TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद ३ - खण्ड २८

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड २८
१ - ४४ - पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम् ।

२ - ४४ - पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४४ - प्रासादम् आरुह्य प्रेक्षते ।

४ - ४४ - प्रासादात्प्रेक्षते ।

५ - ४४ - अधिकरणे च ।

६ - ४४ - अधिकरणे च उपसङ्ख्यानम् कर्तव्यम् ।

७ - ४४ - आसनात् प्रेक्षते ।

८ - ४४ - शयनात् प्रेक्षते ।

९ - ४४ - प्रश्नाख्यानयोः च ।

१० - ४४ - प्रश्नाख्यानयोः च पञ्चमी वक्तव्या ।

११ - ४४ - कुतः भवान् ।

१२ - ४४ - पाटलिपुत्रात् ।

१३ - ४४ - यतः च अध्वकालनिर्माणम् । यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या ।

१४ - ४४ - गवीधुमतः सावकाश्यईम् चत्वारि योजनानि ।

१५ - ४४ - कार्तिक्याः आग्रहायणी मासे ।

१६ - ४४ - तद्युक्तात् काले सप्तमी । तद्युक्तात् काले सप्तमी वक्तव्या ।

१७ - ४४ - कार्तिक्याः आग्रहायणी मासे ।

१८ - ४४ - अध्वनः प्रथमा च । अध्वनः प्रथमा च सप्तमी च वक्तय्वा ।

१९ - ४४ - गवीधुमतः सावकाश्यईम् चत्वारि योजनानि चतुर्षु योजनेषु ।

२० - ४४ - तत् तर्हि इदं बहु वक्तव्यम् ।

२१ - ४४ - न वक्तव्यम् ।

२२ - ४४ - अपादाने इति एव सिद्धम् ।

२३ - ४४ - इह तावत् प्रासादात् प्रेक्षते ।

२४ - ४४ - शयनात् प्रेक्षते इति ।

२५ - ४४ - अपक्रामति तत् तस्मात् दर्शनम् ।

२६ - ४४ - यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।

२७ - ४४ - सन्ततत्वात् ।

२८ - ४४ - अथ वा अन्यान्यप्रादुर्भावा ।

२९ - ४४ - प्रश्नाख्यानयोः च पञ्चमी वक्तव्या इति ।

३० - ४४ - इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।

३१ - ४४ - कुतः भवान् आगच्छति ।

३२ - ४४ - पाटलिपुत्रात् आगच्छमि इति ।

३३ - ४४ - यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या इति ।

३४ - ४४ - इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते गवीधुमतः निःसृत्य साङ्काश्यम् चत्वारि योजनानि ।

३५ - ४४ - कार्तिक्याः आग्रहायणी मासे इति ।

३६ - ४४ - इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।

३७ - ४४ - कार्त्तिक्याः प्रभृति आग्रहायणी मास इति ।

३८ - ४४ - तद्युक्तात् काले सप्तमी वक्तव्या इति ।

३९ - ४४ - इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।

४० - ४४ - कार्त्तिक्याः आग्रहायणी गते मासे इति ।

४१ - ४४ - अध्वनः प्रथमा च सप्तमी च इति ।

४२ - ४४ - इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।

४३ - ४४ - गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति ततः साङ्काश्यम् ।

४४ - ४४ - चतुर्षु योजनेषु गतेषु साङ्काश्यम् इति ।

१ - ३ - अञ्चूत्तरपदग्रहणम् किमर्थम् न दिक्शब्दैः योगे इति एव सिद्धम् ।

२ - ३ - षष्ठी अतसर्थप्रत्ययेन इति वक्ष्यति ।

३ - ३ - तस्य अयम् पुरस्तात् अपकर्षः ।

१ - ११ - अर्थग्रहणम् किमर्थम् ।

२ - ११ - षष्ठी अतस्प्रत्ययेन इति उच्यमाने इह एव स्यात् ।

३ - ११ - दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्य इति ।

४ - ११ - इह न स्यात् ।

५ - ११ - उपरि ग्रामस्य उपरिष्टात् ग्रामस्य इति ।

६ - ११ - अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धम् भवति यः च अन्यः तेन समानार्थः ।

७ - ११ - अथ प्रत्ययग्रहणम् किमर्थम् ।

८ - ११ - इह मा भूत् ।

९ - ११ - प्राक् ग्रामात् प्रत्यक् ग्रामात् ।

१० - ११ - अञ्चूत्तरपदस्य अपि एतत् प्रयोजनम् उक्तम् ।

११ - ११ - तत्र अन्यतरत् शक्यम् अकर्तुम् ।

१ - ३८ - पृथगादिषु पञ्चमीविधानम् ।

२ - ३८ - पृथगादिषु पञ्चमीविधेया ।

३ - ३८ - पृथक् देवदत्तात् ।

४ - ३८ - किमर्थम् न प्रकृतम् पञ्चमीग्रहणम् अनुवर्तते ।

५ - ३८ - क्व प्रकृतम् ।

६ - ३८ - अपादाने पञ्चमी इति. अनधिकारात् ।

७ - ३८ - अनधिकारः सः ।

८ - ३८ - अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः ।

९ - ३८ - अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः वक्तव्यः स्यात् ।

१० - ३८ - दक्षिणेन ग्रामम् , दक्षिणतः ग्रामस्य ।

११ - ३८ - एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् पञ्चमी भविष्यति ।

१२ - ३८ - अस्ति अन्यत् अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् ।

१३ - ३८ - किम् ।

१४ - ३८ - यस्याम् न अप्राप्तायाम् तृतीया आरभ्यते सा यथा स्यात् ।

१५ - ३८ - कस्याम् च न अप्राप्तायाम् ।

१६ - ३८ - अन्ततः षष्ठ्याम् ।

१७ - ३८ - तत् तर्हि वक्तव्यम् ।

१८ - ३८ - न वक्तव्यम् ।

१९ - ३८ - प्रकृतम् अनुवर्तते ।

२० - ३८ - क्व प्रकृतम् ।

२१ - ३८ - अपादाने पञ्चमी इति ।

२२ - ३८ - ननु च उक्तम् अनधिकारः सः अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः इति ।

२३ - ३८ - एवम् तर्हि सम्बन्धम् अनुवर्तिष्यते ।

२४ - ३८ - अपादाने पञ्चमी ।

२५ - ३८ - अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते पञ्चमी ।

२६ - ३८ - षष्ठी अतसर्थप्रत्ययेन अन्यारादिभिः योगे पञ्चमी ।

२७ - ३८ - एनपा द्वितीया अन्यारादिभिर्योगे पञ्चमी ।

२८ - ३८ - पृथग्विनानानाभिः तृतीया अन्यतरस्याम् ।

२९ - ३८ - पञ्चमीग्रहणम् अनुवर्तते अन्यारादिभिः योगे इति निवृत्तम् ।

३० - ३८ - अथ वा मण्डूकगतयः अधिकाराः ।

३१ - ३८ - तत्. यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

३२ - ३८ - अथ वा अन्यवचनात् चकाराकरणात् प्रकृतस्य अपवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य ।

३३ - ३८ - अन्यस्या विभक्तेः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायः पञ्चम्याः द्वितीयाषष्ठ्यौ बाधिके भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।

३४ - ३८ - अथ वा वक्ष्यति एतत् ।

३५ - ३८ - अनुवर्तन्ते च नाम विधयः ।

३६ - ३८ - न च अनुवर्तनात् एव भवन्ति ।

३७ - ३८ - किम् तर्हि ।

३८ - ३८ - यत्नात् भवन्ति इति ।

१ - ७ - दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात् पञ्चमीप्रतिषेधः ।

२ - ७ - दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात्पञ्चम्याः प्रतिषेधः वक्तव्यः ।

३ - ७ - दूराद् ग्रामस्य ।

४ - ७ - न वा तत्र अपि दर्शनात् अप्रतिषेधः ।

५ - ७ - न वा तत्र अपि दर्शनात् पञ्चम्याः प्रतिषेधः अनर्थकः ।

६ - ७ - तत्र अपि पञ्चमी दृश्यते ।

७ - ७ - दूरात् आवसथात् मूत्रम् दूरात् पादावसेचनम् दूरात् च भाव्यम् दस्युभ्यः दूरात् च कुपितात् गुरोः ।

१ - २७ - सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् ।

२ - २७ - सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् वक्तव्यम् ।

३ - २७ - अधीती व्याकरणे ।

४ - २७ - परिगणिती याज्ञिक्ये ।

५ - २७ - आम्नाती च्छन्दसि ।

६ - २७ - साध्वसाधुप्रयोगे च ।

७ - २७ - साध्वसाधुप्रयोगे च सप्तमी वक्तव्या ।

८ - २७ - साधुः देवदत्तः मातरि ।

९ - २७ - असाधुः पितरि ।

१० - २७ - कारकार्हाणाम् च कारकत्वे ।

११ - २७ - कारकार्हाणाम् च कारकत्वे सप्तमी वक्तव्या ।

१२ - २७ - ऋद्धेषु भुञ्जानेषु दरिद्राः आसते ।

१३ - २७ - ब्राह्मणेषु तरत्सु वृषलाः आसते ।

१४ - २७ - अकारकार्हाणाम् चाकारकत्वे ।

१५ - २७ - अकारकार्हाणाम् चाकारकत्वे सप्तमी वक्तव्या ।

१६ - २७ - मूर्खेषु आसीनेषु वृद्धाः भुञ्जते ।

१७ - २७ - वृषलेषु आसीनेषु ब्राह्मणाः तरन्ति ।

१८ - २७ - तद्विपर्यासे च ।

१९ - २७ - तद्विपर्यासे च सप्तमी वक्तव्या ।

२० - २७ - ऋद्धेषु आसीनेषु मूर्खाः भुञ्जते ।

२१ - २७ - ब्राह्मणेषु आसीनेषु वृषलाः तरन्ति ।

२२ - २७ - निमित्तात् कर्मसंयोगे ।

२३ - २७ - निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या ।

२४ - २७ - चर्मणि द्वीपिनम् हन्ति ।

२५ - २७ - दन्तयोः हन्ति कुञ्जरम् ।

२६ - २७ - केषेषु चमरीम् हन्ति ।

२७ - २७ - सीम्नि पुष्कलकः हतः ।

१ - २२ - भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् ।

२ - २२ - भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् कर्तव्यम् ।

३ - २२ - अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः ।

४ - २२ - गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः ।

५ - २२ - किम् पुनः कारणम् न सिध्यति ।

६ - २२ - लक्षणम् हि नाम तत् भवति येन पुनः पुनः लक्ष्यते ।

७ - २२ - सकृत् च असौ कथम् चित् अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः ।

८ - २२ - सिद्धम् तु भावप्रवृत्तौ यस्य भावारम्भवचनात् ।

९ - २२ - सिद्धमेतत् ।

१० - २२ - कथम् ।

११ - २२ - यस्य भावप्रवृत्तौ द्वितीयः भावः आरभ्यते तत्र सप्तमी वक्तव्या ।

१२ - २२ - सिध्यति ।

१३ - २२ - सूत्रम् तर्हि भिद्यते ।

१४ - २२ - यथान्यासम् एव अस्तु ।

१५ - २२ - ननु च उक्तम् भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् इति ।

१६ - २२ - न एषः दोषः ।

१७ - २२ - न खलु अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते ।

१८ - २२ - सकृत् अपि यत् निमित्तत्वाय कल्पते तत् अपि लक्षणम् भवति ।

१९ - २२ - तत् यथा ।

२० - २२ - अपि भवान् कमण्डलुपाणिम् छात्रम् अद्राक्षीत् इति ।

२१ - २२ - सकृत् असौ कमण्डलुपाणिः दृष्टः छात्रः ।

२२ - २२ - तस्य तत् एव लक्षणम् भवति ।

१ - १३ - इह कस्मात् न भवति ।

२ - १३ - कृष्णा गवाम् सम्पन्नक्षीरतमा इति ।

३ - १३ - विभक्ते इति उच्यते ।

४ - १३ - न च एतत् विभक्तम् ।

५ - १३ - विभक्तमेतत् ।

६ - १३ - गोभ्यः कृष्णा विभज्यते ।

७ - १३ - विभक्तम् एव यत् नित्यम् तत्र भवितव्यम् ।

८ - १३ - न च एतत् नित्यम् विभक्तम् ।

९ - १३ - किम् वक्तव्यम् एतत् ।

१० - १३ - न हि ।

११ - १३ - कथम् अनुच्यमानम् गंस्यते ।

१२ - १३ - विभक्तग्रहणसामर्थ्यात् ।

१३ - १३ - यदि हि यत् विभक्तम् च अविभक्तम् च तत्र स्यात् विभाक्तग्रहणम् अनर्थकम् स्यात् ।

