पाद २ - खण्ड २५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १३ - इह कस्मात् न भवति ॒ ग्रामार्धः , नगरार्धः इति ।

२ - १३ - अर्धशब्दस्य नपुंसकलिङ्गस्य इदम् ग्रहणम् पुंलिङ्गः च अयम् अर्धशब्दः ।

३ - १३ - क्व पुनः अयम् नपुंसकलिङ्गः क्व पुंलिङ्गः ।

४ - १३ - समप्रविभागे नपुंसकलिङ्गः , अवयववाची पुंलिङ्गः ।

५ - १३ - इह कस्मात् न भवति ॒ अर्धम् पिप्पलीनाम् इति ।

६ - १३ - न वा भवति अर्धपिप्पल्यः इति ।

७ - १३ - भवति यदा खण्डसमुच्चयः ॒ अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति ।

८ - १३ - यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् ।

९ - १३ - तदा कस्मात् न भवति ।

१० - १३ - एकाद्खिकरणे इति वर्तते ।

११ - १३ - न तर्हि इदानीम् इदम् भवति ॒ अर्धराशिः इति ।

१२ - १३ - भवति ।

१३ - १३ - एकम् एतत् अधिकरणम् यः असौ राशिः नाम ।

१ - ६४ - अन्यतरस्याङ्ग्रहणम् किमर्थम् ।

२ - ६४ - अन्यतरस्याम् समासः यथा स्यात् ।

३ - ६४ - समासेन मुक्ते वाक्यम् अपि यथा स्यात् ।

४ - ६४ - द्वितीयम् भिक्षायाः इति ।

५ - ६४ - न एतत् अस्ति प्रयोजनम् ।

६ - ६४ - प्रकृता महाविभाषा ।

७ - ६४ - तया वाक्यम् अपि भविष्यति ।

८ - ६४ - इदम् तर्हि प्रयोजनम् ।

९ - ६४ - एकदेशिसमासेन मुक्ते षष्ठीसमासः अपि यथा स्यात् ।

१० - ६४ - भिक्षाद्वितीयम् इति ।

११ - ६४ - एतत् अपि न अस्ति प्रयोजनम् ।

१२ - ६४ - अयम् अपि विभाषा षष्ठीसमासः अपि ।

१३ - ६४ - तौ उभौ वचनात् भविष्यतः ।

१४ - ६४ - अतः उत्तरम् पठति ।

१५ - ६४ - द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् ज्ञापकम् अवयवविधाने सामान्यविधानाभावस्य ।

१६ - ६४ - द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् क्रियते ज्ञापार्थम् ।

१७ - ६४ - किम् ज्ञाप्यते ।

१८ - ६४ - एतत् ज्ञापयति आचार्यः ।

१९ - ६४ - अवयवविधौ सामान्यविधिः न भवति इति ।

२० - ६४ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२१ - ६४ - भिनत्ति छिनत्ति ।

२२ - ६४ - श्नमि कृते शप् न भवति ।

२३ - ६४ - न एतत् अस्ति प्रयोजनम् ।

२४ - ६४ - शबादेशाः श्यनादयः करिष्यन्ते ।

२५ - ६४ - तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

२६ - ६४ - न कर्तव्यम् ।प्रकृतम् अनुवर्तते ।

२७ - ६४ - क्व प्रकृतम् ।

२८ - ६४ - कर्तरि शप् इति ।

२९ - ६४ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

३० - ६४ - रुधादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

३१ - ६४ - प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

३२ - ६४ - न अयम् प्रत्ययविधिः ।

३३ - ६४ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

३४ - ६४ - एवम् तर्हि ज्ञापयति आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति ।

३५ - ६४ - किम् एतस्य ज्ञापने प्रयोजनम् ।

३६ - ६४ - दिक्पूर्वपदात् ङीप् ।

३७ - ६४ - प्राङ्मुखी प्राङ्मुखा प्रत्यङ्मुखी प्रत्यङ्मुखा ।

३८ - ६४ - ङीप मुक्ते ङीष् न भवति ।

३९ - ६४ - न एतत् अस्ति प्रयोजनम् ।

४० - ६४ - वक्ष्यति एतत् ।

४१ - ६४ - दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् ङीब्विधाने हि अन्यत्र अपि ङीष्विषयात् ङीप्प्रसङ्गः इति ।

४२ - ६४ - इदम् तर्हि प्रयोजनम् ।

४३ - ६४ - अर्धपिप्पली अर्धकोशातकी ।

४४ - ६४ - एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

४५ - ६४ - उन्मत्तगङ्गम् लोहितगङ्गम् ।

४६ - ६४ - अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति ।

४७ - ६४ - दाक्षिः प्लाक्षिः ।

४८ - ६४ - इञा मुक्ते अण् न भवति ।

४९ - ६४ - यदि एतत् ज्ञाप्यते उपगोः अपत्यम् औपगवः ।

५० - ६४ - तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति ।

५१ - ६४ - अस्ति अत्र विशेषः ।

५२ - ६४ - द्वे हि अत्र विभाषा ।

५३ - ६४ - दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च ।

५४ - ६४ - तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः ।

५५ - ६४ - क्रियमाणे अपि वै अन्यतरस्याङ्ग्रहणे षष्ठीसमासः न प्राप्नोति ।

५६ - ६४ - किम् कारणम् ।

५७ - ६४ - पूरणेन इति प्रतिषेधात् ।

५८ - ६४ - न एतत् पूरणान्तम् ।

५९ - ६४ - अना एतत् पर्यवपन्नम् ।

६० - ६४ - एतत् अपि पूरणान्तम् एव ।

६१ - ६४ - कथ. पूरणम् नाम अर्थः तम् आह तीयशब्दः ।

६२ - ६४ - अतः पूरणम् ।

६३ - ६४ - यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव ।

६४ - ६४ - एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति ।

१ - २० - किमर्थः चकारः ।

२ - २० - अनुकरषणार्थः ।

३ - २० - अन्यतरस्याम् इति एतत् अनुकृष्यते ।

४ - २० - किम् प्रयोजनम् ।

५ - २० - अन्यतरस्याम् समासः यथा स्यात् ।

६ - २० - समासेन मुक्ते वाक्यम् अपि यथ स्यात् ।

७ - २० - जीविकाम् प्राप्तः इति ।

८ - २० - न एतत् अस्ति प्रयोजनम् ।

९ - २० - प्रकृता महाविभाषा ।

१० - २० - तया वाक्यम् भविष्यति ।

११ - २० - इदम् तर्हि प्रयोजनम् ।

१२ - २० - द्वितीयासमासः अपि यथ स्यात् ।

१३ - २० - जीविकाप्राप्तः इति ।

१४ - २० - एतत् अपि न अस्ति प्रयोजनम्. अयम् अपि उच्यते द्वितीयासमासः अपि ।

१५ - २० - तत् उभयम् वचनात् भविष्यति ।

१६ - २० - एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः ।

१७ - २० - किम् तर्हि ।

१८ - २० - अत्वम् अनेन विधीयते ।

१९ - २० - प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति ।

२० - २० - प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका ।

१ - १२ - किम्प्रधानः अयम् समासः ।

२ - १२ - उत्तरपदार्थप्रधानः ।

३ - १२ - यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् ।

४ - १२ - अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि श्रवणम् भवति ॒ राज्ञः पुरुषः राजपुरुषः इति ।

५ - १२ - इह पुनः वाक्ये षष्ठी समासे प्रथमा ।

६ - १२ - केन एतत् एवम् भवति ।

७ - १२ - यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते ।

८ - १२ - अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

९ - १२ - तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति ।

१० - १२ - न तर्हि इदानीम् इदम् भवति ॒ मासजातस्य इति ।

११ - १२ - भवति ।

१२ - १२ - बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।

१ - ३६ - कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः ।

२ - ३६ - कालस्य येन समासः सः अपरिमाणी ।

३ - ३६ - तस्य अपरिमाणित्वात् अनिर्देशः ।

४ - ३६ - अगमकः निर्देशः अनिर्देशः ।

५ - ३६ - न हि जातस्य मासः परिमाणम् ।

६ - ३६ - कस्य तर्हि ।

७ - ३६ - त्रिंशद्रात्रस्य ।

८ - ३६ - तत् यथा ।

९ - ३६ - द्रोणः बदराणाम् देवदत्तस्य इति ।

१० - ३६ - न देवदत्तस्य द्रोणः परिमाणम् ।

११ - ३६ - कस्य तर्हि ।

१२ - ३६ - बदराणाम् ।

१३ - ३६ - सिद्धम् तु कालपरिमाणम् यस्य स कालः तेन ।

१४ - ३६ - सिद्धम् एतत् ।

१५ - ३६ - कथम् ।

१६ - ३६ - कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् ।

१७ - ३६ - सिध्यति ।

१८ - ३६ - सूत्रम् तर्हि भिद्यते ।

१९ - ३६ - यथान्यासम् एव अस्तु ।

२० - ३६ - ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति ।

२१ - ३६ - कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति ।

२२ - ३६ - येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः ।

२३ - ३६ - तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च ।

२४ - ३६ - कया क्रियया ।

२५ - ३६ - आदित्यगत्या ।

२६ - ३६ - तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च ।

२७ - ३६ - यदि एवम् जातस्य मासः परिमाणम् ।

२८ - ३६ - एकवचनद्विगोः च उपसङ्ख्यानम् । एकवचनान्तानाम् इति वक्तव्यम् ।

२९ - ३६ - इह मा भूत् ।

३० - ३६ - मासौ जातस्य मासाः जातस्य इति ।

३१ - ३६ - द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् ॒ द्विमासजातः , त्रिमासजातः ।

३२ - ३६ - उक्तम् वा ।

३३ - ३६ - किम् उक्तम् ।

३४ - ३६ - एकवचने तावत् उक्तम् अनभिधानात् इति ।

३५ - ३६ - द्विगोः किम् उक्तम् ।

३६ - ३६ - उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति ।

१ - ९३ - किम्प्रधानः अयम् समासः ।

२ - ९३ - उत्तरपदार्थप्रधानः ।

३ - ९३ - यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति ।

४ - ९३ - अन्यपदार्थप्रधानः तर्हि भविष्यति ।

५ - ९३ - यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि प्राप्नोति ।

६ - ९३ - पूर्वपदार्थप्रधानः तर्हि भविष्यति ।

७ - ९३ - यदि पूर्वपदार्थप्रधानः अव्ययसञ्ज्ञा प्राप्नोति ॒ अव्ययम् हि अस्य पूर्वपदम् इति ।

८ - ९३ - न एषः दोषः ।

९ - ९३ - पाठेन अव्ययसञ्ज्ञा क्रियते ।

१० - ९३ - न च नञ्समासः तत्र पठ्यते ।

११ - ९३ - यदि अपि नञ्समासः न पठ्यते नञ् तु पठ्यते ।

१२ - ९३ - पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति ।

१३ - ९३ - यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

१४ - ९३ - न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व ।

१५ - ९३ - किम् तर्हि ।

१६ - ९३ - स्वाभाविकम् एतत् ।

१७ - ९३ - तत् यथा॒ समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

१८ - ९३ - न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।

१९ - ९३ - तत्र किम् अस्माभिः शक्यम् कर्तुम् ।

२० - ९३ - यत् नञः प्राक् समासात् लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् ।

२१ - ९३ - अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

२२ - ९३ - गुङवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।

२३ - ९३ - तत् यथा ॒ शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

२४ - ९३ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

२५ - ९३ - एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।

२६ - ९३ - अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः ।

२७ - ९३ - ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति ।

२८ - ९३ - न एषः दोषः ।

२९ - ९३ - इदम् तावत् अयम् प्रष्टव्यः ॒ अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति ।

३० - ९३ - अस्ति अत्र विशेषः ।

३१ - ९३ - राजा विशेषकः प्रयुज्यते ।

३२ - ९३ - तेन विशिष्टस्य आनयनम् भवति ।

३३ - ९३ - इह अपि तर्हि नञ् विशेषकः प्रयुज्यते ।

३४ - ९३ - तेन नञ्विशिष्टस्य आनयनम् भविष्यति ।

३५ - ९३ - कः पुनः असौ ।

३६ - ९३ - निवृत्तपदार्थकः ।

३७ - ९३ - यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी ।

३८ - ९३ - किम् च अतः ।

३९ - ९३ - यदि स्वाभाविकी किम् नञ् प्रयुज्यमानः करोति ।

४० - ९३ - अथ वाचनिकी तत् वक्तव्यम् ॒ नञ् प्रयुज्यमानः पदार्थम् निवर्तयति इति ।

४१ - ९३ - एवम् तर्हि स्वाभाविकी निवृत्तिः ।

४२ - ९३ - ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति ।

४३ - ९३ - नञ् प्रयुज्यमानः पदार्थम् निवर्तयति कथम् ।

४४ - ९३ - कीलप्रतिकीलवत् ।

४५ - ९३ - तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति ।

४६ - ९३ - यदि एतत् नञः माहात्म्यम् स्यात् न जातु चित् राजानः हस्त्यश्वम् बिभृयुः ।

४७ - ९३ - न इति एव राजानः ब्रूयुः ।

४८ - ९३ - एवम् तर्हि स्वाभाविकी निवृत्तिः ।

४९ - ९३ - ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति ।

५० - ९३ - नञ्निमित्ता तु उपलब्धिः ।

५१ - ९३ - तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् दर्शनम् न च तेषाम् प्रदीपः निर्वर्तकः भवति ।

५२ - ९३ - यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् ब्राह्मणशब्दः प्रयुज्यते ।

५३ - ९३ - एवम् यथा विज्ञयेत अस्य पदार्थः निवर्तते इति ।

५४ - ९३ - न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति ।

५५ - ९३ - तत्र असन्देहार्थम् ब्राह्मणशब्दः प्रयुज्यते ।

५६ - ९३ - एवम् वा एतत् ।

५७ - ९३ - अथ वा सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः वैश्यः शूद्रः इति । तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् ।

५८ - ९३ - तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः । तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति ।

५९ - ९३ - समुदायेषु च वृत्ताः शब्दाः अवयवेषु अपि वर्तन्ते. तद् यथा ।

६० - ९३ - पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति ।

६१ - ९३ - एवम् अयम् समुदाये ब्राह्मणशब्दः प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च ।

६२ - ९३ - गुणहीने तावत्. अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति ।

६३ - ९३ - अब्राह्मणः अयं यः गच्छन् भक्षयति ।

६४ - ९३ - जातिहीने सन्देहात् दुरुपदेशात् च ब्राह्मणशब्दः वर्तते ।

६५ - ९३ - सन्देहात् तावत् ॒ गौरम् शुच्याचारं पिङ्गलम् कपिलकेशम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति ।

६६ - ९३ - ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति ।

६७ - ९३ - तत्र सन्देहात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः ।

६८ - ९३ - दुरुपदेशात् ॒ दुरुपदिष्टम् अस्य भवति अमुष्मिन् अवकाशे ब्राह्मणः तम् आनय इति ।

६९ - ९३ - स तत्र गत्वा यम् पश्यति तम् अध्यवस्यति ब्राह्मणः अयम् इति ।

७० - ९३ - ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति ।

७१ - ९३ - तत्र दुरुपदेशात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः ।

७२ - ९३ - आतः च सन्देहात् दुरुपदेशात् वा ।

७३ - ९३ - न हि अयम् कालम् माषराशिवर्णम् आपणे आसीनम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति ।

७४ - ९३ - निर्ज्ञातम् तस्य भवति ।

७५ - ९३ - इदम् खलु अपि भूयः उत्तरपदार्थप्राधान्ये सति सङ्गृहीतम् भवति ।

७६ - ९३ - किम् ।

७७ - ९३ - अनेकम् इति ।

७८ - ९३ - किम् अत्र सङ्गृहीतम् ।

७९ - ९३ - एकवचनम् ।

८० - ९३ - कथम् पुनः एकस्य प्रतिषेधेन अनेकस्य सम्प्रत्ययः स्यात् ।

८१ - ९३ - प्रसज्य अयम् क्रियागुणौ ततः पश्चात् निवृत्तिम् करोति ।

८२ - ९३ - तत् यथा ॒ आसय शायय भोजय अनेकम् इति ।

८३ - ९३ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र क्रियागुणौ प्रसज्येते यत्र खलु न प्रसज्येते तत्र कथम् ॒ अनेकः तिष्ठति इति ।

८४ - ९३ - भवति च एवञ्जातीयकानाम् अपि एकस्य प्रतिषेधेन बहूनाम् सम्प्रत्ययः ।

८५ - ९३ - तत् यथा न नः एकम् प्रियम् न नः एकम् सुखम् इति ।

८६ - ९३ - इह अब्राह्मणत्वम् अब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः ।

८७ - ९३ - तत्र कः दोषः ।

८८ - ९३ - स्वरे हि दोषः स्यात् ।

८९ - ९३ - अब्राह्मणत्वम् इति एवम् स्वरः प्रसज्येत ।

९० - ९३ - अब्राह्मणत्वम् इति च इष्यते ।

९१ - ९३ - नञ्समासे भाववचने उक्तम् ।

९२ - ९३ - किम् उक्तम् ।

९३ - ९३ - त्वतल्भ्याम् नञ्समासः पूर्वप्रतिषिद्धम् स्वर्सिद्ध्यर्थम् इति ।

१ - ५ - ईषत् गुणवचनेन ।ईषत् गुणवचनेन इति वक्तव्यम् ।

२ - ५ - अकृता इति उच्यमाने इह च प्रसज्येत ।

३ - ५ - ईषत् गार्ग्यः इति ।

४ - ५ - इह च न स्यात् ।

५ - ५ - ईषत्कडारः ।

१ - ३१ - कृद्योगा च ।

२ - ३१ - कृद्योगा च षष्ठी समस्यते इति वक्तव्यम् ।

३ - ३१ - इध्मप्रव्रश्चनः पलाशशातनः ।

४ - ३१ - किमर्थम् इदम् उच्यते ।

५ - ३१ - प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति ।

६ - ३१ - तस्य अयम् पुरस्तात् अपकर्षः ।

७ - ३१ - का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा ।

८ - ३१ - सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणाम् वर्जयित्वा ।

९ - ३१ - कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा ।

१० - ३१ - तत्स्थैः च गुणैः ।

११ - ३१ - तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् ।

१२ - ३१ - ब्राह्मणवर्णः चन्दनगन्धः पटहशब्दः नधीघोषः ।

१३ - ३१ - न तु तद्विशेषणैः ।

१४ - ३१ - न तु तद्विशेषणैः इति वक्तव्यम् ।

१५ - ३१ - इह मा भूत् ।

१६ - ३१ - घृतस्य तीव्रः चन्दनस्य मृदुः इति ।

१७ - ३१ - किमर्थम् इदम् उच्यते ।

१८ - ३१ - गुणेन इति प्रतिषेधम् वक्ष्यति ।

१९ - ३१ - तस्य अयम् पुरस्तात् अपकर्षः ।

२० - ३१ - किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते ।

२१ - ३१ - न एवम् शक्यम् ।

२२ - ३१ - इह हि न स्यात् ।

२३ - ३१ - काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति ।

२४ - ३१ - एतत् एव तस्मिन् योगे उदाहरणम् ।

२५ - ३१ - यत् वै ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति ।

२६ - ३१ - कथम् असामर्थ्यम् ।

२७ - ३१ - सापेक्षम् असमर्थम् भवति इति ।

२८ - ३१ - द्रव्यम् अत्र अपेक्ष्यते दन्ताः ।

२९ - ३१ - तस्मात् गुणेन न इति वक्तव्यम् ।

३० - ३१ - गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् ।

३१ - ३१ - तत्स्थैः च गुणैः इति उच्यमाने न तु तद्विशेषणैः इति वक्तव्यम् ।

१ - ४ - प्रतिपदविधाना च ।

२ - ४ - प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् ।

३ - ४ - इह मा भूत् ।

४ - ४ - सर्पिषः ज्ञानम् मधुनः ज्ञानम् इति ।

१ - ६१ - गुणे किम् उदाहरणम् ।

२ - ६१ - ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति ।

३ - ६१ - न एतत् अस्ति प्रयोजनम् ।

४ - ६१ - असामर्थ्यात् अत्र न भविष्यति ।

५ - ६१ - कथम् असामर्थ्यम् ।

६ - ६१ - सापेक्षम् असमर्थम् भवति इति ।

७ - ६१ - द्रव्यम् अत्र अपेक्ष्यते दन्ताः ।

८ - ६१ - इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति ।

९ - ६१ - इदम् अपि उदाहरणम् ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति ।

१० - ६१ - ननु च उक्तम् ।

११ - ६१ - असामर्थ्यात् अत्र न भविष्यति ।

१२ - ६१ - कथम् असामर्थ्यम् ।

१३ - ६१ - सापेक्षम् असमर्थम् भवति इति ।

१४ - ६१ - द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति ।

१५ - ६१ - न एषः दोषः ।

१६ - ६१ - भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।

१७ - ६१ - सति किम् उदाहरणम् ।

१८ - ६१ - ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः ।

१९ - ६१ - न एतत् अस्ति ।

२० - ६१ - प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति ।

२१ - ६१ - या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति ।

२२ - ६१ - तत्र अस्मार्थ्यात् न भविष्यति ।

२३ - ६१ - कथम् असामर्थ्यम् ।

२४ - ६१ - सापेक्षम् असमर्थम् भवति इति ।

२५ - ६१ - द्रव्यम् अत्र अपेक्ष्यते ओदनः ।

२६ - ६१ - इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् ।

२७ - ६१ - ननु च अत्र अपि प्रतिषिध्यते ।

२८ - ६१ - वक्ष्यति एतत् द्विषः शतुः वावचनम् इति ।

२९ - ६१ - अव्यये किम् उदाहरणम् ।

३० - ६१ - ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति ।

३१ - ६१ - न एतत् अस्ति ।

३२ - ६१ - असामर्थ्यात् अत्र न भविष्यति ।

३३ - ६१ - कथम् असामर्थ्यम् ।

३४ - ६१ - सापेक्षम् असमर्थम् भवति इति ।

३५ - ६१ - द्रव्यम् अत्र अपेक्ष्यते आसनम् ।

३६ - ६१ - इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति ।

३७ - ६१ - एतत् अपि न अस्ति ।

३८ - ६१ - प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति ।

३९ - ६१ - या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति ।

४० - ६१ - तत्र अस्मार्थ्यात् न भविष्यति ।

४१ - ६१ - कथम् असामर्थ्यम् ।

४२ - ६१ - सापेक्षम् असमर्थम् भवति इति ।

४३ - ६१ - द्रव्यम् अत्र अपेक्ष्यते कटः ।

४४ - ६१ - इदम् तर्हि ।

४५ - ६१ - पुरा सूर्यस्य उदेतोः आधेयः ।

४६ - ६१ - पुरा वत्सानाम् अपाकर्तोः ।

४७ - ६१ - ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा ।

४८ - ६१ - वक्ष्यति एतत् ।

४९ - ६१ - अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति ।

५० - ६१ - समानाधिकरणे किम् उदाहरणम् ।

५१ - ६१ - राज्ञः पाटलिपुत्रकस्य शुकस्य माराविदस्य पाणिनेः सूत्रकारस्य ।

५२ - ६१ - न एतत् अस्ति ।

५३ - ६१ - असामर्थ्यात् अत्र न भविष्यति ।

५४ - ६१ - कथम् असामर्थ्यम् ।

५५ - ६१ - समानाधिकरणम् असमर्थवत् भवति इति ।

५६ - ६१ - इदम् तर्हि ।

५७ - ६१ - सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति ।

५८ - ६१ - ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति ।

५९ - ६१ - कथम् असामर्थ्यम् ।

६० - ६१ - समानाधिकरणम् असमर्थवत् भवति इति ।

६१ - ६१ - अधात्वभिहितम् इति एवम् तत् ।

१ - ३५ - कथम् इदम् विज्ञायते कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति ।

२ - ३५ - कुतः सन्देहः ।

३ - ३५ - उभयम् प्रकृतम् ।

४ - ३५ - तत्र अन्यतरत् शक्यम् विशेषयितुम् ।

५ - ३५ - कः च अत्र विशेषः ।

६ - ३५ - कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासवचनम् ।

७ - ३५ - कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासः वक्तव्यः ।

८ - ३५ - इध्मप्रव्रश्चनः पलाशशातनः ।

९ - ३५ - तृककाभ्यम् च अनर्थकः प्रतिषेधः ।

१० - ३५ - तृककाभ्यम् च अनर्थकः प्रतिषेधः ।

११ - ३५ - अपाम् स्रष्टा ।

१२ - ३५ - कर्मणि इति एव सिद्धम् ।

१३ - ३५ - अस्तु तर्हि कर्मणि यः क्तः इति ।

१४ - ३५ - किम् उदाहरणम् ।

१५ - ३५ - ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति ।

१६ - ३५ - क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः ।

१७ - ३५ - क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः ।

१८ - ३५ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

१९ - ३५ - समासः कस्मात् न भवति ।

२० - ३५ - असामर्थ्यात् ।

२१ - ३५ - कथम् असामर्थ्यम् ।

२२ - ३५ - सापेक्षम् असमर्थम् भवति इति ।

२३ - ३५ - द्रव्यम् अत्र अपेक्ष्यते ओदनः ।

२४ - ३५ - प्रतिषेध्यम् इति चेत् कर्तरि अपि प्रतिषेधः ।अथ एवम् सति प्रतिषेधः कर्तव्यः इति दृश्यते कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् ।

२५ - ३५ - ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति ।

२६ - ३५ - पूजायाम् च प्रतिषेधानर्थक्यम् ।

२७ - ३५ - पूजायाम् च प्रतिषेधः अनर्थः ।

२८ - ३५ - राज्ञाम् पूजितः ।

२९ - ३५ - कर्मणि इति एव सिद्धम् ।

३० - ३५ - तस्मात् उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः ।

३१ - ३५ - तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः ।

३२ - ३५ - सः तर्हि वक्तव्यः ।

३३ - ३५ - न वक्तव्यः इत्यर्थे अयम् चः पठितः ।

३४ - ३५ - कमणि च ।

३५ - ३५ - कर्मणि इति एवम् या षष्ठी इति ।

१ - ४ - किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः ।

२ - ४ - विधिः इति आह ।

३ - ४ - कुतः एतत् ।

४ - ४ - विधिः हि विभाषा नित्यः प्रतिषेधः ।

१ - ६० - प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः । प्रादिप्रसङ्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः ।

२ - ६० - वृक्षम् प्रति विद्योतते विद्युत् ।

३ - ६० - साधुः देवदत्तः मातरम् प्रति ।

४ - ६० - व्यवेतप्रतिषेधः च ।

५ - ६० - व्यवेतानाम् च प्रतिषेधः वक्तव्यः ।

६ - ६० - अ मन्द्रैः इन्द्र हरिभिः यहि मयुररोमभिः ।

७ - ६० - सिद्धम् तु क्वाङ्स्वतिदुर्गतिवचनात् ।

८ - ६० - सिद्धम् एतत् ।

९ - ६० - कथम् ।

१० - ६० - क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् ।

११ - ६० - कु ।

१२ - ६० - कुब्राह्मणः कुवृषलः ।

१३ - ६० - आङ् ।

१४ - ६० - आकडारः आपिङ्गलः ।

१५ - ६० - सु ।

१६ - ६० - सुब्राह्मणः सुवृषलः ।

१७ - ६० - अत् ।

१८ - ६० - अतिब्राह्मणः अतिवृषलः ।

१९ - ६० - दुर् ।

२० - ६० - दुर्ब्राह्मणः ।

२१ - ६० - गति ।

२२ - ६० - प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् ।

२३ - ६० - प्रादयः क्तार्थे ।

२४ - ६० - प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् ।

२५ - ६० - प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः ।

२६ - ६० - एतत् एव च सौनागैः विस्तरतरकेण पठितम् ।

२७ - ६० - स्वती पूजायाम् ।

२८ - ६० - स्वतीपूजायाम् इति वक्तव्यम् ।

२९ - ६० - सुराजा अतिराजा ।

३० - ६० - दुः निन्दायाम् ।

३१ - ६० - दुः निन्दायाम् इति वक्तव्यम् ।

३२ - ६० - दुष्कुलम् दुर्गवः ।

३३ - ६० - आङ् ईषदर्थे ।

३४ - ६० - आङ् ईषदर्थे इति वक्तव्यम् ।

३५ - ६० - आकडारः आपिङ्गलः ।

३६ - ६० - कुः पापार्थे ।

३७ - ६० - कुः पापार्थेइति वक्तव्यम् ।

३८ - ६० - कुब्राह्मणः कुवृषलः ।

३९ - ६० - प्रादयः गताद्यर्थे प्रथमया ।

४० - ६० - प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् ।

४१ - ६० - प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः ।

४२ - ६० - अत्यादयः क्रान्ताद्यर्थे द्वितीयया ।

४३ - ६० - अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् ।

४४ - ६० - अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः ।

४५ - ६० - अवादयः क्रुष्टाद्यर्थे तृतीयया ।

४६ - ६० - अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् ।

४७ - ६० - अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः ।

४८ - ६० - पर्यादयः ग्लानाद्यर्थे चतुर्थ्या ।

४९ - ६० - पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् ।

५० - ६० - परिग्लानः अध्ययनाय पर्यधयनः ।

५१ - ६० - निरादयः क्रान्ताद्यर्थे पञ्चम्या ।

५२ - ६० - निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्ते इति वक्तव्यम् ।

५३ - ६० - निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः ।

५४ - ६० - अव्ययम् प्रवृद्धादिभिः ।

५५ - ६० - अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् ।

५६ - ६० - पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् ।

५७ - ६० - इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च ।

५८ - ६० - वाससीइव कन्येइव ।

५९ - ६० - उदात्तवता तिङा गतिमता च अव्ययम् समस्यते इति वक्तव्यम् ।

६० - ६० - अनुव्यचलत् अनुप्राविशत् यत् परियन्ति ।

१ - ६२ - अतिङ् इति किमर्थम् ।

२ - ६२ - कारकः व्रजति ।

३ - ६२ - हारकः व्रजति ।

४ - ६२ - अतिङ् इति शक्यम् अकर्तुम् ।

५ - ६२ - कस्मात् न भवति ।

६ - ६२ - कारकः व्रजति ।

७ - ६२ - हारकः व्रजति इति ।

८ - ६२ - सुप् सुपा इति वर्तते ।

९ - ६२ - अतः उत्तरम् पठति ।

१० - ६२ - उपपदम् अतिङ् इति तदर्थप्रतिषेधः ।

११ - ६२ - उपपदम् अतिङ् इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः ।

१२ - ६२ - कस्य ।

१३ - ६२ - तिङर्थस्य ।

१४ - ६२ - कः पुनः तिङर्थः ।

१५ - ६२ - क्रिया ।

१६ - ६२ - क्रियाप्रतिषेधः वा ।

१७ - ६२ - अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति ।

१८ - ६२ - अथ अक्रियया इति किम् प्रत्युदाह्रियते ।

१९ - ६२ - कारकः गतः हारकः गतः ।

२० - ६२ - न एतत् क्रियावाचि ।

२१ - ६२ - किम् तर्हि. द्रव्यवाचि ।

२२ - ६२ - इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या ।

२३ - ६२ - एतत् अपि द्रव्य्वाचि ।

२४ - ६२ - कथम् ।

२५ - ६२ - कृदभिहितः भावः द्रव्यवत् भवति इति ।

२६ - ६२ - एवम् तर्हि सिद्धे सति यत् अतिङ् इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति ।

२७ - ६२ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२८ - ६२ - गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति ।

२९ - ६२ - यदि एतत् ज्ञाप्यते केन इदानीम् समासः भविष्यति ।

३० - ६२ - समर्थेन ।

३१ - ६२ - यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति ।

३२ - ६२ - पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति ।

३३ - ६२ - न एतत् अस्ति ।

३४ - ६२ - पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण ।

३५ - ६२ - साधनम् हि क्रियाम् निर्वर्तयति ।

३६ - ६२ - ताम् उपसर्गः विशिनष्टि ।

३७ - ६२ - अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् ।

३८ - ६२ - षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन ।

३९ - ६२ - षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन ।

४० - ६२ - षष्ठीसमासस्य अवकाशः राज्ञः पुरुषः राजपुरुषः ।

४१ - ६२ - उपपदसमासस्य अवकाशः स्तम्बेरमः कर्णेजपः ।

४२ - ६२ - इह उभयम् प्राप्नोति ।

४३ - ६२ - कुम्भकारः नगरकारः ।

४४ - ६२ - उपपदसमासः भवति विप्रतिषेधेन ।

४५ - ६२ - न वा षष्ठीसमासाभावाद् उपपदसमासः । न वा अर्थः विप्रतिषेधेन ।

४६ - ६२ - किम् कारणम् ।

४७ - ६२ - न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति ।

४८ - ६२ - कथम् ।

४९ - ६२ - गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् ।

५० - ६२ - अथ वा विभाषा षष्ठीसमासः ।

५१ - ६२ - यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति ।

५२ - ६२ - अनेन एव यथा स्यात् तेन मा भूत् इति ।

५३ - ६२ - कः च अत्र विशेषः तेन वा स्यात् अनेन वा ।

५४ - ६२ - उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा ।

५५ - ६२ - ननु च नित्यम् यः समासः सः नित्यसमासः ।

५६ - ६२ - यस्य विग्रहः न अस्ति ।

५७ - ६२ - न इति आह ।

५८ - ६२ - नित्याधिकारे यः समासः सः नित्यसमासः ।

५९ - ६२ - न एवम् शक्यम् ।

६० - ६२ - अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत ।

६१ - ६२ - तस्मात् नित्यः समासः नित्यसमासः ।

६२ - ६२ - यस्य विग्रहः न अस्ति ।

१ - १८ - एवकारः किमर्थः ।

२ - १८ - नियमार्थः ।

३ - १८ - न एतत् अस्ति प्रयोजनम् ।

४ - १८ - सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति ।

५ - १८ - इष्टतः अवधारणार्थः तर्हि भविष्यति ।

६ - १८ - यथा एवम् विज्ञायेत ॒ अमा एव अव्ययेन इति ।

७ - १८ - मा एवम् विज्ञायि ॒ अमा अव्ययेन एव इति ।

८ - १८ - अस्ति च इदानीम् अनव्ययम् अम्शब्दः यदर्थः विधिः स्यात् ।

९ - १८ - अस्ति इति आह ।

१० - १८ - खशयम् ब्राह्मणकुलम् इति ।

११ - १८ - न एतत् अस्ति प्रयोजनम् ।

१२ - १८ - अन्तरङ्गत्वात् अत्र समासः भविष्यति ।

१३ - १८ - इदम् तर्हि प्रयोजनम् ।

१४ - १८ - अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् ।

१५ - १८ - अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति ।

१६ - १८ - अग्रे भोजम् अग्रे भुक्त्वा ।

१७ - १८ - अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति ।

१८ - १८ - सः न वक्तव्यः भवति ।

१ - १८ - शेषः इति उच्यते ।

२ - १८ - कः शेषः नाम ।

३ - १८ - येषाम् पदानाम् अनुक्तः समासः सः शेषः ।

४ - १८ - शेषवचनम् पदतः चेत् न अभावात् ।

५ - १८ - शेषवचनम् पदतः चेत् तत् न ।

६ - १८ - किम् कारणम् ।

७ - १८ - अभावात् ।

८ - १८ - न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः ।

९ - १८ - अर्थतः तर्हि शेषग्रहणम् ।

१० - १८ - येषु अर्थेषु अनुक्तः समासः सः शेषः ।

११ - १८ - अर्थतः चेत् अविशिष्टम् । अर्थतः चेत् अविशिष्टम् एतत् भवति ।

१२ - १८ - कुतः ।

१३ - १८ - पदतः ।

१४ - १८ - न हि सन्ति ते अर्थाः येषु अनुक्तः समासः ।

१५ - १८ - त्रिकतः तर्हि शेषग्रहणम् ।

१६ - १८ - यस्य त्रिकस्य अनुक्तः समासः सः शेषः ।

१७ - १८ - कस्य च अनुक्तः ।

१८ - १८ - प्रथमायाः ।

१ - ७२ - पदग्रहणम् किमर्थम्. अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् ।

२ - ७२ - यथा मे माता तथा मे पिता सुस्नातम् भोः इति ।

३ - ७२ - पदग्रहणे पुनः क्रियमाणे न दोषः भवति ।

४ - ७२ - अथ अन्यग्रहणम् किमर्थम् ।

५ - ७२ - अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् ।

६ - ७२ - राजपुरुषः तक्षपुरुषः इति ।

७ - ७२ - न एतत् अस्ति प्रयोजनम् ।

८ - ७२ - तत्पुरुषः स्वपदार्थे बाधकः भविष्यति ।

९ - ७२ - भवेत् एकसञ्ज्ञाधिकारे सिद्धम् ।

१० - ७२ - परङ्कार्यत्वे तु न सिध्यति ।

११ - ७२ - आरम्भसामर्थ्यात् च तत्पुरुषः परङ्कार्यत्वात् च बहुव्रीहिः प्राप्नोति ।

१२ - ७२ - परङ्कार्यत्वे च न दोषः ।

१३ - ७२ - शेषः इति वर्तते ।

१४ - ७२ - शेषत्वात् न भविष्यति ।

१५ - ७२ - शेषवचने उक्तम् ।

१६ - ७२ - किम् उक्तम् ।

१७ - ७२ - तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः इति ।

१८ - ७२ - अथ एकसङ्ज्ञाधिकारे न अर्थः अन्यग्रहणेन ।

१९ - ७२ - एकसङ्ज्ञाधिकारे च कर्तव्यम् ।

२० - ७२ - अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत ।

२१ - ७२ - अथ अनेकग्रहणम् किमर्थम्. अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् ।

२२ - ७२ - सर्पिषः अपि स्यात् ।

२३ - ७२ - मधुनः अपि स्यात् ।

२४ - ७२ - गोमूत्रस्य अपि स्यात् ।

२५ - ७२ - न एतत् अस्ति प्रयोजनम् ।

२६ - ७२ - सुप् सुपा इति वर्तते ।

२७ - ७२ - इदम् तर्हि प्रयोजनम् ।

२८ - ७२ - बहूनाम् अपि समासः यथा स्यात् ।

२९ - ७२ - सुसूक्ष्मजटकेशेन सुनताजिनवाससा ।

३० - ७२ - उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति ।

३१ - ७२ - इह अपि यथा स्यात् ।

३२ - ७२ - प्लक्षन्यग्रोधखदिरपलाशाः इति ।

३३ - ७२ - एतत् अपि न अस्ति प्रयोजनम् ।

३४ - ७२ - आचार्यप्रवृत्तिः ज्ञापयति बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् शास्ति ।

३५ - ७२ - तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति ।

३६ - ७२ - ग्रहणेन तत्पुरुषः उच्यते ।

३७ - ७२ - तेन बहूनाम् न भविष्यति ।

३८ - ७२ - अतः उत्तरम् पठति ।

३९ - ७२ - अनेकवचनम् उपसर्जनार्थम् ।

४० - ७२ - अनेकग्रहणम् क्रियते उपसर्जनार्थम् ।

४१ - ७२ - प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः उपसर्जनसञ्ज्ञा यथा स्यात् ।

४२ - ७२ - चित्रगुः शबलगुः इति ।

४३ - ७२ - न वा एकविभक्तित्वात् ।

४४ - ७२ - न वा एतत् अपि प्रयोजनम् अस्ति ।

४५ - ७२ - किम् कारणम् ।

४६ - ७२ - एकविभक्तित्वात् ।

४७ - ७२ - एकविभक्ति च अपूर्व्निपाते इति उपसर्जनसञ्ज्ञा भविष्यति ।

४८ - ७२ - चित्रगुः शबलगुः इति ।

४९ - ७२ - चित्राः यस्य गावः चित्रगुः तिष्ठति ।

५० - ७२ - चित्राः यस्य गावः चित्रगुम् पश्य ।

५१ - ७२ - चित्राः यस्य गावः चित्रगुणा कृतम् ।

५२ - ७२ - चित्राः यस्य गावः चित्रगवे देहि ।

५३ - ७२ - चित्राः यस्य गावः चित्रगोः आनय ।

५४ - ७२ - चित्राः यस्य गावः चित्रगोः स्वम् ।

५५ - ७२ - चित्राः यस्य गावः चित्रगौ निधेहि ।

५६ - ७२ - चित्राः यस्य गावः हे चित्रगो इति ।

५७ - ७२ - यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति ।

५८ - ७२ - राजकुमारी तक्षकुमारी ।

५९ - ७२ - राज्ञः या कुमारी राजकुमारी तिष्ठति ।

६० - ७२ - राज्ञः या कुमारी राजकुमारीम् पश्य ।

६१ - ७२ - राज्ञः या कुमारी राजकुमार्या कृतम् ।

६२ - ७२ - राज्ञः या कुमारी राजकुमार्यै देहि ।

६३ - ७२ - राज्ञः या कुमारी राजकुमार्याः आनय ।

६४ - ७२ - राज्ञः या कुमारी राजकुमार्याः स्वम् ।

६५ - ७२ - राज्ञः या कुमारी राजकुमार्याम् निधेहि ।

६६ - ७२ - राज्ञः या कुमारी हे राजकुमारि इति ।

६७ - ७२ - किम् वक्तव्यम् एतत् ।

६८ - ७२ - न हि ।

६९ - ७२ - कथम् अनुच्यमानम् गंस्यते ।

७० - ७२ - एकग्रहणसामर्थ्यात् ।

७१ - ७२ - यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् ।

७२ - ७२ - विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् ।

१ - ९० - पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् ।

२ - ९० - पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः ।

३ - ९० - चित्रगुः देवदत्तः इति ।

४ - ९० - किम् कारणम् ।

५ - ९० - अभिहितत्वात् ।

६ - ९० - चित्रगुशब्देन अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति ।

७ - ९० - न वा अनभिहितत्वात् ।

८ - ९० - न वा एषः दोषः ।

९ - ९० - किम् कारणम् ।

१० - ९० - अनभिहितत्वात् ।

११ - ९० - चित्रगुशब्देन अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

१२ - ९० - कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति ।

१३ - ९० - सामान्याभिधाने हि विशेषानभिधानम् ।

१४ - ९० - सामान्ये हि अभिधीयमाने विशेषः अनभ्हितः भवति ।

१५ - ९० - तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

१६ - ९० - चित्रगुः ।

१७ - ९० - कः ।

१८ - ९० - देवदत्तः इति. भवेत् सिद्धम् यदा सामान्ये वृत्तिः ।

१९ - ९० - यदा तु खलु विशेषे वृत्तिः तदा न सिध्यति ।

२० - ९० - चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति ।

२१ - ९० - तत् अपि सिद्धम् ।

२२ - ९० - कथम् ।

२३ - ९० - न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च ।

२४ - ९० - यदा वाक्यम् तदा न समासः ।

२५ - ९० - यदा समासः तदा न वक्यम् ।

२६ - ९० - यदा समासः तदा सामान्ये वृत्तिः ।

२७ - ९० - तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

२८ - ९० - चित्रगुः ।

२९ - ९० - कः ।

३० - ९० - देवदत्तः इति. सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति ।

३१ - ९० - चित्रगु तत् ।

३२ - ९० - चित्रगु किम् चित् ।

३३ - ९० - चित्रगु सर्वम् इति ।

३४ - ९० - सामान्यम् अपि यथा विशेषः तद्वत् ।

३५ - ९० - चित्रगु इति उक्ते सन्देहः स्यात् ।

३६ - ९० - सर्वम् वा विश्वम् वा इति ।

३७ - ९० - तत्र अवश्यम् सन्देहनिवृत्त्यर्थम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

३८ - ९० - अथ वा विभक्त्यर्थः अभिदीयते ।

३९ - ९० - एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते ।

४० - ९० - तत्र हि सर्वपश्चात् पदम् वर्तते अस्य इति ।

४१ - ९० - विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः ।

४२ - ९० - विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्याभ्याम् उपचारः अनुपपन्नः ।

४३ - ९० - बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति ।

४४ - ९० - अपरः आह ॒ विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसङ्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः ।

४५ - ९० - बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति ।

४६ - ९० - कथम् हि अन्यस्य लिङ्गसङ्ख्याभ्याम् अन्यस्य उपचारः स्यात् ।

४७ - ९० - सिद्धम् तु यथा गुणवचनेषु ।

४८ - ९० - सिद्धम् एतत्. कथम् ।

४९ - ९० - यथा गुणवचनेषु ।

५० - ९० - गुणवचनेषु उक्तम् ॒ गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति ।

५१ - ९० - तत् यथा शुक्लम् वस्त्रम् शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

५२ - ९० - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

५३ - ९० - एवम् इह अपि यत् असौ द्रव्यम् श्रितः विभक्त्यर्थः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।

५४ - ९० - यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलिङ्गः ससङ्ख्यः च ।

५५ - ९० - अर्थग्रहणसामर्थ्यात् ।

५६ - ९० - इह अनेकम् अन्यपदे इति इयता सिद्धम् ।

५७ - ९० - कथम् पुनः पदे नाम वृत्तिः स्यात् ।

५८ - ९० - शब्दः हि एषः ।

५९ - ९० - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

६० - ९० - सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलिङ्गः ससङ्ख्यः च इति ।

६१ - ९० - यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लैङ्गाः साङ्ख्याः च विधयः न सिध्यन्ति ।

६२ - ९० - उक्तम् वा ।

६३ - ९० - किम् उक्तम् ।

६४ - ९० - लिङ्गेषु तावत् ।

६५ - ९० - सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति ।

६६ - ९० - साङ्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा साङ्ख्याः भविष्यन्ति ।

६७ - ९० - प्रथमा तर्हि न प्राप्नोति ।

६८ - ९० - समयात् भविष्यति ।

६९ - ९० - यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति ।

७० - ९० - कर्मादीनाम् अभावात् ।

७१ - ९० - षष्ठी तर्हि प्राप्नोति ।

७२ - ९० - शेषलक्षणा षष्ठी ।

७३ - ९० - अशेषत्वात् न भविष्यति ।

७४ - ९० - एवम् अपि व्यतिकरः ।

७५ - ९० - एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने ।

७६ - ९० - अर्थतः व्यवस्था भविष्यति ।

७७ - ९० - अथ वा सङ्ख्या नाम इयम् परप्रधाना ।

७८ - ९० - सङ्ख्येअम् अन्या विशेष्यम् ।

७९ - ९० - यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।

८० - ९० - अथ वा वक्ष्यति एतत् ।

८१ - ९० - तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति ।

८२ - ९० - एवम् अपि षष्ठी प्राप्नोति ।

८३ - ९० - किम् कारणम् ।

८४ - ९० - व्यभिचरति एव हि अयम् समासः लिङ्गसङ्ख्ये ।

८५ - ९० - षष्थ्यर्थम् पुनः न व्यभिचरति ।

८६ - ९० - अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

८७ - ९० - तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भविष्यति ।

८८ - ९० - न तर्हि इदानीम् इदम् भवति ॒ चित्रगोः देवदत्तस्य ।

८९ - ९० - भवति ।

९० - ९० - बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।

१ - ६५ - परिगणनम् कर्तव्यम् ।

२ - ६५ - बहुव्रीहिः समानाधिकरणानाम् ।

३ - ६५ - समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः ।

४ - ६५ - किम् प्रयोजनम् ।

५ - ६५ - व्यधिकरणानाम् मा भूत् इति ।

६ - ६५ - पञ्चभिः भुक्तम् अस्य इति ।

७ - ६५ - अव्ययानाम् च ।

८ - ६५ - अव्ययानाम् बहुव्रीहिः वक्तव्यः ।

९ - ६५ - उच्चैर्मुखः नीचैर्मुखः ।

१० - ६५ - सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च ।

११ - ६५ - सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः ।

१२ - ६५ - कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः ।

१३ - ६५ - समुदायविकारषष्ठ्याः च ।

१४ - ६५ - समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः ।

१५ - ६५ - केशानाम् समाहारः चूडा अस्य केशचूडः सुवर्णस्य विकारः अलङ्कारः अस्य सुवर्णालङ्कारः ।

१६ - ६५ - प्रादिभ्यः धातुजस्य वा ।

१७ - ६५ - प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः ।

१८ - ६५ - प्रपतितपर्णः प्रपर्णः प्रपतितपलाशः प्रपलाशः ।

१९ - ६५ - नञः अस्त्यर्थानाम् ।

२० - ६५ - नञः अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः ।

२१ - ६५ - अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः ।

२२ - ६५ - तत् तर्हि बहु वक्तव्यम् ।

२३ - ६५ - न वा अनभिधानात् असमानाधिकरणे सञ्ज्ञाभावः ।

२४ - ६५ - न वा वक्तव्यम् ।

२५ - ६५ - असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति ॒ पञ्चभिः भुक्तम् अस्य इति ।

२६ - ६५ - अनभिधानात् ।

२७ - ६५ - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

२८ - ६५ - क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः ।

२९ - ६५ - तत् यथा पञ्च भुक्तवन्तः अस्य इति ।

३० - ६५ - अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् ।

३१ - ६५ - तत् कथम् कर्तव्यम् ।

३२ - ६५ - अर्थनियमे मत्वर्थग्रहणम् ।

३३ - ६५ - अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् ।

३४ - ६५ - मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् ।

३५ - ६५ - इह मा भूत् ॒ कष्टम् श्रितम् अनेन इति ।

३६ - ६५ - तथा च उत्तरस्य वचनार्थः ।

३७ - ६५ - एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति ।

३८ - ६५ - के चित् तावत् आहुः ॒ यत् वृत्तिसूत्रे इति ।

३९ - ६५ - सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति ।

४० - ६५ - अपरः आह ॒ यत् वार्त्तिके इति ।

४१ - ६५ - कर्मवचनेन अप्रथ्मायाः ।

४२ - ६५ - कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः ।

४३ - ६५ - ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः पशुः रुद्राय उपहृतपशुः रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली ।

४४ - ६५ - यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् ।

४५ - ६५ - प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः ।

४६ - ६५ - कर्तृवचनेन अपि ।

४७ - ६५ - कर्तृवचनेन अपि इति वक्तव्यम् ।

४८ - ६५ - अप्रथमायाः इति किमर्थम् ।

४९ - ६५ - वृष्टे देवे गतः ।

५० - ६५ - अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति ।

५१ - ६५ - वृष्टे देवे गतम् पश्य इति ।

५२ - ६५ - बहिरङ्गा अत्र अप्रथमा ।

५३ - ६५ - सुबधिकारे अस्तिक्षीरादिवचनम् ।

५४ - ६५ - सुबधिकारे अस्तिक्षीरादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

५५ - ६५ - अस्तिक्षीरा ब्राह्मणी ।

५६ - ६५ - तत् तर्हि वक्तव्यम् ।

५७ - ६५ - न वा अव्ययत्वात् ।

५८ - ६५ - न वा वक्तव्यम् ।

५९ - ६५ - किम् कारणम् ।

६० - ६५ - अव्ययत्वात् ।

६१ - ६५ - अव्ययः अयम् अस्तिशब्दः ।

६२ - ६५ - न एषः अस्तेः लट् ।

६३ - ६५ - कथम् अव्ययत्वम् ।

६४ - ६५ - उपसर्गविभक्तिस्वरप्रतिरूपकाः च निपातसञ्ज्ञाः भवन्ति इति निपातस्ञ्ज्ञा ।

६५ - ६५ - निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।

१ - १०१ - अथ किंसब्रह्मचारी इति कः अयम् समासः ।

२ - १०१ - बहुव्रीहिः इति अह ।

३ - १०१ - कः अस्य विग्रहः ।

४ - १०१ - के सब्रह्मचारिणः अस्य इति ।

५ - १०१ - यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते ।

६ - १०१ - न हि अन्यत् पृष्टेन अन्यत् आख्यायते ।

७ - १०१ - एवम् तर्हि एवम् विग्रहः करिष्यते ॒ केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति ।

८ - १०१ - प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति ।

९ - १०१ - किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत ।

१० - १०१ - किंसब्रह्मचारी इति च इष्यते ।

११ - १०१ - एवम् तर्हि एवम् विग्रहः करिष्यते ।

१२ - १०१ - कः सब्रह्मचारी किंसब्रह्मचारी इति ।

१३ - १०१ - भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति ।

१४ - १०१ - एवम् तर्हि एवम् विग्रहः करिष्यते ।

१५ - १०१ - कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति ।

१६ - १०१ - अथ वा पुनः अस्तु एवम् विग्रहः ॒ के सब्रह्मचारिणः अस्य इति ।

१७ - १०१ - ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते ।

१८ - १०१ - न एषः दोषः ।

१९ - १०१ - अग्नौकरवाणिन्यायेन भविष्यति ।

२० - १०१ - तत् यथा ।

२१ - १०१ - कः चित् कम् चित् आह ।

२२ - १०१ - अग्नौ करवाणि इति ।

२३ - १०१ - कुरु इति कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् भवति ।

२४ - १०१ - अपरः आह ॒ अग्नौ करिष्यते इति ।

२५ - १०१ - क्रियताम् इति कर्मणि अनुज्ञाते कर्ता अपि अनुज्ञातः भवति ।

२६ - १०१ - यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते ।

२७ - १०१ - नूनम् सः अपि कठ इति ।

२८ - १०१ - एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् ।

२९ - १०१ - नूनम् ते अपि कठाः इति ।

३० - १०१ - न खलु अपि ते शक्याः समासेन प्रतिनिर्देष्टुम् ।

३१ - १०१ - उपसर्जनम् हे ते भवन्ति ।

३२ - १०१ - अथ अर्थतृतीयाः इति कः अयम् समासः ।

३३ - १०१ - बहुव्रीहिः इति आह ।

३४ - १०१ - कः अस्य विग्रहः ।

३५ - १०१ - अर्धम् तृतीयम् एषाम् इति ।

३६ - १०१ - कः समासार्थः ।

३७ - १०१ - समासार्थः न उपपद्यते ।

३८ - १०१ - अन्यपदार्थः हि नाम सः भवति ।

३९ - १०१ - येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः ।

४० - १०१ - एवम् तर्हि एवम् विग्रहः करिष्यते ।

४१ - १०१ - अर्धम् तृतीयम् अनयोः इति ।

४२ - १०१ - एवम् अपि कः षष्ठ्यर्थः ।

४३ - १०१ - षष्ठ्यर्थः न उपपद्यते ।

४४ - १०१ - किम् हि तयोः अर्धम् भवति ।

४५ - १०१ - अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति ।

४६ - १०१ - ननु च उक्तम् समासार्थः न उपपद्यते इति ।

४७ - १०१ - न एषः दोषः ।

४८ - १०१ - अवयवेन विग्रहः समुदायः समासार्थः ।

४९ - १०१ - यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् ।

५० - १०१ - सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति. द्वयोः द्विवचनम् प्राप्नोति ।

५१ - १०१ - अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः ।

५२ - १०१ - ननु च उक्तम् ।

५३ - १०१ - षष्ठ्यर्थः न उपपद्यते इति ।

५४ - १०१ - न एषः दोषः ।

५५ - १०१ - इदम् तावत् अयम् प्रष्टव्यः ।

५६ - १०१ - अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः ।

५७ - १०१ - तत्र एतत् स्यात् ।

५८ - १०१ - एकस्मात् प्रादुर्भावः इति ।

५९ - १०१ - एतत् च वार्तम् ।

६० - १०१ - तत् यथा ।

६१ - १०१ - सार्थिकनम् एकप्रतिश्रये उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति ।

६२ - १०१ - एवञ्जातीयकम् भ्रातृत्वम् नाम ।

६३ - १०१ - अत्र चेत् युक्तः षष्ठ्यर्थः दृश्यते इह अपि युक्तः दृश्यताम् ।

६४ - १०१ - इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति ।

६५ - १०१ - अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति ।

६६ - १०१ - ननु च उक्तम् अनुससार पाण्डवम् ।

६७ - १०१ - सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति. द्वयोः द्विवचनम् प्राप्नोति इति ।

६८ - १०१ - न एषः दोषः ।

६९ - १०१ - अयम् तीयन्तः शब्दः अस्ति एव पूरणम् ।

७० - १०१ - अस्ति सहायवाची ।

७१ - १०१ - तत् यः सहायवाची तस्य इदम् ग्रहणम् ।

७२ - १०१ - असिद्वितीयः असिसहायः इति गम्यते ।

७३ - १०१ - एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति ।

७४ - १०१ - एकार्थाः हि समुदायाः भवन्ति ।

७५ - १०१ - तत् यथा शतम् यूथम् वनम् इति ।

७६ - १०१ - अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति ।

७७ - १०१ - ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति ।

७८ - १०१ - न एषः दोषः ।

७९ - १०१ - भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।

८० - १०१ - तत् यथा ।

८१ - १०१ - शुक्लवाससम् आनय ।

८२ - १०१ - लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति ।

८३ - १०१ - तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

८४ - १०१ - अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति ।

८५ - १०१ - ननु च उक्तम् एकवचनम् प्राप्नोति इति ।

८६ - १०१ - न एषः दोषः ।

८७ - १०१ - सङ्ख्या नाम इयम् परप्रधाना ।

८८ - १०१ - सङ्ख्येयम् अनया विशेष्यम् ।

८९ - १०१ - यदि च अत्र एकवचनम् स्यात् सङ्ख्येयम् अविशेषितम् स्यात्

९० - १०१ - इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् द्रोणशब्दः समुदाये प्रवृत्तः अवयवे न उपपद्यते ।

९१ - १०१ - न एषः दोषः ।

९२ - १०१ - समुदायेषु अपि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते. तद् यथा ।

९३ - १०१ - पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति ।

९४ - १०१ - एवम् अयम् समुदाये द्रोणशब्दः प्रवृत्तः अवयवेषु अपि वर्तति ।

९५ - १०१ - कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम् च कर्तव्यम् अर्धतृतीयाः द्रोणाः इति ।

९६ - १०१ - न कर्तव्यम् ।

९७ - १०१ - समुदायेषु अपि हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते. केषु अवयवेषु ।

९८ - १०१ - यः अवयवः तम् समुदायम् न व्यभिचरति ।

९९ - १०१ - कम् च समुदायम् न व्यभिचरति ।

१०० - १०१ - अर्ध्द्रोणः द्रोणम् ।

१०१ - १०१ - अर्धाढकम् पुनः व्यभिचरति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP