TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद २ - खण्ड ४७

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ४७
१ - ६ - रागात् इति किम् ।

२ - ६ - देवदत्तेन रक्तम् वस्त्रम् ।

३ - ६ - रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाध्यानर्थक्यम् ।

४ - ६ - रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् ।

५ - ६ - न हि अरागात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् ।

६ - ६ - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

१ - २० - ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् ।

२ - २० - ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - २० - शाकलिकम् कार्दमिकम् ।

४ - २० - नील्याः अन् ।

५ - २० - नील्याः अन् वक्तव्यः ।

६ - २० - नील्या रक्तम् नीलम् ।

७ - २० - पीतात् कन् ।पीतात् कन् वक्तव्यः ।

८ - २० - पीतेन रक्तम् पीतकम् ।

९ - २० - पीतकशब्दः वा प्रकृत्यन्तरम् ।

१० - २० - तस्मात् लुक् वक्तव्यः ।

११ - २० - हरिद्रामहारजनाभ्याम् अञ् ।

१२ - २० - हरिद्रामहारजनाभ्याम् अञ् वक्तव्यः ।

१३ - २० - हारिद्रम् माहारजनम् ।

१४ - २० - रागात् इति उच्यते ।

१५ - २० - तत्र इदम् न सिध्यति ।

१६ - २० - हारिद्रौ कुक्कुटस्य पादौ ।

१७ - २० - काषायौ गर्दभस्य कर्णौ इति ।

१८ - २० - उपमानात् सिद्धम् ।

१९ - २० - हरिद्रौ इव हरिद्रौ ।

२० - २० - काषायौ इव काषायौ

१ - २६ - अयुक्तः अयम् निर्देशः ।

२ - २६ - योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः ।

३ - २६ - न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः ।

४ - २६ - नित्ये हि कालनक्षत्रे ।

५ - २६ - कथम् तर्हि निर्देशः कर्तव्यः ।

६ - २६ - नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययविधानम् ।

७ - २६ - नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययः भवति इति वक्तव्यम् ।

८ - २६ - पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन् काले पौषम् अहः , पौषी रात्रिः ।

९ - २६ - तत्र उत्तरपदलोपः ।

१० - २६ - तत्र उत्तरपदलोपः वक्तव्यः ।

११ - २६ - पुष्ययुक्तशब्दात् हि प्रत्ययः विधीयते ।

१२ - २६ - लिङ्गवचनानुपपत्तिः च ।

१३ - २६ - लिङ्गवचनयोः च अनुपपत्तिः ।

१४ - २६ - चन्द्रमसः यत् लिङ्गम् वचनम् च तत् युक्तवद्भावेन प्राप्नोति ।

१५ - २६ - कालयोगात् सिद्धम् ।

१६ - २६ - अस्तु नक्ष्त्रेण युक्तः कालः इति एव ।

१७ - २६ - नन् च उक्तम् अयुक्तः अयम् निर्देशः ।

१८ - २६ - योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः ।

१९ - २६ - नित्ये हि कालनक्षत्रे इति ।

२० - २६ - न एषः दोषः ।

२१ - २६ - पुष्यसमीपगते चन्द्रमसि पुष्यशब्दः वर्तते ।

२२ - २६ - तेन तत्सञ्ज्ञकेन कालः विशेष्यते ।

२३ - २६ - तथा च सम्प्रत्ययः ।

२४ - २६ - एवम् च कृत्वा लोके सम्प्रत्ययः भवति ।

२५ - २६ - पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य ।

२६ - २६ - मघाभिः अद्य इति ।

१ - २० - इह कस्मात् न भवति ।

२ - २० - पौषी रात्रिः पौषम् अहः ।

३ - २० - अविशेषे इति उच्यते ।

४ - २० - विशेषः च अत्र गम्यते ।

५ - २० - रात्रिः इति उक्ते अहः न इति गम्यते ।

६ - २० - अहः इति उक्ते रात्रिः न इति गम्यते ।

७ - २० - इह अपि तर्हि न प्राप्नोति ।

८ - २० - अद्य पुष्यः इति ।

९ - २० - अत्र अपि हि विशेषः गम्यते ।

१० - २० - अद्य इति उक्ते न ह्यः न श्वः इति ।

११ - २० - यदि अपि अत्र विशेषः गम्यते अविशेषः अपि गम्यते ।

१२ - २० - अद्य इति उक्ते न ज्ञायते रात्रौ वा दिवा वा इति ।

१३ - २० - यतः अविशेषः तदाश्रयः लुप् भविष्यति ।

१४ - २० - इह अपि तर्हि यदि अपि विशेषः गम्यते अविशेषः अपि तु गम्यते ।

१५ - २० - रात्रिः इति उक्ते न ज्ञायते कदा इति ।

१६ - २० - यतः अविशेषः तदाश्रयः लुप् प्राप्नोति ।

१७ - २० - एवम् तर्हि नक्षत्रेण युक्तः कालः इति अनुवर्तते ।

१८ - २० - नक्षत्रेण युक्तस्य कालस्य अविशेषे ।

१९ - २० - कः पुनः कालः नक्षत्रेण युज्यते ।

२० - २० - अहोरात्रः ।

१ - ५ - इह कस्मात् न युक्तवद्भावः भवति ।

२ - ५ - श्रवणा रात्रिः ।

३ - ५ - निपातनात् एतत् सिद्धम् ।

४ - ५ - किम् निपातनम् ।

५ - ५ - फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः इति ।

१ - २९ - दृष्टम् साम कलेः ढक् ।

२ - २९ - दृष्टम् साम इति अत्र कलेः ढक् वक्तव्यः ।

३ - २९ - कलिना दृष्टम् साम कालेयम् साम गीयते ।

४ - २९ - अपरः आह सर्वत्र अग्निकलिभ्याम् ढक् ।

५ - २९ - सर्वत्र अग्निकलिभ्याम् ढक् वक्तव्यः ।

६ - २९ - अग्निना दृष्टम् साम आग्नेयम् ।

७ - २९ - अग्नौ भवम् आग्नेयम् ।

८ - २९ - अग्नेः आगतम् आग्नेयम् ।

९ - २९ - अग्नेः स्वम् आग्नेयम् ।

१० - २९ - अग्निः देवता अस्य आग्नेयम् ।

११ - २९ - कलिना दृष्टम् साम कालेयम् ।

१२ - २९ - कलेः आगतम् कालेयम् ।

१३ - २९ - कलौ भवम् कालेयम् ।

१४ - २९ - कलेः स्वम् कालेयम् ।

१५ - २९ - कलिः देवता अस्य कालेयः चरुः ।

१६ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते ।

१७ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा वक्तव्यः ।

१८ - २९ - उशनसा दृष्टम् साम औशनसम् औशनम् ।

१९ - २९ - शतभिषजि जातः शातभिषजः शातभिषः ।

२० - २९ - तीयात् ईकक् ।

२१ - २९ - तीयात् ईकक् वक्तव्यः ।

२२ - २९ - द्वैतीयिकः तार्तीयिकः ।

२३ - २९ - न विद्यायाः ।

२४ - २९ - विद्यायाः न भवति इति वक्तव्यम् ।

२५ - २९ - द्वितीया विद्या तृतीया विद्या इति एव ।

२६ - २९ - गोत्रात् अङ्कवत् इष्यते ।

२७ - २९ - औपगवकम् ।

२८ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते ।

२९ - २९ - तीयात् ईकक् न विद्यायाः गोत्रात् अङ्कवत् इष्यते ।

१ - १० - किमर्थः डकारः ।

२ - १० - डिति इति लोपः यथा स्यात् ।

३ - १० - न एतत् अस्ति प्रयोजनम् ।

४ - १० - यस्येतिलोपेन अपि एतत् सिद्धम् ।

५ - १० - एवम् तर्हि सिद्धे सति यत् ययतौ डितौ करोति तत् ज्ञापयति आचार्यः भवतः एते परिभाषे ।

६ - १० - अननुबन्धकग्रहणे न सानुबन्धकस्य तदनुबन्धकग्रहणे न अतदनुबन्धकस्य ग्रहणम् इति ।

७ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।

८ - १० - अवामदेव्यम् इति एतत् सिद्धम् भवति ।

९ - १० - सिद्धे यस्येतिलोपेन किमर्थम् ययतौ डितौ ।

१० - १० - ग्रहणम् मा अतदर्थे भूत् वामदेवस्य नञ्स्वरे ।

१ - ९ - परिवृतः रथः इति तदेकान्तग्रहणम् ।

२ - ९ - परिवृतः रथः इति अत्र तदेकान्तग्रहणम् कर्तव्यम् ।

३ - ९ - येन परिवृतः रथः रथैकान्तः चेत् सः भवति इति वक्तव्यम् ।

४ - ९ - इह मा भूत् पुत्रैः परिवृतः रथः ।

५ - ९ - छात्रैः परिवृतः रथः इति ।

६ - ९ - तत् तर्हि वक्तव्यम् ।

७ - ९ - न वक्तव्यम् ।

८ - ९ - कस्मात् न भवति पुत्रैः परिवृतः रथः , छात्रैः परिवृतः रथः इति ।

९ - ९ - अनभिधानात् ।

१ - ४ - अयम् योगः शक्यः अवक्तुम् ।

२ - ४ - कथम् पाण्डुकम्बली पाण्डुकम्बलिनौ पाण्डुकम्बलिनः इति ।

३ - ४ - इनिना एतत् मत्वर्थीयेन सिद्धम् ।

४ - ४ - पाण्डुकम्बलः अस्य अस्ति इति पाण्डुकम्बली ।

१ - १० - कौमारापूर्ववचने इति उभयतः स्त्रियाः अपूर्वत्वे ।

२ - १० - कौमारापूर्ववचने इति अत्र उभयतः स्त्रियाः अपूर्वत्वे इति वक्तव्यम् ।

३ - १० - अपूर्वपतिम् कुमारीम् उपपन्नः कौमारः भर्ता ।

४ - १० - कुमारी अपूर्वपतिः पतिम् उपपन्ना कौमारी भार्या ।

५ - १० - कौमारापूर्ववचने कुमार्याः अण् विधीयते अपूर्वत्वम् यदा तस्याः कुमार्याम् भवति इति वा ।

६ - १० - अथ वा कुमार्याम् भवः कौमारः ।

७ - १० - यदि एवम् कौमारी भार्या इति न सिध्यति ।

८ - १० - पुंयोगात् स्त्र्यभिधानम् ।

९ - १० - पुंयोगात् स्त्र्यभिधानम् भविष्यति ।

१० - १० - कौमारस्य भार्या कौमारी इति ।

१ - १३ - सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् ।

२ - १३ - सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् कर्तव्यम् ।

३ - १३ - असञ्ज्ञायाम् गरीयान् उप्संयोगः ।

४ - १३ - अक्रियमाणे हि सञ्ज्ञाग्रहणे गरीयान् उप्संयोगः कर्तव्यः स्यात् ।

५ - १३ - मासार्धमासयोः इति वक्तव्यम् स्यात् ।

६ - १३ - इह मा भूत् ।

७ - १३ - पौषी पौर्णमासी अस्मिन् पञ्चदशरात्रे दशरात्रे इति ।

८ - १३ - संवत्सरपर्वणि इति च वक्तव्यम् स्यात् ।

९ - १३ - भृतकमासे मा भूत् इति ।

१० - १३ - तत् तर्हि वक्तव्यम् ।

११ - १३ - न वक्तव्यम् ।

१२ - १३ - इतिकरणः क्रियते ।

१३ - १३ - ततः चेत् विवक्षा ।

१ - ११ - यस्य इति लोपः कस्मात् न भवति ।

२ - ११ - इकारोच्चारणसामर्थ्यात् ।

३ - ११ - अथ यत् कायम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः ।

४ - ११ - यदि तावत् किमः कादेशः कस्मै अनुब्रूहि इति भवितव्यम् ।

५ - ११ - अथ न किमः काय अनुब्रूहि इति भवितव्यम् ।

६ - ११ - यदि अपि किमः अथ अपि न किमः उभयथा कस्मै अनुब्रूहि इति भवितव्यम् ।

७ - ११ - सर्वस्य हि सर्वनामसञ्ज्ञा क्रियते ।

८ - ११ - सर्वः च प्रजापतिः प्रजापतिः च कः ।

९ - ११ - अपरः आह यदि एव किमः अथ अपि न किमः उभयथा काय अनुब्रूहि इति भवितव्यम् ।

१० - ११ - सञ्ज्ञोपसर्जनयोः हि सर्वनामसञ्ज्ञा प्रतिषिध्यते ।

११ - ११ - सञ्ज्ञा च एषा तत्रभवतः ।

१ - ६ - अथ यत् अपोनप्त्रियम् अपान्नप्त्रियम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः ।

२ - ६ - अपोनपाते अनुब्रूहि ।

३ - ६ - अपान्नपाते अनुब्रूहि ।

४ - ६ - अपोनप्त्रपान्नप्तृभावः कस्मात् न भवति ।

५ - ६ - प्रत्ययसन्नियोगेन ऋकारान्तत्वम् उच्यते ।

६ - ६ - तेन असति प्रत्यये न भवितव्यम् ।

१ - ६ - छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् ।

२ - ६ - छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ६ - पैङ्गाक्षीपुत्रीयम् तार्णबिन्दवीयम् ।

४ - ६ - शतरुद्रात् घ च ।

५ - ६ - शतरुद्रात् घप्रत्ययः वक्तव्यः छः च वक्तव्यः ।

६ - ६ - शतरुद्रियम् शतरुद्रीयम् ।

१ - १८ - कथम् इदम् विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति ।

२ - १८ - आहोस्वित् कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति ।

३ - १८ - कः च अत्र विशेषः ।

४ - १८ - कालेभ्यः भवे प्रत्ययमात्रप्रसङ्गः ।

५ - १८ - यदि विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रत्ययमात्रम् प्राप्नोति ।

६ - १८ - यः कालेभ्यः भवे तस्य विधाने प्रातिपदिकमात्रात् प्रसङ्गः ।

७ - १८ - अथ विज्ञायते कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रातिपदिकमात्रात् प्राप्नुवन्ति ।

८ - १८ - सिद्धम् तु उभयनिर्देशात् ।

९ - १८ - सिद्धम् एतत् ।

१० - १८ - कथम् ।

११ - १८ - उभयनिर्देशात् ।

१२ - १८ - उभयनिर्देशः कर्तव्यः ।

१३ - १८ - कालेभ्यः भववत् कालेभ्यः इति ।

१४ - १८ - सः तर्हि उभयनिर्देशः कर्तव्यः ।

१५ - १८ - न कर्तव्यः ।

१६ - १८ - भववत् इति वतिना निर्देशः अयम् ।

१७ - १८ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भवे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण सा अस्य देवता इति अस्मिन् अर्थे भवन्ति ततः अमी भववत् कृताः स्युः ।

१८ - १८ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी भववत् कृताः स्युः ।

१ - ७ - ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् ।

२ - ७ - ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ७ - नवयज्ञः वर्तते अस्मिन् काले नावयज्ञिकः ।

४ - ७ - पाकयज्ञिकः ।

५ - ७ - पूर्णमासात् अण् ।

६ - ७ - पूर्णमासात् अण् वक्तव्यः ।

७ - ७ - पूर्णमासः वर्तते अस्मिन् काले पौर्णमासी तिथिः ।

१ - २६ - पितृव्यमातुल इति किम् निपात्यते ।

२ - २६ - पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ ।

३ - २६ - पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते ।

४ - २६ - पितुः भ्राता पितृव्यः ।

५ - २६ - मातुः भ्राता मातुलः ।

६ - २६ - मातामहपितामहेति किम् निपात्यते ।

७ - २६ - मातृपितृभ्याम् पितरि डामहच् ।

८ - २६ - मातृपितृभ्याम् पितरि डामहच्प्रत्ययः निपात्यते ।

९ - २६ - मातुः पिता मातामहः ।

१० - २६ - पितुः पिता पितामहः ।

११ - २६ - मातरि षित् च ।

१२ - २६ - षित् च वक्तव्यः ।

१३ - २६ - मातामही पितामही ।

१४ - २६ - महः वा छन्दसि आनङः अवग्रहदर्शनात् ।

१५ - २६ - महः वा पुनः एषः भविष्यति छन्दसि आनङः अवग्रहदर्शनात् ।

१६ - २६ - छन्दसि आनङः अवग्रहः दृश्यते ।

१७ - २६ - पिता-महः इति ।

१८ - २६ - अवेः दुग्धे सोढदूसमरीसचः ।

१९ - २६ - अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः ।

२० - २६ - अविसोढम् अविदूसम् अविमरीसम् ।

२१ - २६ - तिलात् निष्फलात् पिञ्जपेजौ ।

२२ - २६ - तिलात् निष्फलात् पिञ्जपेजौ वक्तव्यौ ।

२३ - २६ - तिलपिञ्जः तिलपेजः ।

२४ - २६ - पिञ्जः छन्दसि डित् च ।

२५ - २६ - पिञ्जः छन्दसि डित् च वक्तव्यः ।

२६ - २६ - तिलपिञ्जम् दण्डानतम् ।

१ - ११ - किमर्थम् भिक्षादिषु युवतिशब्दः पठ्यते न तस्य समूहः इति एव सिद्धम् ।

२ - ११ - न सिध्यति ।

३ - ११ - अनुदात्तादिलक्षणः अञ् प्राप्तः ।

४ - ११ - तद्बाधनार्थम् ।

५ - ११ - अतः उत्तरम् पठति भिक्षादिषु युवतिग्रहणानर्थक्यम् पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ ।

६ - ११ - भिक्षादिषु युवतिग्रहणम् अनर्थकम् ।

७ - ११ - किम् कारणम् ।

८ - ११ - पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ ।

९ - ११ - पुंवद्भावः अत्र भविष्यते भस अढे तद्धिते पुंवत् भवति इति ।

१० - ११ - सिद्धः च प्रत्ययविधौ ।

११ - ११ - सः च सिद्धः प्रत्ययविधौ ।

१ - १९ - वृद्धात् च इति वक्तव्यम् ।

२ - १९ - वृद्धानाम् समूहः वार्धकम् ।

३ - १९ - अञः वुञ् पूर्वविप्रतिषिद्धम् ।

४ - १९ - अञः वुञ् भवति पूर्वविप्रतिषेधेन ।

५ - १९ - अञः अवकाशः कपोत कापोतम् ।

६ - १९ - वुञः अवकाशः ग्लुचुकायनि ग्लौचुकायनकम् ।

७ - १९ - इह उभयम् प्राप्नोति औपगवकम् कापटवकम् ।

८ - १९ - वुञ् भवति पूर्वविप्रतिषेधेन ।

९ - १९ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

१० - १९ - न वक्तव्यः ।

११ - १९ - वक्ष्यति एतत् पूर्वः अपि वुञ् परम् अञम् बाधते इति ।

१२ - १९ - अथ वा इष्टवाची परशब्दः ।

१३ - १९ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

१४ - १९ - ठक् तु विप्रतिषेधात् ।

१५ - १९ - ठक् तु भवति विप्रतिषेधेन ।

१६ - १९ - ठकः अवकाशः सक्तु साक्तुकम् ।

१७ - १९ - अञः सः एव ।

१८ - १९ - इह उभयम् प्राप्नोति आपूपिकम् शाष्कुलिकम् मौदिकम् ।

१९ - १९ - ठक् भवति विप्रतिषेधेन ।

१ - २ - गणिकायः च इति वक्तव्यम् ।

२ - २ - गणिकानाम् समूहः गाणिक्यम् ।

१ - १० - किमर्थम् ब्राह्मणादिभ्यः यन् विधीयते न यञ् प्रकृतः सः अनुवर्तिष्यते ।

२ - १० - न हि अस्ति विशेषः ब्राह्मणादिभ्यः यनः वा यञः वा ।

३ - १० - तत् एव रूपम् सः एव स्वरः ।

४ - १० - एवम् तर्हि सिद्धे सति यत् ब्राह्मणादिभ्यः यनम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।

५ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।

६ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् इति चोदयिष्यति ।

७ - १० - तन् न कर्तव्यम् भवति ।

८ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् ।

९ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् कर्तव्यम् ।

१० - १० - पृष्ठानाम् समूहः पृष्ठ्यः षडहः ।

१ - १३ - गजसहायाभ्याम् च इति वक्तव्यम् ।

२ - १३ - गजता सहायता ।

३ - १३ - अह्नः खः ।

४ - १३ - अह्नः खः वक्तव्यः ।

५ - १३ - अह्नाम् समूहः अहीनः ।

६ - १३ - क्रतौ । क्रतौ इति वक्तव्यम् ।

७ - १३ - इह मा भूत् ।

८ - १३ - आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः ।

९ - १३ - पर्श्वाः सण् ।

१० - १३ - पर्श्वाः सण् वक्तव्यः ।

११ - १३ - पर्शूनाम् समूहः पार्श्वम् ।

१२ - १३ - यदि सण् क्रियते इत्सञ्ज्ञा न प्राप्नोति ।

१३ - १३ - एवम् तर्हि णस् वक्तव्यः ।

१ - ५२ - खण्डिका शुक उलूक ।

२ - ५२ - किमर्थम् कण्डिकादिषु उलूकशब्दः पठ्यते न अनुदात्तदेः इति एव सिद्धम् ।

३ - ५२ - न सिध्यति ।

४ - ५२ - चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः दृश्यते ।

५ - ५२ - चषेण किकिदीविना ।

६ - ५२ - यत् उलूकः वदति ।

७ - ५२ - न एतयोः छन्दसि सामूहिकः दृश्यते ।

८ - ५२ - यत्र च दृश्यते तत्र एतौ अनुदात्तादी ।

९ - ५२ - इदम् तर्हि प्रयोजनम् ।

१० - ५२ - अयम् औलूक्यः गोत्रम् ।

११ - ५२ - तत्र गोत्राश्रयः वुञ् प्राप्तः ।

१२ - ५२ - तद्बाधनार्थम् ।

१३ - ५२ - एतत् अपि न अस्ति प्रयोजनम् ।

१४ - ५२ - बहुवचनान्तानाम् सामूहिकः बहुषु च लुक् ।

१५ - ५२ - तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धम् ।

१६ - ५२ - न सिध्यति ।

१७ - ५२ - गोत्रे अलुक् अचि इति अलुक् प्राप्नोति ।

१८ - ५२ - अञ्सिद्धिः अनुदात्तादेः कः अर्थः क्षुद्रकमालवात् ।

१९ - ५२ - अनुदात्तादेः इति एव अञ् सिद्धः ।

२० - ५२ - किमर्थम् क्षुद्रमालवशब्दः खण्डिकादिषु पठ्यते ।

२१ - ५२ - गोत्राश्रयः वुञ् प्राप्तः तद्बाधनार्थम् ।

२२ - ५२ - गोत्रात् वुञ् न च तत् गोत्रम् ।

२३ - ५२ - गोत्रात् वुञ् भवति इति उच्यते न च क्षुद्रमालवकशब्दः गोत्रम् ।

२४ - ५२ - न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते ।

२५ - ५२ - तत् यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते ।

२६ - ५२ - काशिकोसलीयाः इति वुञ् न भवति ।

२७ - ५२ - तदन्तविधिना प्राप्नोति ।

२८ - ५२ - तदन्तात् न सः सर्वतः ।

२९ - ५२ - परिगणितेषु कार्येषु तदन्तविधिः ।

३० - ५२ - न च इदम् तत्र परिगण्यते ।

३१ - ५२ - ज्ञापकम् स्यात् तदन्तत्वे ।

३२ - ५२ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

३३ - ५२ - तथा च आपिशलेः विधिः ।

३४ - ५२ - एवम् च कृत्वा आपिशलेः आचार्यस्य विधिः उपपन्नः भवति ।

३५ - ५२ - धेनुः अनञि कम् उत्पादयति ।

३६ - ५२ - धेनूनाम् समूहः धैनुकम् ।

३७ - ५२ - अनञि इति किम् ।

३८ - ५२ - अधेनूनाम् समूहः आधेनवम् ।

३९ - ५२ - सेनायाम् नियमार्थम् वा ।

४० - ५२ - अथ वा नियमार्थः अयम् आरम्भः ।

४१ - ५२ - क्षुद्रकमालवशब्दात् सेनायाम् एव ।

४२ - ५२ - क्व मा भूत् ।

४३ - ५२ - क्षौद्रकमालवकम् अन्यत् इति ।

४४ - ५२ - यथा बाध्येत वा अञ् वुञा ।

४५ - ५२ - अथ वा ज्ञापयति आचार्यः पूर्वः अपि वुञ् परम् अञम् बाधते इति ।

४६ - ५२ - ननु च उक्तम् गोत्रात् वुञ् न च तत् गोत्रम् इति ।

४७ - ५२ - तदन्तविधिना प्राप्नोति ।

४८ - ५२ - ननु च उक्तम् तदन्तात् न सः सर्वतः इति ।

४९ - ५२ - ज्ञापकम् स्यात् तदन्तत्वे ।

५० - ५२ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

५१ - ५२ - कथम् पुनः एतत् उभयम् शक्यम् ज्ञापयितुम् भवति च तदन्तविधिः पूर्वः च वुञ् परम् अञम् बाधते इति ।

५२ - ५२ - उभयम् ज्ञाप्यते ।

१ - ५ - अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् ।

२ - ५ - अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् इति वक्तव्यम् ।

३ - ५ - क्षौद्रकमालवी सेना चेत् ।

४ - ५ - क्व मा भूत् ।

५ - ५ - क्षौद्रकमालवकम् अन्यत् ।

१ - ११ - पाश तृण धूम वात ।

२ - ११ - पृथग्वातादर्शनात् असमूहः ।

३ - ११ - पृथग्वातादर्शनात् अयुक्तः अयम् सामूहिकः ।

४ - ११ - न हि पृथक् वाताः दृश्यन्ते ।

५ - ११ - न तर्हि इदानीम् भवति वात्या इति ।

६ - ११ - भवति ।

७ - ११ - शीघ्रत्वे तु ।

८ - ११ - शीघ्रः वातः वात्या ।

९ - ११ - अथ वा पृथक् वाताः अपि दृश्यन्ते ।

१० - ११ - तत् यथा पूर्वः वातः उत्तरः वातः सर्वतः वातः ।

११ - ११ - वाताः वान्तु दिशः दश ।

१ - ३ - खलादिभः इनिः ।

२ - ३ - खलादिभः इनिः वक्तव्यः ।

३ - ३ - खलिनी ऊहिनी कुन्दुमिनी इति ।

१ - २५ - विषयाभिधाने जनपदे लुपा- बहुवचनविषयात् ।

२ - २५ - विषयाभिधाने जनपदे लुप् बहुवचनविषयात् वक्तव्यः ।

३ - २५ - अङ्गानाम् विषयः अङ्गाः ।

४ - २५ - वङ्गाः सुह्माः पुण्ड्राः ।

५ - २५ - गान्धार्यादिभ्यः वा ।

६ - २५ - गान्धार्यादिभ्यः वा इति वक्तव्यम् ।

७ - २५ - गान्धारः गान्धारयः वासातः वसातयः शैबः शिबयः ।

८ - २५ - राजन्यादिभ्यः वा वुञ् ।

९ - २५ - राजन्यादिभ्यः वा वुञ् वक्तव्यः ।

१० - २५ - राजन्याः राजन्यकः दैवयातवः दैवयातवकः ।

११ - २५ - बैल्ववनादिभ्यः नित्यम् ।

१२ - २५ - बैल्ववनादिभ्यः नित्यम् इति वक्तव्यम् ।

१३ - २५ - बैल्ववनकः आम्बरीषपुत्रकः आत्मकामेयकः ।

१४ - २५ - तत् तर्हि बहु वक्तव्यम् ।

१५ - २५ - न वा अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुब्विषयविवक्षायाम् प्रत्ययः ।

१६ - २५ - न वा वक्तव्यम् ।

१७ - २५ - किम् कारणम् ।

१८ - २५ - अभिधेयस्य निवासविषयत्वात् ।

१९ - २५ - यत् अभिधेयम् सः निवासः च विषयः च ।

२० - २५ - अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः भविष्यति ।

२१ - २५ - इदम् तर्हि प्रयोजनम् ।

२२ - २५ - एतत् ज्ञास्यामि इह नित्यः विधिः इह विभाषा इति ।

२३ - २५ - एतत् अपि न अस्ति प्रयोजनम् ।

२४ - २५ - यावता यत् अभिधेयम् सः निवासः च विषयः च ।

२५ - २५ - अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः ।

१ - ३ - छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् ।

२ - ३ - छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३ - त्रिष्टुप् एव त्रैष्टुभम् अनुष्टुप् एव आनुष्टुभम् जगती एव जागतम् ।

१ - ३ - किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यः अधीते वेत्ति अपि असौ यः तु वेत्ति अधीते अपि असौ ।

२ - ३ - न एतयोः आवश्यकः समावेशः ।

३ - ३ - भवति हि कः चित् सम्पाठम् पठति न च वेत्ति कः चित् च वेत्ति न च सम्पाठम् पठति ।

१ - ४८ - उक्थादि इति उच्यते ।

२ - ४८ - कानि उक्थानि ।

३ - ४८ - सामानि ।

४ - ४८ - यदि एवम् सामगमात्रे औक्थिकः इति प्राप्नोति ।

५ - ४८ - न एषः दोषः ।

६ - ४८ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

७ - ४८ - उक्थार्थम् उक्थम् ।

८ - ४८ - इह उक्थानि अधीते औक्थिकः यज्ञम् अधीते याज्ञिकः ।

९ - ४८ - यः इदानीम् औक्थिक्यम् याज्ञिकम् च अधीते कथम् तत्र भवितव्यम् ।

१० - ४८ - औक्थिकः याज्ञिकः इति एव भवितव्यम् ।

११ - ४८ - कथम् ।

१२ - ४८ - तस्येदम्प्रत्ययात् लुक् ।

१३ - ४८ - तस्येदम्प्रत्ययात् लुक् ।

१४ - ४८ - तस्येदम्प्रत्ययस्य च ।

१५ - ४८ - सः तर्हि वक्तव्यः ।

१६ - ४८ - न वक्तव्यः ।

१७ - ४८ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

१८ - ४८ - उक्थानि अधीते औक्थिक्यम् अधीते औक्थिकः इति ।

१९ - ४८ - तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

२० - ४८ - तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति ।

२१ - ४८ - एवम् उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति ।

२२ - ४८ - औक्थिक्यम् अधीते इति विगृह्य वाक्यम् एव. विद्यालक्षणकल्पसूत्रान्तात् अकल्पादेः इकक् स्मृतः ।

२३ - ४८ - विद्या ।

२४ - ४८ - वायसविद्यकः ।

२५ - ४८ - विद्या लक्षण गोलक्षणिकः आश्वलक्षणिकः ।

२६ - ४८ - लक्षण ।

२७ - ४८ - कल्प ।

२८ - ४८ - पाराशरकल्पिकः पारकल्पिकः ।

२९ - ४८ - कल्प् ।

३० - ४८ - सूत्र ।

३१ - ४८ - वार्त्तिकसूत्रिकः साङ्ग्रहसूत्रिकः ।

३२ - ४८ - अकल्पादेः इति किमर्थम् ।

३३ - ४८ - काल्पसूत्रः ।

३४ - ४८ - विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा ।

३५ - ४८ - विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यम् ।

३६ - ४८ - आङ्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः ।

३७ - ४८ - आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक् वक्तव्यः ।

३८ - ४८ - यावक्रीतिकः प्रैयङ्गविकः यायातिकः ।

३९ - ४८ - आख्यान ।

४० - ४८ - आख्यायिका ।

४१ - ४८ - वासवदत्तिकः सौमनोत्तरिकः ।

४२ - ४८ - ऐतिहासिकः पौराणिकः ।

४३ - ४८ - सर्वसादेः द्विगोः च लः ।

४४ - ४८ - सर्वसादेः द्विगोः च लः वक्तव्यः ।

४५ - ४८ - सर्ववेदः सर्वतन्त्रः ।

४६ - ४८ - सवार्त्तिकः ससङ्ग्रहः ।

४७ - ४८ - पञ्चकल्पः द्वितन्त्रः ।

४८ - ४८ - अनुसूः लक्ष्यलक्षणे सर्वसादेः द्विगोः च लः इकन् पदोत्तरपदात् शतषष्टेः षिकन् पथः ।

१ - ३ - अयम् योगः शक्यः अवक्तुम् ।

२ - ३ - कथम् अनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः ।

३ - ३ - इनिना एव मत्वर्थीयेन सिद्धम् ।

१ - ५ - अयुक्तः अयम् निर्देशः ।

२ - ५ - अधीते इति वर्तते न च वसन्तः नाम अध्ययनम् अस्ति ।

३ - ५ - न एषः दोषः ।

४ - ५ - साहचर्यात् ताच्छब्द्यम् भविष्यति ।

५ - ५ - वसन्तसहचरितम् अध्ययनम् वसन्ते अध्ययनम् इति ।

१ - ३ - अयुक्तः अयम् निर्देशः ।

२ - ३ - प्रौक्तात् इति भवितव्यम् ।

३ - ३ - सौत्रः निर्देशः ।

१ - ३ - सङ्ख्याप्रकृतेः इति वक्तव्यम् ।

२ - ३ - इह मा भूत् ।

३ - ३ - माहावार्त्तिकः कालपकः ।

१ - ३१ - किमर्थम् इदम् उच्यते ।

२ - ३१ - अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् तद्विषयवचनम् ।

३ - ३१ - अन्यत्र अभिधेयम् अनित्यम् भवति ।

४ - ३१ - पाणिनीयम् इति वा भवति पाणिनीयाः इति वा ।

५ - ३१ - अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् अपि अनित्यता प्राप्नोति ।

६ - ३१ - इष्यते च तद्विषयता एव स्यात् इति ।

७ - ३१ - तत् च अन्तरेण यत्नम् न सिध्यति इति छन्दोब्राह्मणानाम् तद्विषयवचनम् ।

८ - ३१ - एवमर्थम् इदम् उच्यते ।

९ - ३१ - अस्ति प्रयोजनम् एतत् ।

१० - ३१ - किम् तर्हि इति ।

११ - ३१ - तत्र यथाधिकारम् तद्विषयप्रसङ्गः ।

१२ - ३१ - तत्र यथाधिकारम् तद्विषयता प्राप्नोति ।

१३ - ३१ - अधीते वेद इति वर्तते ।

१४ - ३१ - तेन अध्येतृवेदित्रोः एव तद्विषयता स्यात् ।

१५ - ३१ - ये अन्ये उपचाराः तत्र न स्यात् ।

१६ - ३१ - यथा इह भवति पाणिनीयम् महत् सुविहितम् इति एवम् इह अपि स्यात् कठम् महत् सुविहितम् इति ।

१७ - ३१ - सिद्धम् तु प्रोक्ताधिकारे तद्विषयवचनात् ।

१८ - ३१ - सिद्धम् एतत् ।

१९ - ३१ - कथम् ।

२० - ३१ - प्रोक्ताधिकारे एव तद्विषयता वक्तव्या ।

२१ - ३१ - तेन प्रोक्तम् ।

२२ - ३१ - छन्दोब्राह्मणानि अध्येतृवेदित्रोः एव इति ।

२३ - ३१ - तत् तर्हि अध्येतृवेदितृग्रहणम् कर्तव्यम् ।

२४ - ३१ - ननु च इह अपि क्रियते ।

२५ - ३१ - परार्थम् एतद् भवति तत् अधीते तत् वेद इति ।

२६ - ३१ - एवम् तर्हि यावत् इह छन्दोब्राह्मणग्रहणम् तावत् अत्र अध्येतृवेदितृग्रहणम् ।

२७ - ३१ - ननु च तत्र अपि क्रियते ।

२८ - ३१ - परार्थम् तत् भविष्यति ।

२९ - ३१ - पुराण्प्रोक्तेषु ब्राह्मणकल्पेषु शौनकादिभ्यः छन्दसि इति ।

३० - ३१ - इह वा छन्दोब्राह्मणग्रहणम् क्रियते तत्र वा अध्येतृवेदितृग्रहणम् ।

३१ - ३१ - कः नु अत्र विशेषः ।

१ - ३४ - याज्ञवक्क्यादिभ्यः प्रतिषेधः ।

२ - ३४ - याज्ञवक्यादिभ्यः प्रतिषेधः वक्तव्यः ।

३ - ३४ - याज्ञवल्कानि ब्राह्मणानि ।

४ - ३४ - सौलभानि ।

५ - ३४ - किम् प्रोक्ताधिकारे तद्विषयता क्रियते इति अतः याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।

६ - ३४ - न इति आह ।

७ - ३४ - सर्वथा याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।

८ - ३४ - इनिः वा प्रोक्ते तद्विषयः ।

९ - ३४ - अथ वा इनिः प्रोक्ते तद्विषयः भवति इति वक्तव्यम् ।

१० - ३४ - यदि इनिः प्रोक्ते तद्विषयः भवति इति उच्यते पैङ्गी कल्पः अत्र अपि प्राप्नोति ।

११ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् ।

१२ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् द्रष्टव्यम् ।

१३ - ३४ - काश्यपकौशिकाभ्याम् एव इनिः कल्पे तद्विषयः भवति न अन्येभ्यः इति ।

१४ - ३४ - एवम् अपि छणादीनाम् तद्विषयता न प्राप्नोति ।

१५ - ३४ - तैत्तिरीयाः वारतन्तवीयाः ।

१६ - ३४ - यदि पुनः छणादयः प्रोक्ते तद्विषयाः भवन्ति इति उच्येत ।

१७ - ३४ - एवम् अपि पैङ्गी कल्पः अत्र अपि प्राप्नोति ।

१८ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् इति एव ।

१९ - ३४ - एवम् अपि औत्सर्गिकाणाम् तद्विषयता न प्राप्नोति ।

२० - ३४ - क्रौडाः काङ्कताः मौदाः पैप्पलादाः ।

२१ - ३४ - छणादयः च अपि औत्सर्गिकान् अध्येतृवेदित्रोः एव बाधेरन् ।

२२ - ३४ - ये अन्ये उपचाराः तत्र न बाधेरन् ।

२३ - ३४ - तित्तिरिणा प्रोक्ताः श्लोकाः इति ।

२४ - ३४ - अस्ति तर्हि अविशेषेण ।

२५ - ३४ - ननु च उक्तम् याज्ञवक्यादिभ्यः प्रतिषेधः इति ।

२६ - ३४ - वक्ष्यति एतत् ।

२७ - ३४ - याज्ञवक्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् इति ।

२८ - ३४ - तत्र एव वक्तव्यम् ।

२९ - ३४ - तद्विषयता च न भवति इति ।

३० - ३४ - कथम् काश्यपिनः कौशिकिनः इति ।

३१ - ३४ - इनिः प्रोक्ते तद्विषयः भवति इति उच्यमाने अवश्यम् काश्यपकौशिकग्रहणम् कल्पे नियमार्थम् द्रष्टव्यम् ।

३२ - ३४ - तत् एव इदानीम् विध्यर्थम् भविष्यति ।

३३ - ३४ - कथम् पाराशरिणः भिक्षवः शैलालिनः नटाः ।

३४ - ३४ - अत्र अपि तद्विषयता च इति अनुवर्तिष्यते ।

१ - २१ - किम् पुनः अयम् एकः योगः आहोस्वित् नानायोगाः ।

२ - २१ - किम् च अतः ।

३ - २१ - यदि एकः योगः उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या ।

४ - २१ - न हि एकयोगे अनुवृत्तिः भवति ।

५ - २१ - कथम् ज्ञायते ।

६ - २१ - यत् अयम् तत् अधीते तत् वेद इति द्विः तद्ग्रहणम् करोति ।

७ - २१ - अथ नानायोगाः ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् ।

८ - २१ - यथा इच्छसि तथा अस्तु ।

९ - २१ - अस्तु तावत् एकः योगः ।

१० - २१ - ननु च उक्तम् उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या ।

११ - २१ - न हि एकयोगे अनुवृत्तिः भवति इति ।

१२ - २१ - एकयोगे अपि अनुवृत्तिः भवति ।

१३ - २१ - कथम् ज्ञायते ।

१४ - २१ - यत् अयम् तत् अस्य अस्ति अस्मिन् इति मतुप् इति द्विः तद्ग्रहणम् न करोति ।

१५ - २१ - कथम् तत् अधीते तत् वेद इति ।

१६ - २१ - प्रमादकृतम् आचार्यस्य शक्यम् अकर्तुम् ।

१७ - २१ - अथ वा पुनः सन्तु नानायोगाः ।

१८ - २१ - ननु च उक्तम् ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् इति ।

१९ - २१ - न एषः दोषः ।

२० - २१ - गोयूथवत् अधिकाराः ।

२१ - २१ - तत् यथा गोयूथम् एकदण्डप्रघट्टितम् सर्वम् समम् घोषम् गच्छति तद्वत् अधिकाराः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:18.8300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

घशांत अडकणें

  • अन्न न गिळणें 
  • दुःखाने अगर एखादी दुःखद स्‍मृति झाल्‍यामुळे घशाखाली अन्नाचा घास उतरत नाही अशी स्‍थिति येणें. 
RANDOM WORD

Did you know?

'डांबिस' हा शब्द मराठी कि कुठल्या भाषेतून आलाय ? त्याचा अर्थ किंवा उगम कोणता?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site