TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद ४ - खण्ड ३०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ३०
१ - १२९ - तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः ।

२ - १२९ - तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः ।

३ - १२९ - प्रियः आङ्गः एषाम् ते इमे प्रियाङ्गाः ।

४ - १२९ - प्रियः वाङ्गः एषाम् ते इमे प्रियवाङ्गाः इति ।

५ - १२९ - किम् उच्यते समासबहुत्वे प्रतिषेधः इति यावता तेन एव चेत् कृतम् बहुत्वम् इति उच्यते न च अत्र तेन एव कृतम् बहुत्वम् ।

६ - १२९ - भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति ।

७ - १२९ - तत् वा कर्तव्यम् तेन एव चेत् बहुत्वम् इति समासबहुत्वे वा प्रतिषेधः वक्तव्यः इति ।

८ - १२९ - अबहुत्वे च लुग्वचनम् ।

९ - १२९ - अबहुत्वे च लुक् वक्तव्यः ।

१० - १२९ - अतिक्रान्तः अङ्गान् अत्यङ्गः ।

११ - १२९ - बहुवचने परतः यः तद्राजः इति एवम् कृत्वा चोद्यते ।

१२ - १२९ - अथ किमर्थम् पुनः इदम् न बहुवचने इति एव सिद्धम् ।

१३ - १२९ - न सिध्यति ।

१४ - १२९ - बहुवचने इति उच्यते न च अत्र बहुवचनम् पश्यामः ।

१५ - १२९ - प्रत्ययलक्षणेन भविष्यति ।

१६ - १२९ - न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

१७ - १२९ - न लुमता आङ्गस्य इति वक्ष्यामि ।

१८ - १२९ - न एवम् शक्यम् ।

१९ - १२९ - इह हि दोषः स्यात् ।

२० - १२९ - पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति ।

२१ - १२९ - द्वन्द्वे अबहुषु लुग्वचनम् ।

२२ - १२९ - द्वन्द्वे अबहुषु लुक् वक्तव्यः ।

२३ - १२९ - गर्गवत्सवाजाः इति ।

२४ - १२९ - इह च लुक् वक्तव्यः ।

२५ - १२९ - गर्गेभ्यः आगतम् गर्गरूप्यम् गर्गमयम् इति ।

२६ - १२९ - इह च अत्रयः इति उदात्तनिवृत्तिस्वरः प्राप्नोति ।

२७ - १२९ - सिद्धम् तु प्रत्ययार्थबहुत्वे लुग्वचनात् ।

२८ - १२९ - सिद्धम् एतत् ।

२९ - १२९ - कथम् ।

३० - १२९ - प्रत्ययार्थबहुत्वे लुक् वक्तव्यः ।

३१ - १२९ - यदि प्रत्ययार्थबहुत्वे लुक् उच्यते अस्त्रियाम् इति वक्तव्यम् ।

३२ - १२९ - इह मा भूत् ॒ आङ्ग्यः स्त्रियः , वाङ्ग्यः स्त्रियः इति ।

३३ - १२९ - यस्य पुनः बहुवचने परतः लुक् उच्यते तस्य ईकारेण व्यवहितत्वात् न भविष्यति ।

३४ - १२९ - यस्य अपि बहुवचने परतः लुक् उच्यते तेन अपि अस्त्रियाम् इति वक्तव्यम् आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रियः इति एवमर्थम् ।

३५ - १२९ - अत्र अपि चापा व्यवधानम् ।

३६ - १२९ - एकादेशे कृते न अस्ति व्यव्हदानम् ।

३७ - १२९ - एकादेशः पूवविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

३८ - १२९ - द्वन्द्वे अबहुषु लुग्वचनम् ।

३९ - १२९ - द्वन्द्वे अबहुषु लुक् वक्तव्यः ।

४० - १२९ - गर्गवत्सवाजाः इति ।

४१ - १२९ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् ।

४२ - १२९ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः ।

४३ - १२९ - बिदानाम् अपत्यम् माणवकः बैदः बैदौ ।

४४ - १२९ - किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः ।

४५ - १२९ - अचि इति उच्यते ।

४६ - १२९ - न च अत्र अजादिम् पश्यामः ।

४७ - १२९ - प्रत्ययलक्षणेन ।

४८ - १२९ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

४९ - १२९ - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि ।

५० - १२९ - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।

५१ - १२९ - बैदस्य अपत्यम् बहवः माणवकाः बिदाः बैदयोः वा बिदाः ।

५२ - १२९ - अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

५३ - १२९ - मा भूत् एवम् ।

५४ - १२९ - अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

५५ - १२९ - न एवम् शक्यम् ।

५६ - १२९ - इह हि दोषः स्यात् ।

५७ - १२९ - काश्यपप्रतिकृतयः काश्यपाः इति ।

५८ - १२९ - न वा सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् ।

५९ - १२९ - न वा एषः दोषः ।

६० - १२९ - किम् कारणम् ।

६१ - १२९ - सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् ।

६२ - १२९ - सर्वाणि द्वन्द्वे बह्वर्थानि ।

६३ - १२९ - कथम् ।

६४ - १२९ - युगपत् अधिकरणविवक्षायाम् द्वन्द्वः भवति ।

६५ - १२९ - ततः अयम् आह यस्य बहुवचने परतः लुक् ।

६६ - १२९ - यदि सर्वाणि द्वन्द्वे बह्वर्थानि अहम् अपि इदम् अचोद्यम् चोद्ये ।

६७ - १२९ - द्वन्द्वे अबहुषु लुग्वचनम् इति ।

६८ - १२९ - मम अपि सर्वत्र बहुवचनम् परम् भवति ।

६९ - १२९ - लुके कृते न प्राप्नोति ।

७० - १२९ - प्रत्ययलक्षणेन ।

७१ - १२९ - न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

७२ - १२९ - न लुमता आङ्गस्य इति वक्ष्यामि ।

७३ - १२९ - ननु च उक्तम् न एवम् शक्यम् ।

७४ - १२९ - इह हि दोषः स्यात् ।

७५ - १२९ - पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति ।

७६ - १२९ - इष्तम् एव एतत् सङ्गृहीतम् ।

७७ - १२९ - पञ्चगर्गः दशगर्गः इति एव भवितव्यम् ।

७८ - १२९ - तथा इदम् अपरम् अचोद्यम् चोद्ये ।

७९ - १२९ - गर्गरूप्यम् गर्गमयम् ।

८० - १२९ - अत्र अपि बहुवचने इति एव सिद्धम् कथम् ।

८१ - १२९ - समर्थात् तद्धितः उत्पद्यते ।

८२ - १२९ - सामर्थ्यम् च सुबन्तेन ।

८३ - १२९ - ततः अयम् आह यस्य प्र्तययार्थबहुत्वे लुक् ।

८४ - १२९ - यदि समर्थात् तद्धितः उत्पद्यते अहम् अपि इदम् अचोद्यम् चोद्ये ।

८५ - १२९ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् इति ।

८६ - १२९ - कथम् ।

८७ - १२९ - यस्य अपि बहुवचने परतः लुक् तेन अपि अत्र अलुक् वक्तव्यः ।

८८ - १२९ - तस्य अपि हि अत्र बहुवचनम् परम् भवति ।

८९ - १२९ - न वक्तव्यः ।

९० - १२९ - अचि इति एवम् अलुक् सिद्धः ।

९१ - १२९ - अचि इति उच्यते ।

९२ - १२९ - न च अत्र अजादिम् पश्यामः ।

९३ - १२९ - ननु च उक्तम् प्रत्ययलक्षणेन ।

९४ - १२९ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति ।

९५ - १२९ - यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति ।

९६ - १२९ - अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि ।

९७ - १२९ - यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि अलुक् प्राप्नोति ।

९८ - १२९ - अस्तु ।

९९ - १२९ - पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति ।

१०० - १२९ - पुनः अलुक् कस्मात् न भवति ।

१०१ - १२९ - समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते न च तत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् ।

१०२ - १२९ - किम् तर्हि ।

१०३ - १२९ - द्वितीयम् अर्थम् उपसङ्क्रान्तम् ।

१०४ - १२९ - अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिका कुत्सकुशिका इति एवमर्थम् ।

१०५ - १२९ - गर्गभार्गविकाग्रहणम् वा क्रियते ।

१०६ - १२९ - तत् नियमार्थम् भविष्यति ।

१०७ - १२९ - एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति ।

१०८ - १२९ - यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः इति ।

१०९ - १२९ - मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।

११० - १२९ - अञन्तम् यत्बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

१११ - १२९ - ननु च उक्तम् न एवम् शक्यम् ।

११२ - १२९ - इह हि दोषः स्यात् ।

११३ - १२९ - काश्यपप्रतिकृतयः काश्यपाः इति ।

११४ - १२९ - न एषः दोषः ।

११५ - १२९ - लौकिकस्य तत्र गोत्रस्य ग्रहणम् ।

११६ - १२९ - न च एतत् लौकिकम् गोत्रम् ।

११७ - १२९ - यस्य बहुवचने परतः लुक् समासबहुत्वे तेन प्रतिषेधः वक्तव्यः तेन एव चेत् कृतम् बहुत्वम् इति वा वक्तव्यम् ।

११८ - १२९ - यस्य प्रत्ययार्थबहुत्वे लुक् तेन अस्त्रियाम् इति वक्तव्यम् ।

११९ - १२९ - यस्य बहुवचने परतः लुक् तस्य अयम् अधिकः दोषः अत्रः इति उदात्तनिवृत्तिस्वरः प्राप्नोति ।

१२० - १२९ - तस्मात् प्रत्ययार्थबहुत्वे लुक् इति एषः पक्षः ज्यायान् ।

१२१ - १२९ - अथ इह कथम् भवितव्यम् ।

१२२ - १२९ - गार्गी च बात्स्यः च इति ।

१२३ - १२९ - यदि तावत् अस्त्रि विधिना आश्रीयते अस्ति अत्र अस्त्री इति कृत्वा भवितव्यम् लुका ।

१२४ - १२९ - अथ स्त्री प्रतिषेधेन आश्रीयते अस्ति अत्र स्त्री इति कृत्वा भवितव्यम् प्रतिषेधेन ।

१२५ - १२९ - किम् पुनः अत्र अर्थसतत्त्वम् ।

१२६ - १२९ - देवाः एतत् ज्ञातुम् अर्हन्ति ।

१२७ - १२९ - अथ यः लोप्यलोपिनाम् समासः तत्र कथम् भवितव्यम् ।

१२८ - १२९ - उभयम् हि दृश्यते ।

१२९ - १२९ - शरद्वत् शुनकदर्भात् भ्रुगुवत् साग्रायणेषु न उदात्तस्वरितोदयम् अगार्ग्यकाश्यपगालवानाम् इति ।

१ - १३ - यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् ।

२ - १३ - यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १३ - गार्ग्यस्य कुलम् गार्ग्यकुलम् गर्गकुलम् वा ।

४ - १३ - गार्ग्ययोः कुलम् गार्ग्यकुलम् गर्गकुलम् वा ।

५ - १३ - बैदस्य कुलम् बैदकुलम् बिदकुलम् वा ।

६ - १३ - बैदयोः कुलम् बैदकुलम् बिदकुलम् वा ।

७ - १३ - यञादीनाम् इति किमर्थम् ।

८ - १३ - आङ्गस्य कुलम् आङ्गकुलम्. आङ्गयोः कुलम् आङ्गकुलम् ।

९ - १३ - एकद्वयोः इति किमर्थम् ।

१० - १३ - गर्गाणाम् कुलम् गर्गकुलम् ।

११ - १३ - तत्पुरुषे इति किमर्थम्. गार्ग्यस्य समीपम् उपगार्ग्यम् ।

१२ - १३ - षष्ठ्याः इति किम् ।

१३ - १३ - शोभनगार्ग्यः परमगार्ग्यः ।

१ - १८ - किम् अयम् समुच्चयः ।

२ - १८ - प्राक्षु भरतेषु च इति ।

३ - १८ - आहोस्वित् भरतविशेषणम् प्राग्ग्रहणम् ।

४ - १८ - प्राञ्चः ये भरताः इति ।

५ - १८ - किम् च अतः ।

६ - १८ - यदि समुच्चयः भरतग्रहणम् अनर्थकम् ।

७ - १८ - न हि अन्यत्र भरता सन्ति ।

८ - १८ - अथ प्राग्ग्रहणम् भरतविशेषणम् प्राग्ग्रहणम् अनर्थकम् ।

९ - १८ - न हि अप्राञ्चः भरताः सन्ति ।

१० - १८ - एवम् तर्हि समुच्चयः ।

११ - १८ - ननु च उक्तम् भरतग्रहणम् अनर्थकम् ।

१२ - १८ - न हि अन्यत्र भरता सन्ति इति ।

१३ - १८ - न अनर्थकम्. ज्ञापकार्थम् ।

१४ - १८ - किम् ज्ञाप्यते ।

१५ - १८ - एतत् ज्ञापयति आचार्यः अन्यत्र प्राग्ग्रहणे भरतग्रहणम् न भवति इति ।

१६ - १८ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१७ - १८ - इञः प्राचाम् भरत्ग्रहणम् न भवति ।

१८ - १८ - औद्दालकिः पिता औद्दालकायनः पुत्रः इति ।

१ - ३ - गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः ।

२ - ३ - गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः द्रष्टव्यः ।

३ - ३ - हारितः हारितौ बहुषु हरिताः ।

१ - ८ - किमर्थम् अद्वन्द्वे इति उच्यते ।

२ - ८ - द्वन्द्वे मा भूत् इति ।

३ - ८ - न एतत् अस्ति प्रयोजनम् ।

४ - ८ - इष्यते एव द्वन्द्वे ॒ भ्रष्टककपिष्ठलाः भ्राष्टकिकापिष्थलयः इति ।

५ - ८ - अतः उत्तरम् पठति अद्वन्द्वे इति द्वन्द्वाधिकारनिवृत्त्यर्थम् ।

६ - ८ - अद्वन्द्वे इति उच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् ।

७ - ८ - द्वन्द्वाधिकारः निवर्तते ।

८ - ८ - तस्मिन् निवृत्ते अविशेषेण द्वन्द्वे च अद्वन्द्वे च भविष्यति ।

१ - २१ - आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् । आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् कर्तव्यम् ।

२ - २१ - अगस्तिकौण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः इति वक्तव्यम् ।

३ - २१ - किम् प्रयोजनम् ।

४ - २१ - लुक्प्रतिषेधे वृद्ध्यर्थम् । लुक्प्रतिषेधे वृद्धिः यथा स्यात् ।

५ - २१ - प्रत्ययान्तनिपातने हि वृद्ध्यभावः ।

६ - २१ - प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् ।

७ - २१ - आगस्तीयाः कौण्डिन्याः इति ।

८ - २१ - यदि प्रक्र्टिनिपातनम् क्रियते केन इदानीम् प्रत्ययस्य लोपः भविष्यति ।

९ - २१ - अधिकारात् प्रत्ययलोपः ।

१० - २१ - अधिकारात् प्रत्ययलोपः भविष्यति ।

११ - २१ - तत् तर्हि प्रकृतिनिपातनम् कर्तव्यम् ।

१२ - २१ - न कर्तव्यम् ।

१३ - २१ - योगविभागः करिष्यते ।

१४ - २१ - आगस्त्यकौण्डिन्ययोः बहुषु लुक् भवति ।

१५ - २१ - ततः अगस्तिकुण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः आगस्त्यकौण्डिन्ययोः इति ।

१६ - २१ - एवम् अपि प्रत्ययान्तयोः एव प्राप्नोति ।

१७ - २१ - प्रत्ययान्तात् हि भवान् षष्ठीम् उच्चारयति ।

१८ - २१ - आगस्त्यकौण्डिन्ययोः इति ।

१९ - २१ - न एषः दोषः ।

२० - २१ - यथा हि परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य एव भविष्यति ।

२१ - २१ - अवशिष्टस्य आदेशौ भविष्यतः ।

१ - ११ - ऊतः अचि ।ऊतः अचि इति वक्तव्यम् ।

२ - ११ - इह मा भूत् ।

३ - ११ - सनीस्रसः दनीध्वसः इति ।

४ - ११ - अथ ऊतः इति उच्यमाने इह कस्मात् न भवति ।

५ - ११ - योयूयः रोरूवः ।

६ - ११ - विहितविशेषणम् ऊकारान्तग्रहणन् ।

७ - ११ - ऊकारान्तात् यः विहितः इति ।

८ - ११ - तत् तर्हि वक्तव्यम् ।

९ - ११ - न वक्तव्यम् ।

१० - ११ - इष्टम् एव एतत् सङ्गृहीतम् ।

११ - ११ - सनीस्रंसः दनीध्वंसः इति एव भवितव्यम् ।

१ - ११ - गापोः ग्रहणे इण्पिबत्योः ग्रहणम् । गापोः ग्रहणे इण्पिबत्योः ग्रहणम् कर्तव्यम् ।

२ - ११ - इणः यः गाशब्दः पिबतेः यः पाशब्दः इति वक्तव्यम् ।

३ - ११ - इह मा भूत् ।

४ - ११ - अगासीत् नटः ।

५ - ११ - अपासीत् धनम् इति ।

६ - ११ - तत् तर्हि वक्तव्यम् ।

७ - ११ - न वक्तव्यम् ।

८ - ११ - इणः ग्रहणे तावत् वार्तम् ।

९ - ११ - निर्देशात् एव इदम् व्यक्तम् लुग्विकरणस्य ग्रहणम् इति ।

१० - ११ - पाग्रहणे च अपि वार्तम् ।

११ - ११ - वक्तव्यम् एव एतत् सर्वत्र एव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति ।

१ - १६ - तथासोः आत्मनेपदवचनम् ।

२ - १६ - तथासोः आत्मनेपदस्य ग्रहणम् कर्तव्यम् ।

३ - १६ - आत्मनेपदम् यौ तथासौ इति वक्तव्यम् ।

४ - १६ - एकवचनग्रहणम् वा ।

५ - १६ - अथ वा एकवचने ये तथासी इति वक्तव्यम् ।

६ - १६ - तत् च अवश्यम् अन्यतरत् कर्तव्यम् ।

७ - १६ - अवचने हि अनिष्टप्रसङ्गः ।

८ - १६ - अनुच्यमाने हि एतस्मिन् अनिष्टम् प्रसज्येत ।

९ - १६ - अतनिष्ट यूपम् ।

१० - १६ - असनिष्ट यूपम् इति ।

११ - १६ - तत् तर्हि वक्तव्यम् ।

१२ - १६ - न वक्तव्यम् ।

१३ - १६ - यदि अपि तावत् अयम् तशब्दः दृष्टापचारः अस्ति आत्मनेपदम् अस्ति एव परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् अयम् खलु थास्शब्दः अदृष्टापचारः आत्मनेपदम् एकवचनम् एव ।

१४ - १६ - तस्य अस्य कः अन्यः सहायः भवितुम् अर्हति अन्यत् अतः आत्मनेपदात् एकवचनात् च ।

१५ - १६ - तत् यथा अस्यस् गोः द्वितीयेन अर्थः इति ।

१६ - १६ - गौः एव आनीयते न अश्वः न गर्दभः ।

१ - २५ - आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् ।

२ - २५ - आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् कर्तव्यम् ॒ ताम् बैजवापयः विदाम् अक्रन् ।

३ - २५ - अत्र भवन्तः विदाम् कुर्वन्तु. तत् तर्हि वक्तव्यम् ।

४ - २५ - न वक्तव्यम् ।

५ - २५ - लिग्रहणम् निवर्तिष्यते ।

६ - २५ - यदि निवर्तते प्रत्ययमात्रस्य प्राप्नोति ।

७ - २५ - इष्यते च प्रत्ययमात्रस्य ।

८ - २५ - आतः च इष्यते ।

९ - २५ - एवम् हि आह ॒ कृञ् च अनुप्रयुज्यते लिटि इति ।

१० - २५ - यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति ।

११ - २५ - आमन्तेभ्यः णलः प्रतिषेधः ।

१२ - २५ - आमन्तेभ्यः णलः प्रतिषेधः वक्तव्यः ।

१३ - २५ - शशाम तताम ।

१४ - २५ - वृद्धौ कृत्यायाम् आमः इति लुक् प्राप्नोति ।

१५ - २५ - आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः ।

१६ - २५ - आमन्तेभ्यः णलः अप्रतिषेधः ।

१७ - २५ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

१८ - २५ - लुक् कस्मात् न भवति ॒ शशाम तताम इति ।

१९ - २५ - अर्थवतः आम्शब्दस्य ग्रहणम् ।

२० - २५ - न च एषः अर्थवान् ।

२१ - २५ - आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः । आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः वक्तव्यः ।

२२ - २५ - आम ।

२३ - २५ - उक्तम् वा ।

२४ - २५ - किम् उक्तम् ।

२५ - २५ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

१ - ३९ - किम् पुनः लुक् आदेशानाम् अपवादः आहोस्वित् कृतेषु आदेशेषु भवति ।

२ - ३९ - लुक् आदेशापवादः । लुक् आदेशानाम् अपवादः ।

३ - ३९ - तिङ्कृताभावः तु ।

४ - ३९ - तिङ्कृतस्य तु अभावः ।

५ - ३९ - कस्य ।

६ - ३९ - पदत्वस्य ।

७ - ३९ - सुबन्तपदत्वात् सिद्धम् ।

८ - ३९ - सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति ।

९ - ३९ - कथम् स्वाद्युत्पत्तिः ।

१० - ३९ - लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् । लकारः कृत् ।

११ - ३९ - कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।

१२ - ३९ - तदाश्रयम् प्रत्ययविधानम् ।

१३ - ३९ - प्रातिपदिकाश्रयत्वात् स्वाद्युत्पत्तिः भविष्यति ।

१४ - ३९ - सुपः श्रवणम् प्राप्नोति ।

१५ - ३९ - अव्ययात् इति लुक् भविष्यति ।

१६ - ३९ - कथम् अव्ययत्वम् ।

१७ - ३९ - अव्ययत्वम् मकारान्तत्वात् ।

१८ - ३९ - कृदन्तम् मान्तम् अव्ययसञ्ज्ञम् भवति इति अव्ययसञ्ज्ञा भविष्यति ।

१९ - ३९ - स्वरः कथम् ।

२० - ३९ - यत् प्रकारयाम् चकार ।

२१ - ३९ - स्वरः कृदन्तप्रकृतिस्वरत्वात् ।

२२ - ३९ - कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः भविष्यति ।

२३ - ३९ - तथा च निघातानिघातसिद्धिः ।

२४ - ३९ - तथा च निघातानिघातसिद्धिः भवति ।

२५ - ३९ - चक्षुष्कामम् याजयाम् चकार ।

२६ - ३९ - तिङ् अतिङः इति तस्य च अनिघातः ।

२७ - ३९ - तस्मात् च निघातः सिद्धः भवति ।

२८ - ३९ - नञा तु समासप्रसङ्गः ।

२९ - ३९ - नञा तु समासः प्राप्नोति ।

३० - ३९ - न कारयम् न हारयाम् ।

३१ - ३९ - नञ् सुबन्तेन सह समस्यते इति समासः प्राप्नोति ।

३२ - ३९ - उक्तम् वा ।

३३ - ३९ - किम् उक्तम् ।

३४ - ३९ - असामर्थ्यात् इति ।

३५ - ३९ - न अत्र नञः आमन्तेन सामर्थ्यम् ।

३६ - ३९ - केन तर्हि ।

३७ - ३९ - तिङन्तेन ।

३८ - ३९ - न चकार कारयाम् ।

३९ - ३९ - न चकार हारयाम् इति ।

१ - २३ - अव्ययात् आपः लुग्वचनानर्थक्यम् लिङ्गाभावात् ।अव्ययात् आपः लुग्वचनम् अनर्थकम् ।

२ - २३ - किम् कारणम् ।

३ - २३ - लिङ्गाभावात् ।

४ - २३ - अलिङ्गम् अव्ययम् ।

५ - २३ - किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति ।

६ - २३ - यथा एव हि अलिङ्गम् अव्ययम् एवम् असङ्ख्यम् अपि ।

७ - २३ - सत्यम् एतत् ।

८ - २३ - प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति ।

९ - २३ - आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति ।

१० - २३ - उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति ।

११ - २३ - किम् कारणम् ।

१२ - २३ - एकत्वादीनाम् अभावात् ।

१३ - २३ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

१४ - २३ - न च एषाम् एकत्वादयः सन्ति ।

१५ - २३ - अविशेषेण उत्पद्यन्ते ।

१६ - २३ - उत्पन्नानाम् नियमः क्रियते ।

१७ - २३ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

१८ - २३ - के च प्रकृताः ।

१९ - २३ - एकत्वादयः ।

२० - २३ - एकस्मिन् एकवचनम् न द्वयोः न बहुषु ।

२१ - २३ - द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु ।

२२ - २३ - बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।

२३ - २३ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् शास्ति ।

१ - १४ - न अव्ययीभावात् अतः इति योगव्यवसानम् ।

२ - १४ - न अव्ययीभावात् अतः इति योगः व्यवसेयः ।

३ - १४ - न अव्ययीभावात् अकारान्तात् सुपः लुक् भवति ।

४ - १४ - ततः अम् तु अपञ्चम्याः इति ।

५ - १४ - किमर्थः योगविभागः ।

६ - १४ - पञ्चम्याः अम्प्रतिषेधार्थम् । पञ्चम्याः अमः प्रतिषेधः यथा स्यात् ।

७ - १४ - एकयोगे हि उभयोः प्रतिषेधः ।

८ - १४ - एकयोगे हि सति उभयोः प्रतिषेधः स्यात् अमः अलुकः च ।

९ - १४ - सः तर्हि योगविभागः कर्तव्यः ।

१० - १४ - न कर्तव्यः ।

११ - १४ - तुः नियामकः ।

१२ - १४ - तुः क्रियते ।

१३ - १४ - स नियामकः भविष्यति ।

१४ - १४ - अम् एव अपञ्चम्याः इति ।

१ - १४ - अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् ।

२ - १४ - अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् कर्तव्यम् ।

३ - १४ - अपादानपञ्चम्याः इति वक्तव्यम् ।

४ - १४ - किम् प्रयोजनम् ।

५ - १४ - कर्मप्रवचनीययुक्ते अप्रतिषेधार्थम् । कर्मप्रवचनीययुक्ते मा भूत् ।

६ - १४ - आपाटलिपुत्रम् वृष्टः देवः ।

७ - १४ - न वा उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः ।

८ - १४ - न वा वक्तव्यम् ।

९ - १४ - किम् कारणम् ।

१० - १४ - उत्तरपदम् अत्र कर्मप्रवचनीययुक्तम् ।

११ - १४ - उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चमी न भविष्यति ।

१२ - १४ - यदा च समासः कर्मप्रवचनीययुक्तः भवति तदा प्रतिषेधः ।

१३ - १४ - तत् यथा ।

१४ - १४ - आ उपकुम्भात् आ उपमणिकात् इति ।

१ - ७ - सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् । सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् इति वक्तव्यम् ।

२ - ७ - ऋद्धि ।

३ - ७ - सुमरम् सुमगधम् ।

४ - ७ - नदीसमासः ।

५ - ७ - उन्मत्तगङ्गम् लोहितगङ्गम् ।

६ - ७ - सङ्ख्यावयव ।

७ - ७ - एकविंसतिभारद्वाजम् त्रिपञ्चाशत्गौतमम् ।

१ - ६० - टिताम् टेः एविधेः लुटः डारौरसः पूर्वविप्रतिषिद्धम् ।

२ - ६० - टिताम् टेः एविधेः लुटः डारौरसः भवन्ति पूर्वविप्रतिषेधेन ।

३ - ६० - टेः एत्वस्य अवकाशः पचते पचेते पचन्ते ।

४ - ६० - डारौरसाम् अवकाशः श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः ।

५ - ६० - इह उभयम् प्राप्नोति ।

६ - ६० - श्वः अधेता श्वः अध्येतारौ श्वः अध्येतारः ।

७ - ६० - डारौरसः भवन्ति पूर्वविप्रतिषेधेन ।

८ - ६० - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

९ - ६० - न वक्तव्यः ।

१० - ६० - आत्मनेपदानाम् च इति वचनात् सिद्धम् ।

११ - ६० - आत्मनेपदानाम् च डारौरसः भवन्ति इति वक्तव्यम् ।

१२ - ६० - तत् च समसङ्ख्यार्थम् । तत् च अवश्यम् आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् ।

१३ - ६० - सङ्ख्यातनुदेशः यथा स्यात् ।

१४ - ६० - अक्रियमाणे हि आत्मनेपदग्रहणे शट् स्थानिनः त्रयः आदेशाः ।

१५ - ६० - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

१६ - ६० - पूर्वविप्रतिषेधार्थेन तावत् न अर्थः आत्मनेपदग्रहणेन ।

१७ - ६० - इदम् इह सम्प्रधार्यम् ।

१८ - ६० - डारौरसः क्रियन्ताम् टेः एत्वम् इति ।

१९ - ६० - किम् अत्र कर्तव्यम् ।

२० - ६० - परत्वात् एत्वम् ।

२१ - ६० - नित्याः डारौरसः ।

२२ - ६० - कृते अपि एत्वे प्रप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।

२३ - ६० - टेः एत्वम् अपि नित्यम् ।

२४ - ६० - कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

२५ - ६० - अनित्यम् एत्वम् ।

२६ - ६० - अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु ।

२७ - ६० - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

२८ - ६० - डारौरसः अपि अनित्याः ।

२९ - ६० - अन्यस्य कृते एत्वे प्राप्नुवन्ति अन्यस्य अकृते ।

३० - ६० - शब्दान्तरस्य प्राप्नुवन्तः अनित्या भवन्ति ।

३१ - ६० - उभयोः अनित्ययोः परत्वात् एत्वम् ।

३२ - ६० - एत्वे कृते पुनःप्रसङ्गविज्ञानात् डारौरसः भविष्यन्ति ।

३३ - ६० - समसङ्ख्यार्थेन च अपि न अर्थः आत्मनेपदग्रहणेन ।

३४ - ६० - स्थाने अन्तरमेन व्यवस्था भविष्यति ।

३५ - ६० - कुतः आन्तर्यम् ।

३६ - ६० - अर्थतः ।

३७ - ६० - एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः ।

३८ - ६० - अथ वा आदेशाः अपि षट् एव निर्दिश्यन्ते ।

३९ - ६० - कथम् ।

४० - ६० - एकशेषनिर्देशात् ।

४१ - ६० - एकशेषनिर्देशः अयम् ।

४२ - ६० - अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः ।

४३ - ६० - डा च डा च डा रौ च रौ च रौ रः च रः च रः. डा च रौ च रः च डारौरसः इति ।

४४ - ६० - आहोस्वित् कृतद्वन्द्वानाम् एकशेषः ।

४५ - ६० - डा च रौ च रः च डारौरसः ।

४६ - ६० - डारौरसः च डारौरसः च डारौरसः इति ।

४७ - ६० - किम् च अतः ।

४८ - ६० - यदि कृतैकशेषाणाम् द्वन्द्वः अनिष्टः समसङ्ख्यः प्राप्नोति एकवचनद्विवचनयोः डा प्राप्नोति ।

४९ - ६० - बहुवचनैकवचनयोः रौ प्राप्नोति द्विवचनबहुवचनयोः च रः प्राप्नोति ।

५० - ६० - अथ कृतद्वन्द्वानाम् एकशेषः न दोषः भवति ।

५१ - ६० - यथा न दोषः तथा अस्तु ।

५२ - ६० - किम् पुनः अत्र ज्यायः ।

५३ - ६० - उभयम् इति आह ।

५४ - ६० - उभयम् हि दृश्यते ।

५५ - ६० - बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठरानि ।

५६ - ६० - डारौरसः कृते टेः ए यथात् द्वित्वम् प्रसारणे समस्ङ्ख्येन न अर्थ अस्ति ।

५७ - ६० - सिद्धम् स्थाने अर्थतः अन्तराः ।

५८ - ६० - आन्तर्यतः व्यवस्था ।

५९ - ६० - त्रयः एव इमे भवन्तु सर्वेषाम् ।

६० - ६० - टेः एत्वम् च परत्वात् कृते अपि तस्मिन् इमे सन्तु ।

१ - ८३ - डाविकारस्य शित्करणम् सर्वादेशार्थम् ।

२ - ८३ - डाविकारः शित् कर्तव्यः ।

३ - ८३ - किम् प्रयोजनम् ।

४ - ८३ - सर्वादेशार्थम् ।

५ - ८३ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

६ - ८३ - अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्तस्य प्रसज्येत ।

७ - ८३ - निघातप्रसङ्गः तु ।

८ - ८३ - निघातः तु प्रप्नोति ।

९ - ८३ - श्वः कर्ता ।

१० - ८३ - तासेः परम् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति ।

११ - ८३ - यत् तावत् उच्यते डाविकारस्य शित्करणम् सर्वादेशार्थम् इति ।

१२ - ८३ - सिद्धम् अलः अन्त्यविकारात् ।

१३ - ८३ - सिद्धम् एतत् ।

१४ - ८३ - कथम् ।अलः अन्त्यविकारात् ।

१५ - ८३ - अस्तु अयम् अलः अन्त्यस्य ।

१६ - ८३ - का रूपसिद्धिः ॒ कर्ता ।

१७ - ८३ - डिति टेः लोपात् लोपः ।

१८ - ८३ - डिति टेः लोपेन लोपः भविष्यति ।

१९ - ८३ - अभत्वात् न प्राप्नोति ।

२० - ८३ - डित्करणसामर्थ्यात् भविष्यति ।

२१ - ८३ - अनित्त्वात् वा ।

२२ - ८३ - अथ वा अनित्त्वात् एतत् सिद्धम् ।

२३ - ८३ - किम् इदम् अनित्त्वात् इति ।

२४ - ८३ - अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।

२५ - ८३ - असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न ।

२६ - ८३ - असत्याम् इत्सञ्ज्ञायाम् लोपः न ।

२७ - ८३ - असति लोपे अनेकाल् ।

२८ - ८३ - यद अनेकाल् तदा सर्वादेशः ।

२९ - ८३ - यदा सर्वादेशः तदा प्रत्ययः ।

३० - ८३ - यदा प्रत्ययः तदा इत्सञ्ज्ञा ।

३१ - ८३ - यदा इत्सञ्ज्ञा तदा लोपः ।

३२ - ८३ - प्रश्लिष्टनिर्देशात् वा ।

३३ - ८३ - अथ वा प्रश्लिष्टनिर्देशः अयम् ।

३४ - ८३ - डा आ डा ।

३५ - ८३ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

३६ - ८३ - यदा तर्हि अयम् अन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणम् न प्राप्नोति ।

३७ - ८३ - तिङ्ग्रहणम् एकदेशविकृतस्य अनन्यत्वात् ।

३८ - ८३ - एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति स्वरः कथम् ।

३९ - ८३ - स्वरे विप्रतिषेधात् सिद्धम् ।

४० - ८३ - डारौरसः क्रियन्ताम् अनुदात्तत्वम् इति किम् अत्र कर्तव्यम् ।

४१ - ८३ - परत्वात् अनुदात्तत्वम् ।

४२ - ८३ - नित्याः डारौरसः ।

४३ - ८३ - कृते अपि अनुदात्तत्वे प्रप्नुवन्ति अकृते अपि प्रप्नुवन्ति ।

४४ - ८३ - अनुदात्तत्वम् अपि नित्यम् ।

४५ - ८३ - कृतेषु कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

४६ - ८३ - अनित्यम् अनुदात्तत्वम् ।

४७ - ८३ - अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु ।

४८ - ८३ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४९ - ८३ - डारौरसः अपि अनित्याः ।

५० - ८३ - अन्यथास्वरस्य कृते अनुदात्तत्वे प्राप्नुवन्ति अन्यथास्वरस्य अकृते ।

५१ - ८३ - स्वरभिन्नस्य च प्राप्नुवन्तः अनित्याः भवन्ति ।

५२ - ८३ - उभयोः अनित्ययोः परत्वात् अनुदात्तत्वम् ।

५३ - ८३ - अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञातात् डारौरसः ।

५४ - ८३ - टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् ।

५५ - ८३ - न सिध्यति ।

५६ - ८३ - किम् कारणम् ।

५७ - ८३ - अन्तरङ्गत्वात् डारौरसः ।

५८ - ८३ - तत्र अन्तरङ्गत्वात् डारौरस्सु कृतेषु अनुदात्तत्वम् क्रियताम् टिलोपः इति किम् अत्र कर्तव्यम् ।

५९ - ८३ - परत्वात् टिलोपेन भवितव्यम् ।

६० - ८३ - एवम् तर्हि स्वरे विप्रतिषेधात् सिद्धम् ।

६१ - ८३ - न्याय्यः एव अयम् स्वरे विप्रतिषेधः ।

६२ - ८३ - इदम् इह सम्प्रधार्यम् ।

६३ - ८३ - अनुदात्तत्वम् क्रियताम् उदात्तनिवृत्तिस्वरः इति ।

६४ - ८३ - किम् अत्र कर्तव्यम् ।

६५ - ८३ - परत्वात् अनुदात्तत्वम् ।

६६ - ८३ - अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानात् उदात्तनिवृत्तिस्वरः भविष्यति ।

६७ - ८३ - तत् एतत् क्व सिद्धम् भवति ।

६८ - ८३ - यत् पित् वचनम् ।

६९ - ८३ - यत् अपित् वचनम् तत्र न सिध्यति ।

७० - ८३ - तत्र अपि सिद्धम् ।

७१ - ८३ - कथम् इदम् अद्य लसार्वधातुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः ।

७२ - ८३ - न च अपवादविषये उत्सर्गः अभिनिविशते ।

७३ - ८३ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

७४ - ८३ - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

७५ - ८३ - तत् न तावत् कदा चित् प्रत्ययस्वरः भवति ।

७६ - ८३ - अपवादम् लसार्वधातुकनुदात्तत्वम् प्रतीक्षते ।

७७ - ८३ - तत्र अनुदात्तत्वम् क्रियताम् लोपः इति ।

७८ - ८३ - यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तत्वे अनुदात्ते उदात्तः लुप्यते ।

७९ - ८३ - प्रत्ययस्वरापवादः लसार्वधातुकानुदात्तम् ।

८० - ८३ - तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदा चित् ।

८१ - ८३ - प्रत्ययस्वरः तु तासेः वृत्तिसन्नियोगशिष्टः ।

८२ - ८३ - तेन च अपि असौ उदात्तः लोप्स्यते ।

८३ - ८३ - तथा न दोषः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:16.0330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

catalogue price

  • कॅटलॉग किंमत 
RANDOM WORD

Did you know?

अंत्येष्टी संस्कारात और्द्ध्वदेहिक विधि काय असतो ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.