१ - ४ - अप्रत्यादिभिः इति वक्तव्यम् ।

२ - ४ - इह अपि यथा स्यात् ।

३ - ४ - साधुः देवदत्तः मातरम् परि ।

४ - ४ - मातरम् अनु ।

१ - ५ - प्रसितः इति उच्यते कः प्रसितः नाम ।

२ - ५ - यः तत्र नित्यम् प्रतिबद्धः ।

३ - ५ - कुतः एतत् ।

४ - ५ - सिनोतिः अयम् बध्नात्यर्थे वर्तते ।

५ - ५ - बद्धः इव असौ तत्र भवति ।

१ - ४ - इह कस्मात् न भवति ।

२ - ४ - अद्य पुष्यः ।

३ - ४ - अद्य मघा इति ।

४ - ४ - अधिकरणे इति वर्तते ।

१ - ४७ - प्रातिपदिकग्रहणम् किमर्थम् ।

२ - ४७ - उच्चैः नीचैः इति आपि यथा स्यात् ।

३ - ४७ - किम् पुनः अत्र प्रथमया प्रार्थ्यते ।

४ - ४७ - पदत्वम् ।

५ - ४७ - न एतत् अस्ति ।षष्ठ्या अत्र पदत्वम् भविष्यति ।

६ - ४७ - इदम् तर्हि प्रयोजनम् ।

७ - ४७ - ग्रामः उचैः ते स्वम् ।

८ - ४७ - ग्रामः उच्चैः तव स्वम् ।

९ - ४७ - सपूर्वायाः प्रथमायाः विभाषा इति एषः विधिः यथा स्यात् ।

१० - ४७ - अथ लिङ्गग्रहणम् किमर्थम् ।

११ - ४७ - स्त्री पुमान् नपुंसकम् इति अत अपि यथा स्यात् ।

१२ - ४७ - न एतत् अस्ति प्रयोजनम् ।

१३ - ४७ - एषः एव अत्र प्रातिपदिकार्थः ।

१४ - ४७ - इदम् तर्हि ।

१५ - ४७ - कुमारी वृक्षः कुण्डम् इति ।

१६ - ४७ - अथ परिमाणग्रहणम् किमर्थम् ।

१७ - ४७ - द्रोणः खारी आढकम् इति अत्र अपि यथा स्यात् ।

१८ - ४७ - अथ वचनग्रहणम् किमर्थम् ।

१९ - ४७ - इह समुदाये वाक्यपरिसमाप्तिः दृश्यते ।

२० - ४७ - तत् यथा ।

२१ - ४७ - गर्गाः शतम् दण्ड्यन्ताम् इति ।

२२ - ४७ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

२३ - ४७ - सति एतस्मिन् दृष्टान्ते यत्र एतानि समुदितानि भवन्ति तत्र एव स्यात् ।

२४ - ४७ - द्रोणः खारी आढकम् इति ।

२५ - ४७ - इह न स्यात् ।

२६ - ४७ - कुमारी वृक्षः कुण्डम् इति ।

२७ - ४७ - न एतत् अस्ति प्रयोजनम् ।

२८ - ४७ - प्रत्येकम् अपि वाक्यपरिसमाप्तिः दृश्यते ।

२९ - ४७ - तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

३० - ४७ - इदम् तर्हि प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् ।

३१ - ४७ - एकः द्वौ बहवः इति ।

३२ - ४७ - अथ मात्रग्रहणम् किमर्थम् ।

३३ - ४७ - एतन्मात्रे एव प्रथमा यथा स्यात् कर्मादिविशिष्टे मा भूत् इति ।

३४ - ४७ - कटम् करोति ।

३५ - ४७ - न एतत् अस्ति प्रयोजनम् ।

३६ - ४७ - कर्मादिषु द्वितीयाद्याः विभक्तयः ताः कर्मादिविशिष्टे बाधिकाः भविष्यन्ति ।

३७ - ४७ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति न कर्मादिविशिष्टे प्रथमा भवति इति यत् अयम् सम्बोधने प्रथमाम् शास्ति ।

३८ - ४७ - न एतत् अस्ति ज्ञापकम् ।

३९ - ४७ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

४० - ४७ - किम् ।

४१ - ४७ - सा आमन्त्रितम् इति वक्ष्यामि इति ।

४२ - ४७ - यत् तर्हि योगविभागम् करोति ।

४३ - ४७ - इतरथा हि सम्बोधने आमन्त्रितम् इति एव ब्रूयात् ।

४४ - ४७ - इदम् तर्हि उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् ।

४५ - ४७ - एकः द्वौ बहवः इति ।

४६ - ४७ - वचनग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् ।

४७ - ४७ - अन्यतरत् शक्यम् अकर्तुम् ।

१ - ५४ - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् अधिकत्वात् ।

२ - ५४ - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् कर्तव्यम् ।

३ - ५४ - वीरः पुरुषः ।

४ - ५४ - किम् पुनः कारणम् न सिध्यति ।

५ - ५४ - अधिकत्वात् ।

६ - ५४ - व्यतिरिक्तः प्रातिपदिकार्थः इति कृत्वा प्रथमा न प्राप्नोति ।

७ - ५४ - कथम् व्यतिरिक्तिः ।

८ - ५४ - पुरुषे वीरत्वम् ।

९ - ५४ - न वा वाक्यार्थत्वात् ।

१० - ५४ - न वा वक्तव्यम् ।

११ - ५४ - किम् कारणम् ।

१२ - ५४ - वाक्यार्थत्वात् ।

१३ - ५४ - यत् अत्र आधिक्यम् वाक्यार्थः सः ।

१४ - ५४ - अथ वा अभिहिते प्रथमा इति एतत् लक्षणम् करिय्ष्यते ।

१५ - ५४ - अभिहितलक्षणायाम् अनभिहिते प्रथमाविधिः । अभिहितलक्षणायामनभिहिते प्रथमा विधेया ।

१६ - ५४ - वृक्षः प्लक्षः इति ।

१७ - ५४ - उक्तम् वा । किम् उक्तम् ।

१८ - ५४ - अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।

१९ - ५४ - वृक्षः प्लक्षः ।

२० - ५४ - अस्ति इति गम्यते ।

२१ - ५४ - अभिहितानभिहिते प्रथमाभावः । अभिहितानभ्हिते प्रथमा प्राप्नोति ।

२२ - ५४ - क्व ।

२३ - ५४ - प्रासादे आस्ते ।

२४ - ५४ - शयने आस्ते ।

२५ - ५४ - सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा प्रथमा प्राप्नोति ।

२६ - ५४ - एवम् तर्हि तिङ्समानाधिकरणे प्रथमा इति एतत् लक्षणं करिष्यते ।

२७ - ५४ - तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमाविधिः । तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमा विधेया ।

२८ - ५४ - वृक्षः प्लक्ष इति ।

२९ - ५४ - उक्तम् पूर्वेण ।

३० - ५४ - किम् उक्तम् ।

३१ - ५४ - अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।

३२ - ५४ - वृक्षः प्लक्षः ।

३३ - ५४ - अस्ति इति गम्यते ।

३४ - ५४ - शतृशानचोः च निमित्तभावात् तिङः अभावः तयोः अपवादत्वात् ।

३५ - ५४ - शतृशानचोः च निमित्तभावात् तिङः अभावः ।

३६ - ५४ - क्व ।

३७ - ५४ - पचति ओदनम् देवदत्तः इति ।

३८ - ५४ - किम् कारणम् ।

३९ - ५४ - तयोः अपवादत्वात् ।

४० - ५४ - शतृशानचौ तिङपवादौ ।

४१ - ५४ - तौ च अत्र बाधकौ ।

४२ - ५४ - न च अपवादविषये उत्सर्गः अभिनिविशते ।

४३ - ५४ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।

४४ - ५४ - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

४५ - ५४ - तत् न तावत् अत्र कदा चित् तिङादेशो भवति ।

४६ - ५४ - अपवादौ तावत् शतृशानचौ प्रतीक्षते ।

४७ - ५४ - पाक्षिकः एषः दोषः ।

४८ - ५४ - कतरस्मिन् पक्षे ।

४९ - ५४ - शतृशानचोः द्वैतम् भवति ।

५० - ५४ - अप्रथमा वा विधिना आश्रीयते प्रथमा वा प्रतिषेधेन इति ।

५१ - ५४ - विभक्तिनियमे च अपि द्वैतम् भवति ।

५२ - ५४ - विभक्तिनियमः वा स्यात् अर्थनियमः वा इति ।

५३ - ५४ - तत् यदा तावत् अर्थनियमः अप्रथमा च विधिना आश्रीयते तदा एष दोषः भवति ।

५४ - ५४ - यदा हि विभक्तिनियमः यदि एव अप्रथमा विधिना आश्रीयते अथ अपि प्रथमा प्रतिषेधेन न तदा दोषः भवति

१ - ७२ - शेषे इति उच्यते. कः शेषः नाम ।

२ - ७२ - कर्मादिभ्यः ये अन्ये अर्थाः सः शेषः ।

३ - ७२ - यदि एवम् शेषः न प्रकल्पते ।

४ - ७२ - न हि कर्मादिभ्यः अन्ये अर्थाः सन्ति ।

५ - ७२ - इह तावत् राज्ञः पुरुषः इति राजा कर्ता पुरुषः सम्प्रदानम् ।

६ - ७२ - वृक्षस्य शाखा इति वृक्षः शाख्यायाः अधिकरणम् ।

७ - ७२ - तथा यत् एतत् स्वम् नाम चतुर्भिः एतत् प्रकारैः भवति क्रयणात् अपहरणात् याञ्चायाः विनिमयात् इति ।

८ - ७२ - अत्र च सर्वत्र कर्मादयः सन्ति. एवम् तर्हि कर्मादीनाम् अविवक्षा शेषः ।

९ - ७२ - कथम् पुनः सतः नाम अवाविवक्षा स्यात् ।

१० - ७२ - सतः अपि अविवक्षा भवति ।

११ - ७२ - तत् यथा ।

१२ - ७२ - अलोमिका एडका ।

१३ - ७२ - अनुदरा कन्या इति ।

१४ - ७२ - असतः च विवक्षा भवति ।

१५ - ७२ - समुद्रः कुण्डिका ।

१६ - ७२ - विन्ध्यः वर्धितकम् इति ।

१७ - ७२ - किमर्थम् पुनः शेषग्रहणम् ।

१८ - ७२ - प्रत्ययावधारणात् शेषवचनम् । प्रत्ययावधारणात् शेषवचनम् कर्तव्यम् ।

१९ - ७२ - प्रत्ययाः नियताः अर्थाः अनियताः तत्र षष्ठी प्राप्नोति ।

२० - ७२ - तत्र शेषग्रहणम् कर्तव्यम् षष्ठीनियमार्थम् ।

२१ - ७२ - शेषे एव षष्ठी भवति न अन्यत्र इति ।

२२ - ७२ - अर्थावधारणात् वा ।

२३ - ७२ - अथ वा अर्थाः नियताः प्रत्ययाः अनियताः ते शेषे अपि प्राप्नुवन्ति ।

२४ - ७२ - तत्र शेषग्रहणम् कर्तव्यम् शेषनियमार्थम् ।

२५ - ७२ - शेषे षष्ठी एव भवति न अन्या इति ।

२६ - ७२ - अर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् ।

२७ - ७२ - कथम् ।

२८ - ७२ - अर्थाः नियताः प्रत्ययाः अनियताः ।

२९ - ७२ - ततः वक्ष्यामि षष्ठी भवति इति ।

३० - ७२ - तत् नियमार्थम् भविष्यति ।

३१ - ७२ - यत्र षष्ठी च अन्या च प्राप्नोति षष्ठी एव तत्र भवति इति ।

३२ - ७२ - षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः ।

३३ - ७२ - षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः वक्तव्यः ।

३४ - ७२ - राज्ञः पुरुषः इति अत्र राजा विशेषणम् पुरुषः विशेष्यः ।

३५ - ७२ - तत्र प्रातिपदिकार्थः व्यतिरिक्तः इति कृत्वा प्रथमा न प्राप्नोति ।

३६ - ७२ - तत्र षष्ठी स्यात् ।

३७ - ७२ - तस्याः प्रतिषेधः वक्तव्यः ।

३८ - ७२ - तत्र प्रथमाविधिः ।

३९ - ७२ - तत्र षष्ठीम् प्रतिषिध्य प्रथमा विधेया ।

४० - ७२ - राज्ञः पुरुषः इति ।

४१ - ७२ - उक्तम् पूर्वेण ।

४२ - ७२ - किमुक्तम् ।

४३ - ७२ - न वा वाक्यार्थत्वात् इति ।

४४ - ७२ - यदत्रादिख्यम् वाक्यार्थः सः ।

४५ - ७२ - कुतः नु खलु एतत् पुरुषे यत् आदिख्यम् सः वाक्यार्थः इति न पुनः राजनि यत् आधिक्यम् सः वाक्यार्थः स्यात् ।

४६ - ७२ - अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते ।

४७ - ७२ - न पुनः अन्तरेण राजशब्दप्रयोगम् पुरुषे सः अर्थः गम्यते ।

४८ - ७२ - अस्ति कारणम् येन एतत् एवम् भवति ।

४९ - ७२ - किम् कारणम् ।

५० - ७२ - राजशब्दात् हि भवान् षष्ठीम् उच्चारयति. अङ्ग हि भवान् पुरुषशब्दात् अपि उच्चारयतु गंस्यते सः अर्थः ।

५१ - ७२ - ननु च न एतेन एवम् भवितव्यम् ।

५२ - ७२ - न हि शब्दकृतेन नाम अर्थेन भवितव्यम् ।

५३ - ७२ - अर्थकृतेन नाम शब्देन भवितव्यम् ।

५४ - ७२ - तत् एतत् एवम् दृश्यताम् ॒ अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते ।

५५ - ७२ - किम् पुनः तत् ।

५६ - ७२ - स्वामित्वम् ।

५७ - ७२ - किङ्कृतम् पुनः तत् ।

५८ - ७२ - स्वकृतम् ।

५९ - ७२ - तत् यथा ॒ प्रातिपदिकार्थानाम् क्रियाकृताः विशेषाः उपजायन्ते तत्कृताः च आख्याः प्रादुर्भवन्ति कर्म करणम् अपादानं सम्प्रदानम् अधिकरणम् इति ।

६० - ७२ - ताः च पुनः विभक्तीनाम् उत्पत्तौ कदा चित् निमित्तत्वेन उपादीयन्ते कदा चित् न ।

६१ - ७२ - कदा च विभक्तीनाम् उत्पत्तौ निमित्तत्वेन उपादीयन्ते ।

६२ - ७२ - यदा व्यभिचरन्ति प्रातिपदिकार्थम् ।

६३ - ७२ - यदा हि न व्यभिचरन्ति आख्याभूताः एव तदा भवन्ति कर्म करणम् अपादानम् सम्प्रदानम् अधिकरणम् इति ।

६४ - ७२ - यथा एव तर्हि राजनि स्वकृतम् स्वामित्वम् तत्र षष्ठी एवम् पुरुषे अपि स्वामिकृतम् स्वत्वम् ।

६५ - ७२ - तत्र षष्ठी प्राप्नोति ।

६६ - ७२ - राजशब्दात् उत्पद्यमानया षष्ठ्या अभिहितः सः अर्थः इति कृत्वा पुरुषशब्दात् षष्ठी न भविष्यति ।

६७ - ७२ - न तर्हि इदानीम् इदम् भवति पुरुषस्य राजा इति ।

६८ - ७२ - भवति ।

६९ - ७२ - राजशब्दात् तु तदा प्रथमा ।

७० - ७२ - न तर्हि इदानीम् इदम् भवति ॒ राज्ञः पुरुषस्य इति ।

७१ - ७२ - भवति ।

७२ - ७२ - बाह्यम् अर्थम् अभिसमीक्ष्य ।

१ - ३९ - कर्मादिषु अकर्मकवद्वचनम् । कर्मादिषु अकर्मकवद्भावः वक्तव्यः ।

२ - ३९ - किम् प्रयोजनम् ।

३ - ३९ - अकर्मकाणाम् भावे लः भवति ।

४ - ३९ - भावे लः यथा स्यात् ।

५ - ३९ - मातुः स्मर्यते ।

६ - ३९ - पितुः स्मर्यते ।

७ - ३९ - अथ वत्करणम् किमर्थम् ।

८ - ३९ - स्वाश्रयम् अपि यथा स्यात् ।

९ - ३९ - माता स्मर्यते ।

१० - ३९ - पिता स्मर्यते इति ।

११ - ३९ - कर्माभिधाने हि लिङ्गवचनानुपपत्तिः ।

१२ - ३९ - कर्माभिधाने हि सति लिङ्गवचनयोः अनुपपत्तिः स्यात् ।

१३ - ३९ - मातुः स्मृतम् ।

१४ - ३९ - मात्रोः स्मृतम् ।

१५ - ३९ - माटृ̄णाम् स्मृतम् इति ।

१६ - ३९ - मातुः यत् लिङ्गम् वचनम् च तत् स्मृतशब्दस्य अपि प्राप्नोति ।

१७ - ३९ - षष्ठीप्रसण्गः च ।

१८ - ३९ - षष्ठी च प्राप्नोति ।

१९ - ३९ - कुतः ।

२० - ३९ - स्मृतशब्दात् ।

२१ - ३९ - मातुः सामानाधिकरण्यात् षष्ठी प्राप्नोति ।

२२ - ३९ - अपरः आह ॒ षष्ठीप्रसङ्गः च ।

२३ - ३९ - षष्ठी च प्रसङ्क्तव्या ।

२४ - ३९ - कुतः ।

२५ - ३९ - मातृशब्दात् ।

२६ - ३९ - स्मृतशब्देन भिहितम् कर्म इति कृत्वा षष्ठी न प्राप्नोति ।

२७ - ३९ - तत् तर्हि वक्तव्यम् ।

२८ - ३९ - न वक्तव्यम् ।

२९ - ३९ - अविवक्षिते कर्मणि षष्ठी भवति ।

३० - ३९ - किम् वक्तव्यम् एतत् ।

३१ - ३९ - न हि ।

३२ - ३९ - कथम् अनुच्यमानम् गंस्यते ।

३३ - ३९ - शेषे इति वर्तते ।

३४ - ३९ - शेषः च कः ।

३५ - ३९ - कर्मादीनाम् अविवक्षा शेषः ।

३६ - ३९ - यदा कर्म विवक्षितम् भवति तदा षष्ठी न भवति ।

३७ - ३९ - तत् यथा ।

३८ - ३९ - स्मरामि अहम् मातरम् ।

३९ - ३९ - स्मरामि अहम् पितरम् इति ।

१ - ८ - अज्वरिसन्ताप्योः इति वक्तव्यम् ।

२ - ८ - इह अपि यथा स्यात् ।

३ - ८ - चौरम् सन्तापयति ।

४ - ८ - वृषलम् सन्तापयति ।

५ - ८ - अथ किमर्थम् भाववचनानाम् इति उच्यते यावता रुजार्थाः भाववचनाः एव भवन्ति ।

६ - ८ - भावकर्तृकात् यथा स्यात् ।

७ - ८ - इह मा भूत् ।

८ - ८ - नदी कूलानि रुजति इति ।

१ - ८ - किम् उदाहरणम् ।

२ - ८ - गाम् घ्नन्ति ।

३ - ८ - गाम् प्रदीव्यन्ति ।

४ - ८ - गाम् सभासद्भ्यः उपहरन्ति ।

५ - ८ - न एतत् अस्ति ।

६ - ८ - पूर्वेण अपि एतत् सिद्धम् ।

७ - ८ - इदम् तर्हि ।

८ - ८ - गामस्य तदहः सभायाम् दीव्येयुः ।

१ - ३ - हविषः अप्रस्थितस्य ।

२ - ३ - हविषः अप्रस्थितस्य इति वक्तव्यम् ।

३ - ३ - इन्द्राग्निभ्याम् छागम् हविः वपाम् मेदः प्रस्थितम् प्रेष्य ।

१ - १२ - षष्ठ्यर्थे चतुर्थीवचनम् ।

२ - १२ - षष्ठ्यर्थे चतुर्थी वक्तव्या ।

३ - १२ - या खर्वेण पिबति तस्यै खर्वः तिस्रः रात्रीः ।

४ - १२ - तस्याः इति प्राप्ते ।

५ - १२ - यः ततः जायते सः भिशस्तः याम् अरण्ये तस्यै स्तेनः याम् पराचीम् तस्यै ह्रीतमुखी अपगगल्भः या स्नाति तस्यै अप्सु मारुकः या अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिः अपमारी या आङ्क्ते तस्यै काणः या दतः धावते तस्यै श्यावदन् या नखनि निकृन्तते तस्यै कुनखृ̄ या कृणत्ति तस्यै क्लीबः या रज्जुम् सृजति तस्यै उद्बन्धुकः या पर्णेन पिबति तस्यै उन्मादुकः जायते ।

६ - १२ - अहल्यायै जारः ।

७ - १२ - मनाय्यै तन्तुः ।

८ - १२ - तत् तर्हि वक्तव्यम् ।

९ - १२ - न वक्तव्यम् ।

१० - १२ - योगविभागात् सिद्धम् ।

११ - १२ - चतुर्थी ।

१२ - १२ - ततः अर्थे बहुलम् छन्दसि इति ।

१ - ६८ - कृद्ग्रहणम् किमर्थम् ।

२ - ६८ - इह मा भूत् ।

३ - ६८ - पचति ओदनम् देवदत्तः इति ।

४ - ६८ - कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यम् लप्रतिषेधात् ।

५ - ६८ - कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणम् अनर्थकम् ।

६ - ६८ - किम् कारणम् ।

७ - ६८ - लप्रतिषेधात् ।

८ - ६८ - प्रतिषिध्यते तत्र षष्थी लप्रयोगे न इति ।

९ - ६८ - तस्य कर्मकर्त्रर्थम् तर्हि कृद्ग्रहणम् कर्तव्यम् ।

१० - ६८ - कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।

११ - ६८ - अन्यस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।

१२ - ६८ - न एतत् अस्ति प्रयोजनम् ।

१३ - ६८ - धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः च कृतः च ।

१४ - ६८ - तत्र कृत्प्रयोगे इष्यते तिङ्प्रयोगे प्रतिषिध्यते ।

१५ - ६८ - न ब्रूमः इहार्थम् तस्य कर्मकर्त्रर्थम् कृद्ग्रहणम् कर्तव्यम् इति ।

१६ - ६८ - किम् तर्हि ।

१७ - ६८ - उत्तरार्थम् ।

१८ - ६८ - अव्ययप्रयोगे न इति षष्ठ्याः प्रतिषेधम् वक्ष्यति ।

१९ - ६८ - सः कृतः अव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात् ।

२० - ६८ - अकृतः अव्ययस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।

२१ - ६८ - उच्चैः कटानाम् स्रष्टा इति ।

२२ - ६८ - तस्य कर्मकर्त्रर्थम् इति चेत् प्रतिषेधे अपि तदन्तकर्मकर्तृत्वात् सिद्धम् ।

२३ - ६८ - कृतः एते कर्तृकर्मणी न अव्ययस्य ।

२४ - ६८ - अधिकरणम् अत्र अव्ययम् ।

२५ - ६८ - इदम् तर्हि प्रयोजनम् ।

२६ - ६८ - उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधम् वक्ष्यति ।

२७ - ६८ - सः कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।

२८ - ६८ - कृतोः ये कर्तृकर्मणी तत्र मा भूत् इति ।

२९ - ६८ - आश्चर्यम् इदम् वृत्तम् ओदनस्य च नाम पाकः ब्राह्मणानाम् च प्रादुर्भावः इति ।

३० - ६८ - अथ क्रियमाणे अपि कृद्ग्रहणे कस्मात् एव अत्र न भवति ।

३१ - ६८ - उभयप्राप्तौ इति न एवम् विज्ञायते उभयोः प्राप्तिः उभयप्राप्तिः उभयप्राप्तौ इति ।

३२ - ६८ - कथम् तर्हि ।

३३ - ६८ - उभयोः प्राप्तिः यस्मिन् कृति सः अयम् उभयप्राप्तिः कृत् उभयप्राप्तौ इति ।

३४ - ६८ - अथ वा कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।

३५ - ६८ - तद्धितस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।

३६ - ६८ - कृतपूर्वी कटम् ।

३७ - ६८ - भुक्तपूर्वी ओदनम् इति ।

३८ - ६८ - ननु च वाक्येन एव अनेन न भवितव्यम् ।

३९ - ६८ - द्वितीयया तावत् न भवितव्यम् ।

४० - ६८ - किम् कारणम् ।

४१ - ६८ - क्तेन अभिहितम् कर्म इति कृत्वा ।

४२ - ६८ - इनिप्रत्ययेन च अपि न उत्पत्तव्यम् ।

४३ - ६८ - किम् कारणम् ।

४४ - ६८ - असामर्थ्यात् ।

४५ - ६८ - कथम् असमार्थ्यम् ।

४६ - ६८ - सापेक्षम् असमर्थम् भवति इति ।

४७ - ६८ - यत् तावत् उच्यते द्वितीयया तावत् न भवितव्यम् ।

४८ - ६८ - किम् कारणम् ।

४९ - ६८ - क्तेन अभिहितम् कर्म इति कृत्वा इति ।

५० - ६८ - यः असौ कृतकटयोः अभिसंबन्धः सः उत्पन्ने प्रत्यये निवर्तते ।

५१ - ६८ - अस्ति च करोतेः कटेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।

५२ - ६८ - यत् अपि उच्यते इनिप्रत्ययेन च अपि न उत्पत्तव्यम् ।

५३ - ६८ - किम् कारणम् ।

५४ - ६८ - असामर्थ्यात् ।

५५ - ६८ - कथम् असमार्थ्यम् ।

५६ - ६८ - सापेक्षम् असमर्थम् भवति इति ।

५७ - ६८ - न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च ।

५८ - ६८ - यदा वाक्यम् न तदा प्रत्ययः ।

५९ - ६८ - यदा प्रत्ययः सामान्येन तदा वृत्तिः ।

६० - ६८ - तत्र अवश्यं विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

६१ - ६८ - कृतपूर्वी ।

६२ - ६८ - किम् ।

६३ - ६८ - कटम् ।

६४ - ६८ - भुक्तपूर्वी ।

६५ - ६८ - किम् ।

६६ - ६८ - ओदनम् इति ।

६७ - ६८ - अथ वा इदम् प्रयोजनम् कर्तृभूतपूर्वमात्रात् अपि षष्ठीयथा स्यात् ।

६८ - ६८ - भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति ।

१ - १० - उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे अप्रतिषेधः ।

२ - १० - उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे प्रतिषेधः न भवति इति वक्तव्यम् ।

३ - १० - भेदिका देवदत्तस्य काष्ठानाम् ।

४ - १० - चिकीर्षा विष्णुमित्रस्य कटस्य ।

५ - १० - अपरः आह ॒ अकाकारयोः प्रयोगे प्रतिषेधः न इति वक्तव्यम् ।

६ - १० - शेषे विभाषा ।

७ - १० - शोभना खलु पाणिनेः सूत्रस्य कृतिः ।

८ - १० - शोभना खलु पाणिनिना सूत्रस्य कृतिः ।

९ - १० - शोभना खलु दाक्षायणस्य सङ्ग्रहस्य कृतिः ।

१० - १० - शोभना खलु दाक्षायेण सङ्ग्रहस्य कृतिः इति ।

१ - १५ - क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम् ।

२ - १५ - क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम् कर्तव्यम् ॒ छात्त्रस्य हसितम् , नटस्य भुक्तम् , मयूरस्य नृत्तम् , कोकिलस्य व्याहृतम् इति ।

३ - १५ - शेषविज्ञानात् सिद्धम् । शेषलक्षणा अत्र षष्ठी भविष्यति ।

४ - १५ - शेषः इति उच्यते ।

५ - १५ - कः च शेषः ।

६ - १५ - कर्मादीनाम् अविवक्षा शेषः ।

७ - १५ - कथम् पुनः सतः नाम अविवक्षा स्यात् यदा छात्रः हसति , नटः भुङ्क्ते , मयूरः नृत्यति , कोकिलः व्याहरति ।

८ - १५ - सतः अपि अविवक्षा भवति ।

९ - १५ - तत् यथा ॒ अलोमिका एडका , अनुदरा कन्या इति ।

१० - १५ - असतः च विवक्षा भवति ।

११ - १५ - समुद्रः कुण्डिका ।

१२ - १५ - विन्ध्यः वर्धितकम् इति ।

१३ - १५ - यदि एवम् उत्तरत्र चातुःशब्द्यम् प्राप्नोति ।

१४ - १५ - इदम् अहेः सृप्तम् , इह अहिना सृप्तम् , इह अहिः सृप्तः , इह अहेः सृप्तम् , ग्रामस्य पार्श्वे ग्रामस्य मध्ये इति ।

१५ - १५ - इष्यते एव चातुःशब्द्यम् ।

१ - ५९ - लादेशे सल्लिड्ग्रहणम् किकिनोः प्रतिषेधार्थम् ।

२ - ५९ - लादेशे सल्लिड्गग्रहणम् कर्तव्यम् ।

३ - ५९ - सल्लिटोः प्रयोगे न इति वक्तव्यम् ।

४ - ५९ - किम् प्रयोजनम् ।

५ - ५९ - किकिनोः प्रतिषेधार्थम् ।

६ - ५९ - किकिनोः अपि प्रयोगे प्रतिषेधः यथा स्यात् ।

७ - ५९ - । पपिः सोमं ददिः गाः ।

८ - ५९ - किम् पुनः कारणम् न सिध्यति ।

९ - ५९ - तयोः अलादेशत्वात् ।

१० - ५९ - न हि तौ लादेशौ ।

११ - ५९ - अथ तौ लादेशौ स्याताम् स्यात् प्रतिषेधः ।

१२ - ५९ - बाढम् स्यात् ।

१३ - ५९ - लादेशौ तर्हि भविष्यतः ।

१४ - ५९ - तत् कथम् ।

१५ - ५९ - आदृगमहनजनः किकिनौ लिट् च इति लिड्वत् इति वक्ष्यामि ।

१६ - ५९ - सः तर्हि वतिनिर्देशः कर्तव्यः ।

१७ - ५९ - न हि अन्तरेण वतिम् अतिदेशः गम्यते ।

१८ - ५९ - अन्तरेण अपि वतिम् अतिदेशः गम्यते ।

१९ - ५९ - तत् यथा ।

२० - ५९ - एषः ब्रह्मदत्तः ।

२१ - ५९ - अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।

२२ - ५९ - ते मन्यामहे ॒ ब्रह्मदत्तवत् अयम् भवति इति ।

२३ - ५९ - एवम् इह अपि अलिटम् लिट् इति आह ।

२४ - ५९ - लिड्वत् इति विज्ञास्यते ।

२५ - ५९ - उकारप्रयोगे न इति वक्तव्यम् ।

२६ - ५९ - कटम् चिकीर्षुः ।

२७ - ५९ - ओदनम् बुभुक्षुः ।

२८ - ५९ - तत् तर्हि वक्तव्यम् ।

२९ - ५९ - न वक्तव्यम् ।

३० - ५९ - उकारः अपि अत्र निर्दिश्यते ।

३१ - ५९ - कथम् ।

३२ - ५९ - प्रश्लिष्टनिर्देशः अयम् ।

३३ - ५९ - उ उक ऊक ल ऊक लोक इति ।

३४ - ५९ - उकप्रतिषेधे कमेः भाषायाम् अप्रतिषेधः ।

३५ - ५९ - उकप्रतिषेधे कमेः भाषायाम् प्रतिषेधः न भवति इति वक्तव्यम् ।

३६ - ५९ - दस्याः कामुकः ।

३७ - ५९ - वृषल्याः कामुकः ।

३८ - ५९ - अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः । अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधः न भवति इति वक्तव्यम् ।

३९ - ५९ - पुरा सूर्यस्य उदेतोः आधेयः ।

४० - ५९ - पुरा वत्सानाम् अपाकर्तोः ।

४१ - ५९ - पुरा क्रूरस्य विसृपः विरप्शिन् ।

४२ - ५९ - शानंश्चानश्शतृ̄ऋणाम् उपसङ्ख्यानम् ।

४३ - ५९ - शानंश्चानश्शतृ̄ऋणाम् उपसङ्ख्यानम् कर्तव्यम् ।

४४ - ५९ - सोमम् पवमानः ।

४५ - ५९ - नडम् आघ्नानः ।

४६ - ५९ - अधीयन् पारायणम् ।

४७ - ५९ - लप्रयोगे न इति प्रतिषेधः न प्राप्नोति ।

४८ - ५९ - मा भूत् एवम् ।

४९ - ५९ - तृन् इति एवम् भविष्यति ।

५० - ५९ - कथम् ।

५१ - ५९ - तृन् इति न इदम् प्रत्ययग्रहणम् ।

५२ - ५९ - किम् तर्हि ।

५३ - ५९ - प्रत्याहारग्रहणम् ।

५४ - ५९ - क्व संनिविष्टानाम् प्रत्याहारः ।

५५ - ५९ - लटः शतृ इति अतः प्रभृति आ तृनः नकारात् ।

५६ - ५९ - यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति ।

५७ - ५९ - द्विषः शतुः वावचनम् । द्विषः शतुः वा इति वक्तव्यम् ।

५८ - ५९ - तत् च अवश्यं वक्तव्यम् प्रत्ययग्र्हणे सति प्रतिषेधार्थम् ।

५९ - ५९ - तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति ।

१ - ९ - अकस्य भविष्यति ।

२ - ९ - अकस्य भविष्यति इति वक्तव्यम् ।

३ - ९ - यवान् लावकः व्रजति ।

४ - ९ - ओदनम् भोजकः व्रजति ।

५ - ९ - सक्तून्पायकः व्रजति ।

६ - ९ - इनः आधमर्ण्ये च । ततः इनः आधमर्ण्ये च भविष्यति च इति वक्तव्यम् ।

७ - ९ - शतम् दायी ।

८ - ९ - सहस्रम् दायी ।

९ - ९ - ग्रामम् गामी ।

१ - २४ - कर्तृग्रहणम् किमर्थम् ।

२ - २४ - कर्मणि मा भूत् इति ।

३ - २४ - न एतत् अस्ति प्रयोजनम् ।

४ - २४ - भावकर्मणोः कृत्याः विधीयन्ते टत्र कृत्यैः अभिहितत्वात् कर्मणि षष्ठी न भविष्यति ।

५ - २४ - अतः उत्तरम् पठति ।

६ - २४ - भव्यादीनाम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् ।

७ - २४ - भव्यादीनाम् कर्म कृत्यैः अनभितम् ।

८ - २४ - गेयः माणवकः साम्नाम् ।

९ - २४ - भव्यादीनम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् क्रियते ।

१० - २४ - किम् उच्यते भव्यादीनाम् कर्म कृत्यैः अनभितम् इति ।

११ - २४ - न इह अपि अनभिहितं भवति ।

१२ - २४ - आक्रष्टव्या ग्रांअम् शाखा इति ।

१३ - २४ - एवम् तर्हि योगविभागः करिष्यते ।

१४ - २४ - कृत्यानाम् ।

१५ - २४ - कृत्यानाम् प्रयोगे षष्ठी न भवति इति ।

१६ - २४ - किम् उदाहरणम् ।

१७ - २४ - ग्रामम् आक्रष्टव्या शाखा ।

१८ - २४ - ततः कर्तरि वा इति ।

१९ - २४ - इह अपि तर्हि प्राप्नोति ।

२० - २४ - गेयः माणवकः साम्नाम् इति ।

२१ - २४ - उभयप्राप्तौ इति वर्तते ।

२२ - २४ - ननु च उभयप्राप्तिः एषा ।

२३ - २४ - गेयः माणवकः साम्नाम् इति च गेयानि माणवकेन सामानि इति च भवति ।

२४ - २४ - उभयप्राप्तिः नाम सा भवति यत्र उभयस्य युगपत्प्रसङ्गः अत्र च यदा कर्मणि न तदा कर्तरि यदा कर्तरि न तदा कर्मणि इति.

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:15.8470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

measurability

  • स्त्री. मेयता 
RANDOM WORD

Did you know?

How I do save the text on my computer?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site