पाद २ - खण्ड ५४

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ४३ - तिलादिभ्यः खञ् च ।

२ - ४३ - तिलादिभ्यः खञ् च इति वक्तव्यम् ।

३ - ४३ - तिल्यम् ।

४ - ४३ - तैलीनम् ।

५ - ४३ - किमर्थम् इदम् उच्यते न यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् ।

६ - ४३ - न सिध्यति ।

७ - ४३ - किम् कारणम् ।

८ - ४३ - उमाभङ्गयोः अधान्यत्वात् ।

९ - ४३ - धान्यानाम् भवने क्षेत्रे खञ् इति उच्यते ।

१० - ४३ - न च उमाभङ्गे धान्ये ।

११ - ४३ - चमेषु यत् पठ्यते तत् धान्यम् ।

१२ - ४३ - न च एते तत्र पठ्येते ।

१३ - ४३ - तत् तर्हि खञ्ग्रहणम् कर्तव्यम् ।

१४ - ४३ - न कर्तव्यम् ।

१५ - ४३ - प्रकृतम् अनुवर्तते ।

१६ - ४३ - क्व प्रकृतम् ।

१७ - ४३ - धान्यानाम् भवने क्षेत्रे खञ् इति ।

१८ - ४३ - यदि तत् अनुवर्तते व्रीहिशालयोः ढक् यवयवकषष्टिकात् यत् इति खञ् च इति खञ् अपि प्राप्नोति ।

१९ - ४३ - सम्बन्धम् अनुवर्तिष्यते ।

२० - ४३ - धान्यानाम् भवने क्षेत्रे खञ् ।

२१ - ४३ - व्रीहिशालयोः ढक् भवति ।

२२ - ४३ - धान्यानाम् भवने क्षेत्रे खञ् ।

२३ - ४३ - यवयवकषष्टिकात् यत् भवति ।

२४ - ४३ - धान्यानाम् भवने क्षेत्रे खञ् भवति ।

२५ - ४३ - विभाषा तिलमाषोमाभङ्गणुभ्यः ।

२६ - ४३ - भवनेक्षेत्रेग्रहणम् अनुवर्तते ।

२७ - ४३ - धान्यानाम् इति निवृत्तम् ।

२८ - ४३ - अथ वा मण्डूकप्लुतयः अधिकाराः ।

२९ - ४३ - यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

३० - ४३ - अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः ।

३१ - ४३ - अन्यस्य प्रत्ययस्य वचनात् चकारस्य च अनुकर्षणार्थस्य अकरणात् प्रकृतस्य खञः ढग्यतौ बाधकौ भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।

३२ - ४३ - अथ वा एतत् ज्ञापयति अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति ।

३३ - ४३ - किम् तर्हि ।

३४ - ४३ - यत्नात् भवन्ति ।

३५ - ४३ - अथ वा यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् ।

३६ - ४३ - ननु च उक्तम् ।

३७ - ४३ - न सिध्यति ।

३८ - ४३ - किम् कारणम् ।

३९ - ४३ - उमाभङ्गयोः अधान्यत्वात् इति ।

४० - ४३ - न एषः दोषः ।

४१ - ४३ - धिनोतेः धान्यम् ।

४२ - ४३ - एते च अपि धिनुतः ।

४३ - ४३ - अथ वा शणसप्तदशानि धान्यानि ।

१ - ४ - सम्मुख इति किम् निपात्यते ।

२ - ४ - सम्मुख इति समस्य अन्तलोपः ।

३ - ४ - सम्मुख इति समस्य अन्तलोपः निपात्यते ।

४ - ४ - सममुखस्य दर्शनः सम्मुखीनः ।

१ - ६ - अयानयम् नेयः इति उच्यते ।

२ - ६ - तत्र न ज्ञायते कः अयः कः अनयः इति ।

३ - ६ - अयः प्रदक्षिणम् ।

४ - ६ - अनयः प्रसव्यम् ।

५ - ६ - प्रदक्षिणप्रसव्यगमिनाम् शाराणाम् यस्मिन् परैः पदानाम् असमावेशः सः अयानयः ।

६ - ६ - अयानयम् नेयः अयानयीनः शारः ।

१ - १२ - परोवर इति किम् निपात्यते ।

२ - १२ - परोवर इति परसोत्ववचनम् ।

३ - १२ - परोवर इति परस्य ओत्वम् निपात्यते ।

४ - १२ - यदि एवम् परस्यौत्ववचनम् इति प्राप्नोति ।

५ - १२ - शकन्धुन्यायेन निर्देशः ।

६ - १२ - अथ वा न एवम् विज्ञायते परस्य ओत्वम् निपात्यते इति ।

७ - १२ - कथम् तर्हि ।

८ - १२ - परस्य शब्दरूपस्य आदेः उत्वम् निपात्यते इति ।

९ - १२ - परान् च अवरान् च अनुभवति परोवरीणः ।

१० - १२ - अथ परम्पर इति किम् निपात्यते ।

११ - १२ - परपरतराणाम् परम्परभावः । परपरतराणाम् परम्परभावः निपात्यते ।

१२ - १२ - परान् च परतरान् च अनुभवति परम्परीणः ।

१ - १४ - इह समांसमीना गौः सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति ।

२ - १४ - समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् ।

३ - १४ - समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् भविष्यति ।

४ - १४ - यत् अयम् यलोपम् शास्ति तत् ज्ञापयति आचार्यः न अत्र लुक् भवति इति ।

५ - १४ - समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुग्वचनम् ।

६ - १४ - समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुक् वक्तव्यः ।

७ - १४ - सिद्धम् तु पूर्वपदस्य यलोपवचनात् ।

८ - १४ - सिद्धम् एतत् ।

९ - १४ - कथम् ।

१० - १४ - पूर्वपदस्य यलोपः वक्तव्यः ।

११ - १४ - अनुत्पत्तौ उत्तरपदस्य च वावचनम् ।

१२ - १४ - अनुत्पत्तौ पूर्वपदस्य उत्तरपदस्य च यलोपः वा वक्तव्यः ।

१३ - १४ - समाम् समाम् विजायते ।

१४ - १४ - समायाम् समायाम् विजायते इति ।

१ - ४ - आगवीनः इति किम् निपात्यते ।

२ - ४ - गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः ।

३ - ४ - गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः निपात्यते ।

४ - ४ - अ तस्य गोः प्रतिदानात् कर्मकारी आगवीनः कर्मकरः ।

१ - ५ - किम् यः शालायाम् अधृष्टः सः शालीनः कूपे वा यत् अकार्यम् तत् कौपीनम् ।

२ - ५ - न इति आह ।

३ - ५ - उत्तरपदलोपः अत्र द्रष्टव्यः ।

४ - ५ - शालाप्रवेशनम् अर्हति अधृष्टः सः शालीनः ।

५ - ५ - कूपावतरणम् अर्हति अकार्यम् तत् कौपीनम् ।

१ - ५ - व्रातेन जीवति इति उच्यते ।

२ - ५ - किम् व्रातम् नाम ।

३ - ५ - नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः ।

४ - ५ - तेषाम् कर्म व्रातम् ।

५ - ५ - व्रातकर्मणा जीवति इति व्रातीनः ।

१ - ७ - हैयङ्गवीनम् इति किम् निपात्यते ।

२ - ७ - ह्योगोदोहस्य हियङ्ग्वादेशः सञ्ज्ञायाम् तस्य विकारे ।

३ - ७ - ह्योगोदोहस्य हियङ्ग्वादेशः निपात्यते सञ्ज्ञायाम् विषये तस्य विकारे इति एतस्मिन् अर्थे ।

४ - ७ - ह्योगोदोहस्य विकारः हैयङ्गवीनम् घृतम् ।

५ - ७ - सञ्ज्ञायाम् इति किमर्थम् ।

६ - ७ - ह्योगोदोहस्य विकारः उदश्वित् ।

७ - ७ - अत्र मा भूत् इति ।

१ - ९ - इह नाना इति सहार्थः गम्येत ।

२ - ९ - द्वौ हि प्रतिषेधौ प्रकृतम् अर्थम् गमयतः ।

३ - ९ - न न सः सह एव इति ।

४ - ९ - न एषः दोषः ।

५ - ९ - न अयम् प्रत्ययार्थः ।

६ - ९ - किम् तर्हि प्रकृतिविशेषणम् एतत् ।

७ - ९ - वि नञ् इति एताभ्याम् असहवाचिभ्याम् नानाञौ भवतः ।

८ - ९ - कस्मिन् अर्थे ।

९ - ९ - स्वाऋथे ।

१ - २३ - कस्मिन् अर्थे शालजादयः भवन्ति ।

२ - २३ - न सह इति वर्तते ।

३ - २३ - भवेत् सिद्धम् विशाले शृङ्गे विशङ्कटे शृङ्गे इति ।

४ - २३ - इह खलु सङ्कटम् इति सङ्गतार्थः गम्यते ।

५ - २३ - प्रकटम् इति प्रगरार्थः गम्यते ।

६ - २३ - उत्कटम् इति उद्गतार्थः गम्यते ।

७ - २३ - एवम् तर्हि साधने शालजादयः भवन्ति ।

८ - २३ - किम् वक्तव्यम् एतत् ।

९ - २३ - न हि ।

१० - २३ - कथम् अनुच्यमानम् गंस्यते ।

११ - २३ - उपसर्गेभ्यः इमे विधीयन्ते ।

१२ - २३ - उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाचै शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः ।

१३ - २३ - यत्र हि न प्रयुज्यते ससाधनम् तत्र क्रियाम् आहुः ।

१४ - २३ - ते एते उपसर्गेभ्यः विधीयमानाः ससाधनायाम् क्रियायाम् भविष्यन्ति ।

१५ - २३ - एवम् अपि भवेत् सिद्धम् विशाले शृङ्गे इति ।

१६ - २३ - इदम् तु न सिध्यति ।

१७ - २३ - विशालः ।

१८ - २३ - विशङ्कटः इति ।

१९ - २३ - एतत् अपि सिद्धम् ।

२० - २३ - कथम् ।

२१ - २३ - अकारः मत्वर्थीयः ।

२२ - २३ - विशाले अस्य स्तः विशालः ।

२३ - २३ - विशङ्कटे अस्य स्तः विशङ्कटः इति ।

१ - ४४ - कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि उपसङ्ख्यानम् ।

२ - ४४ - कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि अभिधेये उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४४ - अलाबूकटः ।

४ - ४४ - तिलकटः ।

५ - ४४ - उमाकटः ।

६ - ४४ - भङ्गायाः च ।

७ - ४४ - भङ्गायाः च इति वक्तव्यम् ।

८ - ४४ - भङ्गाकटः ।

९ - ४४ - गोष्ठादयः स्थानादिषु पशुनामादिभ्यः ।

१० - ४४ - गोष्ठादयः प्रत्ययाः स्थानादिषु अर्थेषु पशुनामादिभ्यः वक्तव्याः ।

११ - ४४ - गोगोष्ठम् ।

१२ - ४४ - अविगोष्ठम् ।

१३ - ४४ - कटच् च वक्तव्यः ।

१४ - ४४ - अविकटः उष्ट्रकटः ।

१५ - ४४ - पटच् च वक्तव्यः ।

१६ - ४४ - अविपटः उष्ट्रपटः ।

१७ - ४४ - गोयुगशब्दः च प्रत्ययः वक्तव्यः ।

१८ - ४४ - उष्ट्रगोयुगम् ।

१९ - ४४ - खरगोयुगम् ।

२० - ४४ - तैलशब्दः च प्रत्ययः वक्तव्यः ।

२१ - ४४ - इङ्गुदतैलम् ।

२२ - ४४ - सर्षपतैलम् ।

२३ - ४४ - शाकटशब्दः च प्रत्ययः वक्तव्यः ।

२४ - ४४ - इक्षुशाकटम् ।

२५ - ४४ - मूलशाकटम् ।

२६ - ४४ - शाकिनशब्दः च प्रत्ययः वक्तव्यः ।

२७ - ४४ - इक्षुशाकिनम् मूलशाकिनम् ।

२८ - ४४ - उपमानात् वा सिद्धम् ।

२९ - ४४ - उपमानात् वा सिद्धम् एतत् ।

३० - ४४ - गवाम् स्थानम् गोष्ठम् ।

३१ - ४४ - यथा गवम् तद्वत् उष्ट्राणाम् ।

३२ - ४४ - कटच् वक्तव्यः इति ।

३३ - ४४ - यथा नानाद्रव्याणाम् सङ्घातः कटः एवम् अवयः संहताः अविकटः ।

३४ - ४४ - पटत् च वक्तयः इति ।

३५ - ४४ - यथा पटः प्रस्तीर्णः एवम् अवयः प्रस्तीर्णाः अविपटः ।

३६ - ४४ - गोयुगशब्दः च प्रत्ययः वक्तव्यः इति ।

३७ - ४४ - गोः युगम् गोयुगम् ।

३८ - ४४ - यथा गोः तद्वत् उष्ट्रस्य ।

३९ - ४४ - उष्ट्रगोयुगम् ।

४० - ४४ - तैलशब्दः च प्रत्ययः वक्तव्यः इति ।

४१ - ४४ - प्रकृत्यन्तरम् तैलशब्दः विकारे वर्तते ।

४२ - ४४ - एवम् च कृत्वा तिलतैलम् इति अपि सिद्धम् भवति ।

४३ - ४४ - शाकटशब्दः च प्रत्ययः वक्तव्यः एव ।

४४ - ४४ - शाकिनशब्दः च प्रत्ययः वक्तव्यः एव ।

१ - १६ - इनच्पिटच्काः प्रत्ययाः वक्तव्याः चिकचिचिक् इति एते च प्रकृत्यादेशाः वक्तव्याः ।

२ - १६ - चिकिनः ।

३ - १६ - चिपिटः ।

४ - १६ - चिक्कः ।

५ - १६ - क्लिन्नस्य चिल्पिल् लः च अस्य चक्षुषी ।

६ - १६ - क्लिन्नस्य चिल् पिल् इति एतौ प्रकृत्यादेशौ वक्तव्यौ लः च प्रत्ययः अस्य चक्षुषी इति एतस्मिन् अर्थे ।

७ - १६ - क्लिन्ने अस्य चक्षुषी चिल्लः ।

८ - १६ - पिल्लः ।

९ - १६ - चुल् च वक्तव्यः ।

१० - १६ - चुल्लः ।

११ - १६ - यदि अस्य इति उच्यते चिल्ले चक्षुषी पिल्ले चक्षुषी इति न सिध्यति ।

१२ - १६ - तस्मान् न अर्थः अस्य ग्रहणे ।

१३ - १६ - कथम् चिल्लः पिल्लः इति ।

१४ - १६ - अकारः मत्वर्थीयः ।

१५ - १६ - चिल्ले अस्य स्तः चिल्लः ।

१६ - १६ - पिल्ले अस्य स्तः पिल्लः इति ।

१ - ५४ - प्रमाणे इति किमयम् प्रत्ययार्थः ।

२ - ५४ - प्रमाणम् प्रत्ययार्थः न । प्रमाणे इति न अयम् प्रत्ययार्थः ।

३ - ५४ - क्व तर्हि प्रत्ययाः भवन्ति ।

४ - ५४ - तद्वति ।

५ - ५४ - कुतः एतत् ।

६ - ५४ - अस्य इति वर्तनात् ।

७ - ५४ - अस्य इति वर्तते ।

८ - ५४ - क्व प्रकृतम् ।

९ - ५४ - तद् अस्य सञ्जातम् तारकादिभ्यः इतच् इति ।

१० - ५४ - प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम ।

११ - ५४ - ऊरुद्वयसम् ।

१२ - ५४ - ऊरुदघ्नम् ।

१३ - ५४ - प्रमाणे लः ।

१४ - ५४ - प्रमाणे लः वक्तव्यः शमः , दिष्टिः , वितस्तिः ।

१५ - ५४ - द्विगोः नित्यम् ।

१६ - ५४ - द्विगोः नित्यम् लः वक्तव्यः ।

१७ - ५४ - द्विशतम् ।

१८ - ५४ - त्रिशतम् ।

१९ - ५४ - द्विदिष्टिः ।

२० - ५४ - त्रिदिष्टिः ।

२१ - ५४ - द्विवितस्तिः ।

२२ - ५४ - त्रिवितस्तिः ।

२३ - ५४ - किमर्थम् इदम् उच्यते ।

२४ - ५४ - संशये श्राविणम् वक्ष्यति यस्य अस्यम् पुरस्तात् अपकर्षः ।

२५ - ५४ - डट् स्तोमे ।

२६ - ५४ - डट् स्तोमे वक्तव्यः ।

२७ - ५४ - पञ्चदशः स्तोमः ।

२८ - ५४ - शच्शनोः डिनिः ।

२९ - ५४ - शच्शनोः डिनिः वक्तव्यः ।

३० - ५४ - त्रिंशिनः मासाः ।

३१ - ५४ - पञ्चदशिनः अर्धमासाः ।

३२ - ५४ - विंशतेः च इति वक्तव्यम् ।

३३ - ५४ - विंशिनः अङ्गिरसः ।

३४ - ५४ - प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये ।

३५ - ५४ - मात्रच् वक्तव्यः ।

३६ - ५४ - शममात्रम् ।

३७ - ५४ - दिष्टिमात्रम् ।

३८ - ५४ - वितस्तिमात्रम् ।

३९ - ५४ - कुडवमात्रम् ।

४० - ५४ - पञ्चमात्राः ।

४१ - ५४ - दशमात्राः ।

४२ - ५४ - वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् ।

४३ - ५४ - वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् वक्तव्यौ ।

४४ - ५४ - तावत् एव तावद्द्वयसम् ।

४५ - ५४ - तावन्मात्रम् ।

४६ - ५४ - यावत् एव यावद्द्वयसम् ।

४७ - ५४ - यावन्मात्रम् ।

४८ - ५४ - [प्रमाणम् प्रत्ययार्थः न तद्वति अस्य इति वर्तनात् ।

४९ - ५४ - प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम ।

५० - ५४ - प्रमाणे लः ।

५१ - ५४ - द्विगोः नित्यम् ।

५२ - ५४ - डट् स्तोमे ।

५३ - ५४ - शच्शनोः डिनिः ।

५४ - ५४ - प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये (ऋ ईV.११८)]

१ - ९ - किमर्थम् परिमाणे इति उच्यते न प्रमाणे इति वर्तते ।

२ - ९ - एवम् तर्हि सिद्धे सति यत् परिमाणग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत् प्रमाणम् अन्यत् परिमाणम् इति ।

३ - ९ - डावतौ अर्थवैशेष्यात् निर्देशः पृथक् उच्यते ।

४ - ९ - न एतत् ज्ञापकसाध्यम् अन्यत् प्रमाणम् अन्यत् परिमाणम् इति ।

५ - ९ - उक्तः अत्र विशेषः ।

६ - ९ - मात्राद्यप्रतिघाताय ।

७ - ९ - एवम् च कृत्वा मात्रादीनाम् प्रतिघातः न भवति ।

८ - ९ - भावः सिद्धः च डावतोः ।

९ - ९ - डावत्वन्तात् मात्रजादीनाम् भावः सिद्धः भवति ।

१ - १० - वतुप्प्रकरणे युष्मदस्मद्भ्याम् छन्दसि सादृशे उपसङ्ख्यानम् ।

२ - १० - वतुप्प्रकरणे युष्मदस्मद्भ्याम् छन्दसि सादृशे उपसङ्ख्यानम् कर्तव्यम् ।

३ - १० - न त्वावान् अन्यः दिव्यः न पर्थिवः न जातः न जनिष्यते ।

४ - १० - त्ववतः पुरूवसो ।

५ - १० - यज्ञम् विप्रस्य मवतः ।

६ - १० - त्वत्सदृशस्य ।

७ - १० - मत्सदृशस्य इति ।

८ - १० - [डावतौ अर्थवैशेष्यात् निर्देशः पृथक् उच्यते ।

९ - १० - मात्राद्यप्रतिघाताय ।

१० - १० - भावः सिद्धः च डावतोः (ऋ ईV.१२०)]

१ - ६ - केन विहितस्य किमिदम्भ्याम् वतुपः वः घत्वम् उच्यते ।

२ - ६ - एतत् एव ज्ञापयति आचार्यः भवति किमिदम्भ्याम् वतुप् इति यत् अयम् किमिदम्भ्याम् उत्तरस्य वतुपः वः घत्वम् शास्ति ।

३ - ६ - अथ वा योगविभागः करिष्यते ।

४ - ६ - किमिदम्भ्याम् वतुप् भवति ।

५ - ६ - ततः वः घः इति ।

६ - ६ - वः च अस्य घः भवति इति ।

१ - १० - बहुषु इति वक्तव्यम् ।

२ - १० - इह मा भूत् ।

३ - १० - कियान् ।

४ - १० - कियन्तौ ।

५ - १० - तत् तर्हि वक्तव्यम् ।

६ - १० - न वक्तव्यम् ।

७ - १० - किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु ।

८ - १० - द्व्येकयोः पुनः निर्ज्ञातम् ।

९ - १० - निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न भवति ।

१० - १० - परिप्रश्नाभावात् किम् एव तावत् न अस्ति कुतः प्रत्ययः ।

१ - २१ - इह कस्मात् न भवति ।

२ - २१ - बहवः अवयवाः अस्याः सङ्ख्यायाः इति ।

३ - २१ - अवयवे या सङ्ख्या इति उच्यते ।

४ - २१ - न च का चित् सङ्ख्या अस्ति यस्याः बहुशब्दः अवयवः स्यात् ।

५ - २१ - ननु च इयम् अस्ति सङ्ख्या इति एव ।

६ - २१ - न एषा सङ्ख्या ।

७ - २१ - सञ्ज्ञा एषा ।

८ - २१ - अवयवविधाने अवयविनि प्रत्ययः ।

९ - २१ - अवयवविधाने अवयविनि प्रत्ययः भवति इति वक्तव्यम् ।

१० - २१ - इह मा भूत् ।

११ - २१ - पञ्च अवयवाः ।

१२ - २१ - दश अवयवाः इति ।

१३ - २१ - अथ अवयविनि इति उच्यमाने अवयवस्वामिनि कस्मात् न भवति ।

१४ - २१ - पञ्च पश्ववयवाः देवदत्तस्य इति ।

१५ - २१ - अवयवशब्दः अयम् गुणशब्दः अस्य इति च वर्तते ।

१६ - २१ - तेन यम् प्रति अवयवः गुणः तस्मिन् अवयविनि प्रत्ययेन भवितव्यम् ।

१७ - २१ - कम् च प्रति अवयवः गुणः ।

१८ - २१ - समुदायम् ।

१९ - २१ - यदि एवम् अवयविनि इति अपि न वक्तव्यम् ।

२० - २१ - अवयवेषु कस्मात् न भवति ।

२१ - २१ - अस्य इति वर्तते ।

१ - ११ - किमर्थम् उदात्तः इति उच्यते ।

२ - ११ - उदात्तः यथा स्यात् ।

३ - ११ - न एतत् अस्ति प्रयोजनम् ।

४ - ११ - प्रत्ययस्वरेण अपि एषः स्वरः सिद्धः ।

५ - ११ - न सिध्यति ।

६ - ११ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् प्रसज्येत ।

७ - ११ - अथ उदात्तः इति उच्यमाने कुतः एतत् आदेः उदात्तत्वम् भविष्यति न पुनः अन्तस्य इति ।

८ - ११ - उदात्तवचनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भविष्यति ।

९ - ११ - कस्य च अप्राप्तः ।

१० - ११ - आदेः ।

११ - ११ - अन्तस्य पुनः चित्स्वरेण एव सिद्धम् ।

१ - २६ - इह कस्मात् न भवति ।

२ - २६ - एकादश माषाः अधिकाः अस्मिन् कार्षापणशते इति ।

३ - २६ - अधिके समानजातौ ।

४ - २६ - समानजातौ अधिके इष्यते ।

५ - २६ - अथ इह कस्मात् न भवति ।

६ - २६ - एकादश कार्षापणाः अधिकाः अस्याम् कार्षापणत्रिंसति इति ।

७ - २६ - इष्टम् शतसहस्रयोः ।

८ - २६ - शतसहस्रयोः अधिके इष्यते ।

९ - २६ - अथ एकादशम् शतसहस्रम् इति कस्य आधिक्ये भवितव्यम् ।

१० - २६ - यस्य सङ्ख्या तदाधिक्ये डः कर्तव्यः मतः मम ।

११ - २६ - यदि तावत् शतानि सङ्ख्यायन्ते शताधिक्ये भवितव्यम् ।

१२ - २६ - अथ सहस्राणि सङ्ख्यायन्ते सहस्राधिक्ये भवितव्यम् ।

१३ - २६ - डविधाने परिमाणशब्दानाम् आधिक्यस्य अधिकरणाभावात् अनिर्देशः ।

१४ - २६ - डविधाने परिमाणशब्दानाम् आधिक्यस्य अधिकरणाभावात् अनिर्देशः ।

१५ - २६ - अगमकः निर्देशः अनिर्देशः ।

१६ - २६ - न हि एकादशानाम् शतम् अधिकरणम् ।

१७ - २६ - सिद्धम् तु पञ्चमीनिर्देशात् ।

१८ - २६ - सिद्धम् एतत् ।

१९ - २६ - कथम् ।

२० - २६ - पञ्चमीनिर्देशात् ।

२१ - २६ - पञ्चमीनिर्देशः कर्तव्यः ।

२२ - २६ - तत् अस्मात् अधिकम् इति ।

२३ - २६ - सः तर्हि पञ्चमीनिर्देशः कर्तव्यः ।

२४ - २६ - न कर्तव्यः ।

२५ - २६ - यदि अपि तावत् व्यापके वैषयिके वा अधिकरणे सम्भवः न अस्ति औपश्लेषिकम् अधिकरणम् विज्ञास्यते ।

२६ - २६ - एकादश कार्षापणाः उपश्लिष्टाः अस्मिन् शते एकादशम् शतम् ।

१ - २० - किमर्थम् शद्ग्रहणे अन्तग्रहणम् ।

२ - २० - शद्ग्रहणे अन्तग्रहणम् प्रत्ययग्रहणे यस्मात् सः तदादेः अधिकार्थम् ।

३ - २० - शद्ग्रहणे अन्तग्रहणम् क्रियते ।

४ - २० - प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणम् भवति इति इह न प्राप्नोति एकत्रिंशम् शतम् ।

५ - २० - इष्यते च अत्र अपि स्यात् इति ।

६ - २० - तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तग्रहणम् ।

७ - २० - एवमर्थम् इदम् उच्यते ।

८ - २० - अस्ति प्रयोजनम् एतत् ।

९ - २० - किम् तर्हि इति ।

१० - २० - सङ्ख्याग्रहणम् च ।

११ - २० - सङ्ख्याग्रहणम् च कर्तव्यम् ।

१२ - २० - इह मा भूत् ।

१३ - २० - गोत्रिंशत् अधिकर्म् अस्मिन् शते इति ।

१४ - २० - विंशतेः च ।

१५ - २० - विंशतेः च अन्तग्रहणम् कर्तव्यम् ।

१६ - २० - इह अपि यथा स्यात् ।

१७ - २० - एकविंशम् शतम् ।

१८ - २० - चकारात् सङ्ख्याग्रहणम् च कर्तव्यम् ।

१९ - २० - इह मा भूत् ।

२० - २० - गोविंशतिः अधिकम् अस्मिन् शते इति ।

१ - ४७ - निमाने गुणिनि ।

२ - ४७ - निमाने गुणिनि इति वक्तव्यम् ।

३ - ४७ - किम् प्रयोजनम् ।

४ - ४७ - गुणेषु मा भूत् ।

५ - ४७ - भूयसः ।

६ - ४७ - भूयसः इति च वक्तव्यम् ।

७ - ४७ - किम् प्रयोजनम् ।

८ - ४७ - भूयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः यथा स्यात् अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः मा भूत् इति ।

९ - ४७ - एकः अन्यतरः ।

१० - ४७ - एकः चेत् अन्यतरः भवति इति वक्तव्यम् ।

११ - ४७ - इह मा भूत् ।

१२ - ४७ - द्वौ यवानाम् त्रयः उदश्वितः इति ।

१३ - ४७ - समानानाम् ।

१४ - ४७ - समानानाम् च इति वक्तव्यम् ।

१५ - ४७ - इह मा भूत् ।

१६ - ४७ - एकः यवानाम् अध्यर्धः उदश्वितः इति ।

१७ - ४७ - तत् तर्हि बहु वक्तव्यम् ।

१८ - ४७ - न वक्तव्यम् ।

१९ - ४७ - यत् तावत् उच्यते ।

२० - ४७ - गुणिनि इति वक्तव्यम् इति ।

२१ - ४७ - न वक्तव्यम् ।

२२ - ४७ - गुणेषु कस्मात् न भवति ।

२३ - ४७ - अस्य इति वर्तते ।

२४ - ४७ - यत् उक्तम् भूयसः इति वक्तव्यम् इति ।

२५ - ४७ - न वक्तव्यम् ।

२६ - ४७ - अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः कस्मात् न भवति ।

२७ - ४७ - अनभिधानात् ।

२८ - ४७ - यत् उक्तम् एकः चेत् अन्यतरः भवति इति वक्तव्यम् इति ।

२९ - ४७ - न वक्तव्यम् ।

३० - ४७ - कस्मात् न भवति द्वौ यवानाम् त्रयः उदश्वितः इति ।

३१ - ४७ - तन्त्रम् विभक्तिनिर्देशः ।

३२ - ४७ - यत् अपि उच्यते समानानाम् च इति वक्तव्यम् इति ।

३३ - ४७ - न वक्तव्यम् ।

३४ - ४७ - कस्मात् न भवति एकः यवानाम् अध्यर्धः उदश्वितः इति ।

३५ - ४७ - अनभिधानात् ।

३६ - ४७ - निमेये च अपि दृश्यते ।

३७ - ४७ - निमेये च अपि प्रत्ययः दृश्यते ।

३८ - ४७ - द्विमयाः यवाः ।

३९ - ४७ - त्रिमयाः ।

४० - ४७ - किम् पुनः इह निमानम् किम् निमेयम् यावता उभयम् त्यज्यते ।

४१ - ४७ - सत्यम् एवम् एतत् ।

४२ - ४७ - क्व चित् तु का चित् प्रसृततरा गतिः भवति ।

४३ - ४७ - तत् यथा ।

४४ - ४७ - समाने त्यागे धान्यम् विक्रीणिते यवान् विक्रीणीते इति उच्यते ।

४५ - ४७ - न कः चित् आह कार्षापणम् विक्रीणिते इति ।

४६ - ४७ - अथ वा येन अधिगम्यते तत् निमानम् ।

४७ - ४७ - यत् अधिमयते तत् निमेयम् ।

१ - ५० - तस्य पूरणे इति अतिप्रसङ्गः ।

२ - ५० - तस्य पूरणे इति अतिप्रसङ्गः भवति ।

३ - ५० - इह अपि प्रप्नोति ।

४ - ५० - पञ्चानाम् उष्ट्रिकाणाम् पूरणः घटः ।

५ - ५० - सिद्धम् तु सङ्ख्यापूरणे इति वचनात् ।

६ - ५० - सिद्धम् एतत् ।

७ - ५० - कथम् ।

८ - ५० - सङ्ख्यापूरणे इति वक्तव्यम् ।

९ - ५० - एवम् अपि घटे प्राप्नोति ।

१० - ५० - सङ्ख्येयम् हि असौ अद्भिः पूरयति ।

११ - ५० - सङ्ख्यापूरणे इति ब्रूमः न सङ्ख्येयपूरणे इति ।

१२ - ५० - यस्य वा भावात् अन्यसङ्ख्यात्वम् तत्र ।

१३ - ५० - अथ वा यस्य भावात् अन्या सङ्ख्या प्रवर्तते तत्र इति वक्तव्यम् ।

१४ - ५० - एवम् अपि द्वितीये अध्याये अष्टमः इति प्राप्नोति ।

१५ - ५० - सर्वेषाम् हि तेषाम् भावात् सङ्ख्या प्रवर्तते ।

१६ - ५० - चरमोपजाते पूर्वस्मिन् च अनपगते इति वक्तव्यम् ।

१७ - ५० - एवम् अपि एकादशीद्वादश्यौ सौविष्टकृती ।

१८ - ५० - इदम् द्वितीयम् इदम् तृतीयम् ।

१९ - ५० - दश दशमानि इति न सिध्यति ।

२० - ५० - सूत्रम् च भिद्यते ।

२१ - ५० - यथान्यासम् एव अस्तु ।

२२ - ५० - ननु च उक्तम् तस्य पूरणे इति अतिप्रसङ्गः इति ।

२३ - ५० - परिहृतम् एतत् सिद्धम् सङ्ख्यापूरणे इति वचनात् इति ।

२४ - ५० - तत् तर्हि सङ्ख्याग्रहणम् कर्तव्यम् ।

२५ - ५० - न कर्तव्यम् ।

२६ - ५० - प्रकृतम् अनुवर्तते ।

२७ - ५० - क्व प्रकृतम् ।

२८ - ५० - सङ्ख्यायाः गुणस्य निमाने मयट् इति ।

२९ - ५० - एवम् तर्हि न इयम् वृत्तिः उपालभ्यते ।

३० - ५० - किम् तर्हि ।

३१ - ५० - वृत्तिस्थानम् उपालभ्यते ।

३२ - ५० - वृत्तिः एव अत्र न प्राप्नोति ।

३३ - ५० - किम् कारणम् ।

३४ - ५० - प्रत्ययार्थाभावात् ।

३५ - ५० - न एषः दोषः ।

३६ - ५० - वचनात् स्वाऋथिकः भविष्यति ।

३७ - ५० - अथ वा पूर्वस्याः सङ्ख्यायाः परापेक्षायाः उत्पत्तिः वक्तव्या उत्तरा च साङ्ख्या आदेशः वक्तव्यः ।

३८ - ५० - अथ वा न्यूने अयम् कृत्स्नशब्दः द्रष्टव्यः चतुर्षु पञ्चशब्दः ।

३९ - ५० - अथ वा सर्वे एव द्व्यादयः अन्योन्यम् अपेक्षन्ते ।

४० - ५० - यदि एवम् द्वितीये अध्याये अष्टमः इति प्राप्नोति ।

४१ - ५० - भवति एव ।

४२ - ५० - प्रकृत्यर्थात् बहिः सर्वा वृत्तिः प्रायेण लक्ष्यते ।

४३ - ५० - पूरणे स्यात् कथम् वृत्तिः ।

४४ - ५० - वचनात् इति लक्ष्यताम् ।

४५ - ५० - तस्याः पूर्वा तु या सङ्ख्या तस्याः [ऋ तस्याम् ] भवतु तद्धितः ।

४६ - ५० - आदेशः च ओत्तरा सङ्ख्या तथा न्याय्या भविष्यति ।

४७ - ५० - न्यूने वा कृत्स्नशब्दः अयम् पूर्वस्याम् उत्तराम् यदि सामर्थ्यम् च तया तस्याः तथा न्याय्या भविष्यति ।

४८ - ५० - अन्योन्यम् वा व्यपाश्रित्य सर्वस्मिन् द्व्यादयः यदि प्रवर्तन्ते तथा न्याय्या वृत्तिः भवति पूरणे ।

४९ - ५० - बहूनाम् वाचिका सङ्ख्या पूरणः च एकः इष्यते ।

५० - ५० - अन्यत्वात् उभयोः न्याय्या वार्क्षी शाखा निदर्शनम् ।

१ - २१ - मडादिषु यस्य आदिः तन्निर्देर्देशः ।

२ - २१ - मडादिषु यस्य आदिः क्रियते तन्निर्देर्देशः कर्तव्यः ।

३ - २१ - अस्य आदिः भवति इति वक्तव्यम् ।

४ - २१ - अकिर्यमाणे हि प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत ।

५ - २१ - तत्र कः दोषः ।

६ - २१ - प्रत्ययान्तरे हि स्वरे दोषः ।

७ - २१ - प्रत्ययान्तरे हि सति स्वरे दोषः स्यात् ।

८ - २१ - विंशतितमः ।

९ - २१ - एषः स्वरः प्रसज्येत ।

१० - २१ - विंशतितमः इति च इष्यते ।

११ - २१ - सः तर्हि तथा निर्देशः कर्तव्यः ।

१२ - २१ - न कर्तव्यः ।

१३ - २१ - प्रकृतम् डड्ग्रहणम् अनुवर्तते ।

१४ - २१ - क्व प्रकृतम् ।

१५ - २१ - तस्य पूरणे डट् इति ।

१६ - २१ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च अर्थः ।

१७ - २१ - नान्तात् इति पञ्चमी डट् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति ।

१८ - २१ - तस्मात् इति उत्तरस्य इति ।

१९ - २१ - प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

२० - २१ - न अयम् प्रत्ययविधिः ।

२१ - २१ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

१ - ४ - चतुरः छयतौ आद्यक्षरलोपः च ।

२ - ४ - चतुरः छयतौ वक्तव्यौ आद्यक्षरलोपः च वक्तव्यः ।

३ - ४ - तुरीयम् ।

४ - ४ - तुर्यम् ।

१ - १२ - अथ किमर्थम् थट्थुकौ पृथक् क्रियेते न सर्वम् थट् एव स्यात् थुक् एव वा ।

२ - १२ - थट्थुकोः पृथक्करणम् पदान्तविधिप्रतिषेधाऋथम् ।

३ - १२ - थट्थुकोः पृथक्करणम् क्रियते पदान्तविधिप्रतिषेधाऋथम् ।

४ - १२ - पदान्तविध्यर्थम् पदान्तप्रतिषेधाऋथम् च ।

५ - १२ - पदान्तविध्यर्थम् तावत् ।

६ - १२ - पर्णमयानि पञ्चथानि भवन्ति ।

७ - १२ - रथः सप्तथः ।

८ - १२ - पदन्तस्य इति नलोपः यथा स्यात् ।

९ - १२ - पदान्तप्रतिषेधाऋथम् ।

१० - १२ - षष्ठः ।

११ - १२ - पदान्तस्य इति जश्त्वम् मा भूत् ।

१२ - १२ - इह चतुर्थः इति पदान्तस्य इति विसर्जनीयः मा भूत् इति ।

१ - ३४ - बहुकतिपयवतूनाम् लिङ्गविशिष्टात् उत्पत्तिः ।

२ - ३४ - बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः वक्तव्या ।

३ - ३४ - इह अपि यथा स्यात् ।

४ - ३४ - बह्वीनाम् पूरणी बहुतिथी ।

५ - ३४ - कतिपयानाम् पूरणी कतिपयथी ।

६ - ३४ - तावतीनाम् पूरणी तावतिथी ।

७ - ३४ - बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः सिद्धा ।

८ - ३४ - कथम् ।

९ - ३४ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति ।

१० - ३४ - पुंवद्वचनम् च । पुंवद्भावः च वक्तव्यः ।

११ - ३४ - बह्वीनाम् पूरणी बहुतिथी ।

१२ - ३४ - किमर्थम् न भस्य अढे तद्धिते पुंवत् भवति इति सिद्धम् ।

१३ - ३४ - भस्य इति उच्यते ।

१४ - ३४ - यजादौ च भम् भवति ।

१५ - ३४ - न च अत्र यजादिम् पश्यामः ।

१६ - ३४ - किम् कारणम् ।

१७ - ३४ - तिथुका व्यविहितत्वात् न प्राप्नोति ।

१८ - ३४ - इदम् इह सम्प्रधार्यम् ।

१९ - ३४ - तिथुक् क्रियताम् पुंवद्भावः इति ।

२० - ३४ - किम् अत्र कर्तव्यम् ।

२१ - ३४ - परत्वात् पुंवद्भावः ।

२२ - ३४ - नित्यः तिथुक् ।

२३ - ३४ - कृते अपि पुंवद्भावे प्राप्नोति अकृते अपि प्राप्नोति ।

२४ - ३४ - तिथुक् अपि अनित्यः ।

२५ - ३४ - अन्यस्य कृते पुंवद्भावे प्राप्नोति अन्यस्य अकृते ।

२६ - ३४ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

२७ - ३४ - अन्तरङ्गः तर्हि तिथुक् ।

२८ - ३४ - का अन्तरङ्गता ।

२९ - ३४ - उत्पत्तिसन्नियोगेन तिथुक् उच्यते उत्पन्ने प्रत्यय्ते प्रकृतिप्रत्ययौ आश्रित्य पुंवद्भावः ।

३० - ३४ - पुंवद्भावः अपि अन्तरङ्गः ।

३१ - ३४ - कथम् ।

३२ - ३४ - उक्तम् एतत् सिद्धः च प्रत्ययविधौ इति ।

३३ - ३४ - उभयोः अन्तरङ्गयोः परत्वात् पुंवद्भावः ।

३४ - ३४ - पुंवद्भावे कृते पुनःप्रसङ्गविज्ञानात् तिथुक् सिद्धः बहुतिथी ।

१ - १६ - असङ्ख्यादेः इति किमर्थम् ।

२ - १६ - इह मा भूत् ।

३ - १६ - एकषष्टः ।

४ - १६ - द्विषष्टः ।

५ - १६ - असङ्ख्यादेः इति शक्यम् अवक्तुम् ।

६ - १६ - कस्मात् न भवति एकषष्टः ।

७ - १६ - द्विषष्टः इति ।

८ - १६ - षष्टिशब्दात् प्रत्ययः विधीयते ।

९ - १६ - कः प्रसङ्गः यत् एकषष्टिशब्दात् स्यात् ।

१० - १६ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

११ - १६ - तदन्तविधिना प्राप्नोति ।

१२ - १६ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

१३ - १६ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

१४ - १६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१५ - १६ - एकविंशतितमः ।

१६ - १६ - एतत् सिद्धम् भवति ।

१ - ३४ - छप्रकरणे अनेकपदात् अपि ।

२ - ३४ - छप्रकरणे अनेकपदात् अपि इति वक्तव्यम् ।

३ - ३४ - इह अपि यथा स्यात् अस्यवामीयम् , कयाशुभीयम् ।

४ - ३४ - किम् पुनः कारणम् न सिध्यति ।

५ - ३४ - अप्रातिपदिकत्वात् ।

६ - ३४ - सिद्धम् तु प्रातिपदिकविज्ञानात् ।

७ - ३४ - सिद्धम् एतत् ।

८ - ३४ - कथम् ।

९ - ३४ - प्रातिपदिकविज्ञानात् ।

१० - ३४ - कथम् प्रातिपदिकविज्ञानम् ।

११ - ३४ - स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् ।

१२ - ३४ - स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा भवति इति ।

१३ - ३४ - एवम् यः असौ आम्नाये अस्यवामशब्दः पठ्यते सः अस्य पदार्थः ।

१४ - ३४ - किम् पुनः अन्ये आम्नायशब्दाः अन्ये इमे ।

१५ - ३४ - ओम् इति आह ।

१६ - ३४ - कुतः एतत् ।

१७ - ३४ - आम्नायशब्दानाम् अन्यभाव्यम् स्वरवर्णानुपूर्वीदेशकालनियतत्वात् ।

१८ - ३४ - स्वरः नियतः आम्नाये अस्यवामशब्दस्य ।

१९ - ३४ - वर्णानुपूर्वी खलु अपि आम्नाये नियता अस्यवामशब्दस्य ।

२० - ३४ - देशः खलु अपि आम्नाये नियतः ।

२१ - ३४ - श्मशाने न अध्येयम् ।

२२ - ३४ - चतुष्पथे न अध्येयम् इति ।

२३ - ३४ - कालः खलु अपि आम्नाये नियतः ।

२४ - ३४ - न अमावास्यायाम् न चतुर्दशायाम् इति ।

२५ - ३४ - पदैकदेशसुबलोपदर्शनात् च ।

२६ - ३४ - पदैकदेशः खलु अपि आम्नाये दृश्यते ।

२७ - ३४ - अस्यवामीयम् ।

२८ - ३४ - ननु च एषः सुब्लोपः स्यात् ।

२९ - ३४ - सुबलोपदर्शनात् च ।

३० - ३४ - सुबलोपः खलु अपि दृश्यते ।

३१ - ३४ - अस्यवामीयम् इति ।

३२ - ३४ - यदि तर्हि अन्ये आम्नायशब्दाः अन्ये इमे मत्वर्थः न उपपद्यते ।

३३ - ३४ - अस्यवामशब्दः अस्मिन् अस्ति इति ।

३४ - ३४ - न सञ्ज्ञा सञ्ज्ञिनम् व्यभिचरति ।

१ - ८ - अध्यायानुवाकाभ्याम् वा लुक् ।

२ - ८ - अध्यायानुवाकाभ्याम् वा लुक् वक्तव्यः ।

३ - ८ - स्तम्भः ।

४ - ८ - स्तम्भीयः ।

५ - ८ - गर्दभाण्डः ।

६ - ८ - गर्दभाण्डीयः ।

७ - ८ - अनुकः ।

८ - ८ - अनुकीयः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP