संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ४|पाद २| खण्ड ४८ पाद २ खण्ड ४७ खण्ड ४८ पाद २ - खण्ड ४८ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ४८ Translation - भाषांतर १ - ७ - ओः अञ्विधेः नद्याम् मतुपा- विप्रतिषिद्धम् ।२ - ७ - ओः अञ्विधेः नद्याम् मतुप् भवति विप्रतिषेधेन ।३ - ७ - ओः अञः अवकाशह्ः कन्नतु कान्नवतम् ।४ - ७ - मतुपः अवकाशः उदुम्बरावती मशकावती ।५ - ७ - इह उभयम् प्राप्नोति ।६ - ७ - इक्षुमती द्रुमती ।७ - ७ - मतुप् भवति विप्रतिषेधेन ।१ - १० - अङ्गग्रहणम् किमर्थम् ।२ - १० - यथा बह्वज्ग्रहणम् अङ्गविशेषणम् विज्ञायेत ।३ - १० - बह्वचः अङ्गात् इति ।४ - १० - अथ अक्रियमाणे अङ्गग्रहणे बह्वज्ग्रहणम् कस्य विशेषणम् स्यात् ।५ - १० - मत्वन्तविशेषणम् ।६ - १० - तत्र कः दोषः ।७ - १० - इह अपि प्रसज्येत ।८ - १० - मालावताम् अयम् निवासः मालावतम् ।९ - १० - अस्ति च इदानीम् अबह्वच् मत्वन्तः यदर्थः विधिः स्यात् ।१० - १० - अस्ति इति आह स्ववान् , श्ववान् ।१ - ८ - किमर्थम् नद्याम् मतुप् विधीयते न तत् अस्य अस्ति अस्मिन् इति मतुप् इति एव सिद्धम् ।२ - ८ - नद्याम् मतुब्वचनम् मत्वर्थे अण्विधानात् ।३ - ८ - नद्याम् मतुब्वचनम् क्रियते मत्वर्थे अण्विधानात् ।४ - ८ - अयम् मत्वर्थे अण् विधीयते ।५ - ८ - सः विशेषविहितः सामान्यविहितम् मतुपम् बाधेत ।६ - ८ - निर्वृत्ताद्यर्थम् च ।७ - ८ - निर्वृत्ताद्यर्थम् च नद्याम् मतुब्वचनम् क्रियते ।८ - ८ - निर्वृत्ताद्यर्थेषु मतुप् यथा स्यात् ।१ - २ - महिषात् च इति वक्तव्यम् ।२ - २ - महिष्मान् ।१ - ४० - यदि पुनः अयम् कुट् परादिः क्रियेत ।२ - ४० - कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् ।३ - ४० - कुटि सति प्रत्ययादेः इति आदेशस्य अनुपपत्तिः ।४ - ४० - कुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।५ - ४० - एवम् तर्हि पूर्वान्तः करिष्यते ।६ - ४० - पूर्वान्ते ह्रस्वत्वम् ।७ - ४० - यदि पूर्वान्तः ह्रस्वत्वम् वक्तव्यम् ।८ - ४० - कुञ्चकीयाः ।९ - ४० - परादौ पुनः सति के अणः इति ह्रस्वत्वम् सिद्धम् भवति ।१० - ४० - अस्तु तर्हि परादिः ।११ - ४० - ननु च उक्तम् कुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।१२ - ४० - सिद्धम् तु आदिष्टस्य कुड्वचनात् ।१३ - ४० - सिद्धम् एतत् ।१४ - ४० - कथम् ।१५ - ४० - कुट् आदिष्टस्य इति वक्तव्यम् ।१६ - ४० - तत् तर्हि वक्तव्यम् ।१७ - ४० - न वक्तव्यम् ।१८ - ४० - सन्नियोगात् सिद्धम् ।१९ - ४० - सन्नियोग्ः करिष्यते ।२० - ४० - कः एषः यत्नः चोद्यते सन्नियोगः नाम ।२१ - ४० - चकारः कर्तव्यः ।२२ - ४० - कुट् च ।२३ - ४० - यत् च अन्यत् प्राप्नोति ।२४ - ४० - किम् च अन्यत् प्राप्नोति ।२५ - ४० - आदेशः ।२६ - ४० - सिध्यति ।२७ - ४० - सूत्रम् तर्हि भिद्यते ।२८ - ४० - यथान्यासम् एव अस्तु ।२९ - ४० - ननु च उक्तम् ।३० - ४० - पूर्वान्ते ह्रस्वत्वम् इति ।३१ - ४० - निपातनात् एतत् सिद्धम् ।३२ - ४० - किम् निपातनम् ।३३ - ४० - क्रुञ्चाः ह्रस्वत्वम् च इति ।३४ - ४० - तत् तर्हि पूर्वान्ते सति निपातनम् कर्तव्यम् ।३५ - ४० - परादौ अपि एषः दोषः ।३६ - ४० - यत् हि तत् के अणः इति ह्रस्वत्वम् न तत् कादिमात्रे शख्यम् विज्ञातुम् ।३७ - ४० - इह अपि प्रसज्येत ।३८ - ४० - नदीकल्पः परीवाहः कुमारीकाम्यति इति ।३९ - ४० - तस्मात् उभाभ्याम् एतत् वक्तव्यम् ।४० - ४० - क्रुञ्चाः ह्रस्वत्वम् च इति ।१ - ५३ - शेषे इति उच्यते ।२ - ५३ - कः शेषः नाम ।३ - ५३ - अपत्यादिभ्यः चातुरर्थ्पर्यन्तेभ्यः ये अन्ये अर्थाः सः शेषः ।४ - ५३ - किमर्थम् पुनः शेषग्रहणम् ।५ - ५३ - शेषे घादयः यथा स्युः ।६ - ५३ - स्वार्थे मा भूवन् इति ।७ - ५३ - न एतत् अस्ति प्रयोजनम् ।८ - ५३ - इदम् तावत् अयम् प्रष्टव्यः ।९ - ५३ - अणादयः स्वार्थे कस्मात् न भवन्ति इति ।१० - ५३ - अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।११ - ५३ - तेन स्वार्थे न भविष्यन्ति ।१२ - ५३ - इमे अपि तर्हि जातादिषु अर्थेषु विधीयन्ते ।१३ - ५३ - तेन स्वार्थे न भविष्यन्ति ।१४ - ५३ - कथम् पुनः इह उच्यमानाः घादयः जातादिषु शक्याः विज्ञातुम् ।१५ - ५३ - अनुवर्तिष्यन्ते तत्र घादयः ।१६ - ५३ - यदि अनुवर्तन्ते घादयः या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति ।१७ - ५३ - एवम् तर्हि जातादिषु अर्थेषु घादीन् अपेक्षिष्यामहे ।१८ - ५३ - अयुक्ता एवम् बहुनः अपेक्षा ।१९ - ५३ - अपेक्षमाणः अयम् अनन्तरम् योगम् अपेक्षेत ।२० - ५३ - बहुनः अपि अपेक्षा भवति ।२१ - ५३ - तत् यथा कषादिषु यथाविधि अनुप्रयोगः इति सामान्यकम् सविशेषकम् सर्वम् अपेक्ष्यते ।२२ - ५३ - अथ वा पुनः अस्तु अनुवृत्तिः ।२३ - ५३ - ननु च उक्तम् या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति इति ।२४ - ५३ - न एषः दोषः ।२५ - ५३ - सम्बन्धम् अनुवर्तिष्यते ।२६ - ५३ - राष्ट्रावारपारात् घखौ ।२७ - ५३ - ग्रामात् यखञौ राष्ट्रावारपारात् घखौ ।२८ - ५३ - कत्त्र्यादिभ्यः ढकञ् राष्ट्रावारपारात् घखौ ग्रामात् यखञौ इति ।२९ - ५३ - अतः उत्तरम् पठति ।३० - ५३ - शेषवचनम् घादीनाम् अपत्यादिषु अप्रसङ्गार्थम् ।३१ - ५३ - शेषवचनम् क्रियते शेषे घादयः यथा स्युः ।३२ - ५३ - अपत्यादिषु मा भूवन् इति इति ।३३ - ५३ - कथम् च प्राप्नुवन्ति ।३४ - ५३ - तस्येदंवचनात् प्रसङ्गः ।३५ - ५३ - तस्येदंविशेषाः हि एते अपत्यम् समूहः निवासः विकारः इति ।३६ - ५३ - विप्रतिषेधात् सिद्धम् ।३७ - ५३ - अणादयः क्रियन्ताम् घातयः इति अणादयः भवन्ति विप्रतिषेधेन ।३८ - ५३ - न वा परत्वात् घादीनाम् ।३९ - ५३ - न एषः युक्तः विप्रतिषेधः ।४० - ५३ - किम् कारणम् ।४१ - ५३ - परत्वात् घादीनाम् ।४२ - ५३ - विप्रतिषेधे परम् इति उच्यते ।४३ - ५३ - पूर्वे च अणादयः परे घादयः ।४४ - ५३ - परे अणादयः करिष्यन्ते ।४५ - ५३ - सूत्रविपर्यासः च एवम् कृतः भवति ।४६ - ५३ - अणपवादत्वात् च अण्विषये घादिप्रसङ्गः ।४७ - ५३ - अणपवादत्वात् च घादीनाम् अण्विषये घादयः प्राप्नुवन्ति ।४८ - ५३ - न एषः दोषः ।४९ - ५३ - आचार्यप्रवृत्तिः ज्ञापयति न अण्विषये घादयः भवन्ति इति यत् अयम् फेः छ च इति फ्यन्तम् छम् शास्ति ।५० - ५३ - न एतत् अस्ति ज्ञापकम् ।५१ - ५३ - फिनर्थम् एतत् स्यात् ।५२ - ५३ - सौवीरेषु इति वर्तते न च फिनन्तम् सौवीरगोत्रम् अस्ति ।५३ - ५३ - गोत्रग्रहणम् सामुहिकेषु ज्ञापकम् दैवयातवग्रहणम् वैषयिकेषु भास्त्रायणग्रहणम् नैवासिकेषु ।१ - ६ - अवारपारात् विगृहीतात् अपि ।२ - ६ - अवारपारात् विगृहीतात् अपि इति वक्तव्यम् ।३ - ६ - अवरीणः पारीणः अवारपारीणः ।४ - ६ - विपरीतात् च ।५ - ६ - विपरीतात् च इति वक्तव्यम् ।६ - ६ - पारावारीणः ।१ - ५ - ग्रामात् च इति वक्तव्यम् ।२ - ५ - ग्रामेयकः ।३ - ५ - तत् तर्हि वक्तव्यम् ।४ - ५ - न वक्तव्यम् ।५ - ५ - कत्त्र्यादिभ्यः ढकञ् इति अत्र ग्रामात् इति अनुवर्तिष्यते ।१ - ६ - अयम् योगः शक्यः अवक्तुम् ।२ - ६ - कथम् कौलेयकः ।३ - ६ - कुलस्य अपत्यम् ।४ - ६ - कुक्षिग्रीवात् तु कन् ढञः ।५ - ६ - कुलस्य अपत्यम् कौलेयकः इति भविष्यति ।६ - ६ - कुक्षिग्रीवात् अपि ढञन्तात् कन् भविष्यति ।१ - २ - बाह्ल्युर्दिपर्दिभ्यः च इति वक्तव्यम् ।२ - २ - बाह्लायनी और्दायनी पार्दायनी ।१ - २१ - अमनुष्ये इति किमर्थम् ।२ - २१ - राङ्कवकः मनुष्यः ।३ - २१ - रङ्कोः अमनुष्यग्रहणानर्थक्यम् मनुष्यतत्स्थयोः वुञ्विधानात् ।४ - २१ - रङ्कोः अमनुष्यग्रहणम् अनर्थकम् ।५ - २१ - किम् कारणम् ।६ - २१ - मनुष्यतत्स्थयोः वुञ्विधानात् ।७ - २१ - अयम् मनुष्ये मनुष्यतत्स्थे च वुञ् विधीयते ।८ - २१ - सः बाधकः भविष्यति ।९ - २१ - एवम् तर्हि ज्ञापयति आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति ।१० - २१ - अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् न अनिष्टत्वात् ।११ - २१ - अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् तत् न ।१२ - २१ - किम् कारणम् ।१३ - २१ - अनिष्टत्वात् ।१४ - २१ - न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते ।१५ - २१ - किम् तर्हि ।१६ - २१ - वुञ् एव इष्यते ।१७ - २१ - अण्ग्रहनम् च कच्छादिभ्यः अण्वचनात् ।१८ - २१ - अण्ग्रहनम् च अनर्थकम् ।१९ - २१ - किम् कारणम् ।२० - २१ - कच्छादिभ्यः अण्वचनात् ।२१ - २१ - कच्छादिपाठात् अत्र अण् भविष्यति ।१ - २६ - परिगणनम् कर्तव्यम् ।२ - २६ - अमेहक्वतसित्रेभ्यः त्यब्विधिः यो अव्ययात् स्मृतः ।३ - २६ - अमा अमात्यः अमा ।४ - २६ - इह इहत्यः इह ।५ - २६ - क्व क्वत्यः क्व ।६ - २६ - तसि ततस्त्यः यतस्त्यः ।७ - २६ - त्र तत्रत्र्यः यत्रत्यः ।८ - २६ - इतरथा हि औत्तराहौपरिष्टपारतानाम् प्रतिषेधः वक्तव्यः स्यात् ।९ - २६ - औत्तराहः औपरिष्टः पारतः ।१० - २६ - त्यप् नेः ध्रुवे ।११ - २६ - त्यप् नेः ध्रुवे वक्तव्यः ।१२ - २६ - नित्यः ।१३ - २६ - निसः गते ।१४ - २६ - त्यप् वक्तव्यः इति ।१५ - २६ - निष्ट्यः ।१६ - २६ - अरण्यात् णः ।१७ - २६ - अरण्यात् णः वक्तव्यः ।१८ - २६ - आरण्याः सुमनसः ।१९ - २६ - दूरात् एत्यः डूरात् एत्यः वक्तव्यः ।२० - २६ - दूरेत्यः ।२१ - २६ - उत्तरात् आहञ् ।२२ - २६ - उत्तरात् आहञ् वक्तव्यः ।२३ - २६ - औत्तराहः ।२४ - २६ - अव्ययात् त्यपि आविष्टस्य उपसङ्ख्यानम् छन्दसि ।२५ - २६ - अव्ययात् त्यप् इति अत्र आविष्टस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।२६ - २६ - आविष्ट्यः वर्धते चारुः [आसु (ऋ)].१ - २६९ - अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः विप्रतिषेधेन ।२ - २६९ - अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः भवति विप्रतिषेधेन ।३ - २६९ - अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः ।४ - २६९ - छस्य अवकाशः शालीयः मालीयः ।५ - २६९ - आरात् उभयम् प्राप्नोति ।६ - २६९ - आरातीयः ।७ - २६९ - तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी ।८ - २६९ - छस्य सः एव ।९ - २६९ - वायस्तीरात् उभयम् प्राप्नोति ।१० - २६९ - वायसतीरीयः ।११ - २६९ - रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या ।१२ - २६९ - छस्य सः एव ।१३ - २६९ - माणिरूप्यात् उभयम् प्राप्नोति ।१४ - २६९ - तम् च अपि छम् परत्वात् योपधलक्षणः वुञ् बाधते ।१५ - २६९ - माणिरूप्यकः ।१६ - २६९ - उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः ।१७ - २६९ - छस्य सः एव ।१८ - २६९ - वाडवकर्षात् उभयम् प्राप्नोति ।१९ - २६९ - वाडवकर्षीयः ।२० - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः ।२१ - २६९ - छस्य सः एव ।२२ - २६९ - औलूकात् उभयम् प्राप्नोति ।२३ - २६९ - औलूकीयः ।२४ - २६९ - तेभ्यः ठञ्ञिठौ ।२५ - २६९ - तेभ्यः त्यबादिभ्यः ठञ्ञिठौ भवतः विप्रतिषेधेन ।२६ - २६९ - अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः ।२७ - २६९ - ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऋकारतन्तविकी कारतन्तविका] ।२८ - २६९ - आरात् नाम वाहीकग्रामः ।२९ - २६९ - तस्मात् उभयम् प्राप्नोति ।३० - २६९ - आरात्की आरात्का ।३१ - २६९ - तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी ।३२ - २६९ - ठञ्ञिठयोः सः एव ।३३ - २६९ - कास्तीरः [ऋकास्तीरम्] नाम वाहीकग्रामः ।३४ - २६९ - तस्मात् उभयम् प्राप्नोति ।३५ - २६९ - कास्तीरिकी कास्तिरिका ।३६ - २६९ - रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या ।३७ - २६९ - ठञ्ञिठयोः सः एव ।३८ - २६९ - दासरूपम् नाम वाहीकग्रामः ।३९ - २६९ - तस्मात् उभयम् प्राप्नोति ।४० - २६९ - तौ च अपि ठञ्ञिठौ परत्वात् योपधलक्षणः वुञ् बाधते ।४१ - २६९ - दासरूप्यकः ।४२ - २६९ - उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः ।४३ - २६९ - ठञ्ञिठयोः सः एव ।४४ - २६९ - शाकलम् नाम वाहीकग्रामः ।४५ - २६९ - तस्मात् उभयम् प्राप्नोति ।४६ - २६९ - शाकलिकी शाकलिका ।४७ - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः ।४८ - २६९ - ठञ्ञिठयोः सः एव ।४९ - २६९ - सौसुकम् नाम वाहीकग्रामः ।५० - २६९ - तस्मात् उभयम् प्राप्नोति ।५१ - २६९ - तौ च अपि ठञ्ञिठौ परत्वात् कोपधलक्षणः छः बाधते ।५२ - २६९ - सौसुकीयः ।५३ - २६९ - न वा ठञादीनाम् छापवादत्वात् तद्विषये च अभावात् इतरेषाम् ।५४ - २६९ - न वा अर्थः विप्रतिषेधेन ।५५ - २६९ - किम् कारणम् ।५६ - २६९ - ठञादीनाम् छापवादत्वात् ।५७ - २६९ - ठञादयः छापवादाः ।५८ - २६९ - तद्विषये च अभावात् इतरेषाम् ।५९ - २६९ - तद्विषये छविषये त्यबादीनाम् अभावः ।६० - २६९ - कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।६१ - २६९ - अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् कोपधात् अणः छस्य च ।६२ - २६९ - किम् कारणम् ।६३ - २६९ - कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।६४ - २६९ - सिद्धः अत्र अण् उत्सर्गेण एव ।६५ - २६९ - तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।६६ - २६९ - सः यथा एव तदपवादम् अञम् बाधते एवम् छम् अपि बाधेत ।६७ - २६९ - तस्मात् अन्तोदात्ते कोपधप्रतिषेधः ।६८ - २६९ - तस्मात् अन्तोदात्ते कोपधात् अञः प्रतिषेधः वक्तव्यः ।६९ - २६९ - न वक्तव्यः ।७० - २६९ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् कोपधात् अण् अञम् एव बाधिष्यते ।७१ - २६९ - छम् न बाधिष्यते ।७२ - २६९ - छात् ओः देशे कालात् ठञ् ।७३ - २६९ - छात् ओः देशे ठञ् कालात् ठञ् इति एतत् भवति विप्रतिषेधेन ।७४ - २६९ - छस्य अवकाशः शालीयः मालीयः ।७५ - २६९ - ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऋनिषादकर्षूः नाम देशः नैषादकर्षुकः ] ।७६ - २६९ - इह उभयम् प्राप्नोति ।७७ - २६९ - दाक्षिकर्षुकः ।७८ - २६९ - कालात् ठञ् भवति इति अस्य अवकाशः आर्धमासिकम् सांवत्सरिकम् ।७९ - २६९ - छस्य सः एव. मासात् उभयम् प्राप्नोति ।८० - २६९ - मासिकम् ।८१ - २६९ - नक्षत्रात् अण् ।८२ - २६९ - नक्षत्रात् अण् छात् भवति विप्रतिषेधेन ।८३ - २६९ - अणः अवकाशः तैषः पौषः ।८४ - २६९ - छस्य सः एव ।८५ - २६९ - स्वातेः उभयम् प्राप्नोति ।८६ - २६९ - सौवातः ।८७ - २६९ - अव्ययात् ट्युट्युलौ ।८८ - २६९ - अव्ययात् ट्युट्युलौ छात् भवतः विप्रतिषेधेन ।८९ - २६९ - ट्युट्युलयोः अवकाशः दोषान्तनम् दिवातनम् ।९० - २६९ - छस्य सः एव. प्रातःशब्दात् उभयम् प्राप्नोति ।९१ - २६९ - प्रातस्तनम् ।९२ - २६९ - शरीरावयवात् यत् ।९३ - २६९ - शरीरावयवात् यत् छात् भवति विप्रतिषेधेन ।९४ - २६९ - यतः अवकाशः दन्त्यम् ओष्ठ्यम् ।९५ - २६९ - छस्य सः एव ।९६ - २६९ - पादशब्दात् उभयम् प्राप्नोति ।९७ - २६९ - पद्यम् ।९८ - २६९ - वर्गान्तात् च अशब्दे यत्खौ ।९९ - २६९ - वर्गान्तात् च अशब्दे यत्खौ छात् भवतः विप्रतिषेधेन ।१०० - २६९ - यत्खयोः अवकाशः अक्रूरवग्यः अक्रूरवर्गीणः ।१०१ - २६९ - छस्य सः एव ।१०२ - २६९ - वासुदेववर्गात् उभयम् प्राप्नोति ।१०३ - २६९ - वासुदेवावर्ग्यः वासुदेववर्गीणः ।१०४ - २६९ - बह्वचः अन्तोदात्तात् वुञ् ।१०५ - २६९ - बह्वचः अन्तोदात्तात् ठञ् छात् भवति विप्रतिषेधेन ।१०६ - २६९ - ठञः अवकाशः नतानन नातानतिकः ।१०७ - २६९ - छस्य सः एव ।१०८ - २६९ - सामस्तात् उभयम् प्राप्नोति ।१०९ - २६९ - सामस्तिकः ।११० - २६९ - आयस्थानेभ्यः ठक् ।१११ - २६९ - आयस्थानेभ्यः ठक् छात् भवति विप्रतिषेधेन ।११२ - २६९ - ठकः अवकाशः शौल्किकम् गौल्किकम् ।११३ - २६९ - छस्य सः एव ।११४ - २६९ - आपणात् उभयम् प्राप्नोति ।११५ - २६९ - आपणिकम् ।११६ - २६९ - विद्यायोनिसम्बन्धेभ्यः वुञ् ।११७ - २६९ - विद्यायोनिसम्बन्धेभ्यः वुञ् छात् भवति विप्रतिषेधेन ।११८ - २६९ - वुञः अवकाशः औपाध्यायकम् पैतामहकम् ।११९ - २६९ - छस्य सः एव ।१२० - २६९ - इह उभयम् प्राप्नोति ।१२१ - २६९ - आचार्यकम् मातुलकम् ।१२२ - २६९ - ऋतः ठञ् ।१२३ - २६९ - ऋतः ठञ् छात् भवति विप्रतिषेधेन ।१२४ - २६९ - ठञः अवकाशः हौतृकम् स्वासृकम् ।१२५ - २६९ - छस्य सः एव ।१२६ - २६९ - इह उभयम् प्राप्नोति ।१२७ - २६९ - शास्तृकम् भ्रातृकम् ।१२८ - २६९ - रूप्यमयटौ ।१२९ - २६९ - रूप्यमयटौ छात् भवतः विप्रतिषेधेन ।१३० - २६९ - रूप्यमयटोः अवकाशः देवदत्तरूप्यम् देवदत्तमयम् ।१३१ - २६९ - छस्य सः एव ।१३२ - २६९ - वायुदत्तात् उभयम् प्राप्नोति ।१३३ - २६९ - वायुदत्तरूपम् वायुदत्तमयम् ।१३४ - २६९ - अचित्तात् ठक् ।१३५ - २६९ - अचित्तात् ठक् छात् भवति विप्रतिषेधेन ।१३६ - २६९ - ठकः अवकाशः आपूपिकः शाष्कुलिकः मौदकिकः ।१३७ - २६९ - छस्य सः एव ।१३८ - २६९ - पायसात् उभयम् प्राप्नोति ।१३९ - २६९ - पायसिकः ।१४० - २६९ - गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् ।१४१ - २६९ - गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् छात् भवति विप्रतिषेधेन ।१४२ - २६९ - वुञः अवकाशः ग्लौचुकायनः त्रैगर्तकः ।१४३ - २६९ - छस्य सः एव ।१४४ - २६९ - इह उभयम् प्राप्नोति ।१४५ - २६९ - गार्गिकः वात्सकः मालवकः ।१४६ - २६९ - णिनिः अन्तेवासिब्राह्मणेभ्यः ।१४७ - २६९ - णिनिः अन्तेवासिब्राह्मणेभ्यः छात् भवति विप्रतिषेधेन ।१४८ - २६९ - णिनेः अवकाशः हारिद्रविणः तौम्बुरविणः भाल्लविनः ।१४९ - २६९ - छस्य सः एव ।१५० - २६९ - इह उभयम् प्राप्नोति ।१५१ - २६९ - आरुणिनः शाट्यायनिनः ।१५२ - २६९ - पत्त्रपूर्वात् अञ् ।१५३ - २६९ - पत्त्रपूर्वात् अञ् छात् भवति विप्रतिषेधेन ।१५४ - २६९ - अञः अवकाशः उष्ट्र औष्ट्रम् औष्ट्ररथम् ।१५५ - २६९ - छस्य सः एव ।१५६ - २६९ - इह उभयम् प्राप्नोति ।१५७ - २६९ - वामी वामम् वामीरथम् ।१५८ - २६९ - द्वन्द्वात् वुन् वैरमैथुनिकयोः ।१५९ - २६९ - द्वन्द्वात् वुन् वैरमैथुनिकयोः छात् भवति विप्रतिषेधेन ।१६० - २६९ - वुनः अवकाशः अहिनकुलिका ।१६१ - २६९ - छस्य सः एव ।१६२ - २६९ - इह उभयम् प्राप्नोति ।१६३ - २६९ - काकोलूकिक श्वावराहिका ।१६४ - २६९ - गोत्रचरणात् वुञ् ।१६५ - २६९ - गोत्रचरणात् वुञ् छात् भवति विप्रतिषेधेन ।१६६ - २६९ - वुञः अवकाशः ग्लौचुकायनकम् म्लौचुकायनकम् काठकम् कालापकम् ।१६७ - २६९ - छस्य सः एव ।१६८ - २६९ - इह उभयम् प्राप्नोति ।१६९ - २६९ - गार्गकम् वात्सकम् मौदकम् पैप्पलादकम् ।१७० - २६९ - कण्वादीञः अण्विधेः ।१७१ - २६९ - कण्वादिभ्यः अण् भवति ईञः अण् भवति इति एतस्मात् वुञ् भवति विप्रतिषेधेन ।१७२ - २६९ - कण्वादिभ्यः अण् भवति ईञः अण् भवति इति अस्य अवकाशः काण्वाः दण्डमाणवाः दाक्षाः दण्डमाणवाः ।१७३ - २६९ - वुञः सः एव ।१७४ - २६९ - इह उभयम् प्राप्नोति ।१७५ - २६९ - काण्वकम् दाक्षकम् ।१७६ - २६९ - ठञ्ञिठाभ्याम् ओः देशे ठञ् ।१७७ - २६९ - ठञ्ञिठाभ्याम् ओः देशे ठञ् इति एतत् भवति विप्रतिषेधेन ।१७८ - २६९ - ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऋकारतन्तविकी कारतन्तविका] ।१७९ - २६९ - ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऋनिषादकर्षूः नाम देशः नैषादकर्षुकः ] ।१८० - २६९ - इह उभयम् प्राप्नोति ।१८१ - २६९ - नापितवास्तुकः ।१८२ - २६९ - ठञ् भवति विप्रतिषेधेन ।१८३ - २६९ - न वा ठञः अनवकाशत्वात् ।१८४ - २६९ - न वा अर्थः विप्रतिषेधेन ।१८५ - २६९ - किम् कारणम् ।१८६ - २६९ - ठञः अनवकाशत्वात् ।१८७ - २६९ - अनवकाशः ठञ् ठञ्ञिठौ बाधिष्यते ।१८८ - २६९ - ननु च इदानीम् एव अवकाशः प्रक्ल्̥प्तः ।१८९ - २६९ - यत् वृद्धम् अनुवर्णान्तम् वाहीकग्रामः सः ठञ्ञिठयोः अवकाशः ।१९० - २६९ - यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः ।१९१ - २६९ - यत् वृद्धम् उवर्णान्तम् वाहीकग्रामः तस्मात् उभयम् प्राप्नोति ।१९२ - २६९ - एवम् तर्हि न अयम् अस्य विप्रतिषेधस्य उपालम्भः ।१९३ - २६९ - कस्य तर्हि ।१९४ - २६९ - छात् ओः देशे कालात् ठञ् इति एतस्य ।१९५ - २६९ - ननु च तत्र अपि अवकाशः प्रक्ल्̥प्तः ।१९६ - २६९ - यत् वृद्धम् उवर्णान्तम् सः छस्य अवकाशः ।१९७ - २६९ - यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः ।१९८ - २६९ - यत् वृद्धम् उवर्णान्तम् देशः च तस्मात् उभयम् प्राप्नोति ।१९९ - २६९ - एवम् तर्हि वृद्धात् प्राचाम् इति अनेन वृद्धग्रहणेन किम् क्रियते ।२०० - २६९ - यावत् ब्रूयात् पूर्वस्मिन् योगे वृद्धात् च अवृद्धात् च इति ।२०१ - २६९ - यत् एतस्मिन् योगे वृद्धग्रहणम् तत् अनवकाशम् ।२०२ - २६९ - तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।२०३ - २६९ - योपधप्रस्थादीनाम् वुञ् ।२०४ - २६९ - योपधप्रस्थादीनाम् वुञ् ठञ्ञिठाभ्याम् भवति विप्रतिषेधेन ।२०५ - २६९ - योपधात् वुञ् भवति इति अस्य अवकाशः साङ्काश्य साङ्कास्यकः ।२०६ - २६९ - ठञ्ञिठयोः सः एव ।२०७ - २६९ - दासरूप्यम् नाम वाहीकग्रामः ।२०८ - २६९ - तस्मात् उभयम् प्राप्नोति ।२०९ - २६९ - दासरूप्यकः ।२१० - २६९ - प्रस्थानान्तात् वुञ् भवति इति अस्य अवकाशः मालाप्रस्थ पालाप्रस्थकः ।२११ - २६९ - ठञ्ञिठयोः सः एव ।२१२ - २६९ - पातानप्रस्थम् नाम वाहीकग्रामः ।२१३ - २६९ - तस्मात् उभयम् प्राप्नोति ।२१४ - २६९ - पातानप्रस्थकः ।२१५ - २६९ - पुरान्तात् वुञ् भवति इति अस्य अवकाशः काञ्चीपुर काञ्चीपुरकः ।२१६ - २६९ - ठञ्ञिठयोः सः एव ।२१७ - २६९ - नान्दीपुरम् नाम वाहीकग्रामः ।२१८ - २६९ - तस्मात् उभयम् प्राप्नोति ।२१९ - २६९ - नान्दीपुरकः ।२२० - २६९ - वहान्तात् वुञ् भवति इति अस्य अवकाशः वातवह वातवहकः ।२२१ - २६९ - ठञ्ञिठयोः सः एव ।२२२ - २६९ - कौक्कुडीवहम् नाम वाहीकग्रामः ।२२३ - २६९ - तस्मात् उभयम् प्राप्नोति ।२२४ - २६९ - कौक्कुडीवहकः ।२२५ - २६९ - ओः च ठञः ।२२६ - २६९ - ओः च ठञः वुञ् भवति विप्रतिषेधेन ।२२७ - २६९ - ओः ठञः अवकाशः नैषाहकर्षुकः [ऋनैषादकर्षुकः ] ।२२८ - २६९ - वुञः सः एव ।२२९ - २६९ - आप्रीतमायोः उभयम् प्राप्नोति ।२३० - २६९ - आप्रीतमायवकः ।२३१ - २६९ - जनपदानाम् अकाणौ ।२३२ - २६९ - जनपदानाम् अकाणौ ओः ठञः भवतः विप्रतिषेधेन ।२३३ - २६९ - अकस्य अवकाशः अङ्गाः आङ्गकः ।२३४ - २६९ - ओः ठञः सः एव ।२३५ - २६९ - जिह्नवः नाम जनपदः ।२३६ - २६९ - तस्मात् उभयम् प्राप्नोति ।२३७ - २६९ - जैह्नवकः ।२३८ - २६९ - अणः अवकाशः ।२३९ - २६९ - ऋषिक आर्षिकः ।२४० - २६९ - ओः ठञः सः एव ।२४१ - २६९ - इक्ष्वाकवः नाम जनपदः ।२४२ - २६९ - तस्मात् उभयम् प्राप्नोति ।२४३ - २६९ - इक्ष्वाकः ।२४४ - २६९ - न वा वुञपवादत्वात् अणः ।२४५ - २६९ - न वा अर्थः विप्रतिषेधेन ।२४६ - २६९ - किम् कारणम् ।२४७ - २६९ - वुञपवादत्वात् अणः ।२४८ - २६९ - वुञपवादः अण् ।२४९ - २६९ - वुञ् च ओः ठञम् बाधिष्यते ।२५० - २६९ - कोपधात् अणः अकान्तात् छः ।२५१ - २६९ - कोपधात् अण् भवति इति एतस्मात् अकान्तात् छः भवति विप्रतिषेधेन ।२५२ - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनक नैलीनकः ।२५३ - २६९ - अकान्तात् छः भवति इति अस्य अवकाशः आरीहणक आरीहणकीयः ।२५४ - २६९ - ब्राह्मणकः नाम जनपदः तस्मात् उभयम् प्राप्नोति ।२५५ - २६९ - ब्राह्मणकीयः ।२५६ - २६९ - धन्ववुञः च ।२५७ - २६९ - धन्ववुञः च छः भवति विप्रतिषेधेन ।२५८ - २६९ - धन्वनः वुञ् भवति इति अस्य अवकाशः पारेधन्व पारेधन्वकः ।२५९ - २६९ - छस्य सः एव ।२६० - २६९ - आष्टकम् नाम धन्व ।२६१ - २६९ - तस्मात् उभयम् प्राप्नोति ।२६२ - २६९ - आष्टकीयः ।२६३ - २६९ - न वा छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् ।२६४ - २६९ - न वा अर्थः विप्रतिषेधेन ।२६५ - २६९ - किम् कारणम् ।२६६ - २६९ - छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् ।२६७ - २६९ - सिद्धः अत्र छः वृद्धात् छः इति एव ।२६८ - २६९ - तस्य पुनर्वचने एतत्प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।२६९ - २६९ - सः यथा एव अन्यान् तदपवादान् बाधते एवम् इमम् अपि बाधिष्यते ।१ - १५ - जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्रसङ्गः ।२ - १५ - जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्राप्नोति ।३ - १५ - मौञ्जः नाम वाहीकेषु ग्रामः ।४ - १५ - तस्मिन् भवः मौञ्जीयः ।५ - १५ - एवम् तर्हि जनपदात् एव जनपदावधेः ।६ - १५ - जनपदात् इति चेत् वचनानर्थक्यम् ।७ - १५ - जनपदात् इति चेत् अवधिग्रहणम् अनर्थकम् ।८ - १५ - सिद्धम् जनपदात् इति एव ।९ - १५ - इदम् तर्हि प्रयोजनम् ।१० - १५ - जनपदात् जनपदावदेः वुञ् यथा स्यात् ।११ - १५ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।१२ - १५ - किम् च अन्यत् प्राप्नोति ।१३ - १५ - छः ।१४ - १५ - गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् वक्ष्यति ।१५ - १५ - सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।१ - ४ - अत्यल्पम् इदम् उच्यते मनुष्ये इति ।२ - ४ - पथ्यध्यायन्यायविहारमनुष्यहस्तिषु इति वक्तव्यम् आरण्यकः पन्थाः आरण्यकः अध्यायः आरण्यकः न्यायः आरण्यकः विहारः आरण्यकः मनुष्यः आरण्यकः हस्ती ।३ - ४ - वा गोमयेषु इति वक्तव्यम् ।४ - ४ - आरण्यकाः गोमयाः आरण्याः गोमयाः ।१ - १४ - कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ्विधानम् ।२ - १४ - कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ् इति एतत् भवति विप्रतिषेधेन ।३ - १४ - कुरुयुगन्धरेभ्यः वावचनस्य अवकाशः कौरवः कौरवकः यौगन्धरः यौगन्धरकः ।४ - १४ - मनुष्यतत्स्थयोः वुञ् भवति इति अस्य अवकाशः अन्ये कच्छादयः ।५ - १४ - काच्छकः मनुष्यः काच्छकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् ।६ - १४ - इह उभयम् प्राप्नोति ।७ - १४ - कौरव्कः मनुष्यः कौरवकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् ।८ - १४ - वुञ् भवति विप्रतिषेधेन ।९ - १४ - न एषः युक्तः विप्रतिषेधः ।१० - १४ - न हि कुरुशब्दस्य अन्ये कच्छादयः अवकाशः ।११ - १४ - कुरुशब्दस्य यः कच्चादिषु पाठः सः अनवकाशः ।१२ - १४ - न खलु अपि कुरुशब्दः विभाषाम् प्रयोजयति ।१३ - १४ - अनेन वुञ् कच्छादिपाठात् अण् भविष्यति ।१४ - १४ - सा एषा युगन्धरार्था विभाषा ।१ - ११ - किमर्थम् साल्वानाम् कच्छादिषु पाठः क्रियते ।२ - ११ - साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः ।३ - ११ - साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः क्रियते ।४ - ११ - अण् यथा स्यात् ।५ - ११ - वुञ् मा भूत् इति ।६ - ११ - न वा अपदातियोगवाग्रहणम् अवधारणार्थम् ।७ - ११ - न वा एतत् प्रयोजनम् ।८ - ११ - किम् कारणम् ।९ - ११ - अपदातियोगवाग्रहणम् अवधारणार्थम् भविष्यति ।१० - ११ - अपदातौ एव साल्वात् ।११ - ११ - गोयवाग्वोः एव च साल्वात् इति ।१ - ११ - गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् ।२ - ११ - गर्त्तोत्तरपदात् छविधेः जनपदात् वुञ् भवति पूर्वविप्रतिषेधेन ।३ - ११ - गर्त्तोत्तरपदात् छः भवति इति अस्य अवकाशः श्वाविद्गर्त श्वाविद्गर्तीयः ।४ - ११ - वुञः अवकाशः अङ्गाः आङ्गकः ।५ - ११ - इह उभयम् प्राप्नोति ।६ - ११ - त्रैगर्तकः ।७ - ११ - वुञ् भवति पूर्वविप्रतिषेधेन ।८ - ११ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।९ - ११ - न वक्तव्यः ।१० - ११ - उक्तम् एव अवधिग्रहणस्य प्रयोजनम् जनपदात् जनपदावदेः वुञ् यथा स्यात् ।११ - ११ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति१ - ७ - गहादिषु पृथिवीमध्यस्य मध्यमभावः ।२ - ७ - गहादिषु पृथिवीमध्यस्य मध्यमभावः वक्तव्यः ।३ - ७ - पृथिवीमध्ये भवः मध्यमीयः ।४ - ७ - चरणसम्बन्धेन निवासलक्षणः अण् ।५ - ७ - चरणसम्बन्धेन निवासलक्षणः अण् वक्तव्यः ।६ - ७ - त्रयः प्राच्याः त्रयः माध्यमाः ।७ - ७ - सर्वे निवासलक्षणाः ।१ - १ - ईकान्तात् अपि इति वक्तव्यम् इह यथा स्यात् । ऐणीकीयः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अकेकान्तग्रहणे कोपधग्रहणम् सौसुकाद्यर्थम् । अकेकान्तग्रहणे कोपधग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । सौसुकाद्यर्थम् । सौसुकीयः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP