पाद ३ - खण्ड ३९
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - ४० - भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।
२ - ४० - भविष्यति इति अनद्यतने उपसङ्ख्यानम् कर्तव्यम् ।
३ - ४० - श्वः ग्रामम् गमी ।
४ - ४० - किम् पुनः कारणम् न सिध्यति ।
५ - ४० - लृटा अयम् निर्देशः कृइयते ।
६ - ४० - लृट् च अनद्यतने लुटा बाध्यते ।
७ - ४० - तेन लृटः एव विषये एते प्रत्ययाः स्युः ।
८ - ४० - लुटः विषये न स्युः ।
९ - ४० - इतरेतराश्रयम् च ।
१० - ४० - इतरेतराश्रयम् च भवति ।
११ - ४० - का इतरेतराश्रयता ।
१२ - ४० - भविष्यत्कालेन शब्देन निर्देशः क्रियते ।
१३ - ४० - निर्देशोत्तरकालम् च भ्भविष्यत्कालता ।
१४ - ४० - तत् एतत् इतरेतराश्रयम् भवति ।
१५ - ४० - इतरेतराश्रयाणि च न प्रकल्पन्ते ।
१६ - ४० - उक्तम् वा ।
१७ - ४० - किम् उक्तम् ।
१८ - ४० - एकम् तावत् उक्तम् न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति ।
१९ - ४० - अपरम् अपि उक्तम् अव्ययनिर्देशात् सिद्धम् इति. अव्ययवता शब्देन निर्देशः करिष्यते ।
२० - ४० - अवर्तमाने अभूते इति ।
२१ - ४० - सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।
२२ - ४० - न कर्तव्यः ।
२३ - ४० - अव्ययम् एषः भविष्यतिशब्दः न एषा भवतेः लृट् ।
२४ - ४० - कथम् अव्ययत्वम् ।
२५ - ४० - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।
२६ - ४० - निपातम् अव्ययम् इति अवययसञ्ज्ञा ।
२७ - ४० - अथ अपि भवतेः लृट् एवम् अपि अवययम् एव ।
२८ - ४० - कथम् न व्येति इति अव्ययम् ।
२९ - ४० - क्व पुनः न व्येति ।
३० - ४० - एतौ कालविशेषौ भूतवर्तमानौ ।
३१ - ४० - स्वभावतः भविष्यति एव वर्तते ।
३२ - ४० - यदि तत्रि न व्येति इति अव्ययम् ।
३३ - ४० - न वा तद्विधानस्य अन्यत्र अभावात् ।
३४ - ४० - न वा भविष्यदाधिकारेण अर्थः ।
३५ - ४० - किम् कारणम् ।
३६ - ४० - तद्विधानस्य अन्यत्र अभावात् ।
३७ - ४० - ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति भूतवर्तमानौ ।
३८ - ४० - स्वभावतः एव ते भविष्यति एव वर्तन्ते ।
३९ - ४० - अतः उत्तरम् पठति ।
४० - ४० - भविष्यदधिकारस्य प्रयोजनम् यावत् पचति पुरा पचति इति अनपशब्दत्वाय ।
१ - १४ - यावत्पुरादिषु लड्विधिः लुटः पूर्वविप्रतिषिद्धम् । यावत्पुरादिषु लड्विधिः भवति लुटः पूर्वविप्रतिषेधेन ।
२ - १४ - यावत्पुरानिपातयोः लट् भवति इति अस्य अवकाशः ।
३ - १४ - यावत् भुङ्क्ते ।
४ - १४ - पुरा भुङ्क्ते ।
५ - १४ - लुटः अवकाशः ।
६ - १४ - श्वः कर्ता ।
७ - १४ - श्वः अध्येता ।
८ - १४ - इह उभयम् प्राप्नोति ।
९ - १४ - यावत् श्वः भुङ्क्ते ।
१० - १४ - पुरा श्वः भुङ्क्ते ।
११ - १४ - लट् भवति विप्रतिषेधेन ।
१२ - १४ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
१३ - १४ - न वक्तव्यः ।
१४ - १४ - अनद्यतने लुट् इति अत्र यावत्पुरानिपातयोः लट् इति अनुवर्तिष्यते ।
१ - ४ - किमर्थम् इदम् उच्यते न लिप्स्यमानसिद्धिः अपि लिप्सा एव तत्र किंवृत्ते लिप्सायाम् इति एव सिद्धम् ।
२ - ४ - अकिंवृत्तार्थः अयम् आरम्भः ।
३ - ४ - यः भवताम् ओदनम् ददाति सः स्वर्गम् लोकम् गच्छति ।
४ - ४ - यः भवताम् ओदनम् दास्यति सः स्वर्गम् लोकम् गमिष्यति ।
१ - ४५ - किमर्थम् क्रियायाम् उपपदे क्रियार्थायाम् ण्वुल् विधीयते न अविशेषेण विहितः ण्वुल् सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।
२ - ४५ - ण्वुलि सकर्मकग्रहणम् चोदितम् ।
३ - ४५ - अकरमकार्थः अयम् आरम्भः ।
४ - ४५ - आसकः व्रजति ।
५ - ४५ - शायकः व्रजति ।
६ - ४५ - प्रत्याख्यातम् तत् न वा धातुमात्रात् दर्शनात् ण्वुलः इति ।
७ - ४५ - एवम् तर्हि तृजादिषु वर्तमानकालोपादानम् चोदितम् ।
८ - ४५ - अवर्तमानकालार्थः अयम् आरम्भः ।
९ - ४५ - तत् अपि प्रत्याख्यातम् न वा कालमात्रे दर्शनात् अन्येषाम् इति ।
१० - ४५ - इदम् तर्हि प्रयोजनम्. अकेनोः भविष्यदाधम्र्ण्ययोः इति अत्र षष्ठ्याः प्रतिषेधः उक्तः ।
११ - ४५ - सः यथा स्यात् ।
१२ - ४५ - एतत् अपि न अस्ति प्रयोजनम् ।
१३ - ४५ - यः एव असौ अविशेषविहितः सः यदा भविष्यति भविष्यति तदा अस्य प्रतिषेधः भविष्यति ।
१४ - ४५ - एवम् तर्हि भविष्यदधिकारविहितस्य प्रतिषेधः यथा स्यात् ।
१५ - ४५ - इह मा भूत् अङ्ग यजताम् ।
१६ - ४५ - लप्स्यन्ते अस्य याजकाः ।
१७ - ४५ - ये एनम् याजययिष्यन्ति इति ।
१८ - ४५ - न एषः भविष्यत्कालः ।
१९ - ४५ - कः तर्हि ।
२० - ४५ - भूतकालः ।
२१ - ४५ - कथम् तर्हि भविष्यत्कालता गम्यते ।
२२ - ४५ - धातुसम्बन्धे प्रत्ययाः इति ।
२३ - ४५ - यः तर्हि न धातुसम्बन्धः ।
२४ - ४५ - इमे अस्य याजकाः ।
२५ - ४५ - इमे अस्य लावकाः इति ।
२६ - ४५ - एषः अपि भूतकालः ।
२७ - ४५ - कथम् तर्हि भविष्यत्कालता गम्यते ।
२८ - ४५ - सम्बन्धात् ।
२९ - ४५ - सः च तावत् तैः अयाजितः भवति ।
३० - ४५ - तस्य च तावत् तैः यवाः अलूनाः भवन्ति ।
३१ - ४५ - उच्यते च ।
३२ - ४५ - इदम् तर्हि प्रयोजनम् ।
३३ - ४५ - अयम् क्रियायाम् उपप्दे क्रियार्थायाम् तुमुन् विधीयते ।
३४ - ४५ - सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।
३५ - ४५ - एतत् अपि न अस्ति प्रयोजनम् ।
३६ - ४५ - भावे तुमुन् विधीयते कर्तरि ण्वुल् ।
३७ - ४५ - तत्र कः प्रसङ्गः यत् भावे विहितः तुमुन् कर्तरि विहितम् ण्वुलम् बाधेत ।
३८ - ४५ - लृट् तर्हि बाधेत ।
३९ - ४५ - वासरूपेण भविष्यति ।
४० - ४५ - अतः उत्तरम् पठति ।
४१ - ४५ - ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् तृजादिप्रतिषेधार्थम् ।
४२ - ४५ - ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् क्रियते ज्ञापकार्थम् ।
४३ - ४५ - किम् ज्ञाप्यम् ।
४४ - ४५ - एतत् ज्ञापयति आचार्यः क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।
४५ - ४५ - ण्वुल् अपि तृजादिः ।
१ - १७ - किमर्थम् इदम् उच्यते न अविशेषेण भावे प्रत्ययाः ये विहिताः ते क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यन्ति ।
२ - १७ - भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थम् ।
३ - १७ - भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थः अयम् आरम्भः ।
४ - १७ - इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।
५ - १७ - भाववचनाः च अपि तृजादयः ।
६ - १७ - अस्ति प्रयोजनम् एतत् ।
७ - १७ - किम् तर्हि इति ।
८ - १७ - यथाविहिताः इति तु वक्तव्यम् ।
९ - १७ - किम् प्रयोजनम् ।
१० - १७ - इह याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् यथा स्युः ।
११ - १७ - व्यतिकरः मा भूत् इति ।
१२ - १७ - तत् तर्हि वक्तव्यम् ।
१३ - १७ - न वक्तव्यम् ।
१४ - १७ - इह भावे प्रत्ययाः भवन्ति इति इयट सिद्धम् ।
१५ - १७ - सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् वाचकाः यथा स्युः इति ।
१६ - १७ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् भवन्ति ततः अमी वाचकाः कृताः स्युः ।
१७ - १७ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवाचकाः कृताः स्युः ।
१ - २९ - किमर्थम् इदम् उच्यते न अविशेषेण कर्मणि अण् विहितः सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।
२ - २९ - अणः पुनर्वचनम् अपवादविषये अनिवृत्त्यर्थम् ।
३ - २९ - अणः पुनर्वचनम् क्रियते अपवादविषये अनिवृत्तिः यथा स्यात् ।
४ - २९ - गोदायः व्रजति ।
५ - २९ - कम्बलदायः व्रजति इति ।
६ - २९ - किम् उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् इति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थम् स्यात् ।
७ - २९ - इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।
८ - २९ - अण् च अपि तृजादिः ।
९ - २९ - एवम् तर्हि उभयम् अनेन क्रियते ।
१० - २९ - अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानम् ।
११ - २९ - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।
१२ - २९ - लभ्यम् इति आह ।
१३ - २९ - कथम् ।
१४ - २९ - कर्मग्रहणसामर्थ्यात् ।
१५ - २९ - कथम् पुनः अन्तरेण कर्मग्रहणम् कर्मणि अण् लभ्यः ।
१६ - २९ - वचनग्रहणम् प्रकृतम् अनुवर्तते ।
१७ - २९ - अस्ति प्रयोजनम् एतत् ।
१८ - २९ - किम् तर्हि इति ।
१९ - २९ - अपर्यायेण इति तु वक्तव्यम् ।
२० - २९ - कदा चित् हि कर्मणि स्यात् कदा चित् क्रियायाम् उपपदे क्रियार्थायाम् इति ।
२१ - २९ - तत् तर्हि वक्तव्यम् ।
२२ - २९ - न वक्तव्यम् ।
२३ - २९ - चेन सन्नियोगः करिष्यते ।
२४ - २९ - अण् कर्मणि च ।
२५ - २९ - किम् च अन्यत् ।
२६ - २९ - क्रियायाम् उपपदे क्रियार्थायाम् इति ।
२७ - २९ - एवम् अपि प्रत्येकम् उपपदसञ्ज्ञा न प्राप्नोति ।
२८ - २९ - चेन एव सन्नियोगः करिष्यते ।
२९ - २९ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकम् उपपदसञ्ज्ञ भविष्यति ।
१ - ३३ - शेषवचनम् किमर्थम् ।
२ - ३३ - लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् । लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविध्यर्थम् ।
३ - ३३ - प्रतिपदविधिः यथा स्यात् ।
४ - ३३ - अविशेषेण विधाने लृटः अभावः प्रतिषिद्धत्वात् ।
५ - ३३ - अविशेषेण विधाने लृटः अभावः स्यात् ।
६ - ३३ - करिष्यामि इति व्रजति ।
७ - ३३ - हरिष्यामि इति व्रजति इति ।
८ - ३३ - किम् कारणम् ।
९ - ३३ - प्रतिषिद्धत्वात् ।
१० - ३३ - इदानीम् एव हि उक्तम् क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।
११ - ३३ - लृट् च अपि तृजादिः ।
१२ - ३३ - अस्ति प्रयोजनम् एतत् ।
१३ - ३३ - किम् तर्हि इति ।
१४ - ३३ - साधीयः तु खलु शेषग्रहणेन क्रियार्थोपपदात् लृट् निर्भज्यते ।
१५ - ३३ - किम् कारणम् ।
१६ - ३३ - अक्रियार्थोपपदत्वात् ।
१७ - ३३ - शेषे इति उच्यते ।
१८ - ३३ - शेषः च कः ।
१९ - ३३ - यत् अन्यत् क्रियायाः क्रियार्थायाः ।
२० - ३३ - एवम् तर्हि लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् ।
२१ - ३३ - लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविधिः यथा स्यात् ।
२२ - ३३ - लृट् शेषे च ।
२३ - ३३ - करिष्यति हरिष्यति इति ।
२४ - ३३ - क्व च ।
२५ - ३३ - क्रियायाम् उपपदे क्रियार्थायाम् इति ।
२६ - ३३ - सः तर्हि चकारः कर्तव्यः ।
२७ - ३३ - न कर्तव्यः ।
२८ - ३३ - इह लृट् भवति इति इयता सिद्धम् ।
२९ - ३३ - सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा उपजायेत ।
३० - ३३ - सति च योगाङ्गे योगविभागः करिष्यते ।
३१ - ३३ - लृट् भवति क्रियायाम् उपपदे क्रियार्थायाम् इति ।
३२ - ३३ - ततः शेषे ।
३३ - ३३ - शेषे च लृट् भवति इति ।
१ - ८ - सद्विधिः नित्यम् अप्रथमासमानाधिकरणे ।
२ - ८ - सद्विधिः अप्रथमासमानाधिकरणे नित्यम् इति वक्तव्यम् ।
३ - ८ - पक्ष्यन्तम् पश्य ।
४ - ८ - पक्ष्यमाणम् पश्य ।
५ - ८ - क्व तर्हि इदानीम् विभाषा ।
६ - ८ - प्रथमासमानाधिकरणे ।
७ - ८ - पाक्ष्यन् पक्ष्यति ।
८ - ८ - पक्ष्यमाणः पक्ष्यते ।
१ - ११ - योगविभागः कर्तव्यः ।
२ - ११ - अनद्यतने लृटः सत्स्ञ्ज्ञौ भवतः ।
३ - ११ - श्वः अग्नीन् आध्यास्यमानेन ।
४ - ११ - श्वः सोमेन यक्ष्यमाणेन ।
५ - ११ - ततः लुट् ।
६ - ११ - लुट् भवति अनद्यतने ।
७ - ११ - श्वः कर्ता ।
८ - ११ - श्वः अध्येता ।
९ - ११ - केन विहितस्य अनद्यतने लृटः सत्सञ्ज्ञौ उच्येते ।
१० - ११ - एतत् एव ज्ञापयति भवति अनद्यतने लृट् इति यत् अयम् अनद्यतने लृटः सत्स्ञ्ज्ञौ शास्ति ।
११ - ११ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।
१ - ११ - परिदेवने श्वस्तनीभविष्यन्त्यर्थे ।
२ - ११ - परिदेवने श्वस्तनीभविष्यन्त्याः अर्थे इति वक्तव्यम् ।
३ - ११ - इयम् नु कदा गन्ता या एवम् पादौ निदधाति ।
४ - ११ - अयम् नु कदा अध्येता यः एवम् अनभियुक्तः इति ।
५ - ११ - कालप्रकर्षात् तु उपमानम् ।
६ - ११ - कालप्रकर्षात् तु उपमानम् ।
७ - ११ - गन्ता इव इयम् गन्ता ।
८ - ११ - न इयम् गमिष्यति ।
९ - ११ - अध्येता इव अयम् अध्येता ।
१० - ११ - न वै तिङन्तेन उपमानम् अस्ति ।
११ - ११ - एवम् तर्हि अनद्यतने इव अनद्यतने इति ।
१ - ४ - स्पृशः उपतापे ।
२ - ४ - स्पृशः उपतापे इति वक्तव्यम् ।
३ - ४ - इह मा भूत् ।
४ - ४ - कम्बलस्पर्शः इति
१ - ५ - वाधिमत्स्यबलेषु इति वक्तव्यम् ।
२ - ५ - अतीसारः व्याधिः ।
३ - ५ - विसारः मत्स्यः ।
४ - ५ - बले ।
५ - ५ - शालसारः खदिरसारः ।
१ - ३५ - भावे सर्वलिङ्गनिर्देशः ।
२ - ३५ - भावे सर्वलिङ्गनिर्देशः कर्तव्यः ।
३ - ३५ - भूतौ भवने भावे इति ।
४ - ३५ - किम् प्रयोजनम् ।
५ - ३५ - सर्वलिङ्गे भाङे एते प्रत्ययाः यथा स्युः इति ।
६ - ३५ - किम् पुनः कारणम् न सिध्यति ।
७ - ३५ - पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनेन च ।
८ - ३५ - तेन् पुंलिङ्गे एव एकवचने च एते प्र्रत्ययाः स्युः ।
९ - ३५ - स्त्रीनपुंसकयोः द्विवचनबहुवच्नयोः च न स्युः ।
१० - ३५ - न अत्र निर्देशः तन्त्रम् ।
११ - ३५ - कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।
१२ - ३५ - तत्कारी च भवान् तद्द्वेषी च ।
१३ - ३५ - नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनेन च ।
१४ - ३५ - अवश्यम् कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।
१५ - ३५ - तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।
१६ - ३५ - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।
१७ - ३५ - तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।
१८ - ३५ - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।
१९ - ३५ - एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।
२० - ३५ - न हि अत्र निर्देशः तन्त्रम् ।
२१ - ३५ - कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।
२२ - ३५ - अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः ।
२३ - ३५ - यत् च अत्र पचतेः भवतिः भवति न तत् भवतेः पचतिः भवति ।
२४ - ३५ - यत् च भवतेः पचतिः भवति न तत् पचतेः भवतिः भवति ।
२५ - ३५ - किम् च पचतेः भवतिः भवति ।
२६ - ३५ - सामान्यम् ।
२७ - ३५ - किम् च भवतेः पचतिः भवति ।
२८ - ३५ - विशेषः ।
२९ - ३५ - तत् यथा उपाध्यायस्य शिष्यः मातुलस्य भागिनेयम् गत्वा आह ।
३० - ३५ - उपाध्यायम् भवान् अभिवादयताम् इति ।
३१ - ३५ - सः गत्वा मातुलम् अभिवादयते ।
३२ - ३५ - तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यम् गत्वा आह ।
३३ - ३५ - मातुलम् भवान् अभिवादयताम् इति ।
३४ - ३५ - सः गत्वा उपाध्यायम् अभिवादयते ।
३५ - ३५ - एवम् इह अपि पचतेः भवतौ यत् तत् निर्दिश्यते ।
१ - ६० - कारकग्रहणम् किमर्थम् ।
२ - ६० - कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।
३ - ६० - कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।
४ - ६० - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति ।
५ - ६० - तत् यथा ।
६ - ६० - गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।
७ - ६० - एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।
८ - ६० - स्वार्थे मा भूवन् कारके यथा स्युः इति एवमर्थम् इदम् उच्यते ।
९ - ६० - न एतत् अस्ति प्रयोजनम् ।
१० - ६० - विहितः प्रत्ययः स्वार्थे भावे घञ् इति ।
११ - ६० - तेन अत्रिप्रसक्तम् इति कृत्वा नियमार्थः अयम् विज्ञायेत ।
१२ - ६० - अकर्तरि सञ्ज्ञायाम् एव इति ।
१३ - ६० - अस्ति च इदानीम् कः चित् सञ्ज्ञाभूतः भावः यदर्थः विधिः स्यात् ।
१४ - ६० - अस्ति इति आह आवाहः , विवाहः इति ।
१५ - ६० - कैमर्थक्यात् नियमः भवति ।
१६ - ६० - विधेयम् न अस्ति इति कृत्वा ।
१७ - ६० - इह च अस्ति विधेयम् ।
१८ - ६० - अकर्तरि च कारके सञ्ज्ञायाम् घञ् विधेयः ।
१९ - ६० - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।
२० - ६० - तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।
२१ - ६० - ननु च उक्तम् विहितः प्रत्ययः स्वार्थे भावे घञ् इति इति ।
२२ - ६० - अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।
२३ - ६० - अनेन इदानीम् आभ्यन्तरे भावे स्यात् ।
२४ - ६० - कः पुनः एतयोः भावयोः विशेषः ।
२५ - ६० - उक्तः भावभेदः भाष्ये ।
२६ - ६० - एतत् अपि न अस्ति प्रयोजनम् ।
२७ - ६० - नञिवयुक्तम् अन्यसदृशाधिकरणे ।
२८ - ६० - तथा हि अर्थगतिः ।
२९ - ६० - नञ्युक्तम् इवयुक्तम् च अस्न्यस्मिन् तत्सदृशे कार्यम् विज्ञयते ।
३० - ६० - तथा हि अर्थः गम्यते ।
३१ - ६० - तत् यथा ।
३२ - ६० - अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् पुरुषम् आनयति ।
३३ - ६० - न असौ लोष्टम् आनीय कृती भवति ।
३४ - ६० - एवम् इह अपि अकर्तरि इति कर्तृप्रतिषेधात् अन्यस्मिन् अकर्तरि कर्तृसदृशे कार्यम् विज्ञस्यते ।
३५ - ६० - किम् च अन्यत् अकर्तृ कर्तृसदृशम् ।
३६ - ६० - कारकम् ।
३७ - ६० - उत्तरार्थम् तर्हि कारकग्रहणम् कर्तव्यम् ।
३८ - ६० - परिमाणाख्यायाम् सर्वेभ्यः कारके यथा स्यात् ।
३९ - ६० - इह मा भूत् ।
४० - ६० - एका तिलोच्छ्रितिः ।
४१ - ६० - देवे सृती इति ।
४२ - ६० - घञनुक्रमणम् अजब्विषये अवचने हि स्त्रीप्रत्ययानाम् अपि अवादविज्ञानम् इति वक्ष्यति ।
४३ - ६० - तत् न वक्तव्यम् भवति ।
४४ - ६० - एतत् अपि न अस्ति प्रयोजनम् ।
४५ - ६० - अत्र अपि अकर्तरि इति एव अनुवर्तिष्यते ।
४६ - ६० - सञ्ज्ञाग्रहणानर्थक्यम् च सर्वत्र घञः दर्शनात् ।
४७ - ६० - सञ्ज्ञाग्रहणम् च अनर्थकम् ।
४८ - ६० - किम् कारणम् ।
४९ - ६० - सर्वत्र घञः दर्शनात् ।
५० - ६० - असञ्ज्ञायाम् अपि हि घञ् दृश्यते ।
५१ - ६० - कः भवता दायः दत्तः ।
५२ - ६० - कः भवता लाभः लब्धः इति ।
५३ - ६० - यदि सञ्ज्ञाग्रहणम् न क्रियते अतिप्रसङ्गः भवति ।
५४ - ६० - कृतः कटः इति अत्र कारः कट इति प्राप्नोति ।
५५ - ६० - अतिप्रसङ्गः इति चेत् अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।
५६ - ६० - अतिप्रसङ्गः इति चेत् तत् न ।
५७ - ६० - किम् कारणम् ।
५८ - ६० - अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।
५९ - ६० - अभिधानलक्षणाः कृत्तद्धितसमादाः ।
६० - ६० - अनभिधानात् न भविष्यन्ति ।
१ - ५३ - सर्वग्रहणम् किमर्थम् ।
२ - ५३ - सर्वेभ्यः धातुभ्यः घञ् यथा स्यात् अजपोः अपि विषये ।
३ - ५३ - एकः तण्डुलनिश्चायः ।
४ - ५३ - द्वौ शूर्पनिष्पावौ ।
५ - ५३ - सर्वग्रहणम् अनर्थकम् परिमाणाख्यायम् इति सिद्धत्वात् ।
६ - ५३ - सर्वग्रहणम् अनर्थकम् ।
७ - ५३ - किम् कारणम् ।
८ - ५३ - परिमाणाख्यायम् इति सिद्धत्वात् ।
९ - ५३ - परिमाणाख्यायम् इति एव घञ् सिद्धः अजपोः अपि विषये ।
१० - ५३ - न अर्थः सर्वग्रहणेन ।
११ - ५३ - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।
१२ - ५३ - किम् ।
१३ - ५३ - एकः पाकः द्वौ पाकौ त्रयः पाकाः इति ।
१४ - ५३ - पूर्वेण अपि एतत् सिद्धम् ।
१५ - ५३ - न सिध्यति ।
१६ - ५३ - सञ्ज्ञायाम् इति पूर्वः योगः ।
१७ - ५३ - न च एषा सञ्ज्ञा ।
१८ - ५३ - प्रत्याख्यायते सञ्ज्ञाग्रहणम् ।
१९ - ५३ - अथ अपि क्रियते एवम् अपि न दोषः ।
२० - ५३ - अजौ अपि सञ्ज्ञायाम् एव ।
२१ - ५३ - यथाजातीयकः उत्सर्गः तथाजातीयकेन अपवादेन भवितव्यम् ।
२२ - ५३ - उत्तरार्थम् तर्हि ।
२३ - ५३ - इङः च सर्वेभ्यः अपि यथा स्यात् ।
२४ - ५३ - ननु च अयम् इङ् एकः एव वण्टरण्डाकल्पः ।
२५ - ५३ - सर्वेषु साधनेषु यथा स्यात् ।
२६ - ५३ - उपेत्य अधीयते तस्मात् अध्यायः ।
२७ - ५३ - अधीयते तस्मिन् अध्यायः ।
२८ - ५३ - अध्यायन्यायायोद्यावसंहारावायाः च इति एतत् निपातनम् न कर्तव्यम् भवति ।
२९ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।
३० - ५३ - क्रियते न्यासे एव ।
३१ - ५३ - उत्तराऋथम् एव तर्हि वक्तव्यम् ।
३२ - ५३ - कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यः यथा स्यात् ।
३३ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।
३४ - ५३ - वक्ष्यति एतत् ।
३५ - ५३ - कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् ।
३६ - ५३ - पृथक् ग्रहणम् बाधकबाधनार्थम् ।
३७ - ५३ - व्यावचोरीव्यावचर्च्यर्थम् ।
३८ - ५३ - तत्र व्यतीक्षादिषु दोषः ।
३९ - ५३ - सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च इति ।
४० - ५३ - उत्तरार्थम् तर्हि अभिविधौ भावे इनुण् सर्वेभ्यः यथा स्यात् ।
४१ - ५३ - सांराविणम् ।
४२ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।
४३ - ५३ - वक्ष्यति एतत् ।
४४ - ५३ - अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।
४५ - ५३ - पृथक् ग्रहणम् बाधकबाधार्थम् ।
४६ - ५३ - न तु ल्युट् इति ।
४७ - ५३ - इदम् तर्हि प्रयोजनम् ।
४८ - ५३ - प्रकृत्याश्रयः यः अपवादः तस्य बाधनम् यथा स्यात् ।
४९ - ५३ - अर्थाश्रयः यः अपवादः तस्य बाधनम् मा भूत् ।
५० - ५३ - एका तिलोच्छ्रितिः द्वे सृती इति ।
५१ - ५३ - घञनुक्रमणम् अजब्विषये ।
५२ - ५३ - अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् इति चोदयिष्यति ।
५३ - ५३ - तत् न वक्तव्यम् भवति ।
१ - १२ - घञनुक्रमणम् अजब्विषये ।
२ - १२ - घञनुक्रमणम् अजब्विषये इति वक्तव्यम् ।
३ - १२ - अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् ।
४ - १२ - अनुच्यमाने हि एतस्मिन् स्त्रीप्रत्ययानाम् अपि अपवादः अयम् विज्ञयेत ।
५ - १२ - एका तिलोच्छ्रितिः द्वे सृती इति । दारजारौ कर्तरि णिलुक् च ।
६ - १२ - दारजारौ कर्तरि वक्तव्यौ णिलुक् च वक्तव्यः ।
७ - १२ - दारयन्ति इति दाराः ।
८ - १२ - जरयन्ति इति जाराः ।
९ - १२ - करणे वा ।
१० - १२ - करणे वा वक्तव्यौ ।
११ - १२ - दीर्यते तैः दाराः ।
१२ - १२ - जीर्यन्ति तैः जाराः ।
१ - ८ - इङः च इति अपादाने स्त्रियाम् उपसङ्ख्यानम् तदन्तात् च वा ङीष् ।
२ - ८ - इङः च इति अत्र अपादाने स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् तदन्तात् च वा ङीष् वक्तव्यः ।
३ - ८ - उपेत्य अधीयते तस्याः उअपाध्यायी उपाध्याया ।
४ - ८ - शृ̄ वायुवर्णनिवृतेषु ।
५ - ८ - शृ̄ इति एतस्मात् वायुवर्णनिवृतेषु घञ् वक्तव्यः ।
६ - ८ - शारः वायुः ।
७ - ८ - शारः वर्णः ।
८ - ८ - गौः इव अकृतनीशारः प्रायेण शिशिरे कृशः ।
१ - ११ - समि मुष्टौ इति अनर्थकम् वचनम् परिमाणाख्यायाम् इति सिद्धत्वात् ।
२ - ११ - समि मुष्टौ इति एतत् वचनम् अनर्थकम् ।
३ - ११ - किम् कारणम् ।
४ - ११ - परिमाणाख्यायाम् इति सिद्धत्वात् ।
५ - ११ - परिमाणाख्यायाम् इति एव सिद्धम् ।
६ - ११ - अपरिमाणार्थम् तु ।
७ - ११ - अपरिमाणार्थम् तु अयम् आरम्भः ।
८ - ११ - मल्लस्य सङ्ग्राहः मुष्टिकस्य सङ्गाहः इति ।
९ - ११ - उद्ग्राभिनिग्राभौ च छन्दसि स्रुगुद्यमननिपातनयोः ।
१० - ११ - उद्ग्राभः निब्राभः इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोः ।
११ - ११ - उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् ।
१ - २२ - स्त्रीग्रहणम् किमर्थम् ।
२ - २२ - कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् क्रियते व्यतिपाकार्थम् ।
३ - २२ - इह मा भूत् ।
४ - २२ - व्यतिपाकः वर्तते इति ।
५ - २२ - अथ किमर्थम् पृथक् ग्रहणम् ।
६ - २२ - पृथक् ग्रहणम् बाधकबाधनार्थम् ।
७ - २२ - पृथक् ग्रहणम् क्रियते बाधकबाधनार्थम् ।
८ - २२ - ये तस्य बाधकाः तद्बाधनार्थम् ।
९ - २२ - किम् प्रयोजनम् ।
१० - २२ - व्यावचोरीव्यावचर्च्यर्थम् । व्यावचोरी वर्तते ।
११ - २२ - व्यावचर्ची वर्तते ।
१२ - २२ - तत्र व्यतीक्षादिषु दोषः ।
१३ - २२ - तत्र व्यतीक्षादिषु दोषः भवति ।
१४ - २२ - व्यतीक्षा वर्तते ।
१५ - २२ - व्यतीहा वर्तते ।
१६ - २२ - सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च ।
१७ - २२ - सिद्धम् एतत् ।
१८ - २२ - कथम् ।
१९ - २२ - प्रकृते एव स्त्रीग्रहणे अयम् योगः कर्तव्यः ।
२० - २२ - स्त्रियाम् क्तिन् ।
२१ - २२ - ततः कर्मव्यतिहारे णच् ।
२२ - २२ - ततः णिचः ।
१ - ९ - भावग्रहणम् किमर्थम् ।
२ - ९ - अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।
३ - ९ - अभिविधौ भावग्रहणम् क्रियते नपुंसके क्तादिनिवृत्त्यर्थम् ।
४ - ९ - नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।
५ - ९ - अथ किमर्थम् पृथक् ग्रहणम् ।
६ - ९ - पृथक् ग्रहणम् बाधकबाधार्थम् ।
७ - ९ - पृथक् ग्रहणम् क्रियते बाधकबाधार्थम् ये तस्य बाधकाः तद्बाधनार्थम् ।
८ - ९ - न तु ल्युटः । ल्युटः तु बाधनम् न इष्यते ।
९ - ९ - सङ्कूटनम् इति एव भवति ।
१ - १५ - अज्विधौ भयस्य उपसङ्ख्यानम् ।
२ - १५ - अज्विधौ भयस्य उपसङ्ख्यानम् कर्तव्यम् ।
३ - १५ - भयम् ।
४ - १५ - अत्यल्पम् इदम् उच्यते भयस्य इति ।
५ - १५ - भयादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् भयम् वर्षम् ।
६ - १५ - किम् प्रयोजनम् ।
७ - १५ - नपुंसके क्तादिनिवृत्त्यर्थम् ।
८ - १५ - नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।
९ - १५ - कल्पादिभ्यः च प्रतिषेधः ।
१० - १५ - कल्पादिभ्यः च प्रतिषेधः वक्तव्यः ।
११ - १५ - कल्पः अर्थः मन्त्रः ।
१२ - १५ - जवसवौ छन्दसि ।
१३ - १५ - जवसवौ छन्दसि वक्तव्यौ ।
१४ - १५ - ऊर्वोः अस्तु मे जवः ।
१५ - १५ - अयम् मे पञ्चौदनः सवः ।
१ - २५ - किमर्थम् निष्पूर्वात् चिनोतेः अप् विधीयते न अचा एव सिद्धम् ।
२ - २५ - न हि अस्ति विशेषः निष्पूर्वात् चिनोतेः अपः वा अचः वा ।
३ - २५ - तत् एव रूपम् सः एव स्वरः ।
४ - २५ - न सिध्यति ।
५ - २५ - हस्तादाने चेः घञ् प्राप्तः ।
६ - २५ - तद्बाधनार्थम् ।
७ - २५ - अतः उत्तरम् पठति ।
८ - २५ - अब्विधौ निश्चिग्रहणम् अनर्थकम् स्तेयस्य घञ्विधौ प्रतिषेधात् ।
९ - २५ - अब्विधौ निश्चिग्रहणम् अनर्थकम् ।
१० - २५ - किम् कारणम् ।
११ - २५ - स्तेयस्य घञ्विधौ प्रतिषेधात् ।
१२ - २५ - स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते ।
१३ - २५ - निष्पूर्वः चिनोतिः स्तेये वर्तते ।
१४ - २५ - अस्तेयार्थम् तर्हि इदम् वक्तव्यम् ।
१५ - २५ - निष्पूर्वात् चिनोतेः अस्तेये यथा स्यात् ।
१६ - २५ - अस्तेयार्थम् इति चेत् न अनिष्टत्वात् ।
१७ - २५ - अस्तेयार्थम् इति चेत् तत् न ।
१८ - २५ - किम् कारणम् ।
१९ - २५ - अनिष्टत्वात् ।
२० - २५ - न निष्पूर्वात् चिनोतेः अस्तेये अप् इष्यते ।
२१ - २५ - किम् तर्हि घञ् एव इष्यते ।
२२ - २५ - एवम् तर्हि सिद्धे सति यत् निष्पूर्वात् चिनोतेः अपम् शास्ति तत् ज्ञापयति आचार्यः यत् तत् अन्तः थाथघञ्क्ताजबितृकाणाम् इति तत् निष्पूर्वात् चिनोतेः न भवति इति ।
२३ - २५ - किम् एतस्य ज्ञापने प्रयोजनम् ।
२४ - २५ - निश्चयः ।
२५ - २५ - एषः स्वरः सिद्धः भवति ।
१ - २६ - वशिरण्योः च उपसङ्ख्यानम् ।
२ - २६ - वशिरण्योः च उपसङ्ख्यानम् ।
३ - २६ - सः वशम् सैन्धवम् ।
४ - २६ - धनञ्जयः रणे रणे ।
५ - २६ - घञर्थे कविधानम् स्थास्नापाव्यधिहनियुध्यर्थम् ।
६ - २६ - घञर्थे कः विधेयः ।
७ - २६ - किम् प्रयोजनम् ।
८ - २६ - स्थास्नापाव्यधिहनियुध्यर्थम् ।
९ - २६ - स्था ।
१० - २६ - प्रतिष्ठन्ते अस्मिन् धान्यानि इति प्रस्थः ।
११ - २६ - प्रस्थे हिमवतः श्र्ङ्गे ।
१२ - २६ - स्था ।
१३ - २६ - स्ना ।
१४ - २६ - प्रस्नान्ति तस्मिन् इति प्रस्नः ।
१५ - २६ - स्ना ।
१६ - २६ - पा ।
१७ - २६ - प्रपिबन्ति अस्याम् इति प्रपा ।
१८ - २६ - पा ।
१९ - २६ - व्यधि ।
२० - २६ - आविध्यन्ति तेन आविधम् ।
२१ - २६ - व्यधि ।
२२ - २६ - हनि ।
२३ - २६ - विघ्नन्ति तस्मिन् मनांसि विघ्नः ।
२४ - २६ - हनि ।
२५ - २६ - युधि ।
२६ - २६ - आयुध्यन्ते तेन आयुधम् ।
१ - २९ - कस्मात् अयम् कः विधीयते ।
२ - २९ - हन्तेः इति आह ।
३ - २९ - तत् हन्तिग्रहणम् कर्तव्यम् ।
४ - २९ - न कर्तव्यम् ।
५ - २९ - प्रकृतम् अनुवर्तते ।
६ - २९ - क्व प्रकृतम् ।
७ - २९ - हनः च वधः ।
८ - २९ - तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।
९ - २९ - न एतानि निपातनानि ।
१० - २९ - हन्तेः एते आदेशाः ।
११ - २९ - यदि आदेशाः घनस्वरः न सिध्यति ।
१२ - २९ - घनः ।
१३ - २९ - सन्तु तर्हि निपातनानि ।
१४ - २९ - ननु च उक्तम् तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति ।
१५ - २९ - सम्बन्धम् अनुवर्तिष्यते ।
१६ - २९ - अथ वा पुनः सन्तु आदेशाः ।
१७ - २९ - ननु च उक्तम् स्वरः न सिध्यति इति ।
१८ - २९ - न एषः दोषः ।
१९ - २९ - अकारान्तः आदेशः ।
२० - २९ - अथ यदा इषीकया स्तम्बः हन्यते कथम् तत्र भवितव्यम् ।
२१ - २९ - के चिद् तावत् आहुः ।
२२ - २९ - स्तम्बघ्ना इति भवितव्यम् ।
२३ - २९ - अपरे आहुः स्तम्बहेतिः इति भवितव्यम् ।
२४ - २९ - ऊतियूतिजूतिसातिहेतिकीर्तयः च इति निपातनम् इति ।
२५ - २९ - अपरे आहुः ।
२६ - २९ - स्तम्बहननीइति भवितव्यम् इति ।
२७ - २९ - वक्ष्यति एतत् ।
२८ - २९ - अजब्भ्याम् स्त्रीईखलनाः ।
२९ - २९ - स्त्रियाः खलनौ विप्रतिषेधेन इति ।
१ - १४ - यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः ।
२ - १४ - यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः वक्तव्यः ।
३ - १४ - प्रश्नः इति ।
४ - १४ - एवन् तर्हि आङित् करिष्यते ।
५ - १४ - अङिति गुणप्रतिषेधः ।
६ - १४ - यदि अङित् गुणप्रतिषेधः वक्तव्यः ।
७ - १४ - विश्नः इति ।
८ - १४ - सूत्रम् च भिद्यते ।
९ - १४ - यथान्यासम् एव अस्तु ।
१० - १४ - ननु च उक्तम् यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः इति ।
११ - १४ - न एषः दोषः ।
१२ - १४ - निपातनात् एतत् सिद्धम् ।
१३ - १४ - किम् निपातनम् ।
१४ - १४ - प्रश्ने च आसन्नकाले इति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP