संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय २|पाद ३| खण्ड २७ पाद ३ खण्ड २७ खण्ड २८ पाद ३ - खण्ड २७ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड २७ Translation - भाषांतर १ - १२२ - अनभिहिते इति उच्यते ।२ - १२२ - किम् इदम् अनभिहितम् नाम ।३ - १२२ - उक्तम् निर्दिष्टम् अभिहितम् इति अनर्थान्तरम् ।४ - १२२ - यावत् ब्रूयात् अनुक्ते अनिर्दिष्टे इति तावत् अनभिहिते इति ।५ - १२२ - अनभिहितवचनम् अनर्थकम् अन्यत्र अपि विहितस्य अभावात् अभिहिते ।६ - १२२ - अनभिहितवचनम् अनर्थकम् ।७ - १२२ - किम् कारणम् ।८ - १२२ - अन्यत्र अपि विहितस्य अभावात् अभिहिते ।९ - १२२ - अन्यत्र अपि अभिहिते विहितम् न भवति ।१० - १२२ - क्व अन्यत्र ।११ - १२२ - चित्रगुः शबलगुः ।१२ - १२२ - बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति ।१३ - १२२ - गर्गाः वत्साः विदाः उर्वाः ।१४ - १२२ - यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति ।१५ - १२२ - सप्तपर्णः अष्टापदमिति ।१६ - १२२ - समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति ।१७ - १२२ - यत् तावत् उच्यते चित्रगुः शबल्गुः बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति इति ।१८ - १२२ - अस्तिना सामानाधिकरण्ये मतुप् विधीयते ।१९ - १२२ - न च अत्र अस्तिना सामानाधिकरण्यम् ।२० - १२२ - यत् अपि उच्यते गर्गाः वत्साः विदाः उर्वाः यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति इति ।२१ - १२२ - समर्थानाम् प्रथमात् वा इति वर्तते ।२२ - १२२ - न च एतत् समर्थानाम् प्रथमम् ।२३ - १२२ - किं तर्हि ।२४ - १२२ - द्वितीयम् अर्थमुपसंक्रान्तम् ।२५ - १२२ - यत् अपि उच्यते सप्तपर्णः अष्टापदम् इति समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति इति ।२६ - १२२ - यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते ।२७ - १२२ - किम् पुनः तत् ।२८ - १२२ - पर्वणि पर्वणि सप्त पर्णानि अस्य ।२९ - १२२ - पङ्क्तौ पङ्क्तौ अष्टौ पदानि इति ।३० - १२२ - श्नम्बहुजकक्षु तर्हि ।३१ - १२२ - श्नम् ॒ भिनत्ति छिनत्ति ।३२ - १२२ - श्नमा उक्तत्वात् कर्तृत्वस्य कर्तरि शप् न भवति ।३३ - १२२ - बहुच् ॒ बहुकृतम् , बहुभिन्नम् इति ।३४ - १२२ - बहुचा उक्तत्वात् ईषदस्माप्तेः कल्पबादयः न भवन्ति इति ।३५ - १२२ - अकच् ॒ उच्चकैः , नीचकैः इति ।३६ - १२२ - अकचा उक्तत्वात् कुत्सादीनाम् कादयः न भवन्ति ।३७ - १२२ - ननु च श्नम्बहुजकचः अपवादाः ते अपवादत्वात् बाधकाः भविष्यन्ति ।३८ - १२२ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गाप्रतिषेधः ।३९ - १२२ - समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति ।४० - १२२ - नानादेशत्वात् न प्राप्नोति ।४१ - १२२ - किम् पुनः इह अकर्तव्यः अनभिहिताधिकारः क्रियते आहोस्वित् अन्यत्र कर्तव्यः न क्रियते ।४२ - १२२ - इह अकर्तव्यः क्रियते ।४३ - १२२ - एषः एव हि न्याय्यः पक्षः यत् अभिहिते विहितम् न स्यात् ।४४ - १२२ - अनभितः तु विभक्त्यर्थः तस्मात् अनभिहितवचनम् । अनभिहितः तु विभक्त्यर्थः ।४५ - १२२ - कः पुनः विभक्त्यर्थः ।४६ - १२२ - एकत्वादयः विभक्त्यर्थाः तेषु अनभिहितेषु कर्मादयः भिहिताः विभक्तीनाम् उत्पत्तौ निमित्तत्वाय मा भूवन् इति ।४७ - १२२ - तस्मात् अनभिहितवचनम् ।४८ - १२२ - तस्मात् अनभिहिताधिकारः क्रियते ।४९ - १२२ - अवश्यम् च एतत् एवम् विज्ञेयम् एकत्वादयः विभक्त्यर्थाः इति ।५० - १२२ - अभिहिते प्रथमाभावः । यः हि मन्यते कर्मादयः विभक्त्यर्थाः तेषु अभिहितेषु सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः न भविष्यति इति प्रथमा तस्य न प्राप्नोति ।५१ - १२२ - क्व ।५२ - १२२ - वृक्षः प्लक्षः ।किं कारणम् ।५३ - १२२ - प्रातिपदिकेन उक्तः प्रातिपदिकार्थः इति ।५४ - १२२ - न क्व चित् प्रातिपदिकेन अनुक्तः प्रातिपदिकार्थः उच्यते च प्रथमा ।५५ - १२२ - सा वचनात् भविष्यति ।५६ - १२२ - तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति ।५७ - १२२ - प्रथमा ते न प्राप्नोति ।५८ - १२२ - क्व ।५९ - १२२ - पचति ओदनम् देवदत्तः इति ।६० - १२२ - किम् कारणम् ।६१ - १२२ - तिङा उक्ताः एकत्वादयः इति ।६२ - १२२ - अनभिहिताधिकारम् च त्वम् करोषि परिगणनम् च ।६३ - १२२ - न क्व चित् तिङा एकत्वादीनाम् अनभिधानम् उच्यते च प्रथमा ।६४ - १२२ - सा वचनात् भविष्यति ।६५ - १२२ - ननु च इह अनभिधानम् वृक्षः प्लक्षः इति ।६६ - १२२ - अत्र अपि अभिधानम् अस्ति ।६७ - १२२ - कथम् ।६८ - १२२ - वक्ष्यति एतत् ॒ अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।६९ - १२२ - वृक्षः प्लक्षः ।७० - १२२ - अस्ति इति गम्यते ।७१ - १२२ - तव एव तु खलु एषः दोषः यस्य ते कर्मादयः विभक्त्यार्थाः अभिहिते प्रथमाभावः इति ।७२ - १२२ - प्रथमा ते प्राप्नोति ।७३ - १२२ - क्व ।७४ - १२२ - कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति ।७५ - १२२ - कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीषादिभ्यः द्वितीया न प्राप्नोति ।७६ - १२२ - का तर्हि प्राप्नोति ।७७ - १२२ - प्रथमा ।७८ - १२२ - तत् यथा ।७९ - १२२ - कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति ।८० - १२२ - करोतेः उत्पद्यमानेन क्तेन अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न भवति ।८१ - १२२ - का तर्हि ।८२ - १२२ - प्रथमा भवति ।८३ - १२२ - न एषः दोषः ।८४ - १२२ - न हि मम अनभिहिताधिकारः अस्ति न अपि परिगणनम् ।८५ - १२२ - सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः भविष्यति ।८६ - १२२ - अस्ति च सामर्थ्यम् ।८७ - १२२ - किम् ।८८ - १२२ - कर्मविशेषः वक्तव्यः ।८९ - १२२ - अथ वा कटः अपि कर्म भीष्मादयः अपि ।९० - १२२ - तत्र कर्मणि इति एव सिद्धम् ।९१ - १२२ - अथ वा कटः एव कर्म तत् सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति ।९२ - १२२ - अस्ति खल्वपि विशेषः कटं करोति भीष्ममुदारम् शोभनम् दर्शनीयम् इति च कृतः कटो भीष्मः उदारः शोभनः दर्शनीयः इति च ।९३ - १२२ - करोतेः उत्पद्यमानः क्तः अनवयवेन सर्वम् कर्म अभिधत्ते ।९४ - १२२ - कटशब्दात् पुनः उत्पद्यमानया द्वितीयया यत् कटस्थम् कर्म तत् शक्यमभिधातुम् न हि कर्मविशेषः ।९५ - १२२ - तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति ।९६ - १२२ - प्रथमा ते न प्राप्नोति ।९७ - १२२ - क्व ।९८ - १२२ - एकः द्वौ बहवः इति ।९९ - १२२ - किम् कारणम् ।१०० - १२२ - प्रातिपदिकेन उक्ताः एकत्वादयः इति ।१०१ - १२२ - कर्मादिषु अपि वै विभक्त्यर्थेषु अवश्यम् एकत्वादयः निमित्तत्वेन उपादेयाः ।१०२ - १२२ - कर्मणः एवत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति ।१०३ - १२२ - न च एकत्वादीनाम् एकत्वादयः सन्ति ।१०४ - १२२ - अथ सन्ति मम अपि सन्ति ।१०५ - १२२ - तेषु अनभिहितेषु प्रथमा भविष्यति ।१०६ - १२२ - अथ वा उभयवचनाः ह्येते ।१०७ - १२२ - द्रव्यम् च आहुः गुणम् च ।१०८ - १२२ - यत्स्थः असौ गुणः तस्य अनुक्ताः एकत्वादयः इति कृत्वा प्रथमा भविष्यति ।१०९ - १२२ - अथ वा सङ्ख्या नाम इयम् परप्रधाना ।११० - १२२ - संख्येयम् अनया विशेष्यम् ।१११ - १२२ - यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।११२ - १२२ - अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति ।११३ - १२२ - अथ वा समयात् भविष्यति ।११४ - १२२ - यदि सामयकी न नियोगतः अन्याः कस्मात् न भवन्ति ।११५ - १२२ - कर्मादीनाम् अभावात् ।११६ - १२२ - षष्ठी तर्हि प्राप्नोति ।११७ - १२२ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।११८ - १२२ - एवम् अपि व्यतिकरः प्राप्नोति ।११९ - १२२ - एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः ।१२० - १२२ - द्वयोः अपि एकववचनबहुवचने प्राप्नुतः ।१२१ - १२२ - बहुषु अपि एकवचनद्विवचने प्राप्नुतः ।१२२ - १२२ - अर्थतः व्यवस्था भविष्यति ।१ - २९ - परिगणनं कर्तव्यम् ।२ - २९ - तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् ।३ - २९ - तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् कर्तव्यम् ।४ - २९ - तिङ् ।५ - २९ - क्रियते कटः ।६ - २९ - कृत् ।७ - २९ - कृतः कटः ।८ - २९ - तद्धित ।९ - २९ - औपगवः कापटवः ।१० - २९ - समास ।११ - २९ - चित्रगुः शबलगुः ।१२ - २९ - उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या ।१३ - २९ - क्व ।१४ - २९ - कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति ।१५ - २९ - कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति ।१६ - २९ - का तर्हि स्यात् ।१७ - २९ - षष्ठी ।१८ - २९ - शेषलक्षणा षष्ठी ।१९ - २९ - अशेषत्वात् न भविष्यति ।२० - २९ - अन्याः अपि न प्राप्नुवन्ति ।२१ - २९ - किम् कारणम् ।२२ - २९ - कर्मादीन् आमभावात् ।२३ - २९ - समयश्च कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति ।२४ - २९ - न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति ।२५ - २९ - अथ वा कटः अपि कर्म भीष्मादयः अपि ।२६ - २९ - तत्र कर्मणि इति एव सिद्धम् ।२७ - २९ - अथ वा कटः एव कर्म ।२८ - २९ - तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति ।२९ - २९ - तस्मात् न अर्थः परिगणनेन ।१ - ३९ - द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्त्यभावप्रसङ्गः । द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्तिः न प्राप्नोति ।२ - ३९ - क्व ।३ - ३९ - प्रासादे आस्ते , शयने आस्ते इति ।४ - ३९ - किम् कारणम् ।५ - ३९ - सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा सप्तमी न प्राप्नोति ।६ - ३९ - न वा अन्यतरेण अनभिधानात् ।७ - ३९ - न वा एषः दोषः ।८ - ३९ - किम् कारणम् ।९ - ३९ - अन्यतरेण अनभिधानात् ।१० - ३९ - अन्यतरेण अत्र अनभिधानम् ।११ - ३९ - सदिप्रत्ययेन भिधानम् आसिप्रत्ययेन अनभिधानम् ।१२ - ३९ - यतः अनभिधानम् तदाश्रया सप्तमी भविष्यति ।१३ - ३९ - कुतः न खलु एतत् सति अभिधाने च अनभिधाने च अनभिहिताश्रया सप्तमी भविष्यति न पुनः अभिहिताश्रयः प्रतिषेधः इति ।१४ - ३९ - अनभिहिते हि विधानम् ।१५ - ३९ - अनभिहिते हि सप्तमी विधीयते न अभिहिते प्रतिषेधः ।१६ - ३९ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र तु खलु सा एव क्रिया तत्र कथम् ।१७ - ३९ - आसने आस्ते ।१८ - ३९ - शयने शेते इति ।१९ - ३९ - अत्र अपि अन्यत्वम् अस्ति ।२० - ३९ - कुतः ।२१ - ३९ - कालभेदात् साधनभेदात् च ।२२ - ३९ - एकस्य अत्र आसेः आसिः साधनम् सर्वकालः च प्रत्ययः ।२३ - ३९ - अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः ।२४ - ३९ - किम् पुनः द्रव्यम् साधनम् आहोस्वित् गुणः ।२५ - ३९ - किम् च अतः ।२६ - ३९ - यदि द्रव्यम् साधनम् न एतत् अन्यत् भवति अभिहितात् ।२७ - ३९ - अथ हि गुणः साधनम् भवति एतत् अन्यत् अभिहितात् ।२८ - ३९ - अन्यः हि सदिगुणः अन्यः च आसिगुणः ।२९ - ३९ - किं पुनः साधनम् न्याय्यम् ।३० - ३९ - गुणः इति आह ।३१ - ३९ - कथम् ज्ञायते ।३२ - ३९ - एवम् हि कः चित् कम् चित् पृच्छति ।३३ - ३९ - क्व देवदत्तः इति ।३४ - ३९ - सः तस्मै आचष्टे ।३५ - ३९ - असौ वृक्षे इति ।३६ - ३९ - कतरस्मिन् ।३७ - ३९ - यः तिष्ठति इति ।३८ - ३९ - सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।३९ - ३९ - द्रव्ये पुनः साधने सति यत् कर्म कर्म एव स्यात् यत् करणम् करणम् एव यत् अधिकरणम् अधिकरणम् एव ।१ - ३० - अनभिहितवचनम् अनर्थकम् प्रथमाविधानस्य अनवकाशत्वात् ।२ - ३० - अनभिहितवचनम् अनर्थकम् ।३ - ३० - किम् कारणम् ।४ - ३० - प्रथमाविधानस्य अनवकाशत्वात् ।५ - ३० - अनवकाशा प्रथमा ।६ - ३० - सा वचनात् भविष्यति. सावकाशा प्रथमा ।७ - ३० - कः अवकाशः ।८ - ३० - अकारकम् ।९ - ३० - वृक्षः प्लक्षः इति ।१० - ३० - अवकाशः अकारकम् इति चेत् न अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति ।११ - ३० - अवकाशः अकारकम् इति चेत् तत् न ।१२ - ३० - किम् कारणम् ।१३ - ३० - अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति गम्यते ।१४ - ३० - वृक्षः प्लक्षः ।१५ - ३० - अस्ति इति गम्यते. विप्रतिषेधात् वा प्रथमाभावः । अथ वा द्वितीयादयः क्रियन्ताम् प्रथमा वा इति प्रथमा भविष्यति विप्रतिषेधेन ।१६ - ३० - द्वितीयादीनाम् अवकाशः कटम् करोति भीष्मम् उदारम् शोभनम्दर्शनीयम् इति ।१७ - ३० - प्रथमायाः अवकाशः अकारकम् वृक्षः प्लक्षः इति ।१८ - ३० - इह उभयम् प्राप्नोति ।१९ - ३० - कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति ।२० - ३० - प्रथमा भविष्यति विप्रतिषेधेन ।२१ - ३० - न सिध्यति ।२२ - ३० - परत्वात् षष्ठी प्राप्नोति ।२३ - ३० - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।२४ - ३० - कृत्प्रयोगे तु परम् विधानम् षष्ठ्याः तत्प्रतिषेधार्थम् ।२५ - ३० - कृत्प्रयोगे तु परत्वा त्षष्ठी प्राप्नोति ।२६ - ३० - तत्प्रतिषेधार्थम् अनभिहिताधिकारः कर्तव्यः ।२७ - ३० - कर्तव्यः कटः इति ।२८ - ३० - सः कथम् कर्तव्यः ।२९ - ३० - यदि एकत्वादयः विभक्त्यर्थाः ।३० - ३० - अथ हि कर्मादयः विभक्त्यर्थाः न अर्थः अनभिहिताधिकारेण ।१ - २५ - समयानिकषाहायोगेषु उपसङ्ख्यानम् । समयानिकषाहायोगेषु उपसङ्ख्यानम् कर्तव्यम् ।२ - २५ - समया ग्रामम् निकषा ग्रामम् ।३ - २५ - हायोगे ।४ - २५ - हा देवदत्तम् ।५ - २५ - हा यज्ञदत्तम् ।६ - २५ - अपरः आह ॒ द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् ।७ - २५ - द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् कर्तव्यम् ।८ - २५ - अभितः ग्रामम् परितः ग्रामम् ।९ - २५ - समया ग्रामम् ।१० - २५ - निकषा ग्रामम् ।११ - २५ - अधि अधि ग्रामम् ।१२ - २५ - धिक् जाल्मम् धिक् वृषलम् ।१३ - २५ - अपरः आह ।१४ - २५ - उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततः अन्यत्र अपि दृश्यते ।१५ - २५ - उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या ।१६ - २५ - उभयतः ग्रामम् सर्वतः ग्रामम् ।१७ - २५ - धिग्योगे ।१८ - २५ - धिक् जाल्मम् धिक् वृषलम् ।१९ - २५ - उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या ।२० - २५ - उपरि उपरि ग्रामम् ।२१ - २५ - अधि अधि ग्रामम् ।२२ - २५ - अधः अधः ग्रामम् ।२३ - २५ - ततः अन्यत्र अपि दृश्यते ।२४ - २५ - न देवदत्तम् प्रतिभाति किम् चित् ।२५ - २५ - बुभुक्षितम् न प्रतिभाति किम् चित् ।१ - २७ - किमर्थम् इदम् उच्यते ।२ - २७ - तृतीया यथा स्यात् ।३ - २७ - अथ द्वितीया सिद्धा ।४ - २७ - सिद्धा कर्मणि इति एव ।५ - २७ - तृतीया अपि सिद्धा ।६ - २७ - कथम् ।७ - २७ - सुपाम् सुपः भवन्ति इति एव ।८ - २७ - असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः ।९ - २७ - यवाग्वा अग्निहोत्रं जुहोति ।१० - २७ - एवम् तर्हि तृतीया अपि सिद्धा ।११ - २७ - कथम् ।१२ - २७ - कर्तृकरणयोः इति एव ।१३ - २७ - अयम् अग्निहोत्रशब्दः अस्ति एव ज्योतिषि वर्तते ।१४ - २७ - तद्यथा ।१५ - २७ - अग्निहोत्रम् प्रज्वलयति इति ।१६ - २७ - अस्ति हविषि वर्तते ।१७ - २७ - तत् यथा ।१८ - २७ - अग्निहोत्रम् जुहोति इति ।१९ - २७ - जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते ।२० - २७ - तत् यथा तावत् यवागूशब्दात् तृतीया तदा अग्निहोत्रशब्दः ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे ।२१ - २७ - तत् यथा ।२२ - २७ - यवाग्वा अग्निहोत्रम् जुहोति ।२३ - २७ - अग्निं प्रीणाति ।२४ - २७ - यदा यवागूशब्दात् द्वितीया तदा अग्निहोत्रशब्दः हविषि वर्तते जुहोतिः च प्रक्षेपणे ।२५ - २७ - तत् यथा ।२६ - २७ - यवागूम् अग्निहोत्रम् जुहोति ।२७ - २७ - यवागूम् हविः अग्नौ प्रक्षिपति ।१ - १८ - इह कस्मात् न भवति ।२ - १८ - किम् ते बाभ्रवशालङ्कायनानाम् अन्तरेण गतेन इति ।३ - १८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।४ - १८ - अथ वा यदि अपि तावत् अयम् अन्तरेणशब्दः दृष्टापचारः निपातः च अनिपातः च अयं तु खलु अन्तराशब्दः अदृष्टापचारः निपातः एव ।५ - १८ - तस्य अस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः निपातात् ।६ - १८ - तत् यथा ।७ - १८ - अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।८ - १८ - अन्तरान्तरेणयुक्तानाम् अप्रधानवचनम् ।९ - १८ - अन्तरान्तरेणयुक्तानामप्रधानग्रहणम् वक्तव्यम् ।१० - १८ - अप्रधाने द्वीइया भवति इति वक्तव्यम् ।११ - १८ - अन्तरा त्वाम् च माम् च कमण्डलुः इति ।१२ - १८ - कमण्डलोः द्वितीया मा भूत् इति ।१३ - १८ - कः पुनः एताभ्याम् कमण्डलोः योगः ।१४ - १८ - यत् तत् त्वाम् च माम् च अन्तरा तत् कमण्डलोः स्थानम् ।१५ - १८ - तत्त् अर्हि वक्तव्यम् ।१६ - १८ - न वक्तव्यम् ।१७ - १८ - कमण्डलोः द्वितीया कस्मात् न भवति ।१८ - १८ - उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति ।१ - ४० - अत्यन्तसंयोगे कर्मवत् लाद्यर्थम् ।२ - ४० - अत्यन्तसंयोगे कालाध्वानौ कर्मवत् भवतः इति वक्तव्यम् ।३ - ४० - किम् प्रयोजनम् ।४ - ४० - लाद्यर्थम् ।५ - ४० - लादिभिः अभिधानम् यथा स्यात् ।६ - ४० - आस्यते मासः ।७ - ४० - शय्यते क्रोशः ।८ - ४० - अथ वत्करणम् किमर्थम् ।९ - ४० - स्वाश्रयम् अपि यथा स्यात् ।१० - ४० - आस्यते मासम् ।११ - ४० - शय्यते क्रोशम् ।१२ - ४० - अकर्मकाणाम् भावे लः भवति इति भावे लः यथा स्यात् ।१३ - ४० - तत् तर्हि वक्तव्यम् ।१४ - ४० - न वक्तव्यम् ।१५ - ४० - प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति ।१६ - ४० - एवम् मन्यते ।१७ - ४० - यत्र कः चित्क्रियाकृतः विशेषः उपजायते तत् न्याय्यम् कर्म इति ।१८ - ४० - न च इह कः चित् क्रियाकृतः विशेषः उपजायते ।१९ - ४० - न एवम् शक्यम् ।२० - ४० - इह अपि न स्यात् ।२१ - ४० - आदित्यम् पश्यति ।२२ - ४० - हिमवन्तम् शृणोति ।२३ - ४० - ग्रामम् गच्छति ।२४ - ४० - तस्मात् प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति ।२५ - ४० - यदि तर्हि प्राकृतम् एव एतत् कर्म अकर्मकाणाम् भावे लः भवति इति भावे लः न प्राप्नोति. आस्यते मासम् देवदत्तेन इति ।२६ - ४० - तत् तर्हि वक्तव्यम् ।२७ - ४० - न वक्तव्यम् ।२८ - ४० - अकर्मकाणाम् इति उच्यते न च के चित् कालभावाध्वभिः अकर्मकाः ।२९ - ४० - ते एवम् विज्ञास्यामः ।३० - ४० - क्व चित् ये अकर्मकाः इति ।३१ - ४० - अथ वा येन कर्मणा सकर्मकाः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् ।३२ - ४० - न च एतेन कर्मणा कः चिद् अपि अकर्मकः ।३३ - ४० - अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् ।३४ - ४० - न च एतत् कर्म क्व चित् अपि न भवति ।३५ - ४० - न तर्हि इदानीम् इदम् सूत्रम् वक्तव्यम् ।३६ - ४० - वक्तव्यम् च ।३७ - ४० - किम् प्रयोजनम् ।३८ - ४० - यत्र अक्रियया अत्यन्तसंयोगः तदर्थम् ।३९ - ४० - क्रोशम् कुटिला नदी ।४० - ४० - क्रोशम् रमणीया वनराजिः ।१ - ३ - क्रियापर्वर्गे इति वक्तव्यम् ।२ - ३ - साधनापवर्गे मा भूत् ।३ - ३ - मासम् अधीतः अनुवाको न च अनेन गृहीतः इति ।१ - ९ - क्रियामध्ये इति वक्तव्यम् ।२ - ९ - इह अपि यथा स्यात् ।३ - ९ - अद्य देवदत्तः भुक्त्वा द्व्यहात् भोक्ता द्व्यहे भोक्ता ।४ - ९ - कारकमध्ये इति इयति उच्यमाने इह एव स्यात् ॒ इहस्थः अयम् इष्वासः क्रोशात् लक्ष्यम् विध्यति क्रोशे लक्ष्यम् विध्यति ।५ - ९ - यम् च विध्यति यतः च विध्यति उभयोः तन्मध्यम् भवति ।६ - ९ - तत् तर्हि वक्तव्यम् ।७ - ९ - न वक्तव्यम् ।८ - ९ - न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः भवति ।९ - ९ - क्रियामध्यम् चेत् कारकमध्यम् अपि भवति तत्र कारकमध्ये इति एव सिद्धम् ।१ - २३ - कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् सप्तमीपञ्चम्योः प्रतिषेधार्थम् ।२ - २३ - कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् कर्तव्यम् ।३ - २३ - वृक्षम् प्रति विद्योतते विद्युत् ।४ - २३ - वृक्षम् परि ।५ - २३ - वृक्षमनु ।६ - २३ - साधुः देवदत्तः मातरम् प्रति ।७ - २३ - मातरम् परि ।८ - २३ - मातरम् अनु ।९ - २३ - किम् प्रयोजनम् ।१० - २३ - सप्तमीपञ्चम्योः प्रतिषेधार्थम् ।११ - २३ - सप्तमीपञ्चम्यौ मा भूताम् इति ।१२ - २३ - साधुनिपुणाभ्याम् अर्चायाम् सप्तमी इति सप्तमी ।१३ - २३ - पञ्चमी अपाङ्परिभिः इति पञ्चमी ।१४ - २३ - तत्र अयम् अपि अर्थः अप्रतेः इति न वक्तव्यम् भवति ।१५ - २३ - तत् तर्हि वक्तव्यम् ।१६ - २३ - न वक्तव्यम् ।१७ - २३ - उक्तं वा ।१८ - २३ - किम् उक्तम् ।१९ - २३ - एकत्र तावत् उक्तम् अप्रतेः इति ।२० - २३ - इतरत्र अपि यदि अपि तावत् अयम् परिः दृष्टापचारः वर्जने च अवर्जने च अयं खलु अपशब्दः अदृष्टापचारः वर्जनार्थः एव ।२१ - २३ - तस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः वर्जनार्थात् ।२२ - २३ - तत् यथा ।२३ - २३ - अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।१ - ५५ - कथम् इदम् विज्ञायते ।२ - ५५ - यस्य च ऐश्वर्यम् ईश्वरता ईश्वरभावः तस्मात् कर्मप्रवचनीययुक्तात् इति ।३ - ५५ - आहोस्वित् यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति ।४ - ५५ - कः च अत्र विशेषः ।५ - ५५ - यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम् ।६ - ५५ - यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अन्तरेण वचनम् सिद्धम् ।७ - ५५ - अधि ब्रह्मदत्ते पञ्चालाः ।८ - ५५ - आधृताः ते तस्मिन् भवन्ति ।९ - ५५ - सत्यम् एवम् एतत् ।१० - ५५ - नित्यम् परिग्रहीतव्यम् परिग्रहीत्रधीनम् भवति ।११ - ५५ - प्रथमानुपपत्तिः तु । प्रथमा न उपपद्यते ।१२ - ५५ - कुतः ।१३ - ५५ - पञ्चालेभ्यः ।१४ - ५५ - का तर्हि स्यात् ।१५ - ५५ - षष्ठीसप्तम्यौ ।१६ - ५५ - स्वामीश्वराधिपति इति ।१७ - ५५ - न तत्र अधिशब्दः पठ्यते ।१८ - ५५ - यदि अपि न पठ्यते अधिः ईश्वरवाची ।१९ - ५५ - न तत्र पर्यायवचनानाम् ग्रहणम् ।२० - ५५ - कथम् ज्ञायते ।२१ - ५५ - यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति ॒ अधिपतिदायाद इति ।२२ - ५५ - षष्ठी तर्हि प्राप्नोति ।२३ - ५५ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।२४ - ५५ - द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ।२५ - ५५ - सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति ।२६ - ५५ - भवेत् यः अधेः ब्रहमदत्तस्य च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् ।२७ - ५५ - यः तु खलु अधेः पञ्चालानाम् च अभिसम्बन्धः तत्र द्वितीया प्राप्नोति ।२८ - ५५ - स्ववचनात् सिद्धम् । अस्तु यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति ।२९ - ५५ - एवम् अपि अन्तरेण वचनम् सिद्धम् ।३० - ५५ - अधि ब्रह्मदत्तः पञ्चालेषु ।३१ - ५५ - आधृतः स तेषु भवति ।३२ - ५५ - सत्यम् एवम् एतत् ।३३ - ५५ - नित्यम् परिग्रहीता परिग्रहीतव्याधीनः भवति ।३४ - ५५ - प्रथमानुपपत्तिः तु ।३५ - ५५ - प्रथमा न उपपद्यते ।३६ - ५५ - कुतः ।३७ - ५५ - ब्रह्मदत्तात् ।३८ - ५५ - का तर्हि स्यात् ।३९ - ५५ - षष्ठीसप्तम्यौ ।४० - ५५ - स्वामीश्वराधिपति इति ।४१ - ५५ - न तत्र अधिशब्दः पठ्यते ।४२ - ५५ - यदि अपि न पठ्यते अधिः ईश्वरवाची ।४३ - ५५ - न तत्र पर्यायवचनानाम् ग्रहणम् ।४४ - ५५ - कथम् ज्ञायते ।४५ - ५५ - यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति ।४६ - ५५ - अधिपतिदायाद इति ।४७ - ५५ - षष्ठी तर्हि प्राप्नोति ।४८ - ५५ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।४९ - ५५ - द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ।५० - ५५ - सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति ।५१ - ५५ - भवेत् यः धेः पञ्चालानाम् च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् यः तु खलु अधेः ब्रह्मदत्तस्य च अभिसंबन्धः तत्र द्वितीया प्राप्नोति ।५२ - ५५ - एवं तर्हि स्ववचनात् सिद्धम् ।५३ - ५५ - अधिः स्वम् प्रति कर्मप्रवचनीयसंज्ञः भवति इति वक्तव्यम् ।५४ - ५५ - एवम् अपि यदा ब्रह्मदत्ते अधिकरणे सप्तमी तदा पञ्चालेभ्यः द्वितीया प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीय इति ।५५ - ५५ - उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति१ - २९ - अध्वनि अर्थग्रहणम् । अध्वनि अर्थग्रहणम् कर्तव्यम् ।२ - २९ - इह अपि मा भूत् ।३ - २९ - पन्थानम् गच्छति ।४ - २९ - वीवधम् गच्छत् इ इति ।५ - २९ - आस्थितप्रतिषेधः च ।६ - २९ - आस्थितप्रतिषेधः च अयम् वक्तव्यः ।७ - २९ - यः हि उत्पथेन पन्थानम् गच्छति पथे गच्छति इति एव तत्र भवितव्यम् ।८ - २९ - किम् अर्थम् पुनः इदम् उच्यते ।९ - २९ - चतुर्थी यथा स्यात् ।१० - २९ - अथ द्वितीया सिद्धा ।११ - २९ - सिद्धा कर्मणि इति एव ।१२ - २९ - चतुर्थी अपि सिद्धा ।१३ - २९ - । कथम् ।१४ - २९ - सम्प्रदाने इति एव ।१५ - २९ - न सिध्यति ।१६ - २९ - कर्मणा यम् अभिप्रैति सः संप्रदानम् इति उच्यते ।१७ - २९ - क्रियया च असौ ग्रामम् अभिप्रैति ।१८ - २९ - कया क्रियया ।१९ - २९ - गमिक्रियया ।२० - २९ - क्रियाग्रहणम् अपि तत्र चोद्यते ।२१ - २९ - चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः ।२२ - २९ - चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः भवति ।२३ - २९ - सिद्धम् तु असम्प्राप्तवचनात् ।२४ - २९ - सिद्धम् एतत् ।२५ - २९ - कथम् ।२६ - २९ - असम्प्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवतः इति वक्तव्यम् ।२७ - २९ - अध्वनः च अनपवादः ।२८ - २९ - एवम् च कृत्वा अनध्वनि इति एतत् अपि न वक्तव्यम् भवति ।२९ - २९ - सम्प्राप्तम् हि एतत् कर्म अध्वानम् गच्छति इति ।१ - ४० - चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् । चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् कर्तव्यम् ।२ - ४० - यूपाय दारु कुण्डलाय हिरण्यम् ।३ - ४० - किम् इदम् तादर्थ्यम् इति ।४ - ४० - तदर्थस्य भावः तादर्थ्यम् ।५ - ४० - तदर्थम् पुनः किम् ।६ - ४० - सर्वनाम्नः अयम् चतुर्थ्यन्तस्य अर्थशब्देन सह समासः ।७ - ४० - कथम् च अत्र चतुर्थी ।८ - ४० - अनेन एव ।९ - ४० - यदि एवम् इतरेतराश्रयम् भवति ।१० - ४० - का इतरेतराश्रयता ।११ - ४० - निर्देशोत्तरकालम् चतुर्थ्या भवितव्यम् चतुर्थ्या च निर्देशः तत् इतरेतराश्रयम् भवति ।१२ - ४० - इतरेतराश्रयाणि च न प्रकल्पन्ते ।१३ - ४० - तत् तर्हि वक्तव्यम् ।१४ - ४० - न वक्तव्यम् ।१५ - ४० - आचार्यप्रवृत्तिः ज्ञापयति भवति अर्थशब्देन योगे चतुर्थी इति यत् अयम् चर्तुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य अर्थशब्देन सह समासम् शास्ति ।१६ - ४० - न खलु अपि अवश्यं चतुर्थ्यन्तस्य एव अर्थशब्देन सह समासः भवति ।१७ - ४० - किम् तर्हि ।१८ - ४० - षष्ठ्यन्तस्य अपि भवति ।१९ - ४० - तत् यथा ।२० - ४० - गुरोः इदम् गुर्वर्थम् इति ।२१ - ४० - यदि तादर्थ्ये उपसङ्ख्यानम् क्रियते न अर्थः सम्प्रदानग्रहणेन ।२२ - ४० - यः अपि हि उपाध्यायाय गौः दीयते उपाध्यायार्थः सः भवति ।२३ - ४० - तत्र तादर्थ्ये इति एव सिद्धम् ।२४ - ४० - अवश्यम् संप्रदानग्रहणम् कर्तव्यम् या अन्येन लक्षणेन सम्प्रदानसञ्ज्ञा तदर्थम् ।२५ - ४० - छात्राय रुचितम् ।२६ - ४० - छात्राय स्वदितम् इति ।२७ - ४० - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।२८ - ४० - न कर्तव्यम् ।२९ - ४० - आचार्यप्रवृत्तिः ज्ञापयति भवति तादर्थ्ये चतुर्थी इति यत् अयम् चतुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य तदर्थेन सह समासम् शास्ति ।३० - ४० - क्ल्̥पि सम्पद्यमाने ।३१ - ४० - क्ल्̥पि सम्पद्यमाने चतुर्थी वक्तव्या ।३२ - ४० - मूत्राय कल्पते यवागूः ।३३ - ४० - उच्चाराय कल्पते यवान्नम् इति ।३४ - ४० - उत्पातेन ज्ञाप्यमाने ।३५ - ४० - उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या ।३६ - ४० - वाताय कपिला विद्युत् आतपाय अतिलोहिनी पीता भवति सस्याय दुर्भिक्षाय सिता भवेत् ।३७ - ४० - मांसौदनाय व्याहरति मृगः ।३८ - ४० - हितयोगे च ।३९ - ४० - हितयोगे चतुर्थी वक्तव्या ।४० - ४० - । हितम् अरोचकिने हितम् आमयाविने ।१ - १७ - स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् ।२ - १७ - स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् भवति विप्रतिषेधेन ।३ - १७ - स्वस्तियोगे चतुर्थ्याः अवकाशः स्वस्ति जाल्माय स्वस्ति वृषलाय ।४ - १७ - कुशलार्थैः आशिषि वाविधानस्य अवकाशः अन्ये कुशलार्थाः ।५ - १७ - कुशलम् देवत्ताय कुशलम् देवदत्तस्य ।६ - १७ - इह उभयम् प्राप्नोति ।७ - १७ - स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्यः इति ।८ - १७ - चतुर्थी भवति विप्रतिषेधेन ।९ - १७ - अलमिति पर्याप्त्यर्थग्रहणम् ।१० - १७ - अलमिति पर्याप्त्यर्थग्रहणम् कर्तव्यम् ।११ - १७ - इह मा भूत् ।१२ - १७ - अलङ्कुरुते कन्याम् इति ।१३ - १७ - अपरः आह ॒ अलम् इति पर्याप्त्यर्थग्रहणम् कर्तव्यम् ।१४ - १७ - इह अपि यथा स्यात् ।१५ - १७ - अलम् मल्लः मल्लाय ।१६ - १७ - प्रभुःमल्लः मल्लाय ।१७ - १७ - प्रभवति मल्लः मल्लाय इति ।१ - १३ - अप्राणिषु इति उच्यते ।२ - १३ - तत्र इदम् न सिध्यति ॒ न त्वा श्वानम् मन्ये , न त्वा शुने मन्ये इति ।३ - १३ - एवम् तर्हि योगविभागः करिष्यते ।४ - १३ - मन्यकर्मणि अनादरे विभाषा ।५ - १३ - ततः अप्राणिषु ।६ - १३ - अप्राणिषु च विभाषा इति ।७ - १३ - इह अपि तर्हि प्राप्नोति ॒ न त्वा काकम् मन्ये , न त्वा शुकम् मन्ये इति ।८ - १३ - यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि ।९ - १३ - इमे च नावादयः भविष्यन्ति ।१० - १३ - न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् ।११ - १३ - न त्वा अन्नम् मन्ये यावत् भुक्तम् न श्राद्धम् ।१२ - १३ - अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति ।१३ - १३ - मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् । मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् ॒ त्वाम् तृणम् मन्ये इति ।१ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् ।२ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् ।४ - ३३ - प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः ।५ - ३३ - प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः ।६ - ३३ - माठरः अस्मि गोत्रेण. गार्ग्यः अस्मि गोत्रेण ।७ - ३३ - समेन धावति ।८ - ३३ - विषमेण धावति ।९ - ३३ - द्विद्रोणेन धान्यम् क्रीणाति ।१० - ३३ - त्रिद्रोणेन धान्यम् क्रीणाति ।११ - ३३ - पञ्चकेन पशून् क्रीणाति ।१२ - ३३ - साहस्रेण अश्वान् क्रीणाति. तत् तर्हि वक्तव्यम् ।१३ - ३३ - न वक्तव्यम् ।१४ - ३३ - कर्तृकरणयोः तृतीया इति एव सिद्धम् ।१५ - ३३ - इह तावत् प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः इति प्रकृतिकृतम् तस्य आभिरूप्यम् ।१६ - ३३ - प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः इति ।१७ - ३३ - एषः तत्र प्रायः येन ते अधीयते ।१८ - ३३ - माठरः अस्मि गोत्रेण. गार्ग्यः अस्मि गोत्रेण इति ।१९ - ३३ - एतेन अहम् सञ्ज्ञाये ।२० - ३३ - समेन धावति ।२१ - ३३ - विषमेण धावति ।२२ - ३३ - इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते समेन पथा धावति विषमेण पथा धावतीति ।२३ - ३३ - द्विद्रोणेन धान्यम् क्रीणाति ।२४ - ३३ - त्रिद्रोणेन धान्यम् क्रीणाति ।२५ - ३३ - तादर्थ्यात् ताच्छब्द्यम् ।२६ - ३३ - द्विद्रोणार्थम् द्विद्रोणम् ।२७ - ३३ - द्विद्रोणेन हिरण्येन धान्यम् क्रीणाति इति ।२८ - ३३ - पञ्चकेन पशून् क्रीणाति इति ।२९ - ३३ - अत्र अपि तादर्थ्यात् ताच्छब्द्यम् ।३० - ३३ - पञ्चपश्वर्थः पञ्चकः ।३१ - ३३ - पञ्चकेन पशून् क्रीणाति इति ।३२ - ३३ - साहस्रेण अश्वान् क्रीणाति इति. सहस्रपरिमाणम् साहस्रम् ।३३ - ३३ - साहस्रेण हिरण्येन अश्वान् क्रीणाति इति.१ - २८ - किम् उदाहरणम् ।२ - २८ - तिलैः सह माषान् वपति इति ।३ - २८ - न एतत् अस्ति ।४ - २८ - तिलैः मिश्रीकृत्य माषाः उप्यन्ते ।५ - २८ - तत्र करणे इति एव सिद्धम् ।६ - २८ - इदम् तर्हि ।७ - २८ - पुत्रेण सह आगतः देवदत्तः इति ।८ - २८ - अप्रधाने कर्तरि तृतीया यथा स्यात् ।९ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।१० - २८ - प्रधाने कर्तरि लादयः भवन्ति इति प्रधानकर्ता क्तेन अभिधीयते यः च अप्रधानम् सिद्धा तत्र कर्तरि इति एव तृतीया ।११ - २८ - इदम् तर्हि ।१२ - २८ - पुत्रेण सह आगमनम् देवदत्तस्य इति ।१३ - २८ - षष्ठी अत्र बाधिका भविष्यति ।१४ - २८ - इदम् तर्हि ।१५ - २८ - पुत्रेण सह स्थूलः ।१६ - २८ - पुत्रेण सह पिङ्गलः इति ।१७ - २८ - इदम् च अपि उदाहरणम् तिलैः सह माषान् वपति इति ।१८ - २८ - ननु च उक्तम् तिलैः मिश्रीकृत्य माषाः उप्यन्ते ।१९ - २८ - तत्र करणे इति एव सिद्धम् इति ।२० - २८ - भवेत् सिद्धम् यदा तिलैः मिश्रीकृत्य उप्येरन् ।२१ - २८ - यदा तु खलु कस्य चिन् माषबीजावापः उपस्थितः तदर्थम् च क्षेत्रम् उपार्जितम् तत्र अन्यत् अपि किं चिद् उप्यते यदि भविष्यति भविष्यति इति तदा न सिध्यति ।२२ - २८ - सहयुक्ते अप्रधानवचनम् अनर्थकम् उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् अन्यत्र अपि ।२३ - २८ - सहयुक्ते अप्रधानवचनम् अनर्थकम् ।२४ - २८ - किं कारणम् ।२५ - २८ - उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् ।२६ - २८ - अन्यत्र अपि कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति ।२७ - २८ - क्व अन्यत्र ।२८ - २८ - गाः स्वामी व्रजति इति ।१ - ८ - इह कस्मात् न भवति ।२ - ८ - अक्षि काणम् अस्य इति ।३ - ८ - अङ्गात् विकृतात् तद्विकारतः चेत् अङ्गिनः वचनम् ।४ - ८ - अङ्गात् विकृतात् तृतीया वक्तव्या तेन एव चेत् विकारेण अङ्गी द्योत्यते इति वक्तव्यम् ।५ - ८ - तत् तर्हि वक्तव्यम् ।६ - ८ - न वक्तव्यम् ।७ - ८ - अङ्गशब्दः अयम् समुदायशब्दः येन इति च करणे एषा तृतीया ।८ - ८ - येन अवयवेन समुदायः अङ्गी द्योत्यते तस्मिन् भवितव्यम् न च एतेन अवयवेन समुदायः द्योत्यते ।१ - १४ - इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः ।२ - १४ - इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः वक्तव्यः ।३ - १४ - अपि भवान्कमण्डलुपाणिम् छात्रम द्राक्षीत् इति ।४ - १४ - न वा इत्थम्भूतस्य लक्षणेन अपृथग्भावात् ।५ - १४ - न वा वक्तव्यम् ।६ - १४ - किम् कारणम् ।७ - १४ - इत्थम्भूतस्य लक्षणेन अपृथग्भावात् ।८ - १४ - यत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् तत्र भवितव्यम् ।९ - १४ - न च अत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् ।१० - १४ - किम् वक्तव्यम् एतत् ।११ - १४ - न हि ।१२ - १४ - कथम् अनुच्यमानम् गंस्यते ।१३ - १४ - तथा हि अयम् प्राधान्येन लक्षणम् प्रतिनिर्दिशति ।१४ - १४ - इत्थम्भूतस्य लक्षणम् इत्थंभूतलक्षणम् तस्मिन् नित्थंभूतलक्षणे इति ।१ - ३१ - सञ्ज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन । सञ्ज्ञः अन्यतरस्याम् कर्मणि इति एतस्मात् कृप्रयोगे षष्ठी भवति विप्रतिषेधेन ।२ - ३१ - सञ्ज्ञः अन्यतरस्याम् इति अस्य अवकाशः ।३ - ३१ - मातरम् सञ्जानीते ।४ - ३१ - मात्रा सञ्जानीते ।५ - ३१ - कृत्प्रयोगे षष्ठ्याः अवकाशः ।६ - ३१ - इध्मप्रव्रश्चनः पलाशशातनः ।७ - ३१ - इह उभयम् प्राप्नोति ।८ - ३१ - मातुः सञ्ज्ञाता ।९ - ३१ - पितुः सञ्ज्ञाता इति ।१० - ३१ - षष्ठी भवति विप्रतिषेधेन ।११ - ३१ - उपपदविभक्तेः च उपपदविभक्तिः । उपपदविभक्तेः च उपपदविभक्तिः भवति विप्रतिषेधेन । अन्यारादितरेर्तदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति अस्य अवकाशः ।१२ - ३१ - अन्यः देवदत्तात् ।१३ - ३१ - स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः च इति अस्य अवकाशः ।१४ - ३१ - गोषु स्वामी ।१५ - ३१ - गवां स्वामी ।१६ - ३१ - इह उभयम् प्राप्नोति ।१७ - ३१ - अन्यः गोषु स्वामी ।१८ - ३१ - अन्यः गवां स्वामी इति ।१९ - ३१ - स्वामीश्वराधिपति इति एतत् भवति विप्रतिषेधेन ।२० - ३१ - न एषः युक्त्ः विप्रतिषेधः ।२१ - ३१ - न हि अत्र गावः अन्ययुक्ताः ।२२ - ३१ - कः तर्हि ।२३ - ३१ - स्वामी ।२४ - ३१ - एवम् तर्हि तुल्यार्थः अतुलोपमाभ्याम् तृतीया अन्यतरस्याम् इति अस्य अवकाशः ।२५ - ३१ - तुल्यः देवदत्तस्य ।२६ - ३१ - तुल्यः देवदत्तेन इति ।२७ - ३१ - स्वामीश्वराधिपति इति अस्य वकाशः सः एव ।२८ - ३१ - इह उभयम् प्राप्नोति ।२९ - ३१ - तुल्यः गोभिः स्वामी ।३० - ३१ - तुल्यः गवां स्वामी इति ।३१ - ३१ - तुल्यार्थः रतुलोपमाभ्याम् इति एतत् भवति विप्रतिषेधेन ।१ - २० - निमित्तकारणहेतुषु सर्वासाम् प्रायदर्शनम् । निमित्तकारणहेतुषु सर्वा विभक्तयः प्रायेण दृश्यन्ते इति वक्तव्यम् ।२ - २० - किम् निमित्तम् वसति ।३ - २० - केन निमित्तेन वसति ।४ - २० - कस्मै निमित्ताय वसति ।५ - २० - कस्मात् निमित्तात् वसति ।६ - २० - कस्य निमित्तस्य वसति ।७ - २० - कस्मिन् निमित्ते वसति ।८ - २० - किम् कारणम् वसति ।९ - २० - केन कारणेन वसति ।१० - २० - कस्मै कारणाय वसति ।११ - २० - कस्मात् कारणात् वसति ।१२ - २० - कस्य कारणस्य वसति ।१३ - २० - कस्मिन् कारणे वसति ।१४ - २० - कः हेतुः वसति ।१५ - २० - कम् हेतुम् वसति ।१६ - २० - केन हेतुना वसति ।१७ - २० - कस्मै हेतवे वसति ।१८ - २० - कस्मात् हेतोः वसति ।१९ - २० - कस्य हेतोः वसति ।२० - २० - कस्मिन् हेतौ वसति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP