संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ५|पाद २| खण्ड ५५ पाद २ खण्ड ५४ खण्ड ५५ पाद २ - खण्ड ५५ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५५ Translation - भाषांतर १ - ९ - धनहिरण्यात् कामाभिधाने ।२ - ९ - धनहिरण्यात् कामाभिधाने इति वक्तव्यम् ।३ - ९ - षष्थ्यर्थे हि अनिष्टप्रसङ्गः ।४ - ९ - षष्थ्यर्थे हि सति अनिष्टः प्राप्नोति ।५ - ९ - धने कामः अस्य इति ।६ - ९ - तत् तर्हि वक्तव्यम् ।७ - ९ - न वक्तव्यम् ।८ - ९ - कस्मात् न भवति धने कामः अस्य इति ।९ - ९ - अनभिधानात् ।१ - ८ - किम् यः शीतम् करोति सः शीतकः यः वा उष्णम् करोति स उष्णकः ।२ - ८ - किम् च अतः ।३ - ८ - तुषारे आदित्ये च प्राप्नोति ।४ - ८ - एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।५ - ८ - शीतम् इव शीतम् ।६ - ८ - उष्णम् इव उष्णम् ।७ - ८ - यः आशु कर्तव्यान् अर्थान् चिरेण करोति सः उच्यते शीतकः इति ।८ - ८ - यः पुनः आशु कर्तव्यान् अर्थान् आशु एव करोति सः उच्यते उष्णकः इति ।१ - ९ - अधिकम् इति किम् निपात्यते ।२ - ९ - अद्यारूढस्य उत्तरपदलोपः च कन् च प्रत्ययः ।३ - ९ - अध्यारूढम् अधिकम् इति ।४ - ९ - भवेत् सिद्धम् अध्यारूढः द्रोणः खार्याम् अधिकः द्रोणः खार्याम् इति ।५ - ९ - इदम् तु न सिध्यति ।६ - ९ - अध्यारूढा द्रोणेन खारी ।७ - ९ - अधिका द्रोणेन खारी इति ।८ - ९ - गत्यर्थानाम् हि क्तः कर्तरि विधीयते ।९ - ९ - गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते ।१ - ६ - किम् यः पार्श्वेन अन्विच्छति सः पार्व्श्वकः ।२ - ६ - किम् च अतः ।३ - ६ - राजपुरुषे प्राप्नोति ।४ - ६ - एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।५ - ६ - पार्श्वम् इव पार्श्वम् ।६ - ६ - यः ऋजुना उपायेन अन्वेष्टव्यान् अर्थान् अनृजुना उपायेन अन्विच्छति सः उच्यते पार्श्वकः इति ।१ - ६ - किम् यः अयःशुलेन अन्विच्छति सः आयःशूलिकः ।२ - ६ - किम् च अतः ।३ - ६ - शिवभागवते प्राप्नोति ।४ - ६ - एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।५ - ६ - अयःशुलम् इव अयःशुलम् ।६ - ६ - यः मृदुना उपायेन अन्वेष्टव्यान् अर्थान् रभसेन उपायेन अन्विच्छति सः उच्यते आयःशूलिकः इति ।१ - ९ - तावतिथम् ग्रहणम् इति लुक् वावचनानर्थक्यम् विभाषाप्रकरणात् ।२ - ९ - तावतिथम् ग्रहणम् इति लुक् वावचनम् अनर्थकम् ।३ - ९ - किम् कारणम् ।४ - ९ - विभाषाप्रकरणात् ।५ - ९ - प्रकृता महाविभाषा ।६ - ९ - तया एतत् सिद्धम् ।७ - ९ - तावतिथेन गृह्णाति इति लुक् च ।८ - ९ - तावतिथेन गृह्णाति इति उपसङ्ख्यानम् कर्तव्य लुक् च वक्तव्यः ।९ - ९ - षष्थेन गृह्णाति षट्कः ।१ - १६ - शृङ्खलम् अस्य बन्धनम् करभे इति अनिर्देशः ।२ - १६ - शृङ्खलम् अस्य बन्धनम् करभे इति अनिर्देशः ।३ - १६ - अगमकः निर्देशः अनिर्देशः ।४ - १६ - न हि तस्य शृङ्खलबन्धनम् ।५ - १६ - शृङ्खलवत्या असौ रज्ज्वा बध्यते ।६ - १६ - सिद्धम् तु तद्वन्निर्देशात् लुक् च ।७ - १६ - सिद्धम् एतत् ।८ - १६ - कथम् ।९ - १६ - तद्वन्निर्देशः कर्तव्यः लुक् च वक्तव्यः ।१० - १६ - शृङ्खलवत् बन्धनम् इति ।११ - १६ - सः तर्हि तद्वन्निर्देशः कर्तव्यः ।१२ - १६ - न कर्तव्यः ।१३ - १६ - इह यत् न अन्तरेण यस्य प्रवृत्तिः भवति तत् तस्य निमित्तत्वाय कल्पते ।१४ - १६ - न च अन्तरेण शृङ्खलम् बन्धनम् प्रवर्तते ।१५ - १६ - अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति ।१६ - १६ - शृङ्खलसहचरितम् बन्धनम् श्र्ङ्खलम् बन्धनम् इति ।१ - ३ - प्राये सञ्ज्ञायाम् वटकेभ्यः इनिः ।२ - ३ - प्राये सञ्ज्ञायाम् वटकेभ्यः इनिः वक्तव्यः ।३ - ३ - वटकिनी पौर्णमासी ।१ - ६ - किम् निपात्यते ।२ - ६ - श्रोत्रियन् छन्दः अधीते इति वाक्यार्थे पदवचनम् ।३ - ६ - छन्दः अधीते इति अस्य वाक्यस्य अर्थे श्रोत्रियन् इति एतत् पदम् निपात्यते ।४ - ६ - छन्दसः वा श्र्तोत्रभावः तत् अधीते इति घन् च ।५ - ६ - छन्दसः वा श्र्तोत्रभावः निपात्यते तत् अधीते इति एतस्मिन् अर्थे घन् च प्रत्ययः ।६ - ६ - छन्दः अधीते शृओत्रियः ।१ - ६ - इनिठनोः समानकालग्रहणम् ।२ - ६ - इनिठनोः समानकालग्रहणम् कर्तव्यम् ।३ - ६ - अद्य भुक्ते श्रः श्राद्धिकः इति मा भूत् ।४ - ६ - उक्तम् वा ।५ - ६ - किम् उक्तम् ।६ - ६ - अनभिधानात् इति ।१ - ४ - सञ्ज्ञायाम् इति किमर्थम् ।२ - ४ - त्रिभिः साक्षात् दृष्टम् भवति यः च ददाति यस्मै च दीयते यः च उपद्रष्टा ।३ - ४ - तत्र सर्वत्र प्रत्ययः प्राप्नोति ।४ - ४ - सञ्ज्ञाग्रहणसामर्थ्यात् धनिकान्तेवासिनोः न भवति ।१ - ६ - किम् निपात्यते ।२ - ६ - क्षेत्रियः श्रोत्रियवत् । क्षेत्रियः श्रोत्रियवत् निपात्यते ।३ - ६ - परक्षेत्रे चिकित्स्यः इति एतस्य वाक्यस्य अर्थे क्षेत्रियच् इति एतत् पदम् निपात्यते ।४ - ६ - परक्षेत्रात् वा तत्र चिकित्स्यः इति परलोपः घच् च ।५ - ६ - परक्षेत्रात् वा तत्र चिकित्स्यः इति एतस्मिन् अर्थे परलोपः निपात्यते घच् च ।६ - ६ - परक्षेत्रे चिकित्स्यः क्षेत्रियः ।१ - ४३ - किमर्थम् इमौ अर्थौ उभौ निर्दिश्येते अस्य अस्मिन् इति न यत् यस्य भवति तस्मिन् अपि तत् भवति यत् च यस्मिन् भवति तत् तस्य अपि भवति ।२ - ४३ - न एतयोः आवश्यकः समावेशः ।३ - ४३ - भवन्ति हि देवदत्तस्य गावः न च ताः तस्मिन् आधृताः भवन्ति ।४ - ४३ - भवन्ति च पर्वते वृक्षाः न च ते तस्य भवन्ति ।५ - ४३ - अथ अस्तिग्रहणम् किमर्थम् ।६ - ४३ - सत्तायाम् अर्थे प्रत्ययः यथा स्यात् ।७ - ४३ - न एतत् अस्ति प्रयोजनम् ।८ - ४३ - न सत्ताम् पदार्थः व्यभिचरति ।९ - ४३ - इदम् तर्हि प्रयोजनम् सम्प्रतिसत्तायाम् यथा स्यात् , भूतभविष्यत्सत्तायाम् मा भूत् गावः अस्य आसन् ।१० - ४३ - गावः अस्य भवितारः इति ।११ - ४३ - न तर्हि इदानीम् इदम् भवति गोमान् आसीत् ।१२ - ४३ - गोमान् भविता इति ।१३ - ४३ - भवति न तु एतस्मिन् वाक्ये ।१४ - ४३ - यदि एतस्मिन् वाक्ये स्यात् यथा इह अस्तेः प्रयोगः न भवति गोमान् यवमान् इति एवम् इह अपि न स्यात् गोमान् आसीत् ।१५ - ४३ - गोमान् भविता इति ।१६ - ४३ - सति अपि अस्तेः प्रयोगे यथा इह बहुवचनम् श्रूयते गावः अस्य आसन् गावः अस्य भवितारः एवम् इह अपि स्यात् ।१७ - ४३ - गोमान् आसीत् ।१८ - ४३ - गोमान् भविता इति ।१९ - ४३ - का तर्हि इयम् वाचोयुक्तिः ।२० - ४३ - गोमान् आसीत् ।२१ - ४३ - गोमान् भविता इति ।२२ - ४३ - एषा एषा वाचोयुक्तिः ।२३ - ४३ - न एषा गवाम् सत्ता कथ्यते ।२४ - ४३ - किम् तर्हि ।२५ - ४३ - गोमत्सत्ता एषा कथ्यते ।२६ - ४३ - अस्ति अत्र वर्तमानकालः अस्तिः ।२७ - ४३ - कथम् तर्हि भूतभविष्यत्सत्ता गम्यते ।२८ - ४३ - धातुसम्बन्धे प्रत्ययाः इति ।२९ - ४३ - इदम् तर्हि प्रयोजनम् ।३० - ४३ - अस्तियुक्तात् यथा स्यात् ।३१ - ४३ - अनन्तरादियुक्तात् मा भूत् इति ।३२ - ४३ - गावः अस्य अनन्तराः ।३३ - ४३ - गावः अस्य समीपे इति ।३४ - ४३ - अथ क्रियमाणे अपि अस्त्रिग्रहणे इह कस्मात् न भवति ।३५ - ४३ - गावः अस्य सन्ति अनन्तराः ।३६ - ४३ - गावः अस्य सन्ति समीपे इति ।३७ - ४३ - असामर्थ्यात् ।३८ - ४३ - कथम् असामर्थ्यम् ।३९ - ४३ - सापेक्षम् असर्मर्थम् भवति इति ।४० - ४३ - यथा एव तर्हि क्रियमाणे अस्त्रिग्रहणे असामर्थ्यात् अनन्तरादिषु न भवन्ति एवम् अक्रियमाणे अपि न भविष्यति ।४१ - ४३ - अस्ति अत्र विशेषः ।४२ - ४३ - क्रियमाणे अस्त्रिग्रहणे न अन्तरेण तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते ।४३ - ४३ - अक्रियमाणे पुनः अस्त्रिग्रहणे अन्तरेण अपि तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते ।१ - ५६ - अथ इह कस्मात् न भवति ।२ - ५६ - चित्रगुः ।३ - ५६ - शबलगुः इति ।४ - ५६ - बहुव्रीह्युक्तत्वात् मत्वर्थस्य ।५ - ५६ - अथ इह कस्मात् न भवति ।६ - ५६ - चित्राः गावः अस्य सन्ति इति ।७ - ५६ - कुतः कस्मात् न भवति ।८ - ५६ - किम् अवयवात् आहोस्वित् समुदायात् ।९ - ५६ - अवयवात् कस्मात् न भवति ।१० - ५६ - असामर्थ्यात् ।११ - ५६ - कथम् असामर्थ्यम् ।१२ - ५६ - सापेक्षम् असर्मर्थम् भवति इति ।१३ - ५६ - समुदायात् तर्हि कस्मात् न भवति ।१४ - ५६ - अप्रातिपदिकत्वात् ।१५ - ५६ - ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते ।१६ - ५६ - तत् यथा सुप् सुपा इति वर्तमाने अन्यस्य च अन्यस्य च समासः भवति ।१७ - ५६ - सत्यम् एवम् एतत् ।१८ - ५६ - आकृतिः तु प्रत्येकम् परिसमाप्यते ।१९ - ५६ - यावति एतत् परिसमाप्यते ङ्याप्प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् ।२० - ५६ - अवयवे च एतत् परिसमाप्यते न समुदाये ।२१ - ५६ - अथ इह कस्मात् न भवति ।२२ - ५६ - पञ्च गावः अस्य सन्ति पञ्चगुः ।२३ - ५६ - दशगुः इति ।२४ - ५६ - प्रत्येकम् असामर्थ्यात् समुदायात् अप्रातिपदिकत्वात् समासात् समासेन उक्तत्वात् ।२५ - ५६ - न एतत् सारम् ।२६ - ५६ - उक्ते अपि हि प्रत्ययार्थे उत्पद्यते द्विगोः तद्धितः ।२७ - ५६ - तत् यथा द्वैमातुरः पाञ्चनापितिः इति ।२८ - ५६ - न एषः द्विगुः ।२९ - ५६ - कः तर्हि ।३० - ५६ - बहुव्रीहिः ।३१ - ५६ - अपवादत्वात् द्विगुः प्राप्नोति ।३२ - ५६ - अन्तरङ्गत्वात् बहुव्रीहिः भविष्यति ।३३ - ५६ - का अन्तरङ्गता ।३४ - ५६ - अन्यपदार्थे बहुव्रीहिः वर्तते विशिष्टे अन्यपदार्थे तद्धितार्थे द्विगुः ।३५ - ५६ - तस्मिन् च अस्य तद्धिते अस्तिग्रहणम् क्रियते ।३६ - ५६ - यदि तर्हि अतिप्रसङ्गाः सन्ति बहुव्रीहौ अपि अस्तिग्रहणम् कर्तव्यम् अस्तियुक्तात् यथा स्यात् अनन्तरादियुक्तात् मा भूत् इति ।३७ - ५६ - अथ न सन्ति तद्धितविधौ अपि न अर्थः अस्तिग्रहणेन ।३८ - ५६ - सत्यम् एवम् एतत् ।३९ - ५६ - क्रियते तु इदानीम् तद्धितविधौ अस्तिग्रहणम् ।४० - ५६ - तत् वै क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् ।४१ - ५६ - अस्तिमान् इति मतुप् यथा स्यात् ।४२ - ५६ - किम् च कारणम् न स्यात् ।४३ - ५६ - अप्रातिपदिकत्वात् ।४४ - ५६ - न एषः दोषः ।४५ - ५६ - अव्ययम् एषः अस्तिशब्दः ।४६ - ५६ - न एष अस्तेः लट् ।४७ - ५६ - कथम् अव्ययत्वम् ।४८ - ५६ - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।४९ - ५६ - निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।५० - ५६ - एवम् अपि न सिध्यति ।५१ - ५६ - किम् कारणम् ।५२ - ५६ - अस्तिसामानाधिकरण्ये मतुप् विधीयते ।५३ - ५६ - न च अस्तेः अस्तिना सामानाधिकरण्यम् ।५४ - ५६ - तत् एतत् क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् ।५५ - ५६ - तस्मात् द्विगोः तद्धितस्य प्रतिषेधः वक्तव्यः यदि तत् न अस्ति सर्वत्र मत्वर्थे प्रतिषेधः इति ।५६ - ५६ - सति हि तस्मिन् तेन एव सिद्धम् ।१ - ३२ - अथ मत्वर्थीयात् मत्वर्थीयेन भवितव्यम् ।२ - ३२ - न भवितव्यम् ।३ - ३२ - किम् कारणम् ।४ - ३२ - अर्थगत्यर्थः शब्दप्रयोगः ।५ - ३२ - अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।६ - ३२ - तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ।७ - ३२ - किम् कारणम् ।८ - ३२ - उक्तार्थानाम् अप्रयोगः इति ।९ - ३२ - न तर्हि इदानीम् इदम् भवति दण्डिमती शाला ।१० - ३२ - हस्तिमती उपपत्यका इति ।११ - ३२ - भवति ।१२ - ३२ - अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः ।१३ - ३२ - षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते ।१४ - ३२ - अथ मत्वन्तात् मतुपा भवितव्यम् गोमन्तः अस्य सन्ति ।१५ - ३२ - यवमन्तः अस्य सन्ति इति ।१६ - ३२ - न भवितव्यम् ।१७ - ३२ - किम् काऋअणम् ।१८ - ३२ - यस्य गोमन्तः सन्ति गावः अपि तस्य सन्ति ।१९ - ३२ - तत्र उक्तः गोभिः अभिसम्बन्धे प्रत्ययः इति कृत्वा तद्धितः न भविष्यति ।२० - ३२ - न तर्हि इदानीम् इदम् भवति दण्डिमती शाला ।२१ - ३२ - हस्तिमती उपपत्यका इति ।२२ - ३२ - भवति ।२३ - ३२ - अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः ।२४ - ३२ - षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते ।२५ - ३२ - इह अपि सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते ।२६ - ३२ - अन्यथाजातीयकः खलु अपि गोभिः अभिसम्बन्धे प्रत्ययः अन्यथाजातीयकः तद्वता ।२७ - ३२ - येन एव खलु अपि हेतुना एतत् वाक्यम् भवति गोमन्तः अस्य सन्ति , यवमन्तः अस्य सन्ति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।२८ - ३२ - तस्मात् मत्वर्थीयात् मतुबादेः प्रतिषेधः वक्तव्यः ।२९ - ३२ - तम् च अपि ब्रुवता समान्वृत्तौ सरूपः इति वक्तव्यम् ।३० - ३२ - भवति हि दण्डिमती शाला हस्तिमती उपपत्यका इति ।३१ - ३२ - शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थीयः सरूपः प्रत्ययः न इष्टः ।३२ - ३२ - सनन्तात् न सन् इष्यते ।१ - ५० - किम् पुनः इमे मतुप्प्रभृतयः सन्मात्रे भवन्ति ।२ - ५० - एवम् भवितुम् अर्हति ।३ - ५० - मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः ।४ - ५० - मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः भवति ।५ - ५० - इह अपि प्राप्नोति ।६ - ५० - व्रीहिः अस्य ।७ - ५० - यवः अस्य इति ।८ - ५० - तस्मात् भूमादिग्रहणम् कर्तव्यम् ।९ - ५० - के पुनः भूमादयः ।१० - ५० - भूमनिन्दाप्रशंसासु नित्ययोगे अतिशायने संसर्गे अस्तिविवक्षायाम् भवन्ति मतुबादयः ।११ - ५० - भूम्नि गोमान् यवमान् ।१२ - ५० - निन्दायाम् ककुदावर्ती सङ्खादकी ।१३ - ५० - प्रशंसयाम् रूपवान् वर्णवान् ।१४ - ५० - नित्ययोगे क्षीरिणः वृक्षाः , कण्टकिनः वृक्षाः इति ।१५ - ५० - अतिशायने उदरिणी कन्या ।१६ - ५० - संसर्गे दण्डी छत्री ।१७ - ५० - तत् तर्हि भूमादिग्रहणम् कर्तव्यम् ।१८ - ५० - न कर्तव्यम् ।१९ - ५० - कस्मात् न भवति ।२० - ५० - व्रीहिः अस्य ।२१ - ५० - यवः अस्य इति ।२२ - ५० - उक्तम् वा. किम् उक्तम् ।२३ - ५० - अनभिधानात् इति ।२४ - ५० - इतिकरणः खलु अपि क्रियते ।२५ - ५० - ततः चेत् विवक्षा ।२६ - ५० - भूमादियुक्तस्य एव च विवक्षा ।२७ - ५० - गोमान् यवमान् ।२८ - ५० - भूमादियुक्तस्य एव सत्ता कथ्यते ।२९ - ५० - न हि कस्य चित् यवः न अस्ति ।३० - ५० - सङ्खादकी ककुदावर्तिनी ।३१ - ५० - निन्दाउक्तस्य एव सत्ता कथ्यते ।३२ - ५० - न हि कः चित् न सङ्खादकी ।३३ - ५० - रूपवान् वर्णवान् ।३४ - ५० - प्रशंसायुक्तस्य एव सत्ता कथ्यते ।३५ - ५० - न हि कस्य चित् रूपम् न अस्ति ।३६ - ५० - क्षीरिणः वृक्षाः ।३७ - ५० - कण्टकिनः वृक्षाः इति ।३८ - ५० - नित्ययुक्तस्य एव सत्ता कथ्यते ।३९ - ५० - न हि कस्य चित् क्षिरम् न अस्ति ।४० - ५० - उदरिणी कन्या इति ।४१ - ५० - अतिशायनयुक्तस्य एव सत्ता कथ्यते ।४२ - ५० - न हि कस्य चित् उदरम् न अस्ति ।४३ - ५० - दण्डी छत्री ।४४ - ५० - संसर्गयुक्तस्य एव सत्ता कथ्यते ।४५ - ५० - न हि कस्य चित् दण्डः न अस्ति ।४६ - ५० - यावतीभिः खलु अपि गोभिः वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते ।४७ - ५० - कस्य चित् तिसृभिः कल्पन्ते कस्य चित् शतेन अपि न प्रकल्पन्ते ।४८ - ५० - सन्मात्रे च ऋषिदर्शनात् ।४९ - ५० - सन्मात्रे च पुनः ऋषिः दर्शयति मतुपम् ।५० - ५० - यवमतीभिः अद्भिः यूपम् प्रोक्षति इति ।१ - १६ - गुणवचनेभ्यः मतुपः लुक् ।२ - १६ - गुणवचनेभ्यः मतुपः लुक् वक्तव्यः ।३ - १६ - शुक्लः कृष्णः इति ।४ - १६ - अव्यतिरेकात् सिद्धम् ।५ - १६ - न गुणः गुणिनम् व्यभिचरति इति ।६ - १६ - अव्यतिरेकात् सिद्धम् इति चेत् दृष्टः व्यतिरेकः ।७ - १६ - दृश्यते व्यतिरेकः ।८ - १६ - तत् यथ पटस्य शुक्लः इति ।९ - १६ - तथा च लिङ्गवचनसिद्धिः ।१० - १६ - एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति ।११ - १६ - शुक्लम् वस्त्रम् ।१२ - १६ - शुक्ला शाटी ।१३ - १६ - शुक्लः कम्बलः ।१४ - १६ - शुक्लौ कम्बलौ ।१५ - १६ - शुक्लाः कम्बलाः इति ।१६ - १६ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।१ - १० - किमर्थम् इदम् उच्यते न तत् अस्य अस्ति अस्मिन् इति एव मतुप् सिद्धः ।२ - १० - रसादिभ्यः पुनर्वचनम् अन्यनिर्वृत्त्यर्थम् ।३ - १० - रसादिभ्यः पुनर्वचनम् क्रियते अन्येषाम् मत्वर्थीयानाम् प्रतिषेधार्थम् ।४ - १० - मतुप् एव यथा स्यात् ।५ - १० - ये अन्ये मत्वर्थीयाः प्राप्नुवन्ति ते मा भूवन् इति ।६ - १० - न एतत् अस्ति प्रयोजनम् ।७ - १० - दृश्यन्ते हि अन्ये रसादिभ्यः मत्वर्थीयाः ।८ - १० - रसिकः नटः ।९ - १० - उर्वशी वै रूपिणी अप्सरसाम् ।१० - १० - स्पर्शिकः वायुः इति ।१ - ६ - इह कस्मात् न भवति चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति ।२ - ६ - प्राण्यङ्गात् इति वक्तव्यम् ।३ - ६ - तत् तर्हि वक्तव्यम् ।४ - ६ - न वक्तव्यम् ।५ - ६ - कस्मात् न भवति चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति ।६ - ६ - अनभिधानात् ।१ - ३३ - सिध्मादिषु यानि अकारान्तानि तेभ्यः लचा मुक्ते इनिठनौ प्रप्नुतः इनिठनौ च न इष्येते ।२ - ३३ - लच् अन्यतरस्याम् इति समुच्चयः ।३ - ३३ - लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा ।४ - ३३ - लच् च मतुप् च ।५ - ३३ - कथम् पुनः एतत् ज्ञायते लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा इति ।६ - ३३ - पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य ।७ - ३३ - यत् अयम् पिच्छादिभ्यः तुन्दादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।८ - ३३ - यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् ।९ - ३३ - तुन्दादीनि अपि पिच्छादिषु एव पठेत् ।१० - ३३ - न एतत् अस्ति ज्ञापकम् ।११ - ३३ - अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् ।१२ - ३३ - किम् ।१३ - ३३ - तुन्दादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् ।१४ - ३३ - यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः ।१५ - ३३ - ज्ञापकार्थः एव ।१६ - ३३ - अपरः आह पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य ।१७ - ३३ - यत् अयम् तुन्दादिभ्यः पिच्छादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।१८ - ३३ - यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् ।१९ - ३३ - पिच्छादीनि अपि तुन्दादिषु एव पठेत् ।२० - ३३ - न एतत् अस्ति ज्ञापकम् ।२१ - ३३ - अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् ।२२ - ३३ - किम् ।२३ - ३३ - पिच्छादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् ।२४ - ३३ - यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः ।२५ - ३३ - ज्ञापकार्थः एव ।२६ - ३३ - वस्य च पुनर्वचनम् सर्वविभाषार्थम् ।२७ - ३३ - वस्य खलु अपि पुनर्वचनम् क्रियते सर्वविभाषार्थम् ।२८ - ३३ - केशात् वः अन्यतरस्याम् इति ।२९ - ३३ - एतत् एव ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।३० - ३३ - द्युद्रुभ्याम् नित्यार्थम् एके अन्यतरस्याङ्ग्रहणम् इच्छन्ति ।३१ - ३३ - कथम् ।३२ - ३३ - विभाषामध्ये अयम् योगः क्रियते ।३३ - ३३ - विभाषामध्ये ये विधयः नित्याः ते भवन्ति इति ।१ - ९ - नप्रकरणे दद्र्वाः ह्रस्वत्वम् च ।२ - ९ - नप्रकरणे दद्र्वाः उपसङ्ख्यानम् कर्तव्यम् ह्रस्वत्वम् च नप्रकरणे दद्र्वाः ह्रस्वत्वम् च वक्तव्यम् ।३ - ९ - दद्रुणः ।४ - ९ - अत्यल्पम् इदम् उच्यते ।५ - ९ - शाकीपलालीदद्रूणाम् ह्रस्वत्वम् च इति वक्तव्यम् ।६ - ९ - शाकिनम् , पलालिनम् , दद्रुणम् ।७ - ९ - विष्वक् इति उत्तरपदलोपः च अकृतसन्धेः ।८ - ९ - विष्वक् इति उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च अकृतसन्धेः वक्तव्यः ।९ - ९ - विष्वक् गतानि अस्य विषुणः ।१ - ३ - वृत्तेः च ।२ - ३ - वृत्तेः च इति वक्तव्यम् ।३ - ३ - वार्त्तम् ।१ - ५ - किमर्थम् तपःशब्दात् विन् विधीयते न असन्तात् इति एव सिद्धम् ।२ - ५ - तपसः विन्वचनम् अण्विधानात् ।३ - ५ - तपसः विन्वचनम् क्रियते ।४ - ५ - तपःशब्दात् अन् विधीयते ।५ - ५ - सः विशेषविहितः सामान्य्विहितम् विनम् बाधेत ।१ - ७ - अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् ।२ - ७ - अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - ७ - ज्यौत्स्नः ।४ - ७ - तामिस्रः ।५ - ७ - कौण्डलः ।६ - ७ - कौतपः ।७ - ७ - वैपादिकः ।१ - ६ - अयम् मधुशब्दः अस्ति एव द्रव्यपदार्थकः अस्ति रसवाची ।२ - ६ - आतः च रसवाची अपि ।३ - ६ - मधुनि एव हि मधु इदम् मधुरम् इति प्रसज्यते ।४ - ६ - तत् यः रसवाची तस्य इदम् ग्रहणम् ।५ - ६ - यदि हि द्रव्यपदार्थकस्य ग्रहणम् स्यात् इह अपि प्रसज्येत ।६ - ६ - मधु अस्मिन् घटे अस्ति ।१ - ६ - रप्रकरणे खमुख्कुञ्जेभ्यः उपसङ्ख्यानम् ।२ - ६ - खरः ।३ - ६ - मुखरः ।४ - ६ - कुञ्जरः ।५ - ६ - नगात् च इति वक्तव्यम् ।६ - ६ - नगरम् ।१ - १८ - वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् ।२ - १८ - वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् वक्तव्यम् ।३ - १८ - मणिवः ।४ - १८ - हिरण्यवः ।५ - १८ - छन्दसि ईवनिपौ च ।६ - १८ - छन्दसि ईवनिपौ च वक्तव्यौ वः च मतुप् च ।७ - १८ - रथीः अभूत् मुद्गलनी गविष्टौ ।८ - १८ - सुमङ्गलीः इयम् वधुः ।९ - १८ - ऋतवानम् ।१० - १८ - मघवानम् ईमहे ।११ - १८ - उत् वा च उद्वती च ।१२ - १८ - मेधारथाभ्याम् इरनिरचौ ।१३ - १८ - मेधारथाभ्याम् इरनिरचौ वक्तव्यौ ।१४ - १८ - मेधिरः ।१५ - १८ - रथिरः ।१६ - १८ - अपरः आह वाप्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम् ।१७ - १८ - बिम्बावम् ।१८ - १८ - कुररावम् इष्टकावम् ।१ - ५ - वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते ।२ - ५ - वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते इति वक्तव्यम् ।३ - ५ - भ्रातृवलः ।४ - ५ - पुत्रवलः ।५ - ५ - उत्सङ्गवलः ।१ - १९ - इनिठनोः एकाक्षरात् प्रतिषेधः ।२ - १९ - इनिठनोः एकाक्षरात् प्रतिषेधः वक्तव्यः स्ववान् , खवान् ।३ - १९ - अत्यल्पम् इदम् उच्यते ।४ - १९ - एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ ।५ - १९ - एकाक्षरात् स्ववान् , खवान् ।६ - १९ - कृतः कारकवान् , हारकवान् ।७ - १९ - जातेः वृक्षवान् , प्लक्षवान् , व्याघ्रवान् , सिंहवान् ।८ - १९ - सप्तम्याम् च न तौ ।९ - १९ - दण्डाः अस्याम् शालायाम् सन्ति इति ।१० - १९ - यदि कृतः न इति उच्यते कार्यी कार्यिकः इति न सिध्यति ।११ - १९ - तथा च यदि जातेः न इति उच्यते तुण्डली तुण्डलिकः इति न सिध्यति ।१२ - १९ - एवम् तर्हि न अयम् समुच्चयः कृतः च जातेः च इति ।१३ - १९ - किम् तर्हि ।१४ - १९ - जातिविशेषणम् कृद्ग्रहणम् कृत् या जातिः इति ।१५ - १९ - कथम् कारकवान् , हारकवान् ।१६ - १९ - अनभिधानात् न भविष्यति ।१७ - १९ - यदि एवम् न अर्थः अनेन ।१८ - १९ - कथम् स्ववान् , वृक्षवान् , सिंहवान् , व्याघ्रवान् दण्डाः अस्याम् शालायाम् सन्ति इति ।१९ - १९ - अनभिधानात् न भविष्यति ।१ - १० - शिखादिभ्यः इनिः वक्तव्यः इकन् यवखदादिषु ।२ - १० - किम् प्रयोजनम् ।३ - १० - नियमार्थम् ।४ - १० - इनिः एव शिखादिभ्यः इकन् एव यव्खदादिभ्यः ।५ - १० - शिखायवखदादिभ्यः नियमस्य अवचनम् निवर्तकत्वात् ।६ - १० - शिखायवखदादिभ्यः नियमस्य अवचनम् ।७ - १० - किम् कारणम् ।८ - १० - निवर्तकत्वात् ।९ - १० - किम् निवर्तकम् ।१० - १० - अनभिधानम् ।१ - १५ - नित्यग्रहणम् किमर्थम् ।२ - १५ - विभाषा मा भूत् ।३ - १५ - न एतत् अस्ति प्रयोजनम् ।४ - १५ - पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् ।५ - १५ - एवम् तर्हि सिद्धे सति यत् नित्यग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् एतस्मात् योगात् विभाषा इति अनुवर्तते ।६ - १५ - अथ अतः इति अनुवर्तते उताहो न ।७ - १५ - किम् च अतः ।८ - १५ - यदि अनुवर्तते एकगविकः न सिध्यति ।९ - १५ - समासान्ते कृते भविष्यति ।१० - १५ - एवम् अपि गौशकटिकः न सिध्यति ।११ - १५ - अथ निवृत्तम् इह अपि प्राप्नोति ।१२ - १५ - गोविंशतिः अस्य अस्ति इति ।१३ - १५ - निवृत्तम् ।१४ - १५ - कस्मात् न भवति गोविंशतिः अस्य अस्ति इति ।१५ - १५ - अनभिधानात् न भविष्यति ।१ - ३ - यप्प्रकरणे अन्येभ्यः अपि दृश्यते ।२ - ३ - यप्प्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम्. हिम्याः पर्वताः ।३ - ३ - गुण्याः ब्राह्मणाः ।१ - ४८ - छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च ।२ - ४८ - छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च इति वक्तव्यम् ।३ - ४८ - अष्ट्रावी ।४ - ४८ - मेखलावी ।५ - ४८ - द्वयावी ।६ - ४८ - उभयावी ।७ - ४८ - रुजावी ।८ - ४८ - हृदयावी ।९ - ४८ - मर्मणः च इति वक्तव्यम् ।१० - ४८ - ममावी ।११ - ४८ - सर्वत्र आमयस्य ।१२ - ४८ - सर्वत्र आमयस्य उपसङ्ख्यानम् कर्तव्यम् ।१३ - ४८ - आमयावी ।१४ - ४८ - शृङ्गवृन्दाभ्याम् आरकन् ।१५ - ४८ - शृङ्गवृन्दाभ्याम् आरकन् वक्तव्यः ।१६ - ४८ - शृङ्गारकः ।१७ - ४८ - वृदारकः ।१८ - ४८ - फलबर्हाभ्याम् इनच् ।१९ - ४८ - फलबर्हाभ्याम् इनच् वक्तव्यः ।२० - ४८ - फलिनः ।२१ - ४८ - बर्हिणः ।२२ - ४८ - हृदयात् चालुः अन्यतरस्याम् ।२३ - ४८ - हृदयात् चालुः वक्तव्यः अन्यतरस्याम् ।२४ - ४८ - हृदयालुः ।२५ - ४८ - हृदयी ।२६ - ४८ - हृदयिकः ।२७ - ४८ - हृदयवान् ।२८ - ४८ - शीतोष्णतृप्रेभ्यः तत् न सहते ।२९ - ४८ - शीतोष्णतृप्रेभ्यः तत् न सहते इति चालुः वक्तव्यः ।३० - ४८ - शीतालुः ।३१ - ४८ - उष्णालुः ।३२ - ४८ - तृप्रालुः ।३३ - ४८ - हिमात् चेलुः ।३४ - ४८ - हिमात् चेलुः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे ।३५ - ४८ - हिमेलुः ।३६ - ४८ - बलात् च ऊलः ।३७ - ४८ - बलात् च ऊलः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे ।३८ - ४८ - बलूलः ।३९ - ४८ - वातात् समूहे च ।४० - ४८ - वातात् समूहे च तत् न सहते इति एतस्मिन् अर्थे ऊलः वक्तव्यः ।४१ - ४८ - वातूलः ।४२ - ४८ - पर्वमरुद्भ्याम् तप् ।४३ - ४८ - पर्वमरुद्भ्याम् तप् वक्तव्यः ।४४ - ४८ - पर्वतः ।४५ - ४८ - मरुत्तः ।४६ - ४८ - ददातिवृत्तम् वा ।४७ - ४८ - ददातिवृत्तम् वा पुनः एतत् भविष्यति ।४८ - ४८ - मरुद्भिः दत्तः मरुत्तः ।१ - ५ - कुत्सिते इति वक्तव्यम् ।२ - ५ - यः हि सम्यक् बहु भाषते वाग्मी इति एव सः भवति ।३ - ५ - तत् तर्हि वक्तव्यम् ।४ - ५ - न वक्तव्यम् ।५ - ५ - नानायोगकरणसामर्थ्यात् न भविष्यति ।१ - ६ - इह कस्मात् न भवति ।२ - ६ - स्वम् अस्य अस्ति इति ।३ - ६ - न एषः दोषः ।४ - ६ - न अयम् प्रत्ययार्थः ।५ - ६ - किम् तर्हि प्रकृतिविशेषणम् एतत् ।६ - ६ - स्वामिन् ऐश्वर्ये निपात्यते इति ।१ - २ - पिशाचात् च इति वक्तव्यम् ।२ - २ - पिशाचकी वैश्रवणः ।१ - ३२ - इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् ।२ - ३२ - इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।३ - ३२ - बाहुबली ।४ - ३२ - ऊरुबली ।५ - ३२ - सर्वादेः च ।६ - ३२ - सर्वादेः च इनिः वक्तव्यः ।७ - ३२ - सर्वधनी ।८ - ३२ - सर्वबीजी ।९ - ३२ - सर्वकेशी ।१० - ३२ - अर्थात् च असन्निहिते ।११ - ३२ - अर्थात् च असन्निहिते इनिः वक्तव्यः ।१२ - ३२ - अर्थी ।१३ - ३२ - असन्निहिते इति किमर्थम् ।१४ - ३२ - अर्थवान् ।१५ - ३२ - तदन्तात् च ।१६ - ३२ - तदन्तात् च इति वक्तव्यम् ।१७ - ३२ - धान्यार्थी ।१८ - ३२ - हिरण्यार्थी ।१९ - ३२ - किमर्थम् तदन्तात् इति उच्यते न तदन्तविधिना सिद्धम् ।२० - ३२ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।२१ - ३२ - एवर्म् तर्हि इनन्तेन सह समासः भविष्यति ।२२ - ३२ - धान्येन अर्थी धान्यार्थी ।२३ - ३२ - सः हि समासः न प्राप्नोति ।२४ - ३२ - यदि पुनः अयम् अर्थयतेः णिनिः स्यात् ।२५ - ३२ - एवम् अपि क्रियाम् एव कुर्वाणे स्यात् ।२६ - ३२ - तूष्णीम् अपि आसीनः यः तत्समर्थानि आचरति सः अभिप्रायेण गम्यते अर्थ्यम् अनेन इति ।२७ - ३२ - एवम् तर्हि अयम् अर्थशब्दः अस्ति एव द्रव्यपदार्थकः ।२८ - ३२ - तत् यथा अर्थवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते ।२९ - ३२ - अस्ति क्रियापदार्थकः भावसाधनः ।३० - ३२ - अर्थनम् अर्थः इति ।३१ - ३२ - तत् यः क्रियापदार्थकः तस्य इदम् ग्रहणम् ।३२ - ३२ - एवम् च कृत्वा अर्थिकप्रत्यर्थिकौ अपि सिद्धौ भवतः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP