरः इति मा भूत् इति ।

४ - ७ - सः तर्हि प्रतिषेधः वक्तव्यः ।

५ - ७ - न वक्तव्यः ।

६ - ७ - यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।

७ - ७ - न च कार्श्यस्य सद्भावात् द्रव्ये वत्सशब्दः ।

१ - १२ - किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाध्यानर्थक्यम् ।

२ - १२ - किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् ।

३ - १२ - किम् कारणम् ।

४ - १२ - बहिर्धारणम् निर्धारणम् ।

५ - १२ - यावता द्वयोः एकस्य एव बहिर्धारणम् भवति ।

६ - १२ - अपरः आह बहूनाम् जतिपरिप्रश्ने डतमच् इति अत्र बहुग्रहणम् अनर्थकम् ।

७ - १२ - किम् कारणम् ।

८ - १२ - किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु ।

९ - १२ - द्व्येकयोः पुनः निर्ज्ञातम् ।

१० - १२ - निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न ।

११ - १२ - परिप्रश्नाभावात् किम् एव न अस्ति ।

१२ - १२ - कुतः प्रत्ययः ।

१ - ७ - प्राग्वचनम् किमर्थम् ।

२ - ७ - विभाषा यथा स्यात् ।

३ - ७ - प्राग्वचनानर्थक्यम् च विभाषाप्रकरणात् ।

४ - ७ - प्राग्वचनम् अनर्थकम् ।

५ - ७ - किम् कारणम् ।

६ - ७ - प्रकृता महाविभाषा ।

७ - ७ - तय एव सिद्धम् ।

१ - १२ - अवक्षेपणे कन् विधीयते कुत्सिते कः ।

२ - १२ - कः एतयोः अर्थयोः विशेषः ।

३ - १२ - अवक्षेपणम् करणम् कुत्सितम् कर्म ।

४ - १२ - अवक्षेपणम् वै कुत्सितम् करणम् ।

५ - १२ - तेन यत् कुत्य्स्यते तत् अपि कुत्सितम् भवति ।

६ - १२ - तत्र कुत्सितम् इति एव सिद्धम् भवति ।

७ - १२ - एवम् तर्हि यत् परस्य कुत्सार्थम् उपादीयते तत् इह उदाहरणम् ।

८ - १२ - व्याकरणकेन नाम अयम् गर्वितः ।

९ - १२ - याज्ञिक्येन नाम अयम् गर्वितः ।

१० - १२ - यत् स्वकुत्सार्थम् कुत्सार्थम् उपादीयते तत् तत्र उदाहरणम् ।

११ - १२ - देवदत्तकः ।

१२ - १२ - यज्ञदत्तकः ।

१ - ६ - किमर्थम् मनुष्ये लुप् उच्यते न लुक् एव उच्येत ।

२ - ६ - लिङ्गसिद्ध्यर्थम् लुप् मनुष्ये ।

३ - ६ - लिङ्गसिद्ध्यर्थम् मनुष्ये लुप् उच्यते ।

४ - ६ - चञ्चा इव चञ्चा ।

५ - ६ - वध्रिका इव वध्रिका ।

६ - ६ - खरकुटी इव खरकुटी ।

१ - ९ - अपण्ये इति उच्यते ।

२ - ९ - तत्र इदम् न सिध्यति ।

३ - ९ - शिवः ।

४ - ९ - स्कन्दः ।

५ - ९ - विशाखः इति ।

६ - ९ - किम् कारणम् ।

७ - ९ - मौर्यैः हिरण्याऋथिभिः अर्चाः प्रकल्पिताः ।

८ - ९ - भवेत् तासु न स्यात् ।

९ - ९ - याः तु एताः सम्प्रतिपूजार्थाः तासु भविष्यति ।

१ - ९ - तत् इति अनेन किम् प्रतिनिर्दिश्यते ।

२ - ९ - छः ।

३ - ९ - कथम् पुनः समासः नाम छविषयः स्यात् ।

४ - ९ - एवम् तर्हि इवार्थः ।

५ - ९ - यदि तर्हि समासः अपि इवार्थे प्रत्ययः अपि समासेनोक्तत्वात् प्रत्ययः न प्राप्नोति ।

६ - ९ - एवम् तर्हि द्वौ इवार्थौ ।

७ - ९ - कथम् ।

८ - ९ - काकागमनम् इव तालपतनम् इव काकतालम् ।

९ - ९ - काकतालम् इव काकतालीयम् ।

१ - १३ - अणः गोत्रात् गोत्रवचनम् ।

२ - १३ - अणः गोत्रात् गोत्रग्रहणम् कर्तव्यम् ।

३ - १३ - गोत्रात् इति वक्तव्यम् ।

४ - १३ - इह मा भूत् ।

५ - १३ - आभिजितः मुहूर्तः ।

६ - १३ - आभिजितः स्थालीपाकः इति ।

७ - १३ - गोत्रम् इति च वक्तव्यम् ।

८ - १३ - किम् प्रयोजनम् ।

९ - १३ - आभिजितकः ।

१० - १३ - गोत्राश्रयः वुञ् यथा स्यात् ।

११ - १३ - गोत्रम् इति शक्यम् अकर्तुम् ।

१२ - १३ - कथम् आभिजितकः ।

१३ - १३ - गोत्रात् अयम् स्वार्थिकः गोत्रम् एव भवति ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:19.7670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

resection

  • न. Surv. बिंदुस्थापन 
  • न. उच्छेदन 
  • न. बिंदुस्थापन 
RANDOM WORD

Did you know?

पितापुत्र अथवा भाउ भाउ एकाच नक्षत्रावर जन्मले असता त्याचे काय परिणाम होतात? उपाय काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site