पाद ३ - खण्ड ४०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १२ - स्त्रियाम् क्तिन् आबादिभ्यः च ।

२ - १२ - स्त्रियाम् क्तिन् इति अत्र आबादिभ्यः च इति वक्तव्यम् ।

३ - १२ - आप्तिः राद्धिः दीप्तिः ।

४ - १२ - निष्ठायाम् वा सेटः अकारवचनात् सिद्धम् ।

५ - १२ - अथ वा निष्ठायाम् सेटः अकारः भवति इति वक्तव्यम् ।

६ - १२ - यदि निष्ठायाम् सेटः अकारः भवति इति उच्यते स्रंसा ध्वंसा इति न सिध्यति ।

७ - १२ - स्रस्तिः ध्वस्तिः इति प्राप्नोति ।

८ - १२ - किम् पुनः इदम् परिगणनम् त्रयः एव आबादयः आहोस्वित् उदाहरणमात्रम् ।

९ - १२ - किम् च अतः ।

१० - १२ - यदि परिगणनम् भेदः भवति ।

११ - १२ - अथ उदाहरणमात्रम् न अस्ति भेदः ।

१२ - १२ - स्रस्ति ध्वस्तिः इति एव भवितव्यम् ।

१ - २६ - स्थादिभ्यः सर्वापवादप्रसङ्गः ।

२ - २६ - स्थादिभ्यः सर्वापवादः क्तिन् प्राप्नोति ।

३ - २६ - सः यथा एव अङम् बाधते एवम् ण्वुलिञौ अपि बाधेत ।

४ - २६ - काम् त्वम् स्थायिकाम् अस्थाः ।

५ - २६ - काम् स्थायिम् ।

६ - २६ - सिद्धम् तु अङ्विधाने स्थादिप्रतिषेधात् ।

७ - २६ - सिद्धम् एतत् ।

८ - २६ - कथम् ।

९ - २६ - अङ्विधाने एव स्थादिप्रतिषेधः वक्तव्यः ।

१० - २६ - प्रतिषिद्धे तस्मिन् क्तिन् एव भविष्यति ।

११ - २६ - सिध्यति ।

१२ - २६ - सूत्रम् तर्हि भिद्यते ।

१३ - २६ - यथान्यासम् एव अस्तु ।

१४ - २६ - ननु च उक्तम् स्थादिभ्यः सर्वापवादप्रसङ्गः इति ।

१५ - २६ - न एषः दोषः ।

१६ - २६ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् स्त्रियाम् क्तिन् अङम् बाधिष्यते ।

१७ - २६ - ण्वुलिञौ न बाधिष्यते ।

१८ - २६ - श्रुतिजिषिस्तुभ्यः करणे ।

१९ - २६ - श्रुतिजिषिस्तुभ्यः करणे क्तिन् वक्तव्यः ।

२० - २६ - श्रूयते अनया श्रुतिः ।

२१ - २६ - इज्यते अनया इष्टिः ।

२२ - २६ - इष्यते अनया इष्टिः ।

२३ - २६ - स्तूयते अनया स्तुतिः ।

२४ - २६ - ग्लाज्याहाभ्यः निः ।

२५ - २६ - ग्लाज्याहाभ्यः निः वक्तव्यः ।

२६ - २६ - ग्लानिः ज्यानिः हानिः ।

१ - ३ - क्यब्विधिः अधिकरणे च ।

२ - ३ - क्यब्विधिः अधिकरणे च इति वक्तव्यम् ।

३ - ३ - समजन्ति तस्याम् समज्या ।

१ - ३ - कृञः श च इति वावचनम् क्तिनर्थम् ।

२ - ३ - कृञः श च इति वावचनम् कर्तव्यम् क्तिन् अपि यथा स्यात् ।

३ - ३ - कृतिः ।

१ - ६ - किम् निपात्यते ।

२ - ६ - इषेः शे यगभावः ।

३ - ६ - अत्यल्पम् इदम् उच्यते इच्छा इति ।

४ - ६ - इच्छापरिचर्यापरिसर्यामृगयाटाट्यानाम् निपातनम् कर्तव्यम् ।

५ - ६ - जागर्तेः अकारः वा ।

६ - ६ - जागर्य जागरा ।

१ - १४ - भिदा विदारणे ।

२ - १४ - भिदा विदारणे इति वक्तव्यम् ।

३ - १४ - भित्तिः अन्या ।

४ - १४ - छिधा द्वैधीकरणे ।

५ - १४ - छिधा द्वैधीकरणे इति वक्तव्यम् ।

६ - १४ - छित्तिः अन्या ।

७ - १४ - आरा शस्त्र्याम् ।

८ - १४ - आरा शस्त्र्याम् इति वक्तव्यम् ।

९ - १४ - आर्तिः अन्या ।

१० - १४ - धारा प्रपाते ।

११ - १४ - धारा प्रपाते इति वक्तव्यम् ।

१२ - १४ - धृतिः अन्या ।

१३ - १४ - गुहा गिर्योषध्योः । गुहा गिर्योषध्योः इति वक्तव्यम् ।

१४ - १४ - गूढिः अन्या

१ - १९ - किमर्थः चकारः ।

२ - १९ - स्वरार्थः ।

३ - १९ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

४ - १९ - न एतत् अस्ति प्रयोजनम् ।

५ - १९ - उदात्तः इति वर्तते भूवीराः उदात्तः इति ।

६ - १९ - यदि उदात्तः इति वर्तते वजयजोः भावे क्यप् किमर्थः पकारः ।

७ - १९ - तुगर्थः ।

८ - १९ - ह्रस्वस्य पिति कृति तुक् इति ।

९ - १९ - उदात्तः इति वर्तते ।

१० - १९ - एवम् अपि कुतः एतत् तदन्तस्य उदात्तत्वम् भविष्यति न पुनः आदेः इति ।

११ - १९ - उदात्तः इति अनुवर्तनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भवति ।

१२ - १९ - कस्य च अप्राप्तः ।

१३ - १९ - अन्त्यस्य ।

१४ - १९ - सामान्यग्रहणाविघातार्थः तर्हि ।

१५ - १९ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

१६ - १९ - युवोः अनाकौ इति ।

१७ - १९ - एतत् अपि न अस्ति प्रयोजनम् ।

१८ - १९ - वक्ष्यति एतत् ।

१९ - १९ - सिद्धम् तु युवोः अनुनासिकवचनात् इति ।

१ - १० - युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् ।

२ - १० - युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् कर्तव्यम् ।

३ - १० - घट्टना वन्दना वेदना ।

४ - १० - इषेः अनिच्छार्थस्य ।

५ - १० - इषेः अनिच्छार्थस्य इति वक्तव्यम् ।

६ - १० - अन्विष्यते अन्वेषणा ।

७ - १० - परेः वा ।

८ - १० - परेः वा इति वक्तव्यम् ।

९ - १० - अन्याम् परीष्टिम् चर ।

१० - १० - अन्याम् पर्येषणाम् चर ।

१ - ३० - धात्वर्तनिर्देशे ण्वुल् ।

२ - ३० - धात्वर्तनिर्देशे ण्वुल् वक्तव्यः ।

३ - ३० - का नाम आसिका अन्येषु ईहमानेषु ।

४ - ३० - का नाम् शायिका अन्येषु अधीयानेषु ।

५ - ३० - इक्श्तिपौ धातुनिर्देशे ।

६ - ३० - इक्श्तिपौ इति एतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ ।

७ - ३० - पचेः ब्रूहि ।

८ - ३० - पचतेः ब्रूहि ।

९ - ३० - वर्णात् कारः ।

१० - ३० - वर्णात् कारप्रत्ययः वक्तव्यः ।

११ - ३० - अकारः इकारः ।

१२ - ३० - रात् इफः ।

१३ - ३० - रात् इफः वक्तव्यः ।

१४ - ३० - रेफः ।

१५ - ३० - मत्वर्थात् छः ।

१६ - ३० - मत्वर्थात् छः वक्तव्यः ।

१७ - ३० - मत्वर्थीयः ।

१८ - ३० - इण् अजादिभ्यः ।

१९ - ३० - इण् अजादिभ्यः वक्तव्यः ।

२० - ३० - आजिः आतिः आदिः ।

२१ - ३० - इञ् वपादिभ्यः ।

२२ - ३० - इञ् वपादिभ्यः वक्तव्यः ।

२३ - ३० - वापिः वासिः वादिः ।

२४ - ३० - इक् कृष्यादिभ्यः ।

२५ - ३० - इक् कृष्यादिभ्यः वक्तव्यः ।

२६ - ३० - कृषिः किरिः गिरिः ।

२७ - ३० - सम्पदादिभ्यः क्विप् ।

२८ - ३० - सम्पदादिभ्यः क्विप् वक्तव्यः ।

२९ - ३० - सम्पत् विपत् प्रतिपत् आपत् परिषत् ।

१ - ५ - कृतः बहुलम् इति वक्तव्यम् पादहारकाद्यर्थम् ।

२ - ५ - पादाभ्याम् ह्रियते पादहारकः ।

३ - ५ - गले चोप्यते गलेचोपकः ।

४ - ५ - श्वः अग्नीन् आधास्यमानेन ।

५ - ५ - श्वः सोमेन यक्ष्यमाणेन ।

१ - ४ - गोचरादीनाम् अग्रहणम् प्रायवचनात् यथा कषः निकषः इति ।

२ - ४ - गोचरादीनाम् ग्रहणम् शक्यम् अकर्तुम् ।

३ - ४ - घञ् कस्मात् न भवति ।

४ - ४ - प्रायवचनात् यथा कषः निकषः इति प्रायवचनात् घञ् न भवति ।

१ - ५ - घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् ।

२ - ५ - घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - ५ - अवह्रियन्ते अस्मिन् अवहारः ।

४ - ५ - आध्रियन्ते अस्मिन् आधारः ।

५ - ५ - एत्य एतस्मिन् वयन्ति आवायः ।

१ - ८ - किमर्थम् इदम् उच्यते न हलः च इति एव सिद्धम् ।

२ - ८ - अनुदके इत् वक्ष्यामि इति ।

३ - ८ - इह मा भूत् ।

४ - ८ - उदकोदञ्चनः ।

५ - ८ - उदङ्कः अनुदकग्रहणानर्थक्यम् च प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।

६ - ८ - उदङ्कः अनुदकग्रहणम् च अनर्थकम् ।

७ - ८ - घञ् कस्मात् न भवति ।

८ - ८ - प्रायवचनात् यथा गोदोहनः प्रसाधनः इति ।

१ - ८ - डः वक्तव्यः ।

२ - ८ - आखः ।

३ - ८ - डरः वक्तव्यः ।

४ - ८ - आखरः ।

५ - ८ - इकः वक्तव्यः ।

६ - ८ - आखनिकः ।

७ - ८ - इकवकः वक्तव्यः ।

८ - ८ - आखनिकवकः ।

१ - २६ - अजब्भ्याम् स्त्रीखलनाः ।

२ - २६ - अजब्भ्याम् स्त्रीखलनाः भवन्ति विप्रतिषेधेन ।

३ - २६ - अजपोः अवकाशः चयः लवः ।

४ - २६ - स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः ।

५ - २६ - इह उभयम् प्राप्नोति ।

६ - २६ - चितिः स्तुतिः ।

७ - २६ - खलः अवकाशः ईषद्भेदः सुभेदः ।

८ - २६ - अजपोः सः एव ।

९ - २६ - इह उभयम् प्राप्नोति ।

१० - २६ - ईषच्चयः सुचयः ईषल्लवः सुलवः ।

११ - २६ - अनस्य अवकाशः इध्मप्रव्रश्चनः ।

१२ - २६ - अजपोः सः एव ।

१३ - २६ - इह उभयम् प्राप्नोति ।

१४ - २६ - पलाशचयनः अविलवनः ।

१५ - २६ - स्त्रीखलनाः भवन्ति विप्रतिषेधेन ।

१६ - २६ - स्त्रियाः खलनौ विप्रतिषेधेन ।

१७ - २६ - स्त्रियाः खलनौ भवतः विप्रतिषेधेन ।

१८ - २६ - स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः ।

१९ - २६ - खलः अवकाशः ईषद्भेदः सुभेदः ।

२० - २६ - इह उभयम् प्राप्नोति ।

२१ - २६ - ईषद्भेदा सुभेदा ।

२२ - २६ - अनस्य अवकाशः इध्मप्रव्रश्चनः ।

२३ - २६ - स्त्रीप्रत्ययानाम् सः एव ।

२४ - २६ - इह उभयम् प्राप्नोति ।

२५ - २६ - सक्तुधानी तिलपीडनी ।

२६ - २६ - खलनौ भवतः विप्रतिषेधेन ।

१ - ७ - खल् कर्तृकरणयोः च्व्यर्थयोः ।

२ - ७ - खल् कर्तृकरणयोः च्व्यर्थयोः इति वक्तव्यम् ।

३ - ७ - अनाढ्येन भवता ईषदाढ्येन शक्यम् भवितुम् ईषदाढ्यम्भवम् भवता ।

४ - ७ - दुराढ्यम्भवम् स्वाढ्यम्भवम् ।

५ - ७ - कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् । कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् द्रष्टव्यम् ।

६ - ७ - द्वेष्यम् विजानीयात् अभिधेययोः इति ।

७ - ७ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् इति

१ - ५ - भाषायाम् शासियुधिदृशिधृषिभ्यः युच् ।

२ - ५ - भाषायाम् शासियुधिदृशिधृषिभ्यः युच् वक्तव्यः ।

३ - ५ - दुःशासनः दुर्योधनः दुर्दर्शनः दुर्धर्षणः ।

४ - ५ - मृषेः च इति वक्तव्यम् ।

५ - ५ - दुर्मर्षणः ।

१ - २६ - वत्करणम् किमर्थम् ।

२ - २६ - वर्तमानसामीप्ये वर्त्मानाः वा इति इयति उच्यमाने वर्तमाने ये प्रत्ययाः विहिताः वर्तमानसामीप्ये धातुमात्रात् स्युः ।

३ - २६ - वत्करणे पुनः क्रियमाणे न दोषः भवति ।

४ - २६ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण वर्तमाने प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण वर्तमानसामीप्ये भवन्ति ततः अमीवर्तमानवत् कृताः स्युः ।

५ - २६ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवर्तमानवत् कृताः स्युः ।

६ - २६ - इह वर्तमानसामीप्ये वर्तमानवत् वा इति उक्त्वा लोट् एव उदाह्रियते ।

७ - २६ - यदि पुनः वा लट् भवति इति एव उच्येत ।

८ - २६ - अतः उत्तरम् पठति ।

९ - २६ - वर्तमानसामीप्ये वर्तमानवद्वचनम् शत्राद्यर्थम् ।

१० - २६ - वर्तमानसामीप्ये वर्तमानवद्वचनम् क्रियते शत्राद्यर्थम् ।

११ - २६ - शत्राद्यर्थः अयम् आरम्भः ।

१२ - २६ - एषः अस्मि पचन् ।

१३ - २६ - एषः अस्मि पचमानः इति ।

१४ - २६ - न एतत् अस्ति प्रयोजनम् ।

१५ - २६ - लडादेशौ शतृशानचौ ।

१६ - २६ - तत्र वा लट् भवति इति एव सिद्धम् ।

१७ - २६ - यौ तर्हि अलडादेशौ ।

१८ - २६ - एषः अस्मि पवमानः ।

१९ - २६ - एषः अस्मि यजमानः ।

२० - २६ - यौ च अपि लडादेशौ तौ अपि प्रयोजयतः ।

२१ - २६ - वर्तमानविहितस्य लटः शतृशानचौ उच्येते ।

२२ - २६ - अविशेषेण विहितः च अयम् योगः ।

२३ - २६ - शत्राद्यर्थम् इति खलु अपि उच्यते ।

२४ - २६ - बहवः च शत्रादयः ।

२५ - २६ - एषः अस्मि अलङ्करिष्णुः ।

२६ - २६ - एषः अस्मि प्रजनिष्णुः ।

१ - १४ - आशंसा नाम भविष्यत्काला ।

२ - १४ - आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः ।

३ - १४ - आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः वक्तव्यः ।

४ - १४ - न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् ।

५ - १४ - न वा वक्तव्यः ।

६ - १४ - किम् कारणम् ।

७ - १४ - अपवादस्य निमित्ताभावात् ।

८ - १४ - न अत्र अपवादस्य निमित्तम् अस्ति ।

९ - १४ - कथम् ।

१० - १४ - अनद्यतने हि तयोः विधानम् ।

११ - १४ - अनद्यतने हि तौ विधीयेते लङ्लिटौ ।

१२ - १४ - न च अत्र अनद्यतनः कालः विवक्षितः ।

१३ - १४ - कः तर्हि ।

१४ - १४ - भूतकालसामान्यम्

१ - २१ - आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः । आशंसा सम्भावनम् इति अविशिष्टौ एतौ अर्थौ ।

२ - २१ - आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः ।

३ - २१ - आशंसायाम् ये विधीयन्ते ते सम्भावने अपि प्राप्नुवन्ति ।

४ - २१ - ये च सम्भावने विधीयन्ते ते आशंसायाम् अपि प्राप्नुवन्ति ।

५ - २१ - किम् तर्हि उच्यते अप्राप्तिः इति ।

६ - २१ - न साधीयः प्राप्तिः भवति ।

७ - २१ - इष्टा व्यवस्था न प्रकल्पेत ।

८ - २१ - न सर्वे सर्वत्र इष्यन्ते ।

९ - २१ - न वा सम्भावनावयवत्वात् आशंसायाः ।

१० - २१ - न वा एषः दोषः ।

११ - २१ - किम् कारणम् ।

१२ - २१ - सम्भावनावयवत्वात् आशंसायाः ।

१३ - २१ - सम्भावनावयवात्मिका आशंसा ।

१४ - २१ - आशंसा नाम प्रधारितः अर्थः अभिनीतः च अनभिनीतः च ।

१५ - २१ - सम्भावनम् नाम प्रधारितः अर्थः अभिनीतः एव. अर्थासन्देहः वा अलमर्थत्वात् सम्भावनस्य ।

१६ - २१ - अथ वा अर्थासन्देहः एव पुनः अस्य ।

१७ - २१ - किम् कारणम् ।

१८ - २१ - अलमर्थत्वात् सम्भावनस्य ।

१९ - २१ - सम्भावने आलमर्थ्यम् गम्यते आसंशायाम् पुनः अनालमर्थ्यम् ।

२० - २१ - आचार्यप्रवृत्तिः ज्ञापयति सम्भावने अपि अनालमर्थ्यम् गम्यते इति यत् अयम् सम्भावने अलम् इति आह ।

२१ - २१ - तस्मात् सुष्ठु उच्यते न वा सम्भावनावयवत्वात् आशंसायाः इति ।

१ - ९ - क्षिप्रवचने लृअः आशंसावचने लिङ् विप्रतिषेधेन ।

२ - ९ - क्षिप्रवचने लृअः आशंसावचने लिङ् भवति विप्रतिषेधेन ।

३ - ९ - क्षिप्रवचने लृट् भवति इति अस्य अवकाशः ।

४ - ९ - उपाध्यायः चेत् आगतः क्षिप्रम् अध्येष्यामहे ।

५ - ९ - आशंसावचबे लिङ् भवति इति अस्य अवकाशः ।

६ - ९ - उपाध्यायः चेत् आगतः आशंसे युक्तः अधीयीय ।

७ - ९ - इह उभयम् प्राप्नोति ।

८ - ९ - उपाध्यायः चेत् आगतः आशंसे क्षिप्रम् अधीयीय ।

९ - ९ - लिङ् भवति विप्रतिषेधेन ।

१ - २८ - अनिष्पन्ने निष्पन्नशब्दः शिष्यः अनिष्पन्नत्वात् ।

२ - २८ - अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः ।

३ - २८ - किम् कारणम् ।

४ - २८ - अनिष्पन्नत्वात् ।

५ - २८ - देवः चेत् वृष्टः निष्पन्नाः शालयः ।

६ - २८ - तत्र भवितव्यम् सम्पत्स्यन्ते शालयः इति ।

७ - २८ - सिद्धम् तु भविष्यत्प्रतिषेधात् ।

८ - २८ - सिद्धम् एतत् ।

९ - २८ - कथम् ।

१० - २८ - भविष्यत्प्रतिषेधात् ।

११ - २८ - यत् लोकः भविष्यद्वाचिनः शब्दस्य प्रयोगम् न मृष्यति ।

१२ - २८ - कः चित् आह ।

१३ - २८ - देवः चेत् वृष्टः सम्पत्स्यन्ते शालयः इति ।

१४ - २८ - सः उच्यते ।

१५ - २८ - मा एवम् वोचः ।

१६ - २८ - सम्पन्नाः शालयः इति एवम् ब्रूहि ।

१७ - २८ - हेतुभूतकालसम्प्रेक्षितत्वात् वा ।

१८ - २८ - हेतुभूतकालसम्प्रेक्षितत्वात् वा पुनः सिद्धम् एतत् ।

१९ - २८ - हेतुभूतकालम् वर्षम् वर्षाकाला च क्रिया ।

२० - २८ - यदि तर्हि निष्पन्नः अर्थः किम् निष्पन्नकार्याणि न क्रियन्ते ।

२१ - २८ - कानि ।

२२ - २८ - भोजनादीनि ।

२३ - २८ - अन्यत् इदानीम् एतत् उच्यते किम् निष्पन्नकार्याणि न क्रियन्ते इति ।

२४ - २८ - यत् तु तत् निष्पन्नः अर्थः न निष्पन्नः इति ।

२५ - २८ - सः निष्पन्नः अर्थः ।

२६ - २८ - अवश्यम् खलु अपि कोष्ठगतेषु अपि शालिषु अवहननादीनि प्रतीक्ष्याणि ।

२७ - २८ - एवम् इह अपि निष्पन्नः अर्थः ।

२८ - २८ - अवश्यम् तु जननादीनि प्रतीक्ष्याणि ।

१ - ३४ - अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः । अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः ।

२ - ३४ - कूपः अस्ति ।

३ - ३४ - कूपः भविष्यति ।

४ - ३४ - कूपः भविता ।

५ - ३४ - कूपः अभूत् ।

६ - ३४ - कूपः आसीत् ।

७ - ३४ - कूपः बभूव इति ।

८ - ३४ - कथम् पुनः ज्ञायते भवन्त्याः एषः अर्थः इति ।

९ - ३४ - कर्तुः विद्यमानत्वात् ।

१० - ३४ - कर्ता अत्र विद्यते ।

११ - ३४ - कथम् पुनः ज्ञायते कर्ता अत्र विद्यते इति ।

१२ - ३४ - कूपः अनेन कदा चित् दृष्टः ।

१३ - ३४ - न च अस्य कम् चिद् अपि अपायम् पश्यति ।

१४ - ३४ - सः तु तत्र बुद्ध्या नित्याम् सत्ताम् अध्यवस्यति ।

१५ - ३४ - कूपः अस्ति इति ।

१६ - ३४ - सिद्धम् तु यथास्वम् कालसमुच्चारणात् ।

१७ - ३४ - सिद्धम् एतत् ।

१८ - ३४ - कथम् ।

१९ - ३४ - यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति ।

२० - ३४ - कथम् पुनः ज्ञायते यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति ।

२१ - ३४ - अवात्वात् ।

२२ - ३४ - यत् न वा भाष्यन्ते ।

२३ - ३४ - असिद्धविपर्यासः च । असिद्धः च विपर्यासः ।

२४ - ३४ - न हि कः चित् कूपः अस्ति इति प्रयोक्तव्ये कूपः अभूत् इति प्रयुङ्क्ते ।

२५ - ३४ - किम् पुनः कारणम् ।

२६ - ३४ - न वा भाष्यन्ते असिद्धः च विपर्यासः ।

२७ - ३४ - इह किम् चित् इन्द्रियकर्म किम् चित् बुद्धिकर्म ।

२८ - ३४ - इन्द्रियकर्म समासादनम् बुद्धिकर्मव्यवसायः ।

२९ - ३४ - एवम् हि कः चित् पाटलिपुत्रम् जिगमिषुः आह ।

३० - ३४ - यः अयम् अध्वा गन्तव्यः आ पाटलिपुत्रात् एतस्मिन् कूपः भविष्यति ।

३१ - ३४ - समासाद्य अतिक्रम्य उषित्वा कूपः आसीत् इति ।

३२ - ३४ - समासाद्य अतिक्रम्य उषित्वा विस्मृत्य कूपः बभूव इति ।

३३ - ३४ - तत् यदा इन्द्रियकर्म तदा एताः विभक्तयः ।

३४ - ३४ - यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।

१ - १२ - किमर्थम् इमौ द्वौ प्रतिषेधौ उच्येते न अद्यतनवत् इति एव उच्येत ।

२ - १२ - न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः ।

३ - १२ - न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः द्रष्टव्यः ।

४ - १२ - अद्यतनवद्वचने हि विधानम् ।

५ - १२ - अद्यतनवद्वचने हि सति विधिः इयम् विज्ञायेत ।

६ - १२ - तत्र कः दोषः ।

७ - १२ - तत्र लड्विधिप्रसङ्गः ।

८ - १२ - तत्र लड्विधिः प्रसज्येत ।

९ - १२ - लुङ्लृटोः च अयथाकालम् । लुङ्लृटोः च अयथाकालम् प्रयोगः प्रसज्येत ।

१० - १२ - लुङः अपि विषये लृट् स्यात् लृटः च विषये लुङ् स्यात् ।

११ - १२ - अद्य पुनः अयम् द्वौ प्रतिषेधौ उक्त्वा तूष्णीम् आस्ते ।

१२ - १२ - यथाप्राप्तेम् एव अद्यतने भविष्यति इति ।

१ - २८ - किमर्थम् इदम् उच्यते न न अनद्यतनवत् इति एव सिद्धम् ।

२ - २८ - भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् ।

३ - २८ - अक्रियाप्रबन्धार्थः अयम् आरम्भः ।

४ - २८ - किम् उच्यते अक्रियाप्रबन्धः ।

५ - २८ - न पुनः क्रियाप्रबन्धार्थः अपि स्यात् ।

६ - २८ - क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् ।

७ - २८ - क्रियाप्रबन्धार्थम् इति चेत् वचनम् अनर्थकम् ।

८ - २८ - सिद्धम् क्रियाप्रबन्धे पूर्वेण एव ।

९ - २८ - इदम् तर्हि प्रयोजनम् ।

१० - २८ - अनहोरात्राणाम् इति वक्ष्यामि इति ।

११ - २८ - इह मा भूत् ।

१२ - २८ - यः अयम् त्रिंशद्रात्रः आगामी तस्य यः अवरः पञ्चदशरात्रः इति ।

१३ - २८ - अहोरात्रप्रतिषेधार्थम् इति चेत् न अनिष्टत्वात् ।

१४ - २८ - अहोरात्रप्रतिषेधार्थम् इति चेत् तत् न अनिष्टत्वात् ।

१५ - २८ - किम् कारणम् ।

१६ - २८ - अनिष्टत्वात् ।

१७ - २८ - अत्र अपि न अनद्यतनवत् इति एव इष्यते ।

१८ - २८ - इदम् तर्हि प्रयोजनम् भविष्यति इति वक्ष्यामि इति ।

१९ - २८ - इह म भूत् ।

२० - २८ - यः अयम् अध्वा गतः आ पाटलिपुत्रात् तस्य यत् अवरम् साकेतात् इति ।

२१ - २८ - न अनिष्टत्वात् ।

२२ - २८ - अत्र अपि न अनद्यतनवत् इति एव इष्यते ।

२३ - २८ - इदम् तर्हि प्रयोजनम् मर्यादावचने इति वक्ष्यामि इति ।

२४ - २८ - इह मा भूत् ।

२५ - २८ - यः अयम् अध्वा अपरिमाणः गन्तव्यः तस्य यत् अवरम् साकेतात् इति ।

२६ - २८ - अत्र अपि न अनद्यतनवत् इति एव इष्यते ।

२७ - २८ - तस्मात् सुष्ठु उच्यते भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् ।

२८ - २८ - क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् इति ।

१ - ८ - अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः ।

२ - ८ - अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः वक्तव्यः ।

३ - ८ - यः अयम् त्रिंशद्रात्रः आगामीतस्य यः अवरः अर्धमासः ।

४ - ८ - तैः च विभागे ।

५ - ८ - तैः च विभागे इति वक्तव्यम् यः अयम् मासः आगामीतस्य यः अवरः पञ्चदशरात्रः इति ।

६ - ८ - द्वेष्यम् विजानीयात् अहोरात्राणाम् एव अहोरात्रैः विभागे प्रतिषेधः इति ।

७ - ८ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः ।

८ - ८ - तैः च विभागे इति ।

१ - ४ - कस्मिन् परस्मिन् ।

२ - ४ - कालविभागे ।

३ - ४ - कुतः एतत् ।

४ - ४ - योगविभागकरणसामर्थ्यात् ।

१ - ६ - साधनातिपत्तौ इति अपि वक्तव्यम् इह अपि यथा स्यात् ।

२ - ६ - अभोक्ष्यत भवान् मांसेन यदि मत्समीपे आसिष्यत इति ।

३ - ६ - तत् तर्हि वक्तव्यम् ।

४ - ६ - न वक्तव्यम् ।

५ - ६ - न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः अस्ति इति साधनातिपत्तिः चेत् क्रियातिपत्तिः अपि भवति ।

६ - ६ - तत्र क्रियातिपत्तौ इति एव सिद्धम् ।

१ - ४ - भूते लृङ् उताप्यादिषु ।

२ - ४ - भूते लृङ् उताप्यादिषु द्रष्टव्यः ।

३ - ४ - उत अध्याइष्यत ।

४ - ४ - अपि अध्यैष्यत ।

१ - ४ - विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् ।

२ - ४ - विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति वक्तव्यम् ।

३ - ४ - वा आ उताप्योः इति हि उच्यमाने सन्देहः स्यात् प्राक् वा उतापिभ्याम् सह वा इति ।

४ - ४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति ।

१ - १० - गर्हायाम् लड्विधानानर्थक्यम् क्रियासमाप्तिविवक्षितत्वात् ।

२ - १० - गर्हायाम् लड्विधिः नर्थकः ।

३ - १० - किम् कारणम् ।

४ - १० - क्रियासमाप्तिविवक्षितत्वात् ।

५ - १० - क्रियायाः अत्र असमाप्तिः गम्यते ।

६ - १० - एषः च नाम न्याय्यः वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति ।

७ - १० - तत्र वर्तमाने लट् इति एव सिद्धम् ।

८ - १० - यदि वर्तमाने लट् इति एवम् अत्र लट् भवति शतृशानचौ प्राप्नुतः ।

९ - १० - इष्येते च शतृशानचौ अपि माम् याजयन्तम् पश्य ।

१० - १० - अपि माम् याजयमानम् पश्य ।

१ - १० - किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणानर्थक्यम् ।

२ - १० - किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणम् अनर्थकम् ।

३ - १० - निवृत्तम् किंवृत्ते इति ।

४ - १० - तस्मिन् निवृत्ते अविशेषेण किंवृत्ते अकिंवृत्ते च भविष्यति ।

५ - १० - इदम् तर्हि प्रयोजनम् उपपदसञ्ज्ञाम् वक्ष्यामि इति ।

६ - १० - उपपदसञ्ज्ञावचने किम् प्रयोजनम् ।

७ - १० - उपपदम् अतिङ् इति समासः यथा स्यात् ।

८ - १० - अतिङ् इति प्रतिषेधः प्राप्नोति ।

९ - १० - यदा तर्हि लृटः सत्सञ्ज्ञौ तदा उपपदसञ्ज्ञा भविष्यति ।

१० - १० - भविष्यदधिकारविहितस्य लृटः सत्स्ञ्ज्ञौ उच्येते अविशेषविहितः च अयम् ।

१ - ४ - जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् ।

२ - ४ - जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४ - यदा भवद्विधः क्षत्रियम् याजयेत् ।

४ - ४ - यदि भवद्विधः क्षत्रियम् याजयेत् ।

१ - ७ - चित्रीकरणे यदिप्रतिषेधानर्थक्यम् अर्थान्यत्वात् ।

२ - ७ - चित्रीकरणे यदिप्रतिषेधः अनर्थकः ।

३ - ७ - किम् कारणम् ।

४ - ७ - अर्थान्यत्वात् ।

५ - ७ - न हि यदौ उपपदे चित्रीकरणम् गम्यते ।

६ - ७ - किम् तर्हि ।

७ - ७ - सम्भावनम् ।

१ - १३ - हेतुहेतुमतोः लिङ् वा ।

२ - १३ - हेतुहेतुमतोः लिङ् वा इति वक्तव्यम् ।

३ - १३ - अनेन चेत् यायात् न शकटम् पर्याभवेत् ।

४ - १३ - अनेन चेत् यास्यति न शकटम् पर्याभविष्यति ।

५ - १३ - भविष्यदधिकारे ।

६ - १३ - भविष्यदधिकारे इति वक्तव्यम् ।

७ - १३ - इह मा भूत् ।

८ - १३ - वर्षति इति धावति ।

९ - १३ - हन्ति इति पलयते ।

१० - १३ - अथ इदानीम् शतृशानचौ अत्र कस्मात् न भवतः ।

११ - १३ - देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः ।

१२ - १३ - मिथः ते न विभाष्यन्ते ।

१३ - १३ - गवाक्षः संशितव्रतः ।

१ - ४ - कामप्रवेदनम् चेत् ।

२ - ४ - कामप्रवेदनम् चेत् गम्यते इति वक्तव्यम् ।

३ - ४ - इह मा भूत् ।

४ - ४ - इच्छन् कटम् करोति ।

१ - १२ - विध्यधीष्टयोः कः विशेषः ।

२ - १२ - विधिः नाम प्रेषणम् ।

३ - १२ - अधीष्टम् नाम् सत्कार्पूर्विका व्यापारणा ।

४ - १२ - अथ निमन्त्रणामन्त्रणयोः कः विशेषः ।

५ - १२ - सन्निहितेन निमन्त्रणम् भवति असन्निहितेन च आमन्त्रणम् ।

६ - १२ - न एषः अस्ति विशेषः ।

७ - १२ - असन्निहितेन अपि निमन्त्रणम् भवति सन्निहितेन च आमन्त्रणम् ।

८ - १२ - एवम् तर्हि यत् नियोगतः कर्तव्यम् तत् निमन्त्रणम् ।

९ - १२ - किम् पुनः तत् ।

१० - १२ - हव्यम् कव्यम् वा ।

११ - १२ - ब्राह्मणेन सिद्धम् भुज्यताम् इति उक्ते अधर्मः प्रत्याख्यातुः ।

१२ - १२ - आमन्त्रणे कामचारः ।

१ - ५१ - कथम् पुनः इदम् विज्ञायते ।

२ - ५१ - निमन्त्रणादीईनाम् अर्थे इति आहोस्वित् निमन्त्रणादिषु गम्यमानेषु इति ।

३ - ५१ - कः च अत्र विशेषः ।

४ - ५१ - निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् ।

५ - ५१ - निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः ।

६ - ५१ - किम् कारणम् ।

७ - ५१ - प्रकृत्या अभिहितत्वात् ।

८ - ५१ - प्रकृत्या अभिहितः सः अर्थः इति कृत्वा प्रत्ययः न प्राप्नोति ।

९ - ५१ - द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् ।

१० - ५१ - द्विवचनबहुवनयोः च अ प्रसिद्धिः ।

११ - ५१ - किम् कारणम् ।

१२ - ५१ - एकार्थत्वात् ।

१३ - ५१ - एकः अयम् अर्थः निमन्त्रणम् नाम ।

१४ - ५१ - तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।

१५ - ५१ - अस्तु तर्हि निमन्त्रणादिषु गम्यमानेषु ।

१६ - ५१ - इह अपि तर्हि प्राप्नोति ।

१७ - ५१ - देवदत्तः भवन्तम् आमन्त्रयते ।

१८ - ५१ - देवदत्तः भवन्तम् निमन्त्रयते इति ।

१९ - ५१ - सिद्धम् तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् ।

२० - ५१ - सिद्धम् एतत् ।

२१ - ५१ - कथम् ।

२२ - ५१ - द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययः भवति इति वक्तव्यम् ।

२३ - ५१ - के च प्रकृताः अर्थाः ।

२४ - ५१ - भावकर्मकर्तारः ।

२५ - ५१ - भवेत् सिद्धम् प्राप्नोतु भवान् आमन्त्रणम् अनुभवतु भवान् अमन्त्रणम् इति यत्र द्वितीयः आकाङ्क्यते ।

२६ - ५१ - इदम् तु न सिध्यति आमन्त्रयै निमन्त्रयै इति ।

२७ - ५१ - अत्र अपि द्वितीयः आकाङ्क्यते ।

२८ - ५१ - कः ।

२९ - ५१ - निमन्त्रिः एव ।

३० - ५१ - आमन्त्रयै आमन्त्रणम् ।

३१ - ५१ - निमन्त्रयै निमन्त्रणम् ।

३२ - ५१ - कथम् पुनः निम्नत्रिः निमन्त्रणम् आकाङ्क्षेत् ।

३३ - ५१ - दृष्टः च भावेन भावयोगः ।

३४ - ५१ - तत् यथा इषिः इषिणा युज्यते स्त्रीत्वम् च स्त्रीत्वेन ।

३५ - ५१ - यावता अत्र द्वितीयः आकाङ्क्ष्यते अस्ति तर्हि निमन्त्रणादीनाम् अर्थे इति ।

३६ - ५१ - ननु च उक्तम् निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् इति ।

३७ - ५१ - न एषः दोषः ।

३८ - ५१ - यः असौ द्वितीयः आकाङ्क्ष्यते सः एव मम प्रत्ययार्थः भविष्यति ।

३९ - ५१ - अयम् तर्हि दोषः द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् इति ।

४० - ५१ - न एषः दोषः ।

४१ - ५१ - सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।

४२ - ५१ - तथा तिङाम् ।

४३ - ५१ - प्रसिद्धः नियमः तत्र ।

४४ - ५१ - प्रसिद्धः तत्र नियमः ।

४५ - ५१ - नियमः प्रकृतेषु वा ।

४६ - ५१ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

४७ - ५१ - के च प्रकृताः ।

४८ - ५१ - एकत्वादयः ।

४९ - ५१ - एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।

५० - ५१ - द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।

५१ - ५१ - बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।

१ - १८ - किमर्थम् प्रैषादिषु अर्थेषु कृत्याः विधीयन्ते न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति अन्यत्र च ।

२ - १८ - प्रैषादिषु कृत्यानाम् विधानम् नियमार्थम् ।

३ - १८ - नियमार्थः अयम् आरम्भः ।

४ - १८ - प्रैषादिषु एव कृत्याः यथा स्युः इति ।

५ - १८ - प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् । प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति ।

६ - १८ - न हि प्रैषादिषु एव कृत्याः इष्यन्ते ।

७ - १८ - किम् तर्हि ।

८ - १८ - अविशेषेण इष्यन्ते ।

९ - १८ - बुसोपेन्ध्यम् तृणोपेन्ध्यम् घन्घात्यम् ।

१० - १८ - विध्यर्थम् तु स्त्रियाः प्राक् इति वचनात् ।

११ - १८ - विध्यर्थम् तु प्रैषादिषु कृत्यानाम् वचनम् ।

१२ - १८ - अयम् प्रैषादिषु लोट् विधीयते ।

१३ - १८ - सः विशेषविहितः सामान्यविहितान् कृत्यान् बाधेत ।

१४ - १८ - वासरूपेण कृत्याः अपि भविष्यन्ति ।

१५ - १८ - न स्युः ।

१६ - १८ - किम् कारणम् ।

१७ - १८ - स्त्रियाः प्राक् इति वचनात् ।

१८ - १८ - प्राक् स्त्रियाः वा असरूपः ।

१ - १० - प्रथमान्तेषु इति वक्तव्यम् ।

२ - १० - किम् प्रयोजनम् ।

३ - १० - इह मा भूत् ।

४ - १० - काले भुङ्क्ते ।

५ - १० - तत् तर्हि वक्तव्यम् ।

६ - १० - न वक्तव्यम् ।

७ - १० - प्रैषादिषु इति वर्तते ।

८ - १० - तत् च अवश्यम् प्रैषादिग्रहणम् अनुवर्त्यम् ।

९ - १० - प्रथमान्तेषु इति हि उच्यमाने इह अपि प्रसज्येत ।

१० - १० - कालः पचति भूतानि कालः संहरति प्रजाः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP