TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद १ - खण्ड ५३

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ५३
१ - ७३ - सञ्ज्ञायाम् स्वार्थे ।

२ - ७३ - सञ्ज्ञायाम् स्वार्थे प्रत्ययः उत्पाद्यः ।

३ - ७३ - पञ्च एव पञ्चकाः शकुनयः ।

४ - ७३ - त्रिकाः शालङ्कायनाः ।

५ - ७३ - सप्तकाः ब्रह्मवृक्षाः ।

६ - ७३ - ततः परिमाणिनि ।

७ - ७३ - ततः परः प्रत्ययः परिमाणिनि इति वक्तव्यम् ।

८ - ७३ - पञ्चकः सङ्घः ।

९ - ७३ - दशकः सङ्घः ।

१० - ७३ - जीवितपरिमाणे च उपसङ्ख्यानम् ।

११ - ७३ - जीवितपरिमाणे च उपसङ्ख्यानम् कर्तव्यम् ।

१२ - ७३ - षष्टिः जीवितपरिमाणम् अस्य षाष्टिकः ।

१३ - ७३ - साप्ततिकः ।

१४ - ७३ - जीवितपरिमाणे च इति अनर्थकम् वचनम् कालात् इति सिद्धत्वात् ।

१५ - ७३ - जीवितपरिमाणे च इति अनर्थकम् वचनम् ।

१६ - ७३ - किम् कारणम् ।

१७ - ७३ - कालात् इति सिद्धत्वात् ।

१८ - ७३ - कालात् इति एव सिद्धम् ।

१९ - ७३ - इह यस्य षष्टिः जीवितपरिमाणम् षष्तिम् असु भूतः भवति ।

२० - ७३ - तत्र तम् अधीष्टः भृतः भूतः भावी इति एव सिद्धम् ।

२१ - ७३ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

२२ - ७३ - इह वचने हि लुक्प्रसङ्गः ।

२३ - ७३ - इह हि क्रियमाणे लुक् प्रसज्येत द्विषाष्टिकः ।

२४ - ७३ - त्रिषाष्टिकः ।

२५ - ७३ - अनेन सति लुक् भवति ।

२६ - ७३ - तेन सति कस्मात् न भवति ।

२७ - ७३ - आ अर्हात् इति उच्यते ।

२८ - ७३ - न सिध्यति ।

२९ - ७३ - किम् कारणम् ।

३० - ७३ - न हि इमे कालशब्दाः ।

३१ - ७३ - किम् तर्हि सङ्ख्याशब्दाः इमे ।

३२ - ७३ - इमे अपि कालशब्दाः ।

३३ - ७३ - कथम् ।

३४ - ७३ - सङ्ख्या सङ्ख्येये वर्तते ।

३५ - ७३ - यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति ।

३६ - ७३ - रमणीयम् कालम् भूतः ।

३७ - ७३ - शोभनम् कालम् भूतः ।

३८ - ७३ - अथ मतम् एतत् ।

३९ - ७३ - काले दृष्टः शब्दः कालशब्दः कालम् यः न व्यभिचरति इति न रमणीयादिषु अत्रिप्रसङ्गः भवति ।

४० - ७३ - जीवितपरिमाणे तु उपसङ्ख्यानम् कर्तव्यम् ।

४१ - ७३ - इह च उपसङ्ख्यानम् कर्तव्यम् ।

४२ - ७३ - वार्षशतिकः ।

४३ - ७३ - वार्षसहस्रिकः इति ।

४४ - ७३ - किम् पुनः कारणम् न सिध्यति ।

४५ - ७३ - न हि वर्षशतशब्दः सङ्ख्या ।

४६ - ७३ - किम् तर्हि सङ्ख्येये वर्तते वर्षशतशब्दः ।

४७ - ७३ - एवम् तर्हि अन्येभ्यः अपि दृश्यते खारशताद्यर्थम् ।

४८ - ७३ - अन्येभ्यः अपि दृश्यते इति वक्तव्यम् ।

४९ - ७३ - किम् प्रयोजनम् ।

५० - ७३ - खारशताद्यर्थम् ।

५१ - ७३ - खारशतिकः राशिः ।

५२ - ७३ - खारसहस्त्रिकः राशिः ।

५३ - ७३ - अयम् तर्हि दोषः ।

५४ - ७३ - इह वचने हि लुक्प्रसङ्गः इति ।

५५ - ७३ - न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् इति ।

५६ - ७३ - किम् तर्हि ।

५७ - ७३ - यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् ।

५८ - ७३ - क्व च क्रियमाणे न दोषः ।

५९ - ७३ - परम् अर्हात् ।

६० - ७३ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

६१ - ७३ - न कर्तव्यम् ।

६२ - ७३ - कालात् इति एव सिद्धम् ।

६३ - ७३ - ननु च उक्तम् न इमे कालशब्दाः ।

६४ - ७३ - किम् तर्हि ।

६५ - ७३ - सङ्ख्याशब्दाः इति ।

६६ - ७३ - ननु च उक्तम् इमे अपि कालशब्दाः ।

६७ - ७३ - कथम् ।

६८ - ७३ - सङ्ख्या सङ्ख्येये वर्तते ।

६९ - ७३ - ननु च उक्तम् यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति इति ।

७० - ७३ - उक्तम् वा ।

७१ - ७३ - किम् उक्तम् ।

७२ - ७३ - अनभिधानात् इति ।

७३ - ७३ - अनभिधानात् रमणीयादिषु उत्पत्तिः न भविष्यति ।

१ - ६ - स्तोमे डविधिः पञ्चदशाद्यर्थः ।

२ - ६ - स्तोमे डः विधेयः ।

३ - ६ - किम् प्रयोजनम् ।

४ - ६ - पञ्चदशाद्यर्थः ।

५ - ६ - पञ्चदशः स्तोमः ।

६ - ६ - सप्तदशः स्तोमः इति ।

१ - ११६ - इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाः निपात्यन्ते ।

२ - ११६ - तत्र न ज्ञायते का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थः इति ।

३ - ११६ - तत्र वक्तव्यम् इयम् प्रकृतिः अयम् प्रत्ययः अयम् प्रत्ययार्थः इति ।

४ - ११६ - इमे ब्रूमः द्विशब्दात् अयम् दशदर्थाभिदाहिनः स्वार्थे शतिच्प्रत्ययः निपात्यते विन्भावः च ।

५ - ११६ - द्वौ दशतौ विंशतिः ।

६ - ११६ - विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः ।

७ - ११६ - विंशत्यादयः दशात् चेत् समासः न उपपद्यते ।

८ - ११६ - विंशतिगवम् इति ।

९ - ११६ - किम् कारणम् ।

१० - ११६ - द्रव्यम् अनभिहितम् ।

११ - ११६ - तस्य अनभिहितत्वात् षष्ठी प्राप्नोति ।

१२ - ११६ - षष्ठ्यन्तम् च समासे पूर्वम् निपतति ।

१३ - ११६ - तत्र गोविंशतिः इति प्राप्नोति ।

१४ - ११६ - न च एवम् भवितव्यम् ।

१५ - ११६ - भवितव्यम् च विंशतिगवम् तु न सिध्यति ।

१६ - ११६ - इह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासः न प्राप्नोति ।

१७ - ११६ - वचनम् च विधेयम् ।

१८ - ११६ - विंशतिः ।

१९ - ११६ - द्वित्वात् दशतोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति ।

२० - ११६ - एवम् तर्हि परिमाणिनि विंशत्यादयः भविष्यन्ति ।

२१ - ११६ - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् ।

२२ - ११६ - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययः विधेयः ।

२३ - ११६ - विंशकः सङ्घः ।

२४ - ११६ - षष्ठीवचनविधिः च ।

२५ - ११६ - षष्ठी च विधेया ।

२६ - ११६ - गवाम् विंशतिः ।

२७ - ११६ - द्रव्यम् अभिहितम् ।

२८ - ११६ - तस्य अभिहितत्वात् षष्ठी न प्राप्नोति ।

२९ - ११६ - एकवचनम् च विधेयम् ।

३० - ११६ - विंशतिः गावः ।

३१ - ११६ - गोभिः सामानाधिकरण्यात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।

३२ - ११६ - अनारम्भः वा प्रातिपदिकविज्ञानात् यथा सहस्रादिषु ।

३३ - ११६ - अनारम्भः वा पुनः विंशत्यादीनाम् न्याय्यः ।

३४ - ११६ - कथम् सिध्यति ।

३५ - ११६ - प्रातिपदिकविज्ञानात् ।

३६ - ११६ - कथम् प्रातिपदिकविज्ञानम् ।

३७ - ११६ - विंशत्यादयः अव्युत्पन्नानि प्रातिपदिकानि यथा सहस्रादिषु ।

३८ - ११६ - तत् यथा सहस्रम् अयुतम् अर्बुदम् इति न च अनुगमः क्रियते भवति च अभिधानम् ।

३९ - ११६ - यथा सहस्रादिषु इति उच्यते ।

४० - ११६ - अथ सहस्रादिषु अपि कथम् भवितव्यम् ।

४१ - ११६ - सहस्रम् गवाम् ।

४२ - ११६ - सहस्रम् गावः ।

४३ - ११६ - सहस्रगवम् ।

४४ - ११६ - गोसहस्रम् इति ।

४५ - ११६ - यावता अत्र अपि सन्देहः न असूया कर्तव्या यत्र अनुगमः क्रियते ।

४६ - ११६ - ननु च उक्तम् विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः ।

४७ - ११६ - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् ।

४८ - ११६ - षष्ठीवचनविधिः च इति ।

४९ - ११६ - न एषः दोषः ।

५० - ११६ - समुदाये विंशत्यादयः भविष्यन्ति ।

५१ - ११६ - किम् वक्तव्यम् एतत् ।

५२ - ११६ - न हि ।

५३ - ११६ - कथम् अनुच्यमानम् गंस्यते ।

५४ - ११६ - सङ्घः इति वर्तते ।

५५ - ११६ - सङ्घः समूहः समुदायः इति अनर्थान्तरम् ।

५६ - ११६ - ते एते विंशत्यादयः समुदाये सन्तः भाववचनाः भवन्ति भाववचनाः सन्तः गुणवचनाः भवन्ति गुणवचनाः सन्तः अविशिष्टाः भवन्ति अन्यैः गुणवचनैः ।

५७ - ११६ - अन्येषु च गुणवचनेषु कदा चित् गुणः गुणिविशेषकः भवति ।

५८ - ११६ - तत् यथा शुक्लः पटः इति ।

५९ - ११६ - कदा चित् गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति ।

६० - ११६ - तत् यदा तावत् उच्यते विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः इति सामानाधिकरण्यम् तदा गुणगुणिनोः ।

६१ - ११६ - वचनपरिहारः तिष्ठतु तावत् ।

६२ - ११६ - परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् इति संहनने वृत्तः संहनने वर्तिष्यते ।

६३ - ११६ - सङ्ख्यासंहनने वृत्तः द्रव्यसंहनने वर्तिष्यते ।

६४ - ११६ - अथ षष्ठी तदा गुणिना गुणः विशेष्यते ।

६५ - ११६ - वचनपरिहारः उभयोः अपि ।

६६ - ११६ - यदि तर्हि इमे विंशत्यादयः गुणवचनाः स्युः सधर्मभिः अन्यैः गुणवचनैः भवितव्यम् ।

६७ - ११६ - अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते ।

६८ - ११६ - तत् यथा ।

६९ - ११६ - शुक्लम् वस्त्रम् ।

७० - ११६ - शुक्ला शाटी ।

७१ - ११६ - शुक्लः कम्बलः ।

७२ - ११६ - शुक्लौ कम्बलौ ।

७३ - ११६ - शुक्लाः कम्बलाः इति ।

७४ - ११६ - यत् असौ द्रव्यम् श्रितः गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

७५ - ११६ - विंशत्यादयः पुनः न अनुवर्तन्ते ।

७६ - ११६ - अन्ये अपि वै गुणवचनाः न अवश्यम् द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते ।

७७ - ११६ - तत् यथा ।

७८ - ११६ - गावः धनम् ।

७९ - ११६ - पुत्रा अपत्यम् ।

८० - ११६ - इन्द्राग्नी देवता ।

८१ - ११६ - विश्वेदेवाः देवता ।

८२ - ११६ - यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्यै इति ।

८३ - ११६ - अथ अत्र अननुवृत्तौ हेतुः शक्यः वक्तुम् ।

८४ - ११६ - बाढम् शक्यः वक्तुम् ।

८५ - ११६ - कामम् तर्हि उच्यताम् ।

८६ - ११६ - इह कदा चित् गुणः प्राधान्येन विवक्षितः भवति ।

८७ - ११६ - तत् यथा पञ्च उडुपशतानि तीर्णानि ।

८८ - ११६ - पञ्च फलकशतानि तीर्णानि ।

८९ - ११६ - अश्वैः युद्धम् ।

९० - ११६ - असिभिः युद्धम् इति ।

९१ - ११६ - न च असयः युध्यन्ते ।

९२ - ११६ - असिगुणाः पुरुषाः युध्यन्ते गुणः तु खलु प्राधान्येन विवक्षितः ।

९३ - ११६ - इह तावत् गावः धनम् इति धिनोतेः धनम् एकः गुणः ।

९४ - ११६ - सः प्राधान्येन विवक्षितः ।

९५ - ११६ - पुत्राः अपत्यम् इति अपतनात् अपत्यम् एकः गुणः ।

९६ - ११६ - सः प्राधान्येन विवक्षितः ।

९७ - ११६ - इन्द्राग्नी देवता ।

९८ - ११६ - विश्वेदेवाः देवता इति दिवेः ऐश्वर्यकर्मणः देवः ।

९९ - ११६ - तस्मात् स्वार्थे तल् ।

१०० - ११६ - एकः गुणः ।

१०१ - ११६ - सः प्राधान्येन विवक्षितः ।

१०२ - ११६ - यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति दक्षेः वृद्धिकर्मणः दक्षिणा एकः गुणः ।

१०३ - ११६ - सः प्राधान्येन विवक्षितः ।

१०४ - ११६ - तस्य एकत्वात् एकवचनम् भविष्यति ।

१०५ - ११६ - विंशत्यादिषु च अपि एकः गुणः ।

१०६ - ११६ - सः प्राधान्येन विवक्षितः ।

१०७ - ११६ - तस्य एकत्वात् एकवचनम् भविष्यति ।

१०८ - ११६ - अयम् तर्हि विंशत्यादिषु भाववचनेषु दोषः ।

१०९ - ११६ - गोविंशतिः आनीयताम् इति भावानयने चोदिते द्रव्याननम् न प्राप्नोति ।

११० - ११६ - न एषः दोषः ।

१११ - ११६ - इदम् तावत् अयम् प्रष्टव्यः अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणलम्भनप्रोक्षणविशसनादीनि क्रियन्ते इति ।

११२ - ११६ - असम्भवात् ।

११३ - ११६ - आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।

११४ - ११६ - इदम् अपि एवञ्जातीयकम् एव ।

११५ - ११६ - असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति ।

११६ - ११६ - अथ वा अव्यतिरेकात् ।

१ - २० - छेदादिपथिभ्यः विग्रहदर्शनात् नित्यग्रहणानर्थक्यम् ।

२ - २० - छेदादिपथिभ्यः नित्यग्रहणम् अनर्थकम् ।

३ - २० - किम् कारणम् ।

४ - २० - विग्रहदर्शनात् ।

५ - २० - विग्रहः दृश्यते ।

६ - २० - छेदम् अर्हति ।

७ - २० - पन्थानम् गच्छति इति ।

८ - २० - विकारार्थम् तर्हि इदम् नित्यग्रहणम् क्रियते ।

९ - २० - विकारेण विग्रहः मा भूत् इति ।

१० - २० - विरागविरङ्गम् च ।

११ - २० - पन्थः ण नित्यम् इति ।

१२ - २० - विकारार्थम् इति चेत् अकङादिभिः तुल्यम् ।

१३ - २० - विकारार्थम् इति चेत् अकङादिभिः तुल्यम् एतत् ।

१४ - २० - यथा अकङादिभिः विकारैः विग्रहः न भवति एवम् आभ्याम् अपि न भविष्यति ।

१५ - २० - किम् पुनः इह अकर्तव्यम् नित्यग्रहणम् क्रियते आहोस्वित् अन्यत्र कर्तव्यम् न क्रियते ।

१६ - २० - इह अकर्तव्यम् क्रियते ।

१७ - २० - एषः एव न्यायः यत् उत सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः ।

१८ - २० - तत् यथा ।

१९ - २० - देवदत्तयज्ञदत्ताभ्याम् इदम् कर्तव्यम् इति ।

२० - २० - देवदत्तापाये यज्ञदत्तः अपि न करोति ।

१ - ३ - यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् । यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् कर्तव्यम् ।

२ - ३ - य्जञकर्म अर्हति यज्ञियः देशः ।

३ - ३ - ऋत्विक्कर्म अर्हति आर्त्विजीनम् ब्राह्मणकुलम् इति ।

१ - १७ - तत् वर्तयति इति अनिर्देशः तत्र अदर्शनात् ।

२ - १७ - तत् वर्तयति इति अनिर्देशः ।

३ - १७ - अगमकः निर्देशः अनिर्देशः ।

४ - १७ - पारायणम् कः वर्तयति ।

५ - १७ - यः परस्य करोति ।

६ - १७ - तुरायणम् कः वर्तयति ।

७ - १७ - यः चरुपुरोडाशान् निर्वपति ।

८ - १७ - तत्र अदर्शनात् ।

९ - १७ - न च तत्र प्रत्ययः दृश्यते ।

१० - १७ - इङ्यज्योः च दर्शनात् ।

११ - १७ - इङ्यज्योः च प्रत्ययः दृश्यते ।

१२ - १७ - यः पारायणम् अधीते सः पारायणिकः इति उच्यते ।

१३ - १७ - यः तुरायणेन यजते सः तौरायणिकः इति उच्यते ।

१४ - १७ - यः च एव अधीते यः परस्य करोति उभौ तौ वर्तयतः ।

१५ - १७ - यः च यजते यः च यः चरुपुरोडाशान् निर्वपति उभौ तौ वर्तयतः ।

१६ - १७ - उभयत्र कस्मात् न भवति ।

१७ - १७ - अनभिधानात् ।

१ - ८ - योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् ।

२ - ८ - योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ८ - क्रोशशतम् गच्छति इति क्रौशशतिकः ।

४ - ८ - योजनशतम् गच्छति इति यौजनशतिकः इति ।

५ - ८ - ततः अभिगमनम् अर्हति इति च ।

६ - ८ - ततः अभिगमनम् अर्हति इति च क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् ।

७ - ८ - क्रोशशतात् अभिगमनम् अर्हति क्रौशशतिकः भिक्षुः ।

८ - ८ - योजनशतात् अभिगमनम् अर्हति यौजनशतिकः गुरुः ।

१ - २५ - आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् ।

२ - २५ - आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।

३ - २५ - वारिपथेन गच्छति वारिपथिकः ।

४ - २५ - वारिपथेन आहृतम् वारिपथिकम् ।

५ - २५ - वारि ।

६ - २५ - जङ्गल ।

७ - २५ - जङ्गलपथेन गच्छति जाङ्गलपथिकः ।

८ - २५ - जङ्गलपथेन आहृतम् जाङ्गलपथिकम् ।

९ - २५ - जङ्गल ।

१० - २५ - स्थल ।

११ - २५ - स्थलपथेन गच्छति स्थालपथिकः ।

१२ - २५ - स्थलपथेन आहृतम् स्थालपथिकम् ।

१३ - २५ - स्थल ।

१४ - २५ - कान्तार ।

१५ - २५ - कान्तारपथेन गच्छति कान्तारपथिकः ।

१६ - २५ - कान्तारपथेन आहृतम् कान्तारपथिकम् ।

१७ - २५ - अजपथशङ्कुपथाभ्याम् च ।

१८ - २५ - अजपथशङ्कुपथाभ्याम् च इति वक्तव्यम् ।

१९ - २५ - अजपथेन गच्छति आजपथिकः ।

२० - २५ - अजपथेन आहृतम् आजपथिकम्. शङ्कुपथेन गच्छति शाङ्कुपथिकः ।

२१ - २५ - शङ्कुपथेन आहृतम् शाङ्कुपथिकम् ।

२२ - २५ - मधुकमरिचयोः अण् स्थलात् ।

२३ - २५ - मधुकमरिचयोः अण् स्थलात् वक्तव्यः ।

२४ - २५ - स्थालपथम् मधुकम् ।

२५ - २५ - स्थालपथम् मरिचम् ।

१ - १६ - अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः तत्र अदर्शनात् ।

२ - १६ - अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः ।

३ - १६ - किम् कारणम् ।

४ - १६ - तत्र अदर्शनात् ।

५ - १६ - न हि असौ मासम् अधीष्यते ।

६ - १६ - किम् तर्हि मुहूर्तम् अधीष्टः मासम् तत् कर्म करोति ।

७ - १६ - सिद्धम् तु चतुर्थीनिर्देशात् ।

८ - १६ - सिद्धम् एतत् ।

९ - १६ - कथम् ।

१० - १६ - चतुर्थीनिर्देशात् ।

११ - १६ - चतुर्थीनिर्देशः कर्तव्यः ।

१२ - १६ - तस्मै अधीष्टः इति ।

१३ - १६ - सः तर्हि चतुर्थीनिर्देशः कर्तव्यः ।

१४ - १६ - न कर्तव्यः ।

१५ - १६ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

१६ - १६ - मासार्थः मुहूर्तः मासः ।

१ - ४ - अवयसि ठन् च इति अनन्तरस्य अनुकर्षः ।

२ - ४ - अवयसि ठन् च इति अनन्तरस्य अनुकर्षः द्रष्टव्यः ।

३ - ४ - द्वेष्यम् विजानीयात् यप् अपि अनुवर्तते इति ।

४ - ४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे अवयसि ठन् च इति अनन्तरस्य अनुकर्षः इति ।

१ - ७ - षष्टिके सञ्ज्ञाग्रहणम् ।

२ - ७ - षष्टिके सञ्ज्ञाग्रहणम् कर्तव्यम् ।

३ - ७ - मुद्गाः अपि हि षष्टिरात्रेणे पच्यन्ते ।

४ - ७ - तत्र मा भूत् इति ।

५ - ७ - उक्तम् वा ।

६ - ७ - किम् उक्तम् ।

७ - ७ - अनभिधानात् इति ।

१ - ३३ - तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् ।

२ - ३३ - तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३३ - महानाम्नीनाम् ब्रह्मचर्यम् माहानाम्निकम् ।

४ - ३३ - आदित्यव्रतिकम् ।

५ - ३३ - तत् चरति इति च ।

६ - ३३ - तत् चरति इति च महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

७ - ३३ - महानाम्नीः चरति माहानाम्निकः ।

८ - ३३ - आदित्यव्रतिकः ।

९ - ३३ - न एषः युक्तः निर्देशः तत् चरति इति ।

१० - ३३ - महानाम्न्यः नाम ऋचः ।

११ - ३३ - न च ताः चर्यन्ते ।

१२ - ३३ - व्रतम् तासाम् चर्यते ।

१३ - ३३ - न एषः दोषः ।

१४ - ३३ - साहचर्यात् ताच्छब्यम् भविष्यति ।

१५ - ३३ - महानाम्नीसहचरितम् व्रतम् महानाम्न्यः व्रतम् इति ।

१६ - ३३ - अवान्तरदीक्षादिभ्यः डिनिः ।

१७ - ३३ - अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः ।

१८ - ३३ - अवान्तरदीक्षी ।

१९ - ३३ - तिलव्रती ।

२० - ३३ - अष्टाचत्वारिंशतः ड्वुन् च ।

२१ - ३३ - अष्टाचत्वारिंशतः ड्वुन् च डिनिः च वक्तव्यः ।

२२ - ३३ - अष्टाचत्वारिंशकः ।

२३ - ३३ - अष्टाचत्वारिंशी ।

२४ - ३३ - चातुर्मास्यानाम् यलोपः च ।

२५ - ३३ - चातुर्मास्यानाम् यलोपः च ड्वुन् च डिनिः च वक्तव्यः ।

२६ - ३३ - चातुर्मासिकः ।

२७ - ३३ - चातुर्मासी ।

२८ - ३३ - अथ किम् इदम् चातुर्मास्यानाम् इति ।

२९ - ३३ - चतुर्मासात् ण्यः यज्ञे तत्र भवे ।

३० - ३३ - चतुर्मासात् ण्यः वक्तव्यः यज्ञे तत्र भवे इति एतस्मिन् अर्थे ।

३१ - ३३ - चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः ।

३२ - ३३ - सञ्ज्ञायाम् अण् । सञ्ज्ञायाम् अण् वक्तव्यः ।

३३ - ३३ - चतुर्षु मासेषु भवा चातुर्मासी पौणमासी

१ - १२ - आख्याग्रहणम् किमर्थम्. तस्य दक्षिणा यज्ञेभ्यः इति इयति उच्यमाने ये एते सञ्ज्ञीभूतकाः यज्ञाः ततः उतपत्तिः स्यात् ।

२ - १२ - अग्निष्टोमिक्यः ।

३ - १२ - राजसूयिकः ।

४ - १२ - वाजपेयिक्यः ।

५ - १२ - यत्र वा यज्ञशब्दः अस्ति ।

६ - १२ - नावयज्ञिक्यः ।

७ - १२ - पाकयज्ञिक्यः ।

८ - १२ - इह न स्यात् ।

९ - १२ - पाञ्चौदनिक्यः ।

१० - १२ - दाशौदनिक्यः ।

११ - १२ - आख्याग्रहणे पुनः क्रियमाणे न दोषः भवति ।

१२ - १२ - ये च सञ्ज्ञीभूतकाः यत्र च यज्ञशब्दः अस्ति यत्र च न अस्ति तदाख्यामात्रात् सिच्छम् भवति ।

१ - १६ - कार्यग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् । कार्यग्रहणम् अनर्थकम् ।

२ - १६ - किम् कारणम् ।

३ - १६ - तत्रभवेन कृतत्वात् ।

४ - १६ - यत् हि मासे कार्यम् मासे भवम् तत् भवति ।

५ - १६ - तत्र तत्र भवः इति एव सिद्धम् ।

६ - १६ - किम् इदम् भवान् कार्यग्रहणम् एव प्रत्याचष्टे न पुनः दीयतेग्रहणम् अपि ।

७ - १६ - यथा एव हि यत् मासे कार्यम् तत् मासे भवम् भवति एवम् यत् अपि मासे दीयते तत् अपि मासे भवम् भवति ।

८ - १६ - तत्र तत्र भवः इति एव सिद्धम् ।

९ - १६ - न सिध्यति ।

१० - १६ - न तत् मासे दीयते ।

११ - १६ - किम् तर्हि मासे गते ।

१२ - १६ - एवम् तर्हि औपश्लेषिकम् अधिकरणम् विज्ञास्यते ।

१३ - १६ - एवम् तर्हि योगविभागोत्तरकालम् इदम् पठितव्यम् ।

१४ - १६ - तस्य दक्षिणा यज्ञाख्येभ्यः ।

१५ - १६ - तत्र च दीयते ।

१६ - १६ - ततः कार्यम् भववत् कालात् इति ।

१ - २२ - अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् ।

२ - २२ - अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - २२ - त्रीणि इमानि अण्ग्रहणानि ।

४ - २२ - व्युष्टादिभ्यः अण् ।

५ - २२ - समयः तत् अस्य प्राप्तम् ।

६ - २२ - ऋतोः अण् ।

७ - २२ - प्रयोजनम् ।

८ - २२ - विशाखाषाढात् अण् मन्थदण्डयोः इति ।

९ - २२ - तत्र न ज्ञायते कतरस्मिन् अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् ।

१० - २२ - अविशेषात् सर्वत्र ।

११ - २२ - व्युष्टादिभ्यः अण् भवति इति उक्त्वा अग्निपदादिभ्यः च इति वक्तव्यम् ।

१२ - २२ - अग्निपदे दीयते कार्यम् वा आग्निपदम् ।

१३ - २२ - पैलुमूलम् ।

१४ - २२ - समयः तत् अस्य प्राप्तम् ।

१५ - २२ - ऋतोः अण् ।

१६ - २२ - अग्निपदादिभ्यः च इति वक्तव्यम् ।

१७ - २२ - उपवस्ता प्राप्तः अस्य औपवस्त्रम् ।

१८ - २२ - प्राशिता प्राप्तः अस्य प्राशित्रम् ।

१९ - २२ - प्रयोजनम् ।

२० - २२ - विशाखाषाढात् अण् मन्थदण्डयोः ।अग्निपदादिभ्यः च इति वक्तव्यम् ।

२१ - २२ - चूडा प्रयोजनम् अस्य चौडम् ।

२२ - २२ - श्रद्धा प्रयोजनम् अस्य श्राद्धम् ।

१ - २१ - छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्वपदात् उपसङ्ख्यानम् ।

२ - २१ - छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्र्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।

३ - २१ - विशि ।

४ - २१ - गेहानुप्रवेशनीयम् ।

५ - २१ - पूरि ।

६ - २१ - प्रपापूरणीयम् ।

७ - २१ - पदि ।

८ - २१ - गोप्रपदनीयम् ।

९ - २१ - अश्वप्रपदनीयम् ।

१० - २१ - रुहि ।

११ - २१ - प्राशादारोहणीयम् ।

१२ - २१ - स्वर्गादिभ्यः यत् ष्वर्गादिभ्यः यत् प्रत्ययः भवति ।

१३ - २१ - स्वर्ग्यम् ।

१४ - २१ - धन्यम् ।

१५ - २१ - यशस्यम् ।

१६ - २१ - आयुष्यम् ।

१७ - २१ - पुण्याहवाचनादिभ्यः लुक् ।

१८ - २१ - पुण्याहवाचनादिभ्यः लुक् वक्तव्यः ।

१९ - २१ - पुण्याहवाचनम् ।

२० - २१ - शान्तिवाचनम् ।

२१ - २१ - स्वस्तिवाचनम् ।

१ - ११ - एकागारात् निपातनानर्थक्यम् ठञ्प्रकरणात् ।

२ - ११ - एकागारात् निपातनम् अनर्थकम् ।

३ - ११ - किम् कारणम् ।

४ - ११ - ठञ्प्रकरणात् ।

५ - ११ - ठञ् प्रकृतः ।

६ - ११ - सः अनुवर्तिष्यते ।

७ - ११ - इदम् तर्हि प्रयोजनम् ।

८ - ११ - चौरे इति वक्ष्यामि इति ।

९ - ११ - इह मा भूत् ।

१० - ११ - एकागारम् प्रयोजनम् अस्य भिक्षोः इति ।

११ - ११ - यदि एतावत् प्रयोजनम् स्यात् एकागारात् चौरे इति एव ब्रूयात् ।

१ - १२ - आकालात् निपातनानर्थक्यम् ठञ्प्रकरणात् ।

२ - १२ - आकालात् निपातनम् नर्थकम् ।

३ - १२ - किम् कारणम् ।

४ - १२ - ठञ्प्रकरणात् ।

५ - १२ - ठञ् प्रकृतः ।

६ - १२ - सः अनुवर्तिष्यते ।

७ - १२ - इदम् तर्हि प्रयोजनम् ।

८ - १२ - एतस्मिन् विशेषे निपातनम् करिष्यामि समानकालस्य आद्यन्तविवक्षायाम् इति ।

९ - १२ - आकालात् ठन् च ।

१० - १२ - आकालात् ठन् च वक्तव्यः ।

११ - १२ - आकालिकी ।

१२ - १२ - आकालिका ।

१ - ४६ - इदम् अयुक्तम् वर्तते ।

२ - ४६ - किम् अत्र अयुक्तम् ।

३ - ४६ - यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते ।

४ - ४६ - कथम् च तृतीयासमर्थम् नाम क्रिया स्यात् ।

५ - ४६ - न एषः दोषः ।

६ - ४६ - सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ।

७ - ४६ - ब्राह्मणः क्षत्रियः ।

८ - ४६ - वैश्यः शूद्रः इति ।

९ - ४६ - आतः च गुणसमुदाये एवम् हि आह ।

१० - ४६ - तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् ।

११ - ४६ - तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः ।

१२ - ४६ - तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मणे गुणन् कुर्वन्ति ।

१३ - ४६ - समुदायेषु च शब्दाः वृत्ताः अवयवेषु अपि वर्तन्ते ।

१४ - ४६ - तत् यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति ।

१५ - ४६ - एवम् अयम् ब्राह्मणशब्दय समुदाये वृत्तः अवयवेषु अपि वर्तते ।

१६ - ४६ - यदि तर्हि तृतीयासमर्थम् विशेष्यते प्रत्ययार्थः अविशेषितः भवति ।

१७ - ४६ - तत्र कः दोषः ।

१८ - ४६ - तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् ।

१९ - ४६ - पुत्रेण तुल्यः स्थूलः ।

२० - ४६ - पुत्रेण तुल्यः पिङ्गलः ।

२१ - ४६ - अस्तु तर्हि प्रत्ययार्थविशेषणम् ।

२२ - ४६ - यत् तत् तुल्यम् क्रिया चेत् सा भवति इति ।

२३ - ४६ - एवम् अपि तृतीयासमर्थम् अविशेषितम् भवति ।

२४ - ४६ - तत्र कः दोषः ।

२५ - ४६ - तृतीयासमर्थात् अक्रियावाचिनः क्रियातुल्ये अपि प्रत्ययः प्राप्नोति ।

२६ - ४६ - न एषः दोषः ।

२७ - ४६ - यत् तत् तुल्यम् क्रिया चेत् सा भवति इति उच्यते ।

२८ - ४६ - तुलया च सम्मितम् तुल्यम् ।

२९ - ४६ - यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति ।

३० - ४६ - अथ वा पुनः अस्तु यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति एव ।

३१ - ४६ - ननु च उक्तम् प्रत्ययार्थः अविशेषितः इति ।

३२ - ४६ - तत्र कः दोषः ।

३३ - ४६ - तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् ।

३४ - ४६ - पुत्रेण तुल्यः स्थूलः ।

३५ - ४६ - पुत्रेण तुल्यः पिङ्गलः इति ।

३६ - ४६ - न एषः दोषः ।

३७ - ४६ - यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते ।

३८ - ४६ - तुलया च सम्मितम् तुल्यम् ।

३९ - ४६ - यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति ।

४० - ४६ - किम् पुनः अत्र ज्यायः ।

४१ - ४६ - प्रत्ययार्थविशेषणम् एव ज्यायः ।

४२ - ४६ - कुतः एतत् ।

४३ - ४६ - एवम् च एव कृत्वा आचार्येण सूत्रम् पठितम् ।

४४ - ४६ - वतिना सामानाधिकरण्यम् कृतम् ।

४५ - ४६ - अपि च वतेः अव्ययेषु पाठः न कर्तव्यः भवति ।

४६ - ४६ - क्रियायाम् अयम् भवन् लिङ्गसङ्ख्याभ्यम् न योक्ष्यते ।

१ - १० - किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् ।

२ - १० - न सिध्यति ।

३ - १० - तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते ।

४ - १० - न च का चिद् इवशब्देन योगे तृतीया विधीयते ।

५ - १० - ननु च सपतमी अपि न विधीयते ।

६ - १० - एवम् तर्हि सिद्धे सति यत् इवशब्देन योगे सप्तमीसमर्थात् वतिम् शास्ति तत् ज्ञापयति आचार्यः भवति इवशब्देन योगे सप्तमी इति ।

७ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।

८ - १० - देवेषु इव नाम ।

९ - १० - ब्राह्मणेषु इव नाम ।

१० - १० - एषः प्रयोगः उपपन्नः भवति ।

१ - ६ - किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् ।

२ - ६ - न सिध्यति ।

३ - ६ - तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते ।

४ - ६ - इह पुनः द्वितीयासमर्थात् आत्मार्हायाम् क्रियायाम् अर्हतिकर्तरि निश्चितबलाधाने प्रत्ययः उत्पाद्यते ।

५ - ६ - ब्राह्मणवत् भवान् वर्तते ।

६ - ६ - एतत् वृत्तम् ब्राह्मणः अर्हति इति ।

१ - १५ - अर्थग्रहणम् किमर्थम् ।

२ - १५ - न उपसर्गात् छन्दसि धातवु इति एव उच्येत ।

३ - १५ - धातुः वै शब्दः ।

४ - १५ - शब्दे कार्यस्य असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

५ - १५ - कः पुनः धात्वर्थः ।

६ - १५ - क्रिया ।

७ - १५ - इदम् तर्हि प्रयोजनम् ।

८ - १५ - उत्तरपदलोपः यथा विज्ञायेत ।

९ - १५ - धातुकृतः अर्थः धात्वर्थः इति ।

१० - १५ - कः पुनः धातुकृतः अर्थः ।

११ - १५ - साधनम् ।

१२ - १५ - किम् प्रयोजनम् ।

१३ - १५ - साधने अयम् भवन् लिङ्गसङ्ख्याभ्यम् योक्ष्यते ।

१४ - १५ - उद्गतानि उद्वतः ।

१५ - १५ - निगतानि निवतः इति ।

१ - ११ - स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् ।

२ - ११ - स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् कर्तव्यम् ।

३ - ११ - स्त्रीवत् ।

४ - ११ - पुंवत् इति ।

५ - ११ - किम् पुनः कारणम् न सिध्यति ।

६ - ११ - इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते ।

७ - ११ - तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।

८ - ११ - न एषः दोषः ।

९ - ११ - आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति ।

१० - ११ - एवम् अपि स्त्रीवत् इति न सिध्यति ।

११ - ११ - योपापेक्षम् ज्ञापकम् ।

१ - २५ - स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् ।

२ - २५ - स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् कर्तव्यम् ।

३ - २५ - स्त्रीभावः स्त्रीत्वम् स्त्रीता ।

४ - २५ - किम् पुनः कारणम् न सिध्यति ।

५ - २५ - इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते ।

६ - २५ - तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।

७ - २५ - वावचनम् च ।

८ - २५ - वावचनम् च कर्तव्यम् ।

९ - २५ - किम् प्रयोजनम् ।

१० - २५ - नञ्स्नञौ अपि यथा स्याताम् ।

११ - २५ - स्त्रीभावः स्त्रैणम् ।

१२ - २५ - पुम्म्भावः पौंस्नम् इति ।

१३ - २५ - अपवादसमावेशात् वा सिद्धम् ।

१४ - २५ - अपवादसमावेशात् वा सिद्धम् एतत् ।

१५ - २५ - तत् यथा इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति एवम् आभ्याम् अपि भविष्यति ।

१६ - २५ - न एव ईश्वरः आज्ञापपयति न अपि धर्मसूत्रकाराः पठन्ति इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति इति ।

१७ - २५ - किम् तर्हि आ च त्वात् इति एतस्मात् यत्नात् इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति ।

१८ - २५ - न च एतौ अत्र अभ्यन्तरौ ।

१९ - २५ - एतौ अपि अत्र अभ्यन्तरौ ।

२० - २५ - कथम् ।

२१ - २५ - अपवादसदेशाः अपवादाः भवन्ति इति ।

२२ - २५ - एतत् च एव न जानीमः अपवादसदेशाः अपवादाः भवन्ति इति ।

२३ - २५ - अपि च कुतः एतत् एतौ अपि अत्र अभ्यन्तरौ न पुनः पूर्वौ वा स्याताम् परौ वा ।

२४ - २५ - एवम् तर्हि वक्ष्यति आ च त्वात् इति अत्र चकारकरणस्य प्रयोजनम् ।

२५ - २५ - नञ्स्नञ्भ्याम् अपि समावेशः भवति इति ।

१ - १०० - तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः ।

२ - १०० - तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः भवति ।

३ - १०० - इह अपि प्राप्नोति ।

४ - १०० - अभिप्रायः देवदत्तस्य मोदकेषु भोजने ।

५ - १०० - ये नः भावाः ते नः भावाः पुत्राः पुत्रैः चेष्टन्ते इति ।

६ - १०० - सिद्धम् तु यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ ।

७ - १०० - सिद्धम् एतत् ।

८ - १०० - कथम् ।

९ - १०० - यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।

१० - १०० - न च अभिप्रायादीनाम् भावात् द्रव्ये देवदत्तशब्दः वर्तते ।

११ - १०० - किम् पुनः द्रव्यम् के पुनः गुणाः ।

१२ - १०० - शब्दस्पर्शरूपरसगन्धाः गुणाः ।

१३ - १०० - ततः अन्यत् द्रव्यम् ।

१४ - १०० - किम् पुनः अन्यत् शब्दादिभ्यः द्रव्यम् आहोस्वित् अनन्यत् ।

१५ - १०० - गुणस्य अयम् भावात् द्रव्ये शब्दनिवेशम् कुर्वन् ख्यापयति अन्यत् शब्दादिभ्यः द्रव्यम् इति ।

१६ - १०० - अनन्यत् शब्दादिभ्यः द्रव्यम् ।

१७ - १०० - न हि अन्यत् उपलभ्यते ।

१८ - १०० - पशोः खलु अपि विशसितस्य पर्णशते न्यस्तस्य न अन्यत् शब्दादिभ्यः उपलभ्यते ।

१९ - १०० - अन्यत् शब्दादिभ्यः द्रव्यम् तत् तु अनुमानगम्यम् ।

२० - १०० - तत् यथा ओषधिवनस्पतीनाम् वृद्धिह्रासौ ।

२१ - १०० - ज्योतिषाम् गतिः इति ।

२२ - १०० - कः असौ अनुमानः ।

२३ - १०० - इह समाने वर्ष्मणि परिणाहे च अन्यत् तुलाग्रम् भवति लोहस्य अन्यत् कार्पासानाम् ।

२४ - १०० - यत्कृतः विशेषः तत् द्रव्यम् ।

२५ - १०० - तथा कः चित् स्पृशन् एव छिनत्ति कः चित् लम्बमानः अपि न छिनत्ति ।

२६ - १०० - यत्कृतः विशेषः तत् द्रव्यम् ।

२७ - १०० - कः चित् एकेन एव प्रहारेण व्यपवर्गम् करोति कः चित् द्वाभ्याम् अपि अन् करोति ।

२८ - १०० - यत्कृतः विशेषः तत् द्रव्यम् ।

२९ - १०० - अथ वा यस्य गुणान्तरेषु अपि प्रादुर्भावत्सु तत्त्वम् न विहन्यते तत् द्रव्यम् ।

३० - १०० - किम् पुनः तत्त्वम् ।

३१ - १०० - तद्भावः तत्त्वम् ।

३२ - १०० - तत् यथा आमलकादीनाम् फलानाम् रक्तादयः पीतादयः च गुणाः प्रादुः भवन्ति ।

३३ - १०० - आमलकम् बदरम् इति एव भवति ।

३४ - १०० - अन्वर्थम् खलु अपि निर्वचनम् ।

३५ - १०० - गुणसन्द्रावः द्रव्यम् इति ।

३६ - १०० - यदि तर्हि षष्ठीसमर्थात् गुणे प्रत्ययाः उतप्द्यन्ते किम् इयता सूत्रेण ।

३७ - १०० - एतावत् वक्तव्यम् षष्ठीसमर्थात् गुणे इति ।

३८ - १०० - षष्ठीसमर्थात् गुणे इति इयति उच्यमाने द्विगुणा रज्जुः त्रिगुणा रज्जुः अत्र अपि प्राप्नोति ।

३९ - १०० - न एषः दोषः ।

४० - १०० - गुणशब्दः अयम् बह्वर्थः ।

४१ - १०० - अस्ति एव समेषु अवयवेषु वर्तते ।

४२ - १०० - तत् यथा द्विगुणा रज्जुः त्रिगुणा रज्जुः इति ।

४३ - १०० - अस्ति द्रव्यपदार्थकः ।

४४ - १०० - तत् यथा गुणवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते ।

४५ - १०० - अस्ति अप्राधान्ये वर्तते ।

४६ - १०० - तत् यथा यः यत्र अप्रधानम् भवति सः आह गुणभूताः वयम् अत्र इति ।

४७ - १०० - अस्ति आचारे वर्तते ।

४८ - १०० - तत् यथा गुणवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् आचारम् करोति ।

४९ - १०० - अस्ति संस्कारे वर्तते ।

५० - १०० - तत् यथा संस्कृतम् अन्नम् गुणवत् इति उच्यते ।

५१ - १०० - अथ वा सर्वत्र एव अयम् गुणशब्दः समेषु अवयवेषु वर्तते ।

५२ - १०० - तत् यथा द्विगुणम् अध्ययनम् त्रिगुणम् अध्ययनम् इति उच्यते ।

५३ - १०० - चर्चागुणान् क्रमगुणान् च अपेक्ष्य भवति न संहितागुणान् चर्चागुणान् च ।

५४ - १०० - यदि एवम् गुणवत् अन्नम् इति गुणशब्दः न उपपद्यते ।

५५ - १०० - न हि अन्नस्य सूपादयः गुणाः समाः भवन्ति ।

५६ - १०० - न अवश्यम् वर्ष्मतः परिमाणतः एव वा साम्यम् भवति ।

५७ - १०० - किम् तर्हि युक्तितः अपि ।

५८ - १०० - आतः च युक्तितः ।

५९ - १०० - यः हि मुद्गप्रस्थे लवणप्रस्थम् प्रक्षिपेत् न अदः युक्तम् स्यात् ।

६० - १०० - यदि तावत् अदेः अन्नम् न अदः अत्तव्यम् स्यात् ।

६१ - १०० - अथ अनितेः अन्नम् न अदः जग्द्व्हा प्राण्यात् ।

६२ - १०० - शुक्लादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति ।

६३ - १०० - शुक्लत्वम् ।

६४ - १०० - शुक्लता इति ।

६५ - १०० - किम् पुनः कारणम् शुक्लादयः एव उदाह्रियन्ते न पुनः वृक्षादयः अपि ।

६६ - १०० - वृक्षत्वम् वृक्षता इति ।

६७ - १०० - अस्ति अत्र विशेषः ।

६८ - १०० - उभयवचनाः हि एते द्रव्यम् च आहुः गुणम् च ।

६९ - १०० - यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति ।

७० - १०० - इमे अपि तर्हि उभयवचनाः ।

७१ - १०० - कथम् ।

७२ - १०० - आरभ्यते मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् भवति इति ।

७३ - १०० - यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति ।

७४ - १०० - डित्थादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति ।

७५ - १०० - डित्थत्वम् ।

७६ - १०० - डित्थता ।

७७ - १०० - डाम्भिट्टत्वम् इति ।

७८ - १०० - अत्र अपि कः चित् प्राथमकल्पिकः डित्थः डाम्भिट्टः च ।

७९ - १०० - तेन कृताम् क्रियाम् गुणम् वा यः कः चित् करोति सः उच्यते डित्थत्वम् ते एतत् डाम्भिट्टत्वम् ते एतत् ।

८० - १०० - एवम् डित्थाः कुर्वन्ति ।

८१ - १०० - एवम् डाम्भिट्टाः कुर्वन्ति ।

८२ - १०० - यः तर्हि प्राथमकल्पिकः डित्थः डाम्भिट्टः च तस्य वर्त्यभावात् वृत्तिः न प्राप्नोति ।

८३ - १०० - न एषः दोषः ।

८४ - १०० - यथा एव तस्य काथञ्चित्कः प्रयोगः एवम् वृत्तिः अपि भविष्यति ।

८५ - १०० - यत् वा सर्वे भावाः स्वेन भावेन भवन्ति सः तेषाम् भावः तदभिधाने ।

८६ - १०० - किम् एभिः त्रिभिः भावग्रहणैः क्रियते ।

८७ - १०० - एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्याम् अर्थः ।

८८ - १०० - यत् वा सर्वे शब्दाः स्वेन अर्थेन भवन्ति ।

८९ - १०० - सः तेषाम् अर्थः इति तदभिधाने वा त्वतलौ भवतः इति वक्तव्यम् ।

९० - १०० - न एवम् अन्यत्र भवति ।

९१ - १०० - न हि तेन रक्तम् रागात् इति अत्र शब्देन रक्ते प्रत्ययाः उत्पद्यन्ते ।

९२ - १०० - शब्दे असम्भवात् अर्थेन रक्ते प्रत्ययाः भविष्यन्ति ।

९३ - १०० - तत् तर्हि अन्यतरत् कर्तव्यम् ।

९४ - १०० - सूत्रम् च भिद्यते ।

९५ - १०० - यथान्यासम् एव अस्तु ।

९६ - १०० - ननु च उक्तम् तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः इति ।

९७ - १०० - उक्तम् वा ।

९८ - १०० - किम् उक्तम् ।

९९ - १०० - अनभिधानात् इति ।

१०० - १०० - अनभिधानात् अभिप्रायादिषु उतपत्तिः न भविष्यति ।

१ - ५९ - त्वतल्भ्याम् नञ्समासः पूर्वविप्रतिषिद्धम् त्वतलोः स्वरसिद्ध्यर्थम् ।

२ - ५९ - त्वतल्भ्याम् नञ्समासः भवति पूर्वविप्रतिष्धेन ।

३ - ५९ - किम् प्रयोजनम् ।

४ - ५९ - त्वतलोः स्वरसिद्ध्यर्थम् ।

५ - ५९ - त्वतलोः स्वरसिद्धिः यथा स्यात् ।

६ - ५९ - त्वतलोः अवकाशः भावस्य वचनम् प्रतिषेधस्य अवचनम् ।

७ - ५९ - ब्राह्मणत्वम् ।

८ - ५९ - ब्राह्म्णता ।

९ - ५९ - नञ्समासस्य अवकाशः प्रतिषेधस्य वचनम् भावस्य अवचनम् ।

१० - ५९ - अब्राह्मणः ।

११ - ५९ - अवृषलः ।

१२ - ५९ - उभयवचने उभयम् प्राप्नोति ।

१३ - ५९ - अब्राह्मणत्वम् ।

१४ - ५९ - अब्राह्मणता ।

१५ - ५९ - नञ्समासः भवति पूर्वविप्रतिष्धेन ।

१६ - ५९ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

१७ - ५९ - न वक्तव्यः ।

१८ - ५९ - न अत्र त्वतलौ प्राप्नुतः ।

१९ - ५९ - किम् कारणम् ।

२० - ५९ - असामर्थ्यात् ।

२१ - ५९ - कथम् असामर्थ्यम् ।

२२ - ५९ - सापेक्षम् असमर्थम् भवति इति ।

२३ - ५९ - यावता ब्राह्मणशब्दः प्रतिषेधम् अपेक्षते ।

२४ - ५९ - नञ्समासः अपि तर्हि न प्राप्नोति ।

२५ - ५९ - किम् कारणम् ।

२६ - ५९ - असामर्थ्यात् एव ।

२७ - ५९ - कथम् असामर्थ्यम् ।

२८ - ५९ - सापेक्षम् असमर्थम् भवति इति ।

२९ - ५९ - यावता ब्राह्मणशब्दः भावम् अपेक्षते ।

३० - ५९ - प्रधानम् तदा ब्राह्मणशब्दः ।

३१ - ५९ - भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

३२ - ५९ - इदम् तर्हि प्रयोजनम् ।

३३ - ५९ - नञ्समादात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति वक्ष्यति ।

३४ - ५९ - तत्र व्यवस्थार्थम् इदम् वक्तव्यम् ।

३५ - ५९ - वा छन्दसि ।

३६ - ५९ - वा छन्दसि नञ्समासः वक्तव्यः ।

३७ - ५९ - निर्वीर्यताम् वै यजमानः आशास्ते अपशुताम् ।

३८ - ५९ - अयोनित्वाय ।

३९ - ५९ - अशिथिलत्वाय ।

४० - ५९ - अगोताम् अनपत्यताम् ।

४१ - ५९ - भवेत् इदम् युक्तम् उदाहरणम् ।

४२ - ५९ - अयोनित्वाय ।

४३ - ५९ - अशिथिलत्वाय इति ।

४४ - ५९ - इदम् तु अयुक्तम् अपशुताम् इति ।

४५ - ५९ - न हि असौ समासभावम् आशास्ते ।

४६ - ५९ - किम् तर्हि ।

४७ - ५९ - उत्तरपदाभावम् आशास्ते ।

४८ - ५९ - न पशोः भावः इति ।

४९ - ५९ - नञ्समासात् अन्यः भाववचनः ।

५० - ५९ - नञ्समासात् अन्यः भाववचनः भवति विप्रतिषेधेन ।

५१ - ५९ - किम् प्रयोजनम् ।

५२ - ५९ - स्वरोत्तरपदवृद्ध्यर्थम् ।

५३ - ५९ - स्वरार्थम् उत्तरपदवृद्ध्यर्थम् च ।

५४ - ५९ - स्वरार्थम् तावत् ।

५५ - ५९ - अप्रथिमा ।

५६ - ५९ - अम्रदिमा ।

५७ - ५९ - उत्तरपदवृद्ध्यर्थम् ।

५८ - ५९ - अशौक्ल्यम् ।

५९ - ५९ - अकार्ष्ण्यम् ।

१ - २४ - किमर्थः चकारः ।

२ - २४ - अनुकर्षणार्थः ।

३ - २४ - त्वतलौ अनुकृष्येते ।

४ - २४ - न एतत् अस्ति प्रयोजनम् ।

५ - २४ - प्रकृतौ त्वतलौ अनुवर्तिष्येते ।

६ - २४ - अतः उत्तरम् पठति ।

७ - २४ - आ च त्वात् इति चकारकरणम् अपवादसमावेशार्थम् ।

८ - २४ - आ च त्वात् इति चकारकरणम् क्रियते अपवादसमावेशार्थम् ।

९ - २४ - इमनिच्प्रभृतिभिः अपवादैः समावेशः यथा स्यात् ।

१० - २४ - न एतत् अस्ति प्रयोजनम् ।

११ - २४ - आ त्वात् इति एवम् इमनिच्प्रभृतिभिः अपवादैः समावेशः भविष्यति ।

१२ - २४ - इदम् तर्हि प्रयोजनम् ।

१३ - २४ - आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यतः च उच्येते ।

१४ - २४ - एतत् अपि न अस्ति प्रयोजनम् ।

१५ - २४ - आ त्वात् इति एव याः प्रकृतयः ताभ्यः त्वतलौ भविष्यतः यतः च उच्येते ।

१६ - २४ - इदम् तर्हि प्रयोजनम् ।

१७ - २४ - आ त्वात् ये अर्थाः तत्र त्वतलौ यथा स्याताम् यत्र च उच्येते ।

१८ - २४ - एतत् अपि न अस्ति प्रयोजनम् ।

१९ - २४ - आ त्वात् इति एव आ त्वात् ये अर्थाः तत्र त्वतलौ भविष्यतः यत्र च उच्येते ।

२० - २४ - इदम् तर्हि प्रयोजनम् ।

२१ - २४ - आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यस्याः च प्रकृतेः अतस्मिन् विशेषे अन्यः प्रत्ययः उत्पद्यते ।

२२ - २४ - किम् कृतम् भवति ।

२३ - २४ - स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् चोदितम् ।

२४ - २४ - तत् न वक्तव्यम् भवति ।

१ - २७ - कस्य अयम् प्रतिषेधः ।

२ - २७ - त्वतलोः इति आह ।

३ - २७ - न एतत् असि प्रयोजनम् ।

४ - २७ - इष्येते नञ्पूर्वात् तत्पुरुषात् त्वतलौ अब्राह्मणत्वम् अब्राह्मणता इति ।

५ - २७ - अतः उत्तरम् पठति ।

६ - २७ - न नञ्पूर्वात् इति उत्तरस्य प्रतिषेधः ।

७ - २७ - न नञ्पूर्वात् इति उत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते ।

८ - २७ - न एतत् अस्ति प्रयोजनम् ।

९ - २७ - परिगणिताभ्यः प्रकृतिभ्यः उत्तरः भावप्रत्ययः विधीयते ।

१० - २७ - न च तत्र का चित् नञ्पूर्वा प्रकृतिः गृह्यते ।

११ - २७ - तदन्तविधिना प्राप्नोति ।

१२ - २७ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

१३ - २७ - यत्र तर्हि तदन्तविधिः अस्ति ।

१४ - २७ - पत्यन्तपुरोहितादिभ्यः यक् इति ।

१५ - २७ - यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अपत्यन्तात् यक् भवति नञ्पूर्वात् तत्पुरुषात् इति ।

१६ - २७ - एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः नञ्पूर्वात् बहुव्रीहेः भवति इति ।

१७ - २७ - न इष्यते ।

१८ - २७ - त्वतलौ एव इष्येते अविद्यमानाः पृथवः अस्य अपृथुः , अपृथोः भावः अपृथुत्वम् अपृथुता इति ।

१९ - २७ - एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः अन्यपूर्वात् तत्पुरुषात् भवति इति ।

२० - २७ - न इष्यते ।

२१ - २७ - त्वतलौ एव इष्येते परमः पृथुः परमपृथुः , परमपृथोः भावः परमपृथुत्वम् परमपृथुता ।

२२ - २७ - एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः सापेक्षात् भवति इति ।

२३ - २७ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२४ - २७ - नञ्समासात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति उक्तम् ।

२५ - २७ - तत् उपपन्नम् भवति ।

२६ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।

२७ - २७ - आचार्यप्रवृत्तिः ज्ञापयति सर्वे एते तद्धिताः सापेक्षात् भवन्ति इति यत् अयम् नञः गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थाः तद्धिताः इति आह ।

१ - १४ - वावचनम् किमर्थम् ।

२ - १४ - वाक्यम् अपि यथा स्यात् ।

३ - १४ - न एतत् अस्ति प्रयोजनम् ।

४ - १४ - प्रकृटा महाविभाषा ।

५ - १४ - तया वाक्यम् अपि भविष्यति ।

६ - १४ - इदम् तर्हि प्रयोजनम् ।

७ - १४ - त्वतलौ अपि यथा स्याताम् ।

८ - १४ - एतत् अपि न अस्ति प्रयोजनम् ।

९ - १४ - आ च त्वात् इति एतस्मात् यत्नात् त्वतलौ अपि भविष्यतः ।

१० - १४ - अतः उत्तरम् पठति ।

११ - १४ - पृथ्वादिभ्यः वावचनम् अण्समावेशार्थम् ।

१२ - १४ - पृथ्वादिभ्यः वावचनम् क्रियते अण्समावेशः यथा स्यात् ।

१३ - १४ - पार्थवम् ।

१४ - १४ - प्रथिमा ।

१ - १ - ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् । ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् । चातुर्वर्ण्यम् । चातुर्वैद्यम् । चातुराश्रम्यम् । अर्हतः नुम् च । अर्हतः नुम् च ष्यञ् च वक्तव्यः । अर्हतः भावः आर्हन्त्यम् आर्हती ।

१ - ७ - किम् इदम् नलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् ।

२ - ७ - किम् च अतः ।

३ - ७ - यदि वर्णग्रहणम् स्तेयम् ।

४ - ७ - नलोपे कृते अयादेशः प्राप्नोति ।

५ - ७ - अथ सङ्घातग्रहणम् अन्त्यस्य लोपः कस्मात् न भवति ।

६ - ७ - सिद्धः अन्त्यस्य लोपः यस्य इति एव ।

७ - ७ - तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति ।

१ - ३ - अण्प्रकरणे श्रोत्रियस्य ।

२ - ३ - अण्प्रकरणे श्रोत्रियस्य उपसङ्ख्यानम् कर्तव्यम् घलोपः च ।

३ - ३ - श्रोत्रियस्य भावः श्रौत्रम् ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:19.4230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Criminal Court deposits

  • फौजदारी न्यायालयाच्या ठेवी 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site