पाद १ - खण्ड ५२

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ४१ - प्राग्वचनम् किमर्थम् ।

२ - ४१ - प्राग्वचने उक्तम् ।

३ - ४१ - किम् उक्तम् ।

४ - ४१ - तत्र तावत् उक्तम् प्राग्वचनम् सकृद्विधानार्थम् ।

५ - ४१ - अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति ।

६ - ४१ - इह अपि प्राग्वचनम् क्रियते सकृद्विधानार्थम् ।

७ - ४१ - सकृत् विहितः प्रत्ययः विहितः यथा स्यात् ।

८ - ४१ - योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।

९ - ४१ - न एतत् अस्ति प्रयोजनम् ।

१० - ४१ - अधिकारात् अपि एतत् सिद्धम् ।

११ - ४१ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

१२ - ४१ - अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः ।

१३ - ४१ - अधिकारात् सिद्धम् इति चेत् अपवादविषये छः प्राप्नोति ।

१४ - ४१ - उगवादिभ्यः यत् छः च इति छः अपि प्राप्नोति ।

१५ - ४१ - तस्मात् प्राग्वचनम् कर्तव्यम् ।

१६ - ४१ - अथ क्रिय्माणे अपि प्राग्वचने कथम् इदम् विज्ञायते ।

१७ - ४१ - प्राक् क्रीतात् याः प्रकृतयः आहोस्वित् प्राक् क्रीतात् ये अर्थाः इति ।

१८ - ४१ - किम् च अतः ।

१९ - ४१ - यदि विज्ञायते प्राक् क्रीतात् याः प्रकृतयः इति सः एव दोषः अपवादविषये अपि छप्रसङ्गः इति ।

२० - ४१ - अथ विज्ञायते प्राक् क्रीतात् ये अर्थाः इति न दोषः भवति ।

२१ - ४१ - समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधिष्यते ।

२२ - ४१ - यथा न दोषः तथा अस्तु. प्राक् क्रीतात् ये अर्थाः इति विज्ञायते ।

२३ - ४१ - कुतः एतत् ।

२४ - ४१ - तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति ।

२५ - ४१ - इतरथा हि बह्व्यः तत्र प्रकृतयः पठ्यन्ते ।

२६ - ४१ - ततः याम् काम् चित् एवम् प्रकृतिम् अवधित्वेन उपाददीत ।

२७ - ४१ - अथ वा पुनः अस्तु प्राक् क्रीतात् याः प्रकृतयः इति ।

२८ - ४१ - ननु च उक्तम् अपवादविषये अपि छप्रसङ्गः इति ।

२९ - ४१ - न वा क्व चित् वावचनात् ।

३० - ४१ - न वा एषः दोषः ।

३१ - ४१ - किम् कारणम् ।

३२ - ४१ - क्व चित् वावचनात् ।

३३ - ४१ - यत् अयम् क्वच् वावचनम् करोति विभाषा हविरपूपादिभ्यः इति तत् ज्ञापयति न अपवादविषये छः भवति इति ।

३४ - ४१ - यदि एवम् न अर्थः प्राग्वचनेन ।

३५ - ४१ - अधिकारात् सिद्धम् ।

३६ - ४१ - ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः इति ।

३७ - ४१ - परिहृतम् एतत् ण वा क्व चित् वावचनात् इति ।

३८ - ४१ - अथ किमर्थम् इयान् अवधिः गृह्यते न प्राक् ठञः इति एव उच्येत ।

३९ - ४१ - एतत् ज्ञापयति आचार्यः अर्थेषु अयम् भवति इति ।

४० - ४१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

४१ - ४१ - समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधते ।

१ - ३५ - यञ्ञ्यौ अञः पूर्वविप्रतिषिद्धम् सनङ्गूपानहौ प्रयोजनम् । यञ्ञ्यौ भवतः अञः पूर्वविप्रतिषेधेन ।

२ - ३५ - किम् प्रयोजनम् षनङ्गूपानहौ प्रयोजनम् ।

३ - ३५ - यतः अवकाशः शङ्कव्यम् दारु पिचव्यः कार्पासः ।

४ - ३५ - अञः अवकाशः वार्ध्रम् वारत्रम् ।

५ - ३५ - सनङ्गुः नाम चर्मविकारः ।

६ - ३५ - तस्मात् उभयम् प्राप्नोति ।

७ - ३५ - सनङ्गव्यम् चर्म ।

८ - ३५ - ञ्यस्य अवकाशः औपानह्यम् दारु ।

९ - ३५ - अञः सः एव ।

१० - ३५ - उपानत् नाम चर्मविकारः ।

११ - ३५ - तस्मात् उभयम् प्राप्नोति ।

१२ - ३५ - औपानह्यम् चर्म ।

१३ - ३५ - ढञ् च । ढञ् च भवति अञः पूर्वविप्रतिषेधेन ।

१४ - ३५ - ढञः अवकाशः छादिषेयम् तृणम् ।

१५ - ३५ - अञः सः एव ।

१६ - ३५ - छदिः नाम् चर्मविकारः ।

१७ - ३५ - तस्मात् उभयम् प्राप्नोति ।

१८ - ३५ - छादिषेयम् चर्म ।

१९ - ३५ - ढञ् भवति पूर्वविप्रतिषेधेन ।

२० - ३५ - हविरपूपादिभ्यः विभाषायाः यत् । हविरपूपादिभ्यः विभाषायाः यत् भवति पूर्वविप्रतिषेधेन ।

२१ - ३५ - हविरपूपादिभ्यः विभाषायाः अवकाशः आमिक्ष्यम् आमिक्षीयम् पुरोडाश्यम् पुरोडाशीयम् ।

२२ - ३५ - यतः सः एव ।

२३ - ३५ - इह उभयम् प्राप्नोति ।

२४ - ३५ - चरव्याः तण्डुलाः ।

२५ - ३५ - यत् भवति पूर्वविप्रतिषेधेन ।

२६ - ३५ - अन्नविकारेभ्यः च । अन्नविकारेभ्यः च विभाषायाः यत् भवति पूर्वविप्रतिषेधेन ।

२७ - ३५ - अन्नविकारेभ्यः च विभाषायाः अवकाशः सुर्याः सुरीयाः ।

२८ - ३५ - यतः सः एव ।

२९ - ३५ - इह उभयम् प्राप्नोति ।

३० - ३५ - सक्तव्याः धानाः इति ।

३१ - ३५ - यत् भवति पूर्वविप्रतिषेधेन ।

३२ - ३५ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

३३ - ३५ - न वक्तव्यः ।

३४ - ३५ - इष्टवाची परशब्दः ।

३५ - ३५ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

१ - ३३ - अयम् नाभिशब्दः गवादिषु पठ्यते. तत्र एव उच्यते नाभि नभम् च इति ।

२ - ३३ - तत्र चोद्यते ।

३ - ३३ - नाभेः नभभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात् । नाभेः नभभावे प्रत्ययानुपपत्तिः ।

४ - ३३ - किम् कारणम् ।

५ - ३३ - प्रकृत्यभावात् ।

६ - ३३ - विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् न च नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।

७ - ३३ - यत् एव हि तन्मण्डलचक्राणाम् मण्डलचक्रम् तत् नभ्यम् इति उच्यते ।

८ - ३३ - सिद्धम् तु शाखादिषु वचनात् ह्रस्वत्वम् च ।

९ - ३३ - सिद्धम् एतत् ।

१० - ३३ - कथम् ।

११ - ३३ - शाखादिषु नाभिशब्दः पठितव्यः ह्रस्वत्वम् च वक्तव्यम् ।

१२ - ३३ - नाभिः इव नभ्यम् इति ।

१३ - ३३ - कः पुनः इह उपमार्थः ।

१४ - ३३ - यत् तत् अक्षधारणम् परिवर्तनम् वा ।

१५ - ३३ - अपरः आह यत् तत् अञ्जनोपाञ्जनम् इति ।

१६ - ३३ - न तर्हि इदानीम् इदम् वक्तव्यम् नाभि नभम् च इति ।

१७ - ३३ - वक्तव्यम् च ।

१८ - ३३ - किम् प्रयोजनम् ।

१९ - ३३ - यानि एतानि अरवन्ति चक्राणि तदर्थम् ।

२० - ३३ - तत्र नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।

२१ - ३३ - यानि च अपि अनरवन्ति चक्राणि तदर्थम् अपि इदम् वक्तव्यम् ।

२२ - ३३ - दृश्यते हि समुदायात् अवयवस्य पृथक्त्वम् ।

२३ - ३३ - तत् यथा वार्क्षी शाखा इति ।

२४ - ३३ - गुणान्तरयोगात् च विकारशब्दः दृश्यते ।

२५ - ३३ - तत् यथा वैभीतकः यूपः खादिरम् चषालम् इति ।

२६ - ३३ - तत्र अवयवसमुदाये वृत्तिः भविष्यति ।

२७ - ३३ - अथ यः नभ्यार्थः वृक्षः कथम् तत्र भवितव्यम् ।

२८ - ३३ - नभ्यः वृक्षः नभ्या शिंशिपा इति ।

२९ - ३३ - नभ्यात् तु लुग्वचनम् । नभ्यात् तु लुक् वक्तव्यः ।

३० - ३३ - सः तर्हि वक्तव्यः ।

३१ - ३३ - न वक्तव्यः ।

३२ - ३३ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

३३ - ३३ - नभ्यार्थः नभ्यः इति ।

१ - १० - अयम् योगः शक्यः अवक्तुम् ।

२ - १० - कथम् अशीतिशतम् कम्बल्यम् इति ।

३ - १० - निपातनात् एतत् सिद्धम् ।

४ - १० - किम् निपातनम् ।

५ - १० - अपरिमाणविस्ताचितकम्बलेभ्यः न तद्धितलुकि इति ।

६ - १० - इदम् तर्हि प्रयोजनम् सञ्ज्ञायाम् इति वक्ष्यामि इति ।

७ - १० - इह मा भूत् ।

८ - १० - कम्बलीयाः ऊर्णाः ।

९ - १० - एतत् अपि न अस्ति प्रयोजनम् ।

१० - १० - परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बलग्रहणम् क्रियते परिमाणार्थम् परिमाणम् च सञ्ज्ञा एव ।

१ - ७ - किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

२ - ७ - कथम् च प्राप्ते कथम् वा अप्राप्ते ।

३ - ७ - उवर्णान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।

४ - ७ - हविरपूपादिभ्यः अप्राप्ते ।

५ - ७ - हविरपूपादिभ्यः अप्राप्ते विभाषा ।

६ - ७ - प्राप्ते नित्यः विधिः ।

७ - ७ - चरव्याः तण्डुलाः ।

१ - २ - यत्प्रकरणे रथात् च । यत्प्रकरणे रथात् च उपसङ्ख्यानम् ।

२ - २ - रथाय हिता रथ्या ।

१ - २२ - वृषशब्दः अयम् अकारान्तः गृह्यते ।

२ - २२ - वृषन्शब्दः अपि नकारान्तः अस्ति ।

३ - २२ - तस्य उपसङ्ख्यानम् कर्तव्यम् वृषशब्दः च आदेशः वक्तव्यः वृष्णे हितम् इति विगृह्य वृष्यम् इति एव यथा स्यात् ।

४ - २२ - तथा ब्रह्मन्शब्दः नकारान्तः गृह्यते ।

५ - २२ - ब्राह्मणशब्दः च अकारान्तः अस्ति ।

६ - २२ - तस्य उपसङ्ख्यानम् कर्तव्यम् ब्रह्मन्शब्दः च आदेशः वक्तव्यः ब्राह्मणेभ्यः हितम् इति विगृह्य ब्रह्मण्यम् इति एव यथा स्यात् ।

७ - २२ - तत् तर्हि वक्तव्यम् ।

८ - २२ - न वक्तव्यम् ।

९ - २२ - समानार्थौ एतौ वृषशब्दः वृषन्शब्दः च ब्रह्मन्शब्दः ब्राह्मणशब्दः च ।

१० - २२ - आतः च समानार्थौ ।

११ - २२ - एवम् हि आह ।

१२ - २२ - कुतः नु चरसि ब्रह्मन् ।

१३ - २२ - कुतः नु चरसि ब्राह्मण इति ।

१४ - २२ - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

१५ - २२ - तत् यथा ।

१६ - २२ - अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति ।

१७ - २२ - एवम् इह अपि वृषाय हितम् इति विगृह्य वृष्यम् इति भविष्यति ।

१८ - २२ - वृष्णे हितम् इति विगृह्य वाक्यम् एव ।

१९ - २२ - तथा ब्रह्मणे हितम् इति विगृह्य ब्रह्मण्यम् इति भविष्यति ।

२० - २२ - ब्राह्मणेभ्यः हितम् इति विगृह्य वाक्यम् एव भविष्यति ।

२१ - २२ - त्रैशब्द्यम् च इह साध्यम् ।

२२ - २२ - तत् च एवम् सति सिद्धम् भवति ।

१ - ३३ - भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् । भोगोत्तरपदात् खविधाने अनिर्देशः ।

२ - ३३ - अगमकः निर्देशः अनिर्देशः ।

३ - ३३ - किम् कारणम् ।

४ - ३३ - पूर्वपदार्थहितत्वात् ।

५ - ३३ - उत्तरपदार्थप्रधानः तत्पुरुषः पूर्वपदार्थप्रधाने च प्रत्ययः इष्यते ।

६ - ३३ - पितृभोगाय हिते प्राप्नोति पित्रे च एव हिते इष्यते ।

७ - ३३ - एवम् तर्हि भोगीनर्प्रत्ययः विज्ञास्यते ।

८ - ३३ - भोगीनर् इति चेत् वावचनम् ।

९ - ३३ - भोगीनर् इति यदि प्रत्ययः विधीयते वावचनम् कर्तव्यम् मात्रीयः पित्रीयः इति अपि यथा स्यात् ।

१० - ३३ - राजाचार्याभ्याम् नित्यम् । राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।

११ - ३३ - राजभोगीनः ।

१२ - ३३ - आचार्यात् अणत्वम् च ।

१३ - ३३ - आचार्यभोगीनः ।

१४ - ३३ - किम् भोगीनर्प्रत्ययः विधीयते इति अतः राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।

१५ - ३३ - न इति आह ।

१६ - ३३ - सर्वथा राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।

१७ - ३३ - इह च ग्रामणिभोगीनः सेनानिभोगीनः इति उत्तरपदे इति ह्रस्वत्वम् न प्राप्नोति ।

१८ - ३३ - इह च अब्भोगिनः इति अपः भि इति तत्वम् प्राप्नोति ।

१९ - ३३ - सूत्रम् च भिद्यते ।

२० - ३३ - यथान्यासम् एव अस्तु ।

२१ - ३३ - ननु च उक्तम् भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् इति ।

२२ - ३३ - न एषः दोषः ।

२३ - ३३ - अयम् भोगशब्दः अस्ति एव द्रव्यपदार्थकः ।

२४ - ३३ - तत् यथा भोगवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्नानि च वर्तन्ते ।

२५ - ३३ - अस्ति क्रियापदार्थकः ।

२६ - ३३ - तत् यथा भोगवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् स्नानादीः क्रियाः अनुभवति ।

२७ - ३३ - तत् यः क्रियापदार्थकः तस्य अयम् ग्रहणम् ।

२८ - ३३ - यः च पितृस्थाभ्यः क्रियाभ्यः हितः सम्बन्धात् असौ पित्रे अपि हितः भवति ।

२९ - ३३ - यदि सम्बन्धात् अस्तु द्रव्यपदार्थकस्य अपि ग्रहणम् ।

३० - ३३ - यः अपि हि पितृद्रव्याय हितः सम्बन्धात् असौ पित्रे हितः भवति ।

३१ - ३३ - अथ वा भोगशब्दः शरीरवाची अपि द्र्श्यते ।

३२ - ३३ - तत् यथा अहिः इव भोगैः पर्येति बाहुम् इति. अहिः इव शरीरैः इति गम्यते ।

३३ - ३३ - एवम् पितृशरीराय हितः पितृभोगीणः इति ।

१ - १७ - खविधाने पञ्चजनात् उपसङ्ख्यानम् । खविधाने पञ्चजनात् उपसङ्ख्यानम् कर्तव्यम् ।

२ - १७ - पञ्चजनाय हितः पञ्चजनीनः ।

३ - १७ - समानाधिकरणे इति वक्तव्यम् ।

४ - १७ - यः हि पञ्चानाम् जनाय हितः पञ्चजनीयः सः भवति ।

५ - १७ - सर्वजनात् ठञ् च । सर्वजनात् ठञ् वक्तव्यः खः च ।

६ - १७ - सर्वजनाय हितः सार्वजनिकः सार्वजनीनः ।

७ - १७ - समानाधिकरणे इति च वक्तव्यम् ।

८ - १७ - यः हि सर्वेषाम् जनाय हितः सर्वजनीयः सः ।

९ - १७ - महाजनात् नित्यम् । महाजनात् नित्यम् ठञ् वक्तव्यः ।

१० - १७ - महाजनाय हितः माहाजनिकः ।

११ - १७ - तत्पुरुषे इति वक्तव्यम् बहुव्रीहौ मा भूत् इति ।

१२ - १७ - महान् जनः अस्य महाजनः महाजनाय हितः महाजनीयः ।

१३ - १७ - यदि तर्हि अतिप्रसङ्गाः सन्ति इति उपाधिः क्रियते आद्यन्यासे अपि उपाधिः कर्तव्यः ।

१४ - १७ - आत्मन्विश्वजने समानाधिकरणे इति वक्तव्यम् ।

१५ - १७ - यः हिस् विश्वेषाम् जनाय हितः विश्वजनीयः सः भवति ।

१६ - १७ - अथ मतम् एतत् अनभिधानात् आद्यन्यासे न भविष्यति इति इह अपि न अर्थः उपाधिग्रहणेन ।

१७ - १७ - इह अपि अनभिधानात् न भविष्यति ।

१ - ५ - सर्वात् णस्य वावचनम् । सर्वात् णस्य वा इति वक्तव्यम् ।

२ - ५ - सार्वः सर्वीयः ।

३ - ५ - पुरुषात् वधे । पुरुषात् वधे इति वक्तव्यम् पौरुषेयः वधः ।

४ - ५ - अत्यल्पम् इदम् उच्यते पुरुषात् वधे इति ।

५ - ५ - पुरुषात् वधविकारसमूहतेनकृतेषु इति वक्तव्यम् पौरुषेयः वधः , पौरुषेयः विकारः , पौरुषेयः समूहः , तेन कृतम् पौरुषेयम् ।

१ - ९ - तदर्थम् इति कृत्यनामभ्यः ठञ् ।

२ - ९ - तदर्थम् इति कृत्यनामभ्यः ठञ् वक्तव्यः ।

३ - ९ - इन्द्रमहार्थम् ऐन्द्रमहिहम् गाङ्गामहिहम् काशेरुयज्ञिकम् ।

४ - ९ - न वा प्रयोजनेन कृतत्वात् ।

५ - ९ - न वा वक्तव्यम् ।

६ - ९ - किम् कारणम् ।

७ - ९ - प्रयोजनेन कृतत्वात् ।

८ - ९ - यत् हि इन्द्रमहार्थम् इन्द्रमहः तस्य प्रयोजनम् भवति ।

९ - ९ - तत्र प्रयोजनम् इति एव सिद्धम् ।

१ - ४६ - उपध्यर्थम् इति प्रत्ययानुपपत्तिः । उपध्यर्थम् इति प्रत्ययस्य इह अनुपपत्तिः ।

२ - ४६ - किम् कारणम् ।

३ - ४६ - उपध्यभावात् ।

४ - ४६ - विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् ।

५ - ४६ - न च उपधिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।

६ - ४६ - यत् हि तत् रथाङ्गम् तत् औपधेयम् इति उच्यते ।

७ - ४६ - सिद्धम् तु कृदन्तस्य स्वार्थे अञ्वचनात् । सिद्धम् एतत् ।

८ - ४६ - कथम् ।

९ - ४६ - कृदन्तस्य स्वार्थे अञ् वक्तव्यः ।

१० - ४६ - उपधीयते उपधेयम् ।

११ - ४६ - उपधेयम् एव औपधेयम् ।

१२ - ४६ - सिध्यति ।

१३ - ४६ - सूत्रम् तर्हि भिद्यते ।

१४ - ४६ - यथान्यासम् एव अस्तु ।

१५ - ४६ - ननु च उक्तम् उपध्यर्थम् इति प्रत्ययानुपपत्तिः इति ।

१६ - ४६ - न एतत् अस्ति ।

१७ - ४६ - अयम् उपधिशब्दः अस्ति एव कर्मसाधनः ।

१८ - ४६ - उपधीयते उपधिः इति ।

१९ - ४६ - अस्ति भावसाधनः ।

२० - ४६ - उपधानम् उपधिः इति ।

२१ - ४६ - तत् यः भावसाधनः तस्य इदम् ग्रहणम् ।

२२ - ४६ - एवम् अपि न सिध्यति ।

२३ - ४६ - किम् कारणम् ।

२४ - ४६ - विकृतेः प्रकृतौ इति वर्तते ।

२५ - ४६ - प्रकृतिविकृतिग्रहणम् निवर्तिष्यते ।

२६ - ४६ - तत् च अवश्यम् निवर्त्यम् इहार्थम् उत्तराथम् च ।

२७ - ४६ - इहार्थम् तावत् ।

२८ - ४६ - बालेयाः तण्डुलाः ।

२९ - ४६ - उत्तरार्थम् ऋषभोपानहोः ञ्यः ।

३० - ४६ - आर्षभ्यः वत्सः इति ।

३१ - ४६ - अथ तदर्थम् इति अनुवर्तते उताहो न ।

३२ - ४६ - किम् च अर्थः अनुवृत्त्या ।

३३ - ४६ - बाढम् अर्थः ।

३४ - ४६ - तत् अस्य तत् अस्मिन् स्यात् इति तदर्थे यथा स्यात् ।

३५ - ४६ - इह मा भूत् ।

३६ - ४६ - प्रासादः देवदत्तस्य स्यात् इति ।

३७ - ४६ - प्राकारः नगरस्य स्यात् इति ।

३८ - ४६ - यदि तदर्थम् इति अनुवर्तते ऋषभोपानहोः ञ्यः ऋषभार्थः घासः उपानदर्थः तिलकल्कः इति अत्र अपि प्राप्नोति ।

३९ - ४६ - एवम् तर्हि अनुवर्तते प्रकृतिविकृतिग्रहणम् ।

४० - ४६ - ननु च उक्तम् बल्यृषभयोः न सिध्यति इति ।

४१ - ४६ - किम् पुनः भवान् विकारम् मत्वा आह बल्यृषभयोः न सिध्यति इति ।

४२ - ४६ - यदि तावत् यः प्रकृत्युपमर्देन भवति सः विकारः वैभीतकः यूपः खादिरम् चषालम् इति न सिध्यति ।

४३ - ४६ - अथ मतम् एतत् एव गुणान्तरयुक्तम् विकारः इति बल्यृषभयोः अपि सिद्धम् भवति ।

४४ - ४६ - गुणन्तरयुक्ताः हि तण्डुलाः बालेयाः गुणान्तरयुक्तः च वत्सः आर्षभः ।

४५ - ४६ - औपधेयम् तु न सिध्यति ।

४६ - ४६ - वचनात् स्वार्थिकः भविष्यति ।

१ - १९ - स्याद्ग्रहणम् किमर्थम् ।

२ - १९ - इह मा भूत् ।

३ - १९ - प्रासादः देवदत्तस्य प्राकारः नगरस्य इति ।

४ - १९ - अथ क्रियमाणे अपि स्याद्ग्रहणे इह कस्मात् न भवति ।

५ - १९ - प्रासादः देवदत्तस्य स्यात् ।

६ - १९ - प्राकारः नगरस्य स्यात् इति ।

७ - १९ - शक्यार्थे लिङ् इति वक्तव्यम् ।

८ - १९ - न एवम् शक्यम् ।

९ - १९ - इदानीम् एव हि उक्तम् न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति ।

१० - १९ - एवम् तर्हि इतिकरणः क्रियते ।

११ - १९ - ततः चेत् विवक्षा भवति ।

१२ - १९ - विवक्षा च द्वयी ।

१३ - १९ - अस्ति एव प्रायोक्त्री विवक्षा अस्ति लौकिकी ।

१४ - १९ - प्रयोक्ता हि मृद्व्या स्निग्धया श्लक्ष्णया जिह्वया मृदून् स्निग्धान् श्लक्ष्णान् शब्दान् प्रयुङ्क्ते ।

१५ - १९ - लौकिकी विवक्षा यत्र प्रायस्य सम्प्रत्ययः ।

१६ - १९ - प्रायः इति लोकः व्यपदिश्यते ।

१७ - १९ - न च प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् ।

१८ - १९ - यदि एवम् न अर्थः स्याद्ग्रहणेन ।

१९ - १९ - न हि प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् ।

१ - ३१ - किमर्थम् सङ्ख्यायाः पृथग्ग्रहणम् क्रियते न सङ्ख्या अपि परिमाणम् एव तत्र परिमाणपर्युदासेन पर्युदासः भविष्यति ।

२ - ३१ - एवम् तर्हि सिद्धे सति यत् सङ्ख्ययाः पृथग्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति ।

३ - ३१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

४ - ३१ - अपरिमाणबिस्ताचितकम्बएल्भ्यः न तद्धितलुकि इति द्वाभ्याम् शताभ्याम् क्रीता द्विशता त्रिशता परिमाणपर्युदासेन न भवति इति ।

५ - ३१ - यदि एतत् ज्ञाप्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते परिमाणम् या सङ्ख्या इति ।

६ - ३१ - इह च क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते ।

७ - ३१ - शतस्य विकारः शत्यः शतिकः ।

८ - ३१ - साहस्रः इति ।

९ - ३१ - यत् तावत् उच्यते तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति ।

१० - ३१ - न्यायसिद्धम् एव एतत् ।

११ - ३१ - भेदमात्रम् सङ्ख्या आह ।

१२ - ३१ - यत् च इषीकान्तम् यत् च अपरिमाणम् सर्वस्य सङ्ख्या भेदमात्रम् ब्रवीति ।

१३ - ३१ - परिमाणम् तु सर्वतः ।

१४ - ३१ - सर्वतः मानम् इति च अतः परिमाणम् इति ।

१५ - ३१ - प्रस्थस्य च समानाकृतेः न कुतः चित् विशेषः गम्यते न च उन्मानतः न परिमाणतः न प्रमाणतः ।

१६ - ३१ - किम् पुनः उन्मानम् किम् परिमाणम् किम् प्रमाणम् ।

१७ - ३१ - ऊर्ध्वमानम् किल उन्मानम् ।

१८ - ३१ - ऊर्ध्वम् यत् मीयते तत् उन्मानम् ।

१९ - ३१ - परिमाणम् तु सर्वतः । सर्वतः मानम् इति च अतः परिमाणम् ।

२० - ३१ - कुत एतत् ।

२१ - ३१ - परिः सर्वतोभावे वर्तते ।

२२ - ३१ - आयामः तु प्रमाणम् स्यात् । आयामविवक्षायाम् प्रमाणम् इति एतत् भवति ।

२३ - ३१ - सङ्ख्या बाह्या तु सर्वतः ।

२४ - ३१ - आतः च सर्वतः सङ्ख्या बाह्या ।

२५ - ३१ - भेदभावम् ब्रवीति एषा न एषा मानम् कुतः चन । एवम् च कृत्वा सङ्ख्यायाः पृथग्ग्रहणम् क्रियते ।

२६ - ३१ - यत् अपि उच्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते इति ।

२७ - ३१ - आह अयम् परिमाणम् या सङ्ख्या इति ।

२८ - ३१ - न च अस्ति सङ्ख्या परिमाणम् ।

२९ - ३१ - तत्र वचनात् इयती विवक्षा भविष्यति ।

३० - ३१ - यद् अपि उच्यते क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते इति ।

३१ - ३१ - सङ्ख्यायाः इति च तत्र वक्तव्यम् ।

१ - ४१ - किम् पुनः इमे ठगादयः प्राक् अर्हात् भवन्ति आहोस्वित् सह अर्हेण ।

२ - ४१ - कः च अत्र विशेषः ।

३ - ४१ - ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः ।

४ - ४१ - ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः ।

५ - ४१ - अर्हे ठगादयः विधेयाः ।

६ - ४१ - शतम् अर्हति शत्यः शतिकः ।

७ - ४१ - साहरः इति ।

८ - ४१ - वस्ने वसनात् सिद्धम् ।

९ - ४१ - इह यः शतम् अर्हति शतम् तस्य वस्नः भवति ।

१० - ४१ - तत्र सः अस्य अंशवस्नभृतयः इति एव सिद्धम् ।

११ - ४१ - वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।

१२ - ४१ - वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।

१३ - ४१ - मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।

१४ - ४१ - तथा गुणानाम् परिप्रश्नः भवति ।

१५ - ४१ - किम् अयम् ब्राह्मणः अर्हति ।

१६ - ४१ - शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति ।

१७ - ४१ - सन्तु तर्हि सहार्हेण ।

१८ - ४१ - आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः । आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः भवति ।

१९ - ४१ - भोजनम् अर्हति ।

२० - ४१ - पानम् अर्हति इति ।

२१ - ४१ - किम् उच्यते भोजनादिषु अत्र्प्रसङ्गः इति यदा छेदादिभ्यः इति उच्यते ।

२२ - ४१ - अवश्यम् मांसौदनिकाद्यर्थम् योगविभागः कर्तव्यः ।

२३ - ४१ - तत् अर्हति ।

२४ - ४१ - ततः छेदादिभ्यः नित्यम् इति ।

२५ - ४१ - तस्मिन् क्रियमाणे भोजनादिषु अत्र्प्रसङ्गः भवति ।

२६ - ४१ - उक्तम् वा । किम् उक्तम् ।

२७ - ४१ - अनभिधानात् इति ।

२८ - ४१ - अनभिधानात् भोजनादिषु अतिप्रसङ्गः न भवति [ऋभविष्यति] ।

२९ - ४१ - अथ वा योगविभागः न करिष्यते ।

३० - ४१ - कथम् मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।

३१ - ४१ - अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् ।

३२ - ४१ - अथ वा पुनः अस्तु प्राक् अर्हात् ।

३३ - ४१ - ननु च उक्तम् ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः इति ।

३४ - ४१ - परिहृतम् एतत् वस्ने वचनात् सिद्धम् इति ।

३५ - ४१ - ननु च उक्तम् वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।

३६ - ४१ - मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।

३७ - ४१ - तथा गुणानाम् परिप्रश्नः भवति ।

३८ - ४१ - किम् अयम् ब्राह्मणः अर्हति ।

३९ - ४१ - शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति ।

४० - ४१ - न एषः दोषः ।

४१ - ४१ - अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् ।

१ - ३३ - असमासे इति किमर्थम् ।

२ - ३३ - परमनिष्केण क्रीतम् परमनैष्किकम् ।

३ - ३३ - न एतत् अस्ति ।

४ - ३३ - निष्कशब्दात् प्रत्ययः विधीयते ।

५ - ३३ - तत्र कः प्रसङ्गः यत् परमनिष्कशब्दात् स्यात् ।

६ - ३३ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

७ - ३३ - तदन्तविधिना प्राप्नोति ।

८ - ३३ - ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते ।

९ - ३३ - निष्कादिषु असमासग्रहणम् ज्ञापकम् पूर्वत्र तदन्ताप्रतिषेधस्य । निष्कादिषु असमासग्रहणम् क्रियते ज्ञापकार्थम् ।

१० - ३३ - किम् ज्ञाप्यम् ।

११ - ३३ - पूर्वत्र तदन्त्विधेः प्रतिषेधः न भवति इति ।

१२ - ३३ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१३ - ३३ - प्राक् वतेः ठञ् इति अत्र तदन्तविधिः सिद्धः भवति ।

१४ - ३३ - न एतत् अस्ति प्रयोजनम् ।

१५ - ३३ - ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते ।

१६ - ३३ - न च ठञ्विधौ का चित् प्रकृतिः गृह्यते ।

१७ - ३३ - इदम् तर्हि प्रयोजनम् ।

१८ - ३३ - आ अर्हात् अगोपुच्छसङ्ख्यापरिमाणात् ठक् ।

१९ - ३३ - परमगोपुच्छेन क्रीतम् पारमगोपुच्छिकम् ।

२० - ३३ - अत्र तदन्तविधिः सिद्धः भवति ।

२१ - ३३ - एतत् अपि न अस्ति प्रयोजनम् ।

२२ - ३३ - विधौ प्रतिषेधः प्रतिषेधः च अयम् ।

२३ - ३३ - एवम् तर्हि ज्ञापयति आचार्यः इतः उत्तरम् तदन्तविधेः प्रतिषेधः न भवति इति ।

२४ - ३३ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२५ - ३३ - पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः ।

२६ - ३३ - अत्र तदन्तविधिः सिद्धः भवति ।

२७ - ३३ - एतत् अपि न अस्ति प्रयोजनम् ।

२८ - ३३ - वक्ष्यति एतत् ।

२९ - ३३ - प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि ।

३० - ३३ - पूर्वत्र एव तर्हि प्रयोजनम् ।

३१ - ३३ - खलयवमाषतिलवृषब्रह्मणः च इति ।

३२ - ३३ - कृष्णतिलेभ्यः हितः कृष्णतिल्यः ।

३३ - ३३ - राजमाषेभ्यः हितम् राजमाष्यम् ।

१ - ८ - प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि ।

२ - ८ - प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि कर्तव्यम् ।

३ - ८ - पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः ।

४ - ८ - अलुकि इति किमर्थम् ।

५ - ८ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।

६ - ८ - त्रिशूर्पम् ।

७ - ८ - द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।

८ - ८ - त्रैशौर्पिकम् ।

१ - ५ - शतप्रतिषेधे अन्यशतत्वे अप्रतिषेधः ।

२ - ५ - शतप्रतिषेधे अन्यशतत्वे प्रतिषेधः न भवति इति वक्तव्यम्. इह मा भूत् ।

३ - ५ - शतेन क्रीतम् शत्यम् शाटकशतम् इति ।

४ - ५ - अन्यशतत्वे इति किम् ।

५ - ५ - शतकम् निदानम् ।

१ - २० - डतेः च इति वक्तव्यम् इह अपि यथा स्यात् ।

२ - २० - कतिभिः क्रीतम् कतिकम् ।

३ - २० - किम् पुनः कारणम् न सिध्यति ।

४ - २० - त्यन्तायाः न इति प्रतिषेधः प्राप्नोति ।

५ - २० - तिप्रतिषेधात् डतिग्रहणम् इति चेत् अर्थवद्ग्रहणात् सिद्धम् ।

६ - २० - अर्थवतः तिशब्दस्य ग्रहणम् न च डतेः तिशब्दः अर्थवान् ।

७ - २० - न एषा परिभाषा इह शक्या विज्ञातुम् ।

८ - २० - न हि केवलेन प्रत्ययेन अर्थः गम्यते ।

९ - २० - केन तर्हि ।

१० - २० - सप्रकृतिकेन ।

११ - २० - क्व तर्हि एषा परिभाषा भवति ।

१२ - २० - यानि एतानि शब्दसङ्घातग्रहणानि ।

१३ - २० - तत् तर्हि वक्तव्यम् ।

१४ - २० - न वक्तव्यम् ।

१५ - २० - अर्थवद्ग्रहणात् सिद्धम् ।

१६ - २० - ननु च उक्तम् न एषा परिभाषा इह शक्या विज्ञातुम् ।

१७ - २० - न हि केवलेन प्रत्ययेन अर्थः गम्यते इति ।

१८ - २० - केवलेन अपि प्रत्ययेन अर्थः गम्यते ।

१९ - २० - कथम् ।

२० - २० - उक्तम् अन्वयव्यतिरेकाभ्याम् ।

१ - २० - कस्य अयम् इट् विधीयते ।

२ - २० - कनः इति आह ।

३ - २० - तत् कनः ग्रहणम् कर्तव्यम् ।

४ - २० - अक्रियमाणे हि कनः ग्रहणे प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत ।

५ - २० - टित्करणसामर्थ्यात् आदिः भविष्यति ।

६ - २० - अस्ति अन्यत् टित्करणे प्रयोजनम् ।

७ - २० - टितः इति ईकारः यथा स्यात् ।

८ - २० - अकारान्तप्रकरणे ईकारः न च एषः अकारान्तः ।

९ - २० - एवम् अपि कुतः एतत् टित्करणसामर्थ्यात् आदिः भविष्यति न पुनः अकारान्तप्रकरणे सति अनकारान्तात् अपि ईकारः स्यात् ।

१० - २० - तस्मात् कणः ग्रहणम् कर्तव्यम् ।

११ - २० - न कर्तव्यम् ।

१२ - २० - प्रकृतम् अनुवर्तते ।

१३ - २० - क्व प्रकृतम् ।

१४ - २० - सङ्ख्यायाः अतिशदन्तायाः कन् इति ।

१५ - २० - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

१६ - २० - वतोः इति एषा पञ्चमी कन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१७ - २० - प्रत्ययविधिः अयम् ।

१८ - २० - न च प्रत्ययविधौ पञ्चम्याः प्रकल्पिकाः भवन्ति ।

१९ - २० - न अयम् प्रत्ययविधिः ।

२० - २० - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

१ - १२ - असञ्ज्ञायाम् इति किमर्थम् ।

२ - १२ - त्रिंशत्कः विंशत्कः ।

३ - १२ - कथम् च अत्र कन् भवति ।

४ - १२ - सङ्ख्यायाः कन् भवति इति ।

५ - १२ - अतिशदन्तायाः इति प्रतिषेधः प्राप्नोति ।

६ - १२ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र कन् इति यत् अयम् विंशतिकात् खः इति प्रत्ययान्तनिपातनम् करोति ।

७ - १२ - विंशतेः एतत् ज्ञापकम् स्यात् ।

८ - १२ - न इति आह ।

९ - १२ - योगापेक्षम् ज्ञापकम् ।

१० - १२ - अथ वा योगविभागः करिष्यते ।

११ - १२ - विंशतित्रिंशभ्याम् कन् भवति इति ।

१२ - १२ - ततः ड्वुन् असञ्ज्ञायाम् इति ।

१ - ६ - टिथन् अर्धात् च ।

२ - ६ - टिथन् अर्धात् च इति वक्तव्यम् ।

३ - ६ - अर्धिकः अर्धिकी ।

४ - ६ - कार्षापणात् वा प्रतिः च ।

५ - ६ - कार्षापणात् टिठन् वक्तव्यः वा च प्रतिः आदेशः वक्तव्यः ।

६ - ६ - कार्षापणिकः कार्षापणिकी प्रतिकः प्रतिकी ।

१ - ७१ - द्विगोः लुकि उक्तम् ।

२ - ७१ - किम् उक्तम् ।

३ - ७१ - तत्र तावत् उक्तम् द्विगोः लुकि तन्निमित्तग्रहणम्. अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

४ - ७१ - इह अपि द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् ।

५ - ७१ - द्विगोः निमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् ।

६ - ७१ - इह मा भूत् ।

७ - ७१ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।

८ - ७१ - त्रिशूर्पम् ।

९ - ७१ - द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।

१० - ७१ - त्रैशौर्पिकम् ।

११ - ७१ - अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि ।

१२ - ७१ - अर्थविशेषस्य असम्प्रत्यये अतन्निमित्तात् अपि वक्तव्यम् ।

१३ - ७१ - किम् प्रयोजनम् ।

१४ - ७१ - द्वयोः शूर्पयोः समाहारः द्विशूर्पी ।

१५ - ७१ - द्विशूर्प्या क्रीतम् इति विगृह्य द्विशूर्पम् इति एव यथा स्यात् ।

१६ - ७१ - अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते ।

१७ - ७१ - तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति ।

१८ - ७१ - किम् च अतः ।

१९ - ७१ - यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति ।

२० - ७१ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।

२१ - ७१ - त्रिशूर्पम् ।

२२ - ७१ - द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।

२३ - ७१ - त्रैशौर्पिकम् ।

२४ - ७१ - अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति ।

२५ - ७१ - यथ न दोषः तथा अस्तु ।

२६ - ७१ - सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते ।

२७ - ७१ - कुतः एतत् ।

२८ - ७१ - यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

२९ - ७१ - तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् ।

३० - ७१ - न कर्तव्यम् ।

३१ - ७१ - द्विगोः इति न एषा पञ्चमी ।

३२ - ७१ - का तर्हि ।

३३ - ७१ - सम्बन्धषष्ठी ।

३४ - ७१ - द्विगोः तद्धितस्य लुक् भवति ।

३५ - ७१ - किम् च द्विगोः तद्धितः ।

३६ - ७१ - निमित्तम् ।

३७ - ७१ - यस्मिन् द्विगुः इति एतत् भवति ।

३८ - ७१ - कस्मिन् च एतत् भवति ।

३९ - ७१ - प्रत्यये ।

४० - ७१ - इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

४१ - ७१ - एतत् च न वक्तव्यम् ।

४२ - ७१ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

४३ - ७१ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।

४४ - ७१ - त्रिशूर्पम् ।

४५ - ७१ - द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।

४६ - ७१ - त्रैशौर्पिकम् इति ।

४७ - ७१ - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

४८ - ७१ - तत् यथा ।

४९ - ७१ - अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।

५० - ७१ - एवम् इह अपि द्वाभ्याम् शूर्पाभ्याम् क्रीतम् इति विगृह्य द्विशूर्पम् इति भविष्यति ।

५१ - ७१ - द्विशूर्प्या क्रीतम् इति विगृह्य वाक्यम् एव भविष्यति ।

५२ - ७१ - अथ असञ्ज्ञायाम् इति किमर्थम् ।

५३ - ७१ - पाञ्चलोहितिकम् पाञ्चकलापिकम् ।

५४ - ७१ - सञ्ज्ञाप्रतिषेधानर्थक्यम् च तन्निमित्तत्वात् लोपस्य ।

५५ - ७१ - सञ्ज्ञाप्रतिषेधः च अनर्थकः ।

५६ - ७१ - किम् कारणम् ।

५७ - ७१ - तन्निमित्तत्वात् लोपस्य ।

५८ - ७१ - न अन्तरेण तद्धितम् तद्धितस्य च लुकम् द्विगुः सञ्ज्ञा अस्ति ।

५९ - ७१ - यः तस्मात् उत्पद्यते न असु तन्निमित्तम् स्यात् ।

६० - ७१ - एवम् तर्हि इदम् स्यात् ।

६१ - ७१ - पञ्चानाम् लोहितानाम् समाहारः पञ्चलोहिती पञ्चलोहित्या क्रीतम् ।

६२ - ७१ - अत्र अपि पञ्चलोहितम् इति एव भवितव्यम् ।

६३ - ७१ - कथम् ।

६४ - ७१ - उक्तम् हि एतत् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

६५ - ७१ - उक्तम् सङ्ख्यात्वे प्रयोजनम् तस्मात् इह अध्यर्धग्रहणानर्थक्यम् ।

६६ - ७१ - उक्तम् सङ्ख्यात्वे अध्यर्धग्रहणस्य प्रयोजनम् ।

६७ - ७१ - किम् उक्तम् ।

६८ - ७१ - अध्यर्धग्रहणम् च समासकन्विध्यर्थम् लुकि च अग्रहणम् इति ।

६९ - ७१ - तस्मात् इह अध्यर्धग्रहणानर्थक्यम् ।

७० - ७१ - तस्मात् इह अध्यर्धग्रहणम् अनर्थकम् ।

७१ - ७१ - द्विगोः इति एव लुक् सिद्धः ।

१ - २ - कार्षापणसहस्राभ्याम् सुवर्णशतमानयोः उपसङ्ख्यानम् कर्तव्यम् ।

२ - २ - अध्यर्धसुवर्णम् अध्यर्धसौवर्णिकम् अध्यर्धशतमानम् अध्यर्धशातमानम् द्विशतमानम् द्विशातमानम्

१ - ११ - द्वित्रिभ्याम् द्वैयोग्यम् ।

२ - ११ - द्वित्रिभ्याम् इति यत् उच्यते द्वैयोग्यम् एतत् द्रष्टव्यम् ।

३ - ११ - किम् इदम् द्वैयोग्यम् इति ।

४ - ११ - द्वयोः योगयोः भवम् द्वियोगम् ।

५ - ११ - द्वियोगस्य भावः द्वैयोग्यम् इति ।

६ - ११ - द्वेष्यम् विजानीयात् अविशेषेण इतः उत्तरम् द्वित्रिभ्याम् इति ।

७ - ११ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे द्वित्रिभ्याम् द्वैयोग्यम् इति ।

८ - ११ - तत्र च बहुग्रहणम् ।

९ - ११ - तत्र च बहुग्रहणम् कर्तव्यम् ।

१० - ११ - बहुनिष्कम् बहुनैष्किकम् ।

११ - ११ - बहुबिस्तम् बहुबैस्तिकम् ।

१ - ८ - खार्याः ईकन् केवलायाः च ।

२ - ८ - खार्याः ईकन् केवलायाः च इति वक्तव्यम् ।

३ - ८ - खारीकम् ।

४ - ८ - काकिण्याः च उपसङ्ख्यानम् ।काकिण्याः च उपसङ्ख्यानम् कर्तव्यम् ।

५ - ८ - अध्यर्धकाकिणीकम् द्विकाकिणीकम् ।

६ - ८ - केवलायाः च ।

७ - ८ - केवलायाः च इति वक्तव्यम् ।

८ - ८ - काकिणीकम् ।

१ - ६ - शतशाणाभ्याम् वा ।

२ - ६ - शतशाणाभ्याम् वा इति वक्तव्यम् ।

३ - ६ - अध्यर्धशतम् अध्यर्धशत्यम् पञ्चशतम् पञ्चशत्यम् अध्यर्धशाणम् अध्यर्धशाण्यम् पञ्चशाणम् पञ्चशाण्यम् ।

४ - ६ - द्वित्रिपूर्वात् अण् च ।

५ - ६ - द्वित्रिपूर्वात् अण् च इति वक्तव्यम् ।

६ - ६ - द्विशाणम् त्रिशाणम् द्वैशाणम् त्रैशाणम् द्विशाण्यम् त्रिशाण्यम् ।

१ - ३८ - तेन क्रीतम् इति करणात् ।

२ - ३८ - तेन क्रीतम् इति अत्र करणात् इति वक्तव्यम् ।

३ - ३८ - इह मा भूत् ।

४ - ३८ - देवदत्तेन क्रीतम् ।

५ - ३८ - यज्ञदत्तेन क्रीतम् इति ।

६ - ३८ - अकर्त्रेकान्तात् ।

७ - ३८ - अकर्त्रेकान्तात् इति वक्तव्यम् ।

८ - ३८ - इह मा भूत् ।

९ - ३८ - देवदत्तेन पाणिना क्रीतम् इति ।

१० - ३८ - सङ्ख्यैकवचनात् द्विगोः च उपसङ्ख्यानम् ।

११ - ३८ - सङ्ख्यायाः इति वक्तव्यम् ।

१२ - ३८ - इह अपि यथा स्यात् ।

१३ - ३८ - पञ्चभिः क्रीतम् पञ्चकम् ।

१४ - ३८ - किम् पुनः कारणम् न सिध्यति ।

१५ - ३८ - एकवचनान्तात् इति वक्ष्यति ।

१६ - ३८ - तस्य अयम् पुरस्तात् अपकर्षः ।

१७ - ३८ - एकवचनात् ।

१८ - ३८ - एकवचनान्तात् इति वक्तव्यम् ।

१९ - ३८ - इह मा भूत् ।

२० - ३८ - शूर्पाभ्याम् क्रीतम् ।

२१ - ३८ - शूर्पैः क्रीतम् इति ।

२२ - ३८ - द्विगोः च ।

२३ - ३८ - द्विगोः च इति वक्तव्यम् ।

२४ - ३८ - इह अपि यथा स्यात् ।

२५ - ३८ - द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् त्रिशूर्पम् इति ।

२६ - ३८ - यदि एकवचनान्तात् इति उच्यते मुद्गैः क्रीतम् मौद्गिकम् माषैः क्रीतम् माषिकम् इति न सिध्यति ।

२७ - ३८ - परिमाणस्य सङ्ख्यायाः यत् एकवचनम् तदन्तात् इति वक्तव्यम् ।

२८ - ३८ - तत् तर्हि एकवचनान्तात् इति वक्तव्यम् ।

२९ - ३८ - तस्मिन् च क्रियमाणे बहु वक्तव्यम् भवति ।

३० - ३८ - न वक्तव्यम् ।

३१ - ३८ - कस्मात् न भवति शूर्पाभ्याम् क्रीतम् ।

३२ - ३८ - शूर्पैः क्रीतम् इति ।

३३ - ३८ - उक्तम् वा ।

३४ - ३८ - किम् उक्तम् ।

३५ - ३८ - अनभिधानात् इति ।

३६ - ३८ - यदि एवम् करणात् अकर्त्रेकान्तात् इति अपि न वक्तव्यम् ।

३७ - ३८ - कर्तुः कर्त्रेकान्तात् वा कस्मात् न भवति ।

३८ - ३८ - अनभिधानात् ।

१ - १० - संयोगनिपातयोः कः विशेषः ।

२ - १० - संयोगः नाम सः भवति इदम् कृत्वा इदम् अवाप्यते इति ।

३ - १० - उत्पातः नाम सः भवति यादृच्छिकः भेदः वा छेदः वा पद्मम् वा पर्णम् वा ।

४ - १० - तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् ।

५ - १० - तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् कर्तव्यम् ।

६ - १० - वातस्य शमनम् कोपनम् वा वातिकम् ।

७ - १० - पैत्तिकम् श्लैष्मिकम् ।

८ - १० - सन्निपातात् च ।

९ - १० - सन्निपातात् च इति वक्तव्यम् ।

१० - १० - सान्निपातिकम् ।

१ - ४ - यत्प्रकरणे ब्रह्मवर्चसात् च ।

२ - ४ - यत्प्रकरणे ब्रह्मवर्चसात् च उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४ - ब्रह्मवर्चसस्य निमित्तम् ब्रह्म्वर्चस्यः ।

४ - ४ - उत्पातः वा ।

१ - ११ - तद् अस्मिन् दीयते अस्मै इति च ।

२ - ११ - तद् अस्मिन् दीयते अस्मै इति च इति वक्तव्यम् ।

३ - ११ - पञ्च वृद्धिः वा आयः वा लाभः वा शुल्कः वा उपदा वा दीयते अस्मै पञ्चकः ।

४ - ११ - सप्तकः ।

५ - ११ - अष्टकः ।

६ - ११ - नवकः ।

७ - ११ - दशकः ।

८ - ११ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

९ - ११ - न कर्तव्यम् ।

१० - ११ - यत् हि यस्मै दीयते तस्मिन् अपि तत् दीयते ।

११ - ११ - तत् अस्मिन् दीयते इति एव सिद्धम् ।

१ - १३ - ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् ।

२ - १३ - ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् कर्तव्यम् ।

३ - १३ - द्वितीयकः ।

४ - १३ - तृतीयकः ।

५ - १३ - किम् पुनः कारणम् न सिध्यति ।

६ - १३ - पूरणात् इति उच्यते ।

७ - १३ - न च एतत् पूरणान्तम् ।

८ - १३ - अना एतत् पर्यवपन्नम् ।

९ - १३ - पूरणम् नाम अर्थः ।

१० - १३ - तम् अर्थम् आह तीयशब्दः ।

११ - १३ - पूरणम् सः असौ भवति ।

१२ - १३ - पूरणन्तात् स्वार्थे भागे अन् ।

१३ - १३ - सः अपि पूरणम् भवति एव ।

१ - ५ - तत् पचति इति द्रोणात् अण् च ।

२ - ५ - तत् पचति इति द्रोणात् अण् च इति वक्तव्यम् ।

३ - ५ - द्रोणम् पचति ।

४ - ५ - द्रौणी ।

५ - ५ - द्रौणिकी ।

१ - ९ - कुलिजात् च इति सिद्धे लुक्खग्रहणानर्थक्यम् पूर्व्समिन् त्रिकभावात् ।

२ - ९ - कुलिजात् च इति एव सिद्धम् ।

३ - ९ - न अर्थः लुक्खग्रहणेन ।

४ - ९ - किम् कारणम् ।

५ - ९ - पूर्वस्मिन् त्रिकभावात् ।

६ - ९ - पूर्वस्मिन् योगे सर्वः एषः त्रिकः निर्दिश्यते ।

७ - ९ - द्व्याढकी ।

८ - ९ - द्व्याढिकी ।

९ - ९ - द्व्याढकीना ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP