संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय २|पाद ४| खण्ड २९ पाद ४ खण्ड २९ खण्ड ३० पाद ४ - खण्ड २९ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड २९ Translation - भाषांतर १ - ५८ - किमर्थम् इदम् उच्यते ।२ - ५८ - प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च द्विगोः एकवचनविधानम् ।३ - ५८ - प्रत्यधिकरणम् वचनोत्पत्तिः भवति ।४ - ५८ - किम् इदम् प्रत्यधिकरणम् इति ।५ - ५८ - अधिकरणम् अधिकरणम् प्रति प्रत्यधिकरणम् ।६ - ५८ - सङ्ख्यासामानाधिकरण्यात् च ।७ - ५८ - सङ्ख्यया बह्वर्थया च अस्य सामानाधिकरण्यम् ।८ - ५८ - प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।९ - ५८ - इष्यते च एकवचनम् स्यात् इति ।१० - ५८ - तत् च अन्तरेण यत्नम् न सिध्यति इति द्विगोः एकवचनविधानम् ।११ - ५८ - एवमर्थम् इदम् उच्यते ।१२ - ५८ - अस्ति प्रयोजनम् एतत् ।१३ - ५८ - किम् तर्हि इति ।१४ - ५८ - तत्र अनुप्रयोगस्य एकवचनाभावः अद्विगुत्वात् ।१५ - ५८ - तत्र अनुप्रयोगस्य एकवचनम् न प्राप्नोति ॒ पञ्चपूली इयम् इति ।१६ - ५८ - किम् कारणम् ।१७ - ५८ - अद्विगुत्वात् ।१८ - ५८ - द्विगोः एकवचन्म् इति उच्यते ।१९ - ५८ - न च अत्र अनुप्रयोगः द्विगुसञ्ज्ञः ।२० - ५८ - सिद्धम् तु द्विग्वर्थस्य एकवद्वचनात् ।२१ - ५८ - सिद्धम् एतत् ।२२ - ५८ - कथम् ।२३ - ५८ - द्विग्वर्थः एकवत् भवति इति वक्तव्यम् ।२४ - ५८ - तत् तर्हि वक्तव्यम् ।२५ - ५८ - न वक्तव्यम् ।२६ - ५८ - न इदम् पाऋइभाषिकस्य वचनस्य ग्रहणम् ।२७ - ५८ - किम् तर्हि ।२८ - ५८ - अन्वर्थग्रहणम् ।२९ - ५८ - उच्यते वचनम् ।३० - ५८ - एकस्य अर्थस्य वचनम् एकवचनम् ।३१ - ५८ - एकशेषप्रतिषेधः च ।३२ - ५८ - एकशेषस्य च प्रतिषेधः वक्तव्यः ।३३ - ५८ - पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः ।३४ - ५८ - न वा अन्यस्य अनेकत्वात् ।३५ - ५८ - न वा वक्तव्यः ।३६ - ५८ - किम् कारणम् ।३७ - ५८ - अन्यस्य अनेकत्वात् ।३८ - ५८ - न एतत् द्विगोः अनेकत्वम् ।३९ - ५८ - कस्य तर्हि ।४० - ५८ - द्विग्वर्थसमुदायस्य ।४१ - ५८ - समाहारग्रहणम् च तद्धितार्थप्रतिषेधार्थम् ।४२ - ५८ - समाहारग्रहणम् च कर्तव्यम् ।४३ - ५८ - किम् प्रयोजनम् ।४४ - ५८ - तद्धितार्थप्रतिषेधार्थम् ।४५ - ५८ - तद्धितार्थे यः द्विगुः तस्य मा भूत् इति ।४६ - ५८ - पञ्चकपालौ पञ्चकपालाः इति ।४७ - ५८ - किम् पुनः अयम् पञ्चकपालशब्दः प्रत्येकम् परिसमाप्यते आहोस्वित् समुदाये वर्तते ।४८ - ५८ - किम् च अतः ।४९ - ५८ - यदि प्रत्येकम् परिसमाप्यते पुरस्तात् एव चोदितम् परिहृतम् च. अथ समुदाये वर्तते ।५० - ५८ - न वा समाहारैकत्वात् ।५१ - ५८ - न वा एतत् समाहारैकत्वात् अपि सिध्यति ।५२ - ५८ - एवम् तर्हि प्रत्येकम् परिसमाप्यते ।५३ - ५८ - पुरस्तात् एव चोदितम् परिहृतम् च. अपरः आह ॒ न वा समाहारैकत्वात् ।५४ - ५८ - न वा योगारम्भेण एव अर्थः ।५५ - ५८ - किम् कारणम् ।५६ - ५८ - समाहारैकत्वात् ।५७ - ५८ - एकः अयम् समाहारः नाम ।५८ - ५८ - तस्य एकत्वात् एकवचनम् भविष्यति ।१ - १६ - प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् ।२ - १६ - प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् ।३ - १६ - प्राण्यङ्गानाम् प्राण्यङैः इति वक्तव्यम् ।४ - १६ - तूर्याङ्गाणां तूर्याङ्गैः ।५ - १६ - सेनाङ्गानाम् सेनाङ्गैः इति ।६ - १६ - किम् प्रयोजनम् ।७ - १६ - व्यतिकरः मा भूत् इति ।८ - १६ - तत् तर्हि वक्तव्यम् ।९ - १६ - योगविभागात् सिद्धम् ।१० - १६ - योगविभागः करिष्यते ।११ - १६ - द्वन्द्वः च प्राण्यङ्गानाम् ।१२ - १६ - ततः तूर्याङ्गाणाम् ।१३ - १६ - ततः सेनाङ्गानाम् इति ।१४ - १६ - सः तर्हि योगविभागः कर्तव्यः ।१५ - १६ - न कर्तव्यः ।१६ - १६ - प्रत्येकम् अङ्गशब्दः परिसमाप्यते ।१ - ११ - इह कस्मात् न भवति ।२ - ११ - नन्दन्तु कठकालापाः ।३ - ११ - वर्धन्ताम् कठकौथुमाः ।४ - ११ - स्थेणोः ।५ - ११ - स्थेणोः इति वक्तव्यम् ।६ - ११ - एवम् अपि तिष्ठन्तु कठकालापाः इति अत्र अपि प्राप्नोति ।७ - ११ - अद्यतन्याम् च ।८ - ११ - अद्यतन्याम् च इति वक्तव्यम् ।९ - ११ - उदगात् कठकापालम् ।१० - ११ - प्रत्यष्ठात् कठकौथुमम् ।११ - ११ - उदगात् मौदपैप्पलादम् ।१ - ९ - ग्रामप्रतिषेधे नगरप्रतिषेधः ।२ - ९ - अग्रामाः इति अत्र अनगराणाम् इति वक्तव्यम् ।३ - ९ - इह मा भूत् ।४ - ९ - मथुरापाटलिपुत्रम् इति ।५ - ९ - उभयतः च ग्रामाणाम् ।६ - ९ - उभयतः च ग्रामाणाम् प्रतिषेधः वक्तव्यः ।७ - ९ - इह मा भूत् ।८ - ९ - शौर्यम् च केतवता च शौर्यकेतवते ।९ - ९ - जाम्बवम् च शालुकिनी च जाम्बवशालुकिन्यौ१ - ९ - क्षुद्र्जन्तवः इति उच्यते ।२ - ९ - के पुनः क्षुद्रजन्तवः ।३ - ९ - क्षोत्तव्याः जन्तवः ।४ - ९ - यदि एवम् यूकालिक्षम् कीटपिपीलिकम् इति न सिध्यति ।५ - ९ - एवम् तर्हि अनथिकाः क्षुद्रजन्तवः ।६ - ९ - अथ वा येषाम् न शोणितम् ते क्षुद्रजन्तवः ।७ - ९ - अथ वा येषाम् आ सहस्रात् अञ्जलिः न पूर्यते ते क्षुद्रजन्तवः ।८ - ९ - अथ वा येषाम् गोचर्ममात्रम् न पतितः भवति ते क्षुद्रजन्तवः ।९ - ९ - अथ व नकुलपर्यन्ताः क्षुद्रजन्तवः ।१ - ६ - किमर्थः चकारः ।२ - ६ - एवकारार्थः चकारः ।३ - ६ - येषाम् विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् ।४ - ६ - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।५ - ६ - किम् च अन्यत् प्राप्नोति ।६ - ६ - पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् इति उक्तम् सः पूर्वविप्रतिषेधः न वक्तव्यः भवति ।१ - १५ - अनिरवसितानाम् इति उच्यते ।२ - १५ - कुतः अनिरवसितानाम् ।३ - १५ - आर्यावर्तात् अनिरवसितानाम् ।४ - १५ - कः पुनः आर्यावर्तः ।५ - १५ - प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् ।६ - १५ - यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति न सिध्यति ।७ - १५ - एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् ।८ - १५ - कः पुनः आर्यनिवासः ।९ - १५ - ग्रामः घोषः नगरम् संवाहः इति ।१० - १५ - एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति ।११ - १५ - एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् ।१२ - १५ - एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति ।१३ - १५ - एवम् तर्हि पात्रात् अनिरवसितानाम् ।१४ - १५ - यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः ।१५ - १५ - यैः भुक्ते संस्कारेण अपि न शुध्यति ते निरवसिताः ।१ - ३ - गवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् ।२ - ३ - अवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् द्रष्टव्यम् ।३ - ३ - गवाश्वम् गवाविकम् गवैडकम् ।१ - ७० - बहुप्रकृतिः फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् ।२ - ७० - फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् द्वन्द्वः विभाषा एकवत् भवति बहुप्रकृतिः इति वक्तव्यम् ।३ - ७० - फल. बदरामल्कम् बदरामलकनि ।४ - ७० - सेना ।५ - ७० - हस्त्यश्वम् हस्त्यश्वाः ।६ - ७० - वनस्पति ।७ - ७० - प्लक्षन्यग्रोधम् प्लक्षन्यरोधाः ।८ - ७० - मृग ।९ - ७० - रुरुपृषतम् रुरुपृषताः ।१० - ७० - शकुन्त ।११ - ७० - हंसचक्रवाकम् हंसचक्रवाकाः ।१२ - ७० - क्षुद्रजन्तु ।१३ - ७० - यूकालिक्षम् यूकालिक्षाः ।१४ - ७० - धान्य ।१५ - ७० - व्रीहियवम् व्रीहियवाः माषतिलम् माषतिलाः ।१६ - ७० - तृण ।१७ - ७० - कुशकासम् कुशकाशाः शरशीर्यम् शरशीर्याः ।१८ - ७० - किम् प्रयोजनम् ।१९ - ७० - बहुप्रकृतिः एव यथा स्यात् ।२० - ७० - क्व मा भूत् ।२१ - ७० - बदरामलके तिष्ठतः ।२२ - ७० - किम् पुनः अनेन या प्राप्तिः सा नियम्यते आहोस्वित् अविशेषेण ।२३ - ७० - किम् च अतः ।२४ - ७० - यदि अनेन या प्राप्तिः सा नियम्यते प्लक्षन्यग्रोधौ जातिः अप्राणिनाम् इति नित्यः द्वन्द्वैकवद्भावः प्राप्नोति ।२५ - ७० - अथ अविशेषेण न दोषः भवति ।२६ - ७० - यथा न दोषः तथाउ अस्तु ।२७ - ७० - पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् । पशुशकुनिद्वन्द्वे येषाम् च विरोधः शाश्वतिकः इति एतत् भवति पूर्वविप्रतिषेधेन ।२८ - ७० - पशुशकुनिद्वन्द्वस्य अवकाशः महाजोरभ्रम् महाजोरभ्राः हंसचक्रवाकम् हंसचक्रवाकाः ।२९ - ७० - येषाम् च विरोधः इति अस्य अवकाशः श्रमणब्राह्मणम् ।३० - ७० - इह उभयम् प्राप्नोति ।३१ - ७० - काकोलूकम् श्वशृगालम् इति ।३२ - ७० - येषाम् च विरोधः इति एतत् भवति पूर्वविप्रतिषेधेन ।३३ - ७० - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।३४ - ७० - न वक्तव्यः ।३५ - ७० - उक्तम् तत्र चकारकरणस्य प्रयोजनम् येषाम् च विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् ।३६ - ७० - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।३७ - ७० - अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् ।३८ - ७० - अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन ।३९ - ७० - अश्ववडवयोः पूर्वलिङ्गत्वस्य अवकाशः ।४० - ७० - विभाषा पशुद्वन्द्वनपुंसकम् ।४१ - ७० - यदा न पशुद्वन्द्वनपुंसकम् सः अवकाशः ।४२ - ७० - अश्ववडवौ ।४३ - ७० - पशुद्वन्द्वनपुंसकस्य अवकाशः अन्ये पशुद्वन्द्वाः ।४४ - ७० - महाजोरभ्रम् महाजोरभ्राः ।४५ - ७० - पशुद्वन्द्वनपुंसकप्रसङ्गे उभयम् प्राप्नोति ।४६ - ७० - अश्ववडवम् ।४७ - ७० - पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन ।४८ - ७० - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।४९ - ७० - न वक्तव्यः ।५० - ७० - प्रतिपदविधानात् सिद्धम् । प्रतिपदम् अत्र नपुंसकम् विधीयते ।५१ - ७० - अश्ववडवपूर्वापर इति ।५२ - ७० - एकवचनम् अनर्थकम् समाहारैकत्वात् ।५३ - ७० - एकवद्भावः अनर्थकः ।५४ - ७० - किम् कारणम् ।५५ - ७० - समाहारैकत्वात् ।५६ - ७० - एकः अयम् अर्थः समाहारः नाम ।५७ - ७० - तस्य एकत्वात् एकवचनम् भविष्यति ।५८ - ७० - इदम् तर्हि प्रयोजनम् ।५९ - ७० - एतत् ज्ञास्यामि ।६० - ७० - इह नित्यः विधिः इह विभाषा इति ।६१ - ७० - न एतत् अस्ति प्रयोजनम् ।६२ - ७० - आचार्यप्रवृत्तिः ज्ञापयति सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह ।६३ - ७० - इदम् तर्हि प्रयोजनम् ।६४ - ७० - सः नपुंसकम् इति वक्ष्यामि इति ।६५ - ७० - एतत् अपि न अस्ति प्रयोजनम् ।६६ - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।६७ - ७० - न तर्हि इदानीम् इदम् वक्तव्यम् ।६८ - ७० - वक्तव्यम् च ।६९ - ७० - किम् प्रयोजनम् ।७० - ७० - पूर्वत्र नित्यार्थम् उत्तरत्र व्यभिचारार्थम् विभाषा वृक्षमृग इति ।१ - ८ - किम् उदाहरणम् ।२ - ८ - उपदशम् पाणिपादम् उपदशाः पाणिपादाः ।३ - ८ - न एतत् अस्ति प्रयोजनम् ।४ - ८ - अयम् द्वन्द्वैकवद्भावः आरभ्यते ।५ - ८ - तत्र कः प्रसङ्गः यत् अनुप्रयोगस्य स्यात् ।६ - ८ - एवम् तर्हि अव्ययस्य सङ्खया अव्ययीभावः अपि आरभ्यते बहुव्रीहिः अपि ।७ - ८ - तत् यदा तावत् एकवचनम् तदा अव्ययीभावः अनुप्रयुज्यते एकार्थस्य एकार्थः इति ।८ - ८ - यदा बहुवचनम् तदा बहुव्रीहिः अनुप्रयुज्यते बह्वर्थस्य बह्वर्थः इति ।१ - २८ - किमर्थम् इदम् उच्यते ।२ - २८ - सञ्ज्ञायाम् कन्थोशीनरेषु इति वक्ष्यति ।३ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।४ - २८ - न एतत् अस्ति प्रयोजनम् ।५ - २८ - न हि सञ्ज्ञायाम् कन्थान्तः उशीनरेषु अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।६ - २८ - उत्तरार्थम् तर्हि ।७ - २८ - उपज्ञोपक्रमम् तदाद्याचिख्यासायाम् इति वक्ष्यति ।८ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।९ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।१० - २८ - न हि तदाद्याचिख्यासायाम् उपज्ञोपक्रमान्तः अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।११ - २८ - उत्तरार्थम् एव तर्हि ।१२ - २८ - छाया बाहुल्ये इति वक्ष्यति ।१३ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।१४ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।१५ - २८ - न हि छायान्तः बाहुल्ये अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।१६ - २८ - उत्तरार्थम् एव तर्हि ।१७ - २८ - सभा राजामनुष्यपूर्वा अशाला च इति वक्ष्यति ।१८ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।१९ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।२० - २८ - न हि सभान्तः अशालायाम् अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।२१ - २८ - इदम् तर्हि ।२२ - २८ - विभाषा सेनासुरा इति वक्ष्यति ।२३ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।२४ - २८ - दृढसेनः राजा ।२५ - २८ - अनञ् इति किमर्थम् ।२६ - २८ - असेना ।२७ - २८ - अकर्मधारयः इति किमर्थम् ।२८ - २८ - परम्सेना उत्तमसेना ।१ - ६८ - किमर्थम् इदम् उच्यते ।२ - ६८ - द्वन्द्वः अयम् उभयपदार्थप्रधानः ।३ - ६८ - तत्र कदा चित् पूर्वपदस्य यत् लिङ्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य ।४ - ६८ - इष्यते च परस्य यत् लिङ्गम् तत् समासस्य स्यात् इति ।५ - ६८ - तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति ।६ - ६८ - एवमर्थम् इदम् उच्यते ।७ - ६८ - तत्पुरुषः च कः प्रयोजयति ।८ - ६८ - यः पूर्वपदार्थप्रधानः एकदेशिसमासः अर्धपिप्पली इति ।९ - ६८ - यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लिङ्गम् ।१० - ६८ - परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः ।११ - ६८ - परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः ।१२ - ६८ - प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः ।१३ - ६८ - अलम्पूर्वः ।१४ - ६८ - अलम् जीविकायाः अलम्जीविकः ।१५ - ६८ - गतिसमास ।१६ - ६८ - निष्कौशाम्बिः निर्वाराणसिः ।१७ - ६८ - पूर्वपदस्य च ।१८ - ६८ - पूर्वपदस्य च प्रतिषेधः वक्तव्यः ।१९ - ६८ - मयूरीकुक्कुटौ ।२० - ६८ - यदि पुनः यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासात् अन्यत् अतिदिश्येत ।२१ - ६८ - समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् ।२२ - ६८ - समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टापः लुक् वक्तव्यः ।२३ - ६८ - अश्ववडवौ ।२४ - ६८ - निपातनात् सिद्धम् ।२५ - ६८ - निपातनात् सिद्धम् एतत् ।२६ - ६८ - किम् निपातनम् ।२७ - ६८ - आश्ववडवपूर्वापर इति ।२८ - ६८ - उपसर्जनह्रस्वत्वम् वा ।२९ - ६८ - अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति ।३० - ६८ - इह अपि तर्हि प्राप्नोति ।३१ - ६८ - कुक्कुटमयूर्यौ ।३२ - ६८ - अस्तु ।३३ - ६८ - परवत् लिङ्गम् इति शब्दशब्दार्थौ ।३४ - ६८ - परवत् लिङ्गम् इति शब्दशब्दार्थौ अतिदिश्येते ।३५ - ६८ - तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति ।३६ - ६८ - इदम् तर्हि ।३७ - ६८ - दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ ।३८ - ६८ - द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः ।३९ - ६८ - स्ताम् ।पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति ।४० - ६८ - इदम् तर्हि ।४१ - ६८ - दत्ता च युवतिः च दत्तायुवती ।४२ - ६८ - द्वौ तिशब्दौ प्राप्नुतः ।४३ - ६८ - तस्मात् न एतत् शक्यम् वक्तुम् शब्दशब्दार्थौ अतिदिश्येते इति ।४४ - ६८ - ननु च उक्तम् समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् इति ।४५ - ६८ - परिहृतम् एतत् ॒ निपातनात् सिद्धम् इति ।४६ - ६८ - अथ वा न एवम् विज्ञायते परस्य एव परवत् इति ।४७ - ६८ - कथम् तर्हि ।४८ - ६८ - परस्य इव परवत् इति ।४९ - ६८ - यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासस्य अतिदिश्यते ।५० - ६८ - अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् ।५१ - ६८ - प्राप्तादिषु च एकदेशिग्रहणात् सिद्धम् ।५२ - ६८ - द्वन्द्वैकदेशिनोः इति वक्ष्यामि ।५३ - ६८ - तत् एकदेशिग्रहणम् कर्तव्यम् ।५४ - ६८ - न कर्तव्यम् ।५५ - ६८ - एकदेशिसमासः न आरप्स्यते ।५६ - ६८ - कथम् अर्धपिप्पली इति ।५७ - ६८ - समानाधिकरणसमासः भविष्यति ।५८ - ६८ - अर्धम् च सा पिप्पली च अर्धपिप्पली इति ।५९ - ६८ - न सिध्यति ।६० - ६८ - परत्वात् षष्ठीसमासः प्राप्नोति ।६१ - ६८ - अद्य पुनः अयम् एकदेशिसमासः आरभ्यमाणः षष्ठीसमासम् बाधते ।६२ - ६८ - इष्यते च षष्ठीसमासः अपि ।६३ - ६८ - तत् यथा ।६४ - ६८ - अपूपार्धम् मया भक्षितम् ।६५ - ६८ - ग्रामार्धम् मया लब्धम् इति ।६६ - ६८ - एवम् पिप्पल्यर्धम् इति भवितव्यम् ।६७ - ६८ - कथम् अर्धपिप्पली इति ।६८ - ६८ - समानाधिकरणः भविष्यति ।१ - ३ - अनुवाकादयः पुंसि ।२ - ३ - अनुवाकादयः पुंसि भाष्यन्ते इति वक्तव्यम् ।३ - ३ - अनुवाकः शम्युवाकः सूक्तवाकः ।१ - १७ - पुण्यसुदिनाभ्याम् अह्नः नपुंसकत्वम् वक्तव्यम् ।२ - १७ - पुण्याहम् सुदिनाहम् ।३ - १७ - पथः सङ्ख्याव्ययादेः ।४ - १७ - पथः सङ्ख्याव्ययादेः इति वक्तव्यम् ।५ - १७ - द्विपथम् त्रिपथम् चतुष्पथम् उत्पथम् विपथम् ।६ - १७ - द्विगुः च ।७ - १७ - द्विगुः च समासः नपुंसकलिङ्गः भवति इति वक्तव्यम् ।८ - १७ - पञ्चगवम् दशगवम् ।९ - १७ - अकारान्तोत्तरपदः द्विगुः स्त्रियाम् भाष्यते इति वक्तव्यम् ।१० - १७ - पञ्चपूली दशपूली ।११ - १७ - वा आबन्तः ।१२ - १७ - वा आबन्तः स्त्रियाम् भाष्यते इति वक्तव्यम् ।१३ - १७ - पञ्चखट्वम् पञ्चखट्वी दशखट्वम् दशखट्वी ।१४ - १७ - अनः नलोपः च वा च स्त्रियाम् भाष्यते इति वक्तव्यम् ।१५ - १७ - पञ्चतक्षम् पञ्चतक्षी दशतक्षम् दशतक्षी ।१६ - १७ - पात्रादिभ्यः प्रतिषेधः वक्तव्यः ।१७ - १७ - द्विपात्रम् पञ्चपात्रम् ।१ - ५ - अर्धर्चादयः इति वक्तव्यम् ।२ - ५ - अर्धर्चम् अर्धर्चः कार्षापणम् कार्षापणः गोमयम् गोमयः सारम् सारः ।३ - ५ - तत् तर्हि वक्तव्यम् ।४ - ५ - न वक्तव्यम् ।५ - ५ - बहुवचननिर्देशात् आद्यर्थः गम्यते ।१ - १० - अन्वादेशे समानाधिकरणग्रहणम् ।२ - १० - अन्वादेशे समानाधिकरणग्रहणम् कर्तव्यम् ।३ - १० - किम् प्रयोजनम् ।४ - १० - देवदत्तम् भोजय इमम् च इति अप्रसङ्गार्थम् ।५ - १० - इह मा भूत् ।६ - १० - देवदत्तम् भोजय इमम् च यज्ञ दत्तम् भोजय इति ।७ - १० - अन्वादेशः च कथितानुकथनमात्रम् ।८ - १० - अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् ।९ - १० - तत् द्वेष्यम् विजानीयात् ॒ इदमा कथितम् इदमा यदा अनुकथ्यते इति ।१० - १० - तत् आचार्यः सुहृत् भूत्वा आचष्टे ॒ अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् इति ।१ - ३२ - अथ किमर्थम् अशादेशः क्रियते न तृतीयादिषु इति एव उच्येत ।२ - ३२ - तत्र टायाम् ओसि च एनेन भवितव्यम् ।३ - ३२ - अन्याः सर्वाः हलादयः विभक्तयः ।४ - ३२ - तत्र इद्रूपलोपे कृते केवलम् इदमः अनुदात्तत्वम् वक्तव्यम् ।५ - ३२ - अतः उत्तरम् पठति ।६ - ३२ - आदेशवचनम् साकच्कार्थम् ।७ - ३२ - आदेशवचनम् साकच्कार्थम् क्रियते ।८ - ३२ - साकच्कस्य अपि आदेशः यथा स्यात् ।९ - ३२ - इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो आभ्याम् अपि अधीतम् ।१० - ३२ - अथ किमर्थम् शित्करणम् ।११ - ३२ - शित्करणम् सर्वादेशार्थम् । शित्करणम् क्रियते सर्वादेशार्थम् ।१२ - ३२ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ॒ इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो* आभ्याम् अपि अधीतम् इति ।१३ - ३२ - अक्रियमाणे हि शित्करणे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।१४ - ३२ - न वा अन्त्यस्य विकारवचनानर्थक्यात् ।१५ - ३२ - न वा कर्तव्यम् ।१६ - ३२ - किम् कारणम् ।१७ - ३२ - अन्त्यस्य विकारवचनानर्थक्यात् ।१८ - ३२ - अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।१९ - ३२ - अर्थवत् तु आदेशप्रतिषेधाऋथम् ।२० - ३२ - अर्थवत् तु अस्य अकारवचनम् ।२१ - ३२ - कः अर्थः ।२२ - ३२ - आदेशप्रतिषेधाऋथम् ।२३ - ३२ - ये अन्ये अकारस्य आदेशाः प्राप्नुवन्ति तद्बाधनार्थम् ।२४ - ३२ - तत् यथा ।२५ - ३२ - मः राजि समः क्वौ इति ॒ मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा अनुस्वारादयः बाध्यन्ते ।२६ - ३२ - तस्मात् शित्करणम् । तस्मात् शकारः कर्तव्यः ।२७ - ३२ - न कर्तव्यः ।२८ - ३२ - प्रश्लिष्टनिर्देशः अयम् ।२९ - ३२ - अ* अ इति ।३० - ३२ - अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।३१ - ३२ - अथ वा विचित्राः तद्धितवृत्तयः ।३२ - ३२ - न अन्वादेशे अकच् उत्पत्स्यते ।१ - १३ - किमर्थम् त्रतसोः अनुदात्तत्वम् उच्यते ।२ - १३ - उदात्तौ मा भूताम् इति ।३ - १३ - न एतत् अस्ति प्रयोजनम् ।४ - १३ - लित्स्वरे कृते निघाते एतदः अनुदात्तत्वेन सिद्धम् ।५ - १३ - इदम् इह सम्प्रधार्यम् ।६ - १३ - अनुदात्तत्वम् क्रियताम् लित्स्वरः इति ।७ - १३ - किम् अत्र कर्तव्यम् ।८ - १३ - परत्वात् लित्स्वरः ।९ - १३ - नित्यत्वात् अनुदात्तत्वम् ।१० - १३ - कृते अपि लित्स्वरे प्राप्त्नोति अकृते अपि ।११ - १३ - तत्र नित्यत्वात् अनुदात्तत्वे कृते लिति पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत ।१२ - १३ - तत् यथा गोष्पदप्रम् वृष्टः देवः इति ऊलोपे कृते पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः भवति ।१३ - १३ - तस्मात् त्रतसोः अनुदात्तत्वम् वक्तव्यम् ।१ - ३० - कस्य अयम् एनः विधीयते ।२ - ३० - एतदः प्राप्नोति ।३ - ३० - इदमः अपि तु इष्यते ।४ - ३० - तत् इदमः ग्रहणम् कर्तव्यम् ।५ - ३० - न कर्तव्यम् ।६ - ३० - प्रकृतम् अनुवर्तते ।७ - ३० - क्व प्रकृतम् ।८ - ३० - इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति ।९ - ३० - यदि तत् अनुवर्तते एतदः त्रतसोः त्रतसौ च अनुदात्तौ इति इदमः च इति इदमः अपि प्राप्नोति ।१० - ३० - न एषः दोषः ।११ - ३० - सम्बन्धम् अनुवर्तिष्यते ।१२ - ३० - इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ ।१३ - ३० - एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ अश् भवति ।१४ - ३० - ततः द्वितीयाटौस्सु एनः इदमः एतदः च ।१५ - ३० - तृतीयादौ इति निवृत्तम् ।१६ - ३० - अथ वा मण्डूकगतयः अधिकाराः ।१७ - ३० - तत् यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।१८ - ३० - अथ वा एकयोगः करिष्यते ।१९ - ३० - इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति एतदः त्रतसोः त्रतसौ च अनुदात्तौ ।२० - ३० - ततः द्वितीयाटौस्सु एनः इदमः एतदः च ।२१ - ३० - अथ वा उभयम् निवृत्तम् ।२२ - ३० - तत् अपेक्षिष्यामहे ।२३ - ३० - एनत् इति नपुंसकैकवचने ।२४ - ३० - एनत् इति नपुंसकैकवचनेकर्तव्यम् ।२५ - ३० - कुण्डम् आनय प्रक्षालय एनत् परिवर्तय एनत् ।२६ - ३० - यदि एनत् क्रियते एनः न कर्तव्यः ।२७ - ३० - का रूपसिद्धिः ॒ अथो एनम् अथो एने अथो एनान् इति ट्यदाद्यत्वेन सिद्धम् ।२८ - ३० - यदि एवम् एनश्रितकः न सिध्यति ।२९ - ३० - एनच्छ्रितकः इति पाप्नोति ।३० - ३० - यथालक्षणम् अप्रयुक्ते ।१ - ४० - जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् ।२ - ४० - जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् आर्धधातुके जग्ध्यादिभिः भवितव्यम् ।३ - ४० - किम् अतः यत् सति भवितव्यम् ।४ - ४० - तत्र उत्सर्गलक्षणप्रतिषेधः ।५ - ४० - तत्र उत्सर्गलक्षणम् कार्यम् प्राप्नोति ।६ - ४० - तस्य प्रतिषेधः वक्तव्यः ।७ - ४० - भव्यम् प्रवेयम् आख्येयम् ।८ - ४० - ण्यति अवस्थिते अनिष्टे प्रत्यये आदेशः स्यात् ।९ - ४० - ण्यतः श्रवणम् प्रसज्येत ।१० - ४० - न एषः दोषः ।११ - ४० - सामान्याश्रयत्वात् विशेषस्य अनाश्रयः ।१२ - ४० - सामान्येन हि आश्रीयमाणे विशेषः न आश्रितः भवति ।१३ - ४० - तत्र आर्धधातुकसामान्ये जग्ध्यादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।१४ - ४० - सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः ।१५ - ४० - सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यत् प्राप्नोति ।१६ - ४० - लव्यम् पव्यम् इति ।१७ - ४० - आर्धधातुकसामान्ये गुणे कृति यि प्रत्ययसामान्य च वान्तादेशे हलन्तात् इति ण्यत् प्राप्नोति ।१८ - ४० - इह च दित्स्यम् धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति ।१९ - ४० - पौर्वापर्याभात् च सामान्येन अनुपपत्तिः ।२० - ४० - पौर्वापर्याभात् च सामान्येन जग्ध्यादीनाम् अनुपपत्तिः ।२१ - ४० - न हि सामान्येन पौर्वापर्यम् अस्ति ।२२ - ४० - सिद्धम् तु सार्वधातुके प्रतिषेधात् ।२३ - ४० - सिद्धम् एतत् ।२४ - ४० - कथम् ।२५ - ४० - अविशेषेण जग्ध्यादीन् उक्त्वा सार्वधातुके न इति प्रतिषेधम् वक्ष्यामि ।२६ - ४० - सिध्यति ।२७ - ४० - सूत्रम् तर्हि भिद्यते ।२८ - ४० - यथान्यासम् एव अस्तु ।२९ - ४० - ननु च उक्तम् जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् इति ।३० - ४० - परिहृतम् एतत् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति ।३१ - ४० - ननु च उक्तम् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः इति ।३२ - ४० - न एषः दोषः ।३३ - ४० - वक्ष्यति तत्र अज्ग्रहणस्य प्रयोजनम् अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् इति ।३४ - ४० - यत् अपि उच्यते पौर्वापर्याभात् च सामान्येन अनुपपत्तिः इति ।३५ - ४० - अर्थसिद्धिः एव एषा यत् सामान्येन पौर्वापर्यम् न अस्ति ।३६ - ४० - असति पौर्वापर्ये विषयसप्तमी विज्ञास्यते ।३७ - ४० - आर्धधातुकविषये इति ।३८ - ४० - अथ वा आर्धधातुकासु इति वक्ष्यामि ।३९ - ४० - कासु आर्धधातुकासु ।४० - ४० - उक्तिषु युक्तिषु रूढिषु प्रतीतिषु श्रुतिषु सञ्ज्ञासु१ - १५ - ल्यब्ग्रहणम् किमर्थम् न ति किति इति एव सिद्धम् ।२ - १५ - ल्यपि कृते न प्राप्नोति ।३ - १५ - इदम् इह सम्प्रधार्यम् ।४ - १५ - ल्यप् क्रियताम् आदेशः इति ।५ - १५ - किम् अत्र कर्तव्यम् ।६ - १५ - परत्वात् ल्यप् ।७ - १५ - अन्तरङ्गः आदेशः ।८ - १५ - एवम् तर्हि सिद्धे सति यत् ल्यब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति ।९ - १५ - किम् एतस्य ज्ञापने प्रयोजनम् ।१० - १५ - ल्यबदेशे उपदेशिवद्वचनम् अनादिष्टार्थम् बहिरङ्गलक्षणत्वात् इति वक्ष्यति ।११ - १५ - तत् न वक्तव्यम् भवति ।१२ - १५ - जग्धिः विधिः ल्यपि यत् तत् अकस्मात् सिद्धम् अस्ति किति इति विधानात् ।१३ - १५ - हिप्रभृतीन् तु सदा बहिरङ्गः ल्यपा- भरति इति कृतम् तत् उ विद्धि ।१४ - १५ - एषः एव अर्थः जग्धौ सिद्धे अन्तरङ्गत्वात् ति किति इति ल्यप् उच्यते ।१५ - १५ - ज्ञापयति अन्तरङ्गाणाम् ल्यपा भवति बाधनम् ।१ - २ - घस्ल्̥भावे अचि उपसङ्ख्यानम् । घस्ल्̥भावे अचि उपसङ्ख्यानम् कर्तव्यम् ।२ - २ - प्रात्ति इति प्रघसः ।१ - ६ - किमयम् वधिः व्यञ्जन्तः आहोस्वित् अदन्तः ।२ - ६ - किम् च अतः ।३ - ६ - यदि व्यञ्जनान्तः वधौ व्यञ्जनान्ते उक्तम् । किम् उक्तम् ।४ - ६ - वध्यादेशे वृद्धितत्वप्रतिषेधः इड्विधिः च इति ।५ - ६ - अथ अदन्तः न दोषः भवति ।६ - ६ - यथा न दोषः तथा अस्तु ।१ - ४ - इण्वत् इकः ।२ - ४ - इण्वत् इकः इति वक्तव्यम् ।३ - ४ - इह अपि यथा स्यात् ।४ - ४ - अध्यगात् अध्यगाताम् ।१ - २ - इण्वत् इकः इति एव ।२ - २ - अधिगमयति अधिगमयतः अघिगमयन्ति ।१ - २ - इण्वत् इकः इति एव ।२ - २ - अघिजिगमिषति अधिजिगमिशतः अधिजिगमिषन्ति ।१ - ३७ - ङित्करणम् किमर्थम् ।२ - ३७ - गाङि अनुबन्धकरणम् विशेषणाऋथम् ।३ - ३७ - गाङि अनुबन्धकरणम् क्रियते विशेषणाऋथम् ।४ - ३७ - क्व विशेषणार्थेन अर्थः ।५ - ३७ - गाङ्कुटादिभ्यः अञ्णित् ङित् इति ।६ - ३७ - गाकुटादिभ्यः अञ्णित् ङित् इति इयति उच्यमाने इणादेशस्य अपि प्रसज्येत ।७ - ३७ - ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य ।८ - ३७ - अथ वा एतत् ज्ञापयति आचार्यः सानुबन्धकस्य आदेशे इत्कार्यम् न भवति इति ।९ - ३७ - किम् एतस्य ज्ञापने प्रयोजनम् ।१० - ३७ - प्रयोजनम् चक्षिङः ख्याञ् । ङितः इति आत्मनेपदम् न भवति ।११ - ३७ - लटः शतृशानचौ । लटः शतृशानचौ प्रयोजनम् ।१२ - ३७ - पचमानः यजमानः इति ।१३ - ३७ - टितः इति एत्वम् न भवति ।१४ - ३७ - युवोः अनाकौ ।१५ - ३७ - युवोः अनाकौ च प्रयोजनम् ।१६ - ३७ - नन्दनः कारकः नन्दना कारिका इति ।१७ - ३७ - उगिल्लक्षणौ ङीब्नुमौ न भवतः ।१८ - ३७ - मेः च अननुबन्धकस्य अम्वचनम् ।१९ - ३७ - मेः च अननुबन्धकस्य अम्वक्तव्यः ।२० - ३७ - अचिनवम् अकरवम् असुनवम् ।२१ - ३७ - अत्यल्पम् इदम् उच्यते ।२२ - ३७ - तिप्तिब्मिपाम् इति वक्तव्यम् ।२३ - ३७ - इह अपि यथा स्यात् ॒ वेद वेत्थ ।२४ - ३७ - अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि ।२५ - ३७ - दोषाः समाः भूयांसः वा ।२६ - ३७ - तस्मात् न अर्थः अनेन ज्ञापकेन ।२७ - ३७ - कथम् यानि प्रयोजनानि ।२८ - ३७ - न एतानि सन्ति ।२९ - ३७ - इह तावत् ।३० - ३७ - चक्षिङः ख्याञ् इति ।३१ - ३७ - ञित्करणसामर्थ्यात् विभाषा आत्मनेपदम् भविष्यति ।३२ - ३७ - लटः शतृशानचौ इति ।३३ - ३७ - वक्ष्यति एतत् ।३४ - ३७ - प्रकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति ।३५ - ३७ - युवोः अनाकौ इति ।३६ - ३७ - वक्ष्यति एतत् ।३७ - ३७ - सिद्धम् तु युवोः अननुनासिकत्वात् इति ।१ - २३ - किम् अयम् कशादिः आहोश्वित् खयादिः ।२ - २३ - चक्षिङः क्शाञ्ख्याञौ ।३ - २३ - चकिङः ख्याञ् कशादिः खयादिः च ।४ - २३ - खशादिः वा ।५ - २३ - अथ वा खशादिः भविष्यति ।६ - २३ - केन इदानीम् कशादिः भविष्यति ।७ - २३ - चर्त्वेन ।८ - २३ - अथ खयादिः कथम् ।९ - २३ - असिद्धे शस्य यवचनम् विभाषा ।१० - २३ - असिद्धे शस्य विभाषा यत्वम् वक्तव्यम् ।११ - २३ - किम् प्रयोजनम् ।१२ - २३ - प्रयोजनम् सौप्रख्ये वुञ्विधिः ।१३ - २३ - सौप्रख्यः इति योपधलक्षणः वुञ्विधिः न भवति ।१४ - २३ - सौप्रख्यीयः ।१५ - २३ - वृद्धात् छः भवति ।१६ - २३ - निष्ठानत्वम् आख्याते ।१७ - २३ - आख्यातः इति निष्ठानत्वम् न भवति ।१८ - २३ - रुविधिः पुङ्ख्याने ।१९ - २३ - पुङ्ख्यानम् इति रुविधिः न भवति ।२० - २३ - णत्वम् पर्याख्याते ।२१ - २३ - पर्याख्यानम् इति णत्वम् न भवति ।२२ - २३ - सस्थानत्वम् नमः ख्यात्रे ।२३ - २३ - नमः ख्यात्रे इति सस्थानत्वम् न भवति.१ - २२ - वर्जने प्रतिषेधः । वर्जने प्रतिषेधः वक्तव्यः ।२ - २२ - अवसञ्चक्ष्याः परिसञ्चक्ष्याः ।३ - २२ - असनयोः च ।४ - २२ - असनयोः च प्रतिषेधः वक्तव्यः ।५ - २२ - नृचक्षाः रक्षः ।६ - २२ - विचक्षणः इति ।७ - २२ - बहुलम् तणि ।८ - २२ - बहुलम् तणि इति वक्तव्यम् ।९ - २२ - किम् इदम् तणि इति ।१० - २२ - सञ्ज्ञाछन्दसोः ग्रहणम् ।११ - २२ - किम् प्रयोजनम् ।१२ - २२ - अन्नवधकगात्रविचक्षणाजिराद्यर्थम् ।१३ - २२ - अन्न ।१४ - २२ - अन्नम् ।१५ - २२ - वधक ।१६ - २२ - वधकम् ।१७ - २२ - गात्र ।१८ - २२ - गात्रम् पश्य ।१९ - २२ - विचक्षण ।२० - २२ - विचक्षणः ।२१ - २२ - अजिर ।२२ - २२ - अजिरे तिष्ठति ।१ - ४९ - घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् ।२ - ४९ - घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् कर्तव्यम् ।३ - ४९ - इह अपि यथा स्यात् ।४ - ४९ - समजनम् समज्या इति ।५ - ४९ - तत् तर्हि वक्तव्यम् ।६ - ४९ - न वक्तव्यम् ।७ - ४९ - अपि इति एव भविष्यति ।८ - ४९ - कथम् ।९ - ४९ - अपि इति न इदम् प्रत्ययग्रहणम् ।१० - ४९ - किम् तर्हि ।११ - ४९ - प्रत्याहारग्रहणम् ।१२ - ४९ - क्व सन्निविष्टानाम् प्रत्याहारः ।१३ - ४९ - अपः अकातात् प्रभृति आ क्यपः पकारात् ।१४ - ४९ - यदि प्रत्याहारग्रहणम् संवीतिः न सिध्यति ।१५ - ४९ - एवम् तर्हि न अर्थः उअप्सङ्ख्यानेन न अपि घञ्नपोः प्रतिषेधेन ।१६ - ४९ - इदम् अस्ति ।१७ - ४९ - चक्षिङः ख्याञ् वा लिटि इति ।१८ - ४९ - ततः वक्ष्यामि ।१९ - ४९ - अजेः वी भवति वा व्यवस्थितविभाषा च इति ।२० - ४९ - तेन इह च भविष्यति ॒ प्रवेता प्रवेतुम् प्रवीतः रथः , संवीतिः इति ।२१ - ४९ - इह च न भविष्यति ॒ समाजः , उदाजः , समजः , उदजः , समजनम् उदजनम् , समज्या इति ।२२ - ४९ - तत्र अयम् अपि अर्थः ।२३ - ४९ - इदम् अपि सिद्धम् भवति ॒ प्राजिता इति ।२४ - ४९ - किम् च भोः इष्यते एतत् रूपम् ।२५ - ४९ - बाढम् इष्यते ।२६ - ४९ - एवम् हि कः चित् वैयाकरणः आह ।२७ - ४९ - कः अस्य रथस्य प्रवेता इति ।२८ - ४९ - सूतः आह ।२९ - ४९ - आयुष्मन् अहम् प्राजिता इति ।३० - ४९ - वैयाकरणः आह ।३१ - ४९ - अपशब्दः इति ।३२ - ४९ - सूतः आह ।३३ - ४९ - प्रापित्ज्ञः देवानाम् प्रियः न तु इष्टज्ञः ।३४ - ४९ - इष्यते एतत् रूपम् इति ।३५ - ४९ - वैयाकरणः आह ।३६ - ४९ - आहो खलु अनेन दुरुतेन बाध्यामहे इति ।३७ - ४९ - सूतः आह ।३८ - ४९ - न खलु वेञः सूतः ।३९ - ४९ - सुवतेः एव सूतः ।४० - ४९ - यदि सुवतेः कुत्सा प्रयोक्तव्या ।४१ - ४९ - दुःसूतेन इति वक्तव्यम् ।४२ - ४९ - न तर्हि इदानीम् इदम् वा यौ इति वक्तव्यम् ।४३ - ४९ - वक्तव्यम् च ।४४ - ४९ - किम् प्रयोजनम् ।४५ - ४९ - न इयम् विभाषा ।४६ - ४९ - किम् तर्हि ।४७ - ४९ - आदेशः अयम् विधीयते ।४८ - ४९ - वा इति अयम् आदेशः भवति अजेः यौ परतः ।४९ - ४९ - वायुः इति ।१ - ९ - अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् । अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् ।२ - ९ - बौधिः पिता बौधीः पुत्रः औदुम्बरिः पिता औदुम्बरिः पुत्रः ।३ - ९ - अपरः आह ॒ अणिञोः लुकि क्षत्रियगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति ।४ - ९ - जाबालिः पिता जाबालिः पुत्रः ।५ - ९ - अपरः आह ।६ - ९ - अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति ।७ - ९ - किम् प्रयोजनम् ।८ - ९ - इदम् अपि सिद्धम् भवति ।९ - ९ - भाण्डिजङ्घिः पिता भाण्डिजङ्घिः पुत्रः कार्णखरकिः पिता कार्णखरकिः पुत्रः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP