संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय २|पाद १| खण्ड २३ पाद १ खण्ड २२ खण्ड २३ खण्ड २४ पाद १ - खण्ड २३ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड २३ Translation - भाषांतर १ - ३२ - प्राग्वचनम् किमर्थम् ।२ - ३२ - प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् ।३ - ३२ - प्राग्वचनम् क्रियते समाससञ्ज्ञायाः अनिवृत्तिः यथा स्यात् ।४ - ३२ - अक्रियमाणे हि प्राग्वचने अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः समाससञ्ज्ञाम् बाधेरन् ।५ - ३२ - ताः मा बाधिषत इति प्राग्वचनम् क्रियते ।६ - ३२ - अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः कस्मात् एव न बाधन्ते ।७ - ३२ - क्रियमाणे हि प्राग्वचने सत्याम् समाससञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते ।८ - ३२ - तत्र वचनसमावेशः भविष्यति ।९ - ३२ - समाससञ्ज्ञा अपि अनवकाशा ।१० - ३२ - सा वचनात् भविष्यति ।११ - ३२ - सावकाशा समाससञ्ज्ञा ।१२ - ३२ - कः अवकाशः ।१३ - ३२ - विस्पष्टादीनि अवकाशः ।१४ - ३२ - विस्पष्टम् पटुः विस्पष्टपटुः इति ।१५ - ३२ - न एषः अस्ति अवकाशः ।१६ - ३२ - एषा हि आचार्यस्य शैली लक्ष्यते येन एव अवयवकार्यम् भवति तेन एव समुदायकार्यम् अपि भवति ।१७ - ३२ - येन एव अवयवकार्यम् स्वरः तेन एव समुदाकार्यम् अपि समासः भविष्यति ।१८ - ३२ - विस्पष्टादीनि गुणवचनेषु इति ।१९ - ३२ - इदम् तर्हि काकतालीयम् अजाकृपाणीयम् ।२० - ३२ - अत्र अपि येन एव अवयवकार्यम् प्रत्ययोत्पत्तिः क्रियते तेन एव समुदाकार्यम् समाससञ्ज्ञा भविष्यति ।२१ - ३२ - समासात् च तद्विषयात् ।२२ - ३२ - इदम् तर्हि पुनाराजः पुनर्गवः ।२३ - ३२ - अत्र अपि अवश्यम् तत्पुरुषसञ्ज्ञा वक्तव्य तत्पुरुषाश्रयः समासान्तः यथा स्यात् ।२४ - ३२ - इदम् तर्हि ।२५ - ३२ - पुनराधेयम् ।२६ - ३२ - अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिकारकोपपदात् कृत् इति एषः स्वरः यथा स्यात् ।२७ - ३२ - इदम् तर्हि पुनरुत्स्यूतम् वासः देयम् ।२८ - ३२ - अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिः गतौ इति निघातः यथा स्यात् ।२९ - ३२ - यदि तत् न अस्ति पुनश्चनसौ छन्दसि इति. सति तस्मिन् तेन एव सिद्धम् ।३० - ३२ - एवम् अपि एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।३१ - ३२ - पर्यायः प्रसज्येत ।३२ - ३२ - तस्मात् प्राग्वचनम् कर्तव्यम् ।१ - २७ - सहवचनम् किमर्थम् ।२ - २७ - सहवचनम् पृथक् असमासार्थम् ।३ - २७ - सहग्रहणम् क्रियते सहभूतयोः समासञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति ।४ - २७ - किम् च स्यात् ।५ - २७ - यदि एकैकस्य समासञ्ज्ञा स्यात् इह ऋक्पादः इति समासान्तः प्रसज्येत ।६ - २७ - इह च राजाश्वः इति द्वौ स्वरौ स्याताम् ।७ - २७ - कथम् च कृत्वा एकैकस्य सञ्ज्ञा प्राप्नोति ।८ - २७ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।९ - २७ - तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।१० - २७ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।११ - २७ - तत् यथा गर्गाः शतम् दण्ड्यन्ताम् इति ।१२ - २७ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।१३ - २७ - सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।१४ - २७ - अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुणवृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।१५ - २७ - एवम् तर्हि सिद्धे सति यत् सहग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा विज्ञायेत ।१६ - २७ - सति च योगाङ्गे योगविभागः करिष्यते ।१७ - २७ - सह सुप् समस्यते ।१८ - २७ - केन सह ।१९ - २७ - समर्थेन. अनुव्याचलत् अनुप्राविशत् ।२० - २७ - ततः सुपा ।२१ - २७ - सुपा च सह सुप् समस्यते ।२२ - २७ - अधिकारः च लक्षणम् च ।२३ - २७ - यस्य समासस्य अन्यत् लक्षणम् न अस्ति इदम् तस्य लक्षणम् भविष्यति ।२४ - २७ - पुनरुत्स्यूतम् वासः देयम् पुनर्निष्कृतः रथः इति ।२५ - २७ - इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च ।२६ - २७ - इवेन सह समासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।२७ - २७ - वाससीइव कन्ये इव ।१ - ४ - किमर्थम् महती सञ्ज्ञा क्रियते ।२ - ४ - अन्वर्थसञ्ज्ञा यथा विज्ञयेत ।३ - ४ - अनव्ययम् अव्ययम् भवति इति अव्ययीभावः ।४ - ४ - अव्ययीभावः च समासः अव्ययसञ्ज्ञः भवति इति एतत् न वक्तव्यम् भवति ।१ - ११ - इह कस्मात् न भवति ।२ - ११ - सुमद्राः सुमगधाः सपुत्रः सच्छात्रः इति ।३ - ११ - समृद्धौ साकल्ये इति च प्राप्नोति ।४ - ११ - न एषः दोषः ।५ - ११ - इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।६ - ११ - पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः उभयपदार्थप्रधानः द्वन्द्वः ।७ - ११ - न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।८ - ११ - अथ वा न इमे समासार्थाः निर्दिश्यन्ते ।९ - ११ - किम् तर्हि ।१० - ११ - अव्ययार्थाः निर्दिश्यन्ते इमे ।११ - ११ - एतेषु अर्थेषु यत् अव्ययम् वर्तते तत् सुबन्तेन समस्यते इति ।१ - १३ - असादृश्ये इति किमर्थम् ।२ - १३ - यथा देवदत्तः तथा यज्ञदत्तः इति ।३ - १३ - असादृश्ये इति उच्यते ।४ - १३ - तत्र इदम् न सिध्यति ॒ यथाशक्ति यथाबलम् इति ।५ - १३ - किम् कारणम् ।६ - १३ - यथा इति अयम् प्रकारवचने थाल् सः च सादृश्ये वर्तते ।७ - १३ - न एषः दोषः ।८ - १३ - अयम् यथाशब्दः अस्ति एव अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाची ।९ - १३ - अस्ति प्रकारवचने थाल् ।१० - १३ - तत् यत् अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाचि तस्य इदम् ग्रहणम् ।११ - १३ - अथ यः प्रकारवचने थाल् तस्य ग्रहणम् कस्मात् न भवति ।१२ - १३ - पूर्वेण प्राप्नोति सादृश्यसम्पत्ति इति ।१३ - १३ - प्रतिषेधवचनसामर्थ्यात् न भविष्यति ।१ - ३ - सुप् इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।२ - ३ - अव्ययम् इति एवम् तत् अभूत् सुब्मात्रे यथा स्यात् ।३ - ३ - माषप्रति सूपप्रति ओदनप्रति ।१ - १२ - अक्षादयः तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । अक्षादयः तृतीयान्ताः परिणा सह समस्यन्ते इति वक्तव्यम् ।२ - १२ - पूर्वोक्तस्य यथा न तत् ।३ - १२ - अयथाजातीयके द्योत्ये ।४ - १२ - अक्षेण न तथा वृत्तम् यथा पूर्वम् इति अक्षपरि शलाकापरि ।५ - १२ - एकत्वे अक्षशलाकयोः ।६ - १२ - अक्षशलाकयोः च एकवचनान्तयोः इति वक्तव्यम् ।७ - १२ - इह मा भूत् ।८ - १२ - अक्षाभ्याम् वृत्तम् अक्षैः वृत्तम् ।९ - १२ - कितवव्यवहारे च ।१० - १२ - कितवव्यवहारे इति वक्तव्यम् ।११ - १२ - इह मा भूत् ।१२ - १२ - अक्षेण इदम् न वृत्तम् शकटेन यथा पूर्वम् ।१ - १२ - योगविभागः कर्तव्यः ।२ - १२ - विभाषा इति अयम् अधिकारः. ततः अपपरिबहिरञ्चवः पञ्चम्या इति ।३ - १२ - पञ्चमीग्रहणम् शक्यम् अकर्तुम् ।४ - १२ - कथम् ।५ - १२ - सुबन्तेन इति वर्तते एतैः च कर्मप्रवचनीयैः योगे पञ्चमी विधीयते ।६ - १२ - तत्र अन्तरेण अपि पञ्चमीग्रहणम् पञ्चम्यन्तेन एव समासः भविष्यति ।७ - १२ - इदम् तर्हि प्रयोजनम् ।८ - १२ - बहिःशब्देन योगे पञ्चमी न विधीयते ।९ - १२ - तत्र अपि यथा स्यात् इति ।१० - १२ - बहिर्ग्रामात् ।११ - १२ - अथ क्रियमाणे अपि पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथम् एव एतत् सिध्यति ।१२ - १२ - पञ्चमीग्रहणसामर्थ्यात् ।१ - ४ - मर्यादाभिविधिग्रहणम् शक्यम् अकर्तुम् ।२ - ४ - कथम् ।३ - ४ - पञ्चम्यन्तेन इति वर्तते आङा च कर्मप्रवचनीययुक्ते पञ्चमी विधीयते ।४ - ४ - एतयोः च एव अर्थयोः आङ् कर्मप्रवचनीयसञ्ज्ञः भवति न अन्यत्र ।१ - ८ - किम् उदाहरणम् ।२ - ८ - अनुगङ्गम् हास्तिनपुरम् अनुगङ्गम् वाराणसी अनुशोणम् पाटलिपुत्रम् ।३ - ८ - यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता ।४ - ८ - तत्र कुतः एतत् गङ्गया सह समासः भविष्यति न पुनः वाराणस्या इति ।५ - ८ - एवर्म् तर्हि लक्षणेन इति वर्तते गङ्गा च एव हि लक्षणम् न वाराणसी ।६ - ८ - अथ वा यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता ।७ - ८ - तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यस्य आयामः इति ।८ - ८ - साधीयः च गङ्गायाः न वाराणस्याः ।१ - १२ - किमर्थः चकारः ।२ - १२ - एवकारार्थः ।३ - १२ - तिष्ठद्गुप्रभृतीनि एव ।४ - १२ - क्व मा भूत् ।५ - १२ - परमम् तिष्ठद्गु ।६ - १२ - तिष्ठद्गु कालविशेषे ।७ - १२ - तिष्ठद्गु कालविशेषे इति वक्तव्यम् ।८ - १२ - तिष्ठन्ति गावः अस्मिन् काले तिष्ठद्गु ।९ - १२ - वहद्गु ।१० - १२ - खलेयवादीनि प्रथमान्तानि अन्यपदार्थे ।११ - १२ - खलेयवादीनि प्रथमान्तानि अन्यपदार्थे समस्यन्ते ।१२ - १२ - खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् ।१ - २८ - वावचनम् किमर्थम् ।२ - २८ - विभाषा समासः यथ स्यात् ।३ - २८ - समासेन मुक्ते वाक्यम् अपि यथा स्यात् ।४ - २८ - पारम् गङ्गायाः इति ।५ - २८ - न एतत् अस्ति प्रयोजनम् ।६ - २८ - प्रकृता महाविभाषा ।७ - २८ - तया वाक्यम् अपि भविष्यति ।८ - २८ - इदम् तर्हि प्रयोजनम् अव्ययीभावेन मुक्ते षष्ठीसमासः यथा स्यात् ।९ - २८ - गङ्गापारम् इति ।१० - २८ - एतत् अपि न अस्ति प्रयोजनम् ।११ - २८ - अयम् अपि विभाषा षष्ठीसमासः अपि ।१२ - २८ - तौ उभौ वचनात् भविष्यतः ।१३ - २८ - अतः उत्तरम् पठति ।१४ - २८ - पारे मध्ये षष्ठ्या वावचनम् ।१५ - २८ - पारे मध्ये षष्ठ्या वा इति वक्तव्यम् ।१६ - २८ - अवचने हि षष्ठीसमासाभावः यथा एकदेशिप्रधाने ।१७ - २८ - अक्रियमाणे हि वावचने षष्ठीसमासस्य अभावः स्यात् यथा एकदेशिप्रधाने ।१८ - २८ - तत् यथ एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।१९ - २८ - किम् पुनः कारणम् एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।२० - २८ - समासतद्धितानाम् वृत्तिः विभाषा ।२१ - २८ - वृत्तिविषये नित्यः अपवादः ।२२ - २८ - इह पुनः वावचने क्रियमाणे एकया वृत्तिः विभाषा अपरया वृत्तिविषये विभाषापवादः ।२३ - २८ - एकारान्तनिपातनम् च ।२४ - २८ - एकारान्तनिपातनम् च कर्तव्यम् ।२५ - २८ - पारेगङ्गम् इति ।२६ - २८ - न कर्तव्यम् ।२७ - २८ - सप्तम्याः अलुका सिद्धम् ।२८ - २८ - भवेत् सिद्धम् यदा सप्तमी यदा तु अन्याः विभक्तयः तदा न सिध्यति ।१ - २७ - नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः ।२ - २७ - नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः वक्तव्यः ।३ - २७ - द्वीरावतीकः देशः त्रीरावतीकः देशः ।४ - २७ - नदीभिः सङ्ख्या इति प्राप्नोति ।५ - २७ - न वक्तव्यः ।६ - २७ - इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।७ - २७ - पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः. न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।८ - २७ - ननु च यत् येन उच्यते सः तस्य अर्थः भवति ।९ - २७ - अत्र च वयम् एताभ्याम् पदाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः ।१० - २७ - एतत् एव च जानीमः यत् येन उच्यते सः तस्य अर्थः इति ।११ - २७ - अपि च अन्यपदार्थता न प्रकल्पेत ।१२ - २७ - चित्रगुः शबलगुः इति ।१३ - २७ - किम् कारणम् ।१४ - २७ - अत्र अपि हि वयम् एताभ्याम् शब्दाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः ।१५ - २७ - यदि अपि अत्र एताभ्याम् शब्दाभ्याम् एषः अर्थः उच्यते अन्यपदार्थः अपि तु गम्यते ।१६ - २७ - तत्र अन्यपदार्थाश्रयः बहुव्रीहिः भविष्यति ।१७ - २७ - इह अपि तर्हि अन्यपदार्थः गम्यते स्वपदार्थः अपि तु गम्यते ।१८ - २७ - तत्र स्वपदार्थाश्रयः अव्ययीभावः प्राप्नोति ।१९ - २७ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।२० - २७ - अव्ययीभावः क्रियताम् बहुव्रीहिः इति ।२१ - २७ - बहुव्रीहिः भविष्यति विप्रतिषेधेन ।२२ - २७ - भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति ।२३ - २७ - आरम्भसामर्थ्यात् अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः ।२४ - २७ - परङ्कार्यत्वे च न दोषः ।२५ - २७ - नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः ।२६ - २७ - सः च अवश्यम् वक्तव्यः ।२७ - २७ - सर्वम् एकनदीतरे ।१ - ३ - द्विगोः तत्पुरुषत्वे कानि प्रयोजनानि ।२ - ३ - द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् ।३ - ३ - पञ्चगवम् दशगवम् पञ्चराजम् दशराजम् ।१ - ५० - श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् ।२ - ५० - श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।३ - ५० - ग्रामम् गमी ग्रमगमी ग्रमम् गामी ग्रामगामी ।४ - ५० - श्रितादिभिः अहीने द्वितीयासमासवचनानर्थक्यम् बहुव्रीहिकृतत्वात् ।५ - ५० - श्रितादिभिः अहीनवाचिन्याः द्वितीयायाः समासवचनम् अनर्थकम् ।६ - ५० - किम् कारणम् ।७ - ५० - बहुव्रीहिकृतत्वात् ।८ - ५० - इह हि यः कष्टम् श्रितः कष्टम् अनेन श्रितम् भवति ।९ - ५० - तत्र बहुव्रीहिणा सिद्धम् ।१० - ५० - अहीने द्वीतीयास्वरवचनानर्थक्यम् च ।११ - ५० - अहीने द्वितीया पूर्वपदम् प्रकृतिस्वरम् भवति इति एतत् स्वरवचनम् अनर्थकम् ।१२ - ५० - किम् कारणम् ।१३ - ५० - बहुव्रीहिकृतत्वात् एव ।१४ - ५० - जातिस्वरप्रसङ्गः तु ।१५ - ५० - जातिस्वरः तु प्राप्नोति ।१६ - ५० - ग्रामततः अरण्यगतः ।१७ - ५० - जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः इति ।१८ - ५० - तत्र जातादिषु वावचनात् सिद्धम् ।१९ - ५० - यत् एतत् वा जाते इति एतत् वा जातादिषु इति वक्ष्यामि ।२० - ५० - इमे जातादयः भविष्यन्ति ।२१ - ५० - ननु च भेदः भवति ।२२ - ५० - बहुव्रीहौ सति समासान्तोदात्तत्वेन अपि भवितव्यम् पूर्वपदप्रकृतिस्वरत्वेन अपि तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेन एव ।२३ - ५० - न अस्ति भेदः ।२४ - ५० - यः अपि तत्पुरुषम् आरभते न तस्य दण्डवारितः बहुव्रीहिः ।२५ - ५० - तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ ।२६ - ५० - बहुव्रीहौ सति एकः समासः द्विस्वरत्वम् ।२७ - ५० - एवम् तर्हि सिद्धे सति यत् तत्पुरुषम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिः च तत्र तत्पुरुषः भवति इति ।२८ - ५० - किम् एतस्य ज्ञापने प्रयोजनम् ।२९ - ५० - राज्ञः सखा राजसखः ।३० - ५० - राजा सखा अस्य इति बहुव्रीहिः न भवति ।३१ - ५० - न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः बाध्यन्ते इति ।३२ - ५० - बाधकेन अनेन भवितव्यम् सामान्यविहितस्य विशेषविहितेन ।३३ - ५० - अथ न सामान्यविहितः ।३४ - ५० - यत् उच्यते बहुव्रीहिकृतत्वात् इति एतत् अयुक्तम् ।३५ - ५० - अस्ति खलु अपि विशेषः बहुव्रीहेः तत्पुरुषस्य च ।३६ - ५० - किम् शब्दकृतः अथ अर्थकृतः ।३७ - ५० - शब्दकृतः व अर्थकृतः च ।३८ - ५० - शब्दकृतः तावत् ।३९ - ५० - बहुव्रीहौ सति कपा भवितव्यम् ।४० - ५० - तत्पुरुषे सति न भवितव्यम् ।४१ - ५० - अर्थकृतः ।४२ - ५० - तत्पुरुषे सति रुहादीनाम् क्तः कर्तरि भवति धात्वर्थस्य अनपवर्गे ।४३ - ५० - आरूढः वृक्षम् देवदत्तः इति ।४४ - ५० - बहुव्रीहौ व्यपवृक्ते कर्मणि भवति ।४५ - ५० - आरूढः वृक्षः देवदत्तेन इति ।४६ - ५० - अन्यथाजातीयकः खलु अपि प्रत्यक्षेण अर्थसम्प्रत्ययः अन्यथाजातीयकः सम्बन्धात् ।४७ - ५० - राज्ञः सखा राजसखा ।४८ - ५० - सम्बन्धात् एतत् गन्तव्यम् नूनम् राज अपि अस्य सखा इति ।४९ - ५० - उभयम् खलु अपि इष्यते ॒ स्वस्ति सोमसखा पुनः एहि ।५० - ५० - गवाङ्सखः इति ।१ - ७ - किम् उदाहरणम् ।२ - ७ - खट्वारूढः जाल्मः ।३ - ७ - क्षेपे इति उच्यते ।४ - ७ - कः क्षेपः नाम ।५ - ७ - अधीत्य स्नात्वा गुरुभिः अनुज्ञातेन खट्वा आरोढव्या ।६ - ७ - यः इदानीम् अतः अन्यथ करोति सः खट्वारूढः अयम् जाल्मः ।७ - ७ - न अतिव्रतवान् इति ।१ - १२ - अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तेन समासवचनानर्थक्यम् ।२ - १२ - अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तान्तेन च अक्तान्तेन च कालाः क्तान्तेन इति समासवचनम् अनर्थकम् ।३ - १२ - अत्यन्तसंयोगे इति एव सिद्धम् ।४ - १२ - अनत्यन्तसंयोगार्थम् तु ।५ - १२ - अनत्यन्तसंयोगार्थम् तर्हि इदम् वक्तव्यम् ।६ - १२ - षट् मुहूर्ताः चराचराः ।७ - १२ - ते कदा चित् अहः गच्छन्ति कदा चित् रात्रिम् ।८ - १२ - तत् उच्यते अहर्गताः रात्रिगताः इति ।९ - १२ - न एतत् अस्ति ।१० - १२ - गतग्रहणात् अपि एतत् सिद्धम् ।११ - १२ - इदम् तर्हि ।१२ - १२ - अहरतिसृताः रात्र्यतिसृताः मासप्रमितः चन्द्रमाः ।१ - ५२ - तत्कृतार्थेन इति किमर्थम् ।२ - ५२ - दध्ना पटुः घृतेन पटुः ।३ - ५२ - न एतत् अस्ति ।४ - ५२ - असामर्थ्यात् अत्र न भविष्यति ।५ - ५२ - कथम् असामर्थ्यम् ।६ - ५२ - सापेक्षम् असमर्थम् भवति इति ।७ - ५२ - न हि दध्नः पटुना सामर्थ्यम् ।८ - ५२ - केन तर्हि ।९ - ५२ - भुजिना ।१० - ५२ - दध्ना भुङ्क्ते पटुः इति ।११ - ५२ - इह अपि तर्हि न प्राप्नोति ।१२ - ५२ - शङ्कुलाखण्डः किरिकाणः इति ।१३ - ५२ - अत्र अपि न शङ्कुलायाः खण्डेन सामर्थ्यम् ।१४ - ५२ - केन तर्हि ।१५ - ५२ - करोतिना ।१६ - ५२ - शङ्कुलया कृतः खण्डः इति ।१७ - ५२ - वचनात् भविष्यति ।१८ - ५२ - इह अपि वचनात् भविष्यति दध्ना पटुः घृतेन पटुः इति ।१९ - ५२ - तस्मात् तत्कृतार्थग्रहणम् कर्तव्यम् ।२० - ५२ - गुणवचनेन इति किमर्थम् ।२१ - ५२ - गोभिः वपावान् धान्येन धनवान् ।२२ - ५२ - किम् पुनः इह उदाहरणम् ।२३ - ५२ - शङ्कुलाखण्डः देवदत्तः इति ।२४ - ५२ - कथम् पुनः गुणवचनेन समासः उच्यमानः द्रव्यवचनेन स्यात् ।२५ - ५२ - इह तृतीया तत्कृतार्थेन गुणेन इति इयता सिद्धम् ।२६ - ५२ - सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत गुणम् उक्तवता गुणवचनेन इति ।२७ - ५२ - कथम् पुनः अयम् गुणवचनः सन् द्रव्यवचनः सम्पद्यते ।२८ - ५२ - आरभ्यते तत्र मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् इति ।२९ - ५२ - तत् यथा शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः एवम् खण्डगुणः खण्डः ।३० - ५२ - यदि एवम् न अर्थः कृतार्थग्रहणेन ।३१ - ५२ - भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम् ।३२ - ५२ - असामर्थ्यात् च अत्र न भविष्यति दध्ना पटुः घृतेन पटुः इति ।३३ - ५२ - तस्मत् न अर्थः तत्कृतार्थग्रहणेन ।३४ - ५२ - तृतीयासमासे अर्थग्रहणम् अनर्थकम् अर्थगतिः हि अवचनात् ।३५ - ५२ - तृतीयासमासे अर्थग्रहणम् अनर्थकम् ।३६ - ५२ - किम् कारणम् ।३७ - ५२ - अर्थगतिः हि अवचनात् ।३८ - ५२ - अन्तरेण अपि वचनम् अर्थगतिः भविष्यति ।३९ - ५२ - निर्देश्यम् इति चेत् तृतीयार्थनिर्देशः अपि ।४० - ५२ - अथ एवम् अपि निर्देशः कर्तव्यः इति चेत् तृतीयार्थनिर्देशः अपि कर्तव्यः स्यात् ।४१ - ५२ - तृतीया तदर्थकृतार्थेन इति वक्तव्यम् ।४२ - ५२ - तत् तर्हि वक्तव्यम् ।४३ - ५२ - न वक्तव्यम् ।४४ - ५२ - न अयम् अर्थनिर्देशः ।४५ - ५२ - किम् तर्हि ।४६ - ५२ - योगाङ्गम् इदम् निर्दिश्यते ।४७ - ५२ - सति च योगाङ्गे योगविभागः करिष्यते ।४८ - ५२ - तृतीया तत्कृतेन गुणवचनेन समस्यते ।४९ - ५२ - ततः अर्थेन ।५० - ५२ - अर्थशब्देन च तृतीया समस्यते ।५१ - ५२ - धान्याऋथः वसनार्थः ।५२ - ५२ - पूर्वसदृशसमोनार्थ इति अर्थग्रहणम् न कर्तव्यम् भवति ।१ - ७ - पूर्वादिषु अवरस्य उपसङ्ख्यानम् ।२ - ७ - पूर्वादिषु अवरस्य उपसङ्ख्यानम् ।३ - ७ - मासावरः अयम् संवत्सरावरः अयम् ।४ - ७ - सदृशग्रहणे उक्तम् ।५ - ७ - किम् उक्तम् ।६ - ७ - सद्र्शग्रहणम् अनर्थकम् तृतीयासमासवचनात् ।७ - ७ - षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् इति ।१ - ८ - कर्तृकरणे कृता क्तेन ।२ - ८ - कर्तृकरणे कृता क्तेन इति वक्तव्यम्. अहिहतः नखनिर्भिन्नः दात्रलूनः परशुच्छिन्नः ।३ - ८ - कृता क्तेन इति किमर्थम् ।४ - ८ - इह मा भूत् ।५ - ८ - दात्रेण लूनवान् परशुना छिन्नवान् ।६ - ८ - तत् तर्हि वक्तव्यम् ।७ - ८ - न वक्तव्यम् ।८ - ८ - बहुलवचनात् सिद्धम् ।१ - ७ - कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते ।कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते इति वक्तव्यम् ।२ - ७ - बुसोपेन्ध्यम् तृणोपेन्ध्यम् घनघात्यम् ।३ - ७ - साधनम् कृता इति वा पादहारकाद्यर्थम् ।४ - ७ - अथ वा साधनम् कृता सह समस्यते इति वक्तव्यम् ।५ - ७ - किम् प्रयोजनम् ।६ - ७ - पादहारकाद्यर्थम् ।७ - ७ - पादाभ्याम् ह्रियते पादहारकः गले चोप्यते गलेचोपकः ।१ - ३७ - अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः ।२ - ३७ - अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः अयम् द्रष्टव्यः ।३ - ३७ - किम् कारणम् ।४ - ३७ - कारकाणाम् क्रियया सामर्थ्यात् ।५ - ३७ - कारकाणाम् क्रियया सामर्थ्यम् भवति न तेषाम् अन्योन्येन ।६ - ३७ - तत् यथा निश्रयण्या द्वाभ्याम् काष्ठाभ्याम् सामर्थ्यम् न तेषाम् अन्योन्येन ।७ - ३७ - एवम् तर्हि आह अयम् अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति न च अस्ति सामर्थ्यम् ।८ - ३७ - तत्र वचनात् समासः भविष्यति ।९ - ३७ - वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः । वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः वक्तव्यः ।१० - ३७ - तिष्ठतु दध्ना ओदनः भुज्यते देवदत्तेन ।११ - ३७ - सिद्धम् तु समानाधिकरणाधिकारे क्तः तृतीयापूर्वपदः उत्तरपदलोपः च षिद्धम् एतत् ।१२ - ३७ - कथम् ।१३ - ३७ - समानाधिकरणाधिकारे वक्तव्यम् क्तः तृतीयापूर्वपदः समस्यतेसुपा उत्तरपदस्य च लोपः भवति इति ।१४ - ३७ - दध्ना उपसिक्तः दध्युपसिक्तः दध्युपसिक्तः ओदनः दध्योदनः गुडेन संसृष्टाः गुडसंसृष्टाः , गुडसंसृष्टाः धानाः गुडधानाः ।१५ - ३७ - षष्ठीसमासः च युक्तपूर्णान्तः ।१६ - ३७ - षष्ठीसमासः च युक्तपूर्णान्तः समस्यते उत्तरपदस्य च लोपः वक्तव्यः ।१७ - ३७ - अश्वानाम् युक्तः अश्वयुक्तः अश्वयुक्तः रथः अश्वरथः ।१८ - ३७ - दध्नः पूर्णः ददिपूर्णः दधिपूर्णः घटः दधिघटः ।१९ - ३७ - तत् तर्हि बहु वक्तव्यम् ।२० - ३७ - न वा असमासे अदर्शनात् ।२१ - ३७ - न वा वक्तव्यम् ।२२ - ३७ - किम् कारणम् ।२३ - ३७ - असमासे अदर्शनात् ।२४ - ३७ - यत् हि असमासे दृश्यते समासे च न दृश्यते तत् लोपारम्भम् प्रयोजयति ।२५ - ३७ - न च असमासे उपसिक्तशब्दः संसृष्टशब्दः पूर्णशब्दः वा दृश्यते ।२६ - ३७ - कथम् तर्हि सामर्थ्यम् गम्यते ।२७ - ३७ - युक्तार्थसम्प्रत्ययात् च सामर्थ्यम् ।२८ - ३७ - दध्ना युक्तार्थता सम्प्रतीयते ।२९ - ३७ - कथम् पुनः ज्ञायते दध्ना युक्तार्थता सम्प्रतीयते इति ।३० - ३७ - सम्प्रत्ययात् च तदर्थाध्यवसानम् ।३१ - ३७ - सम्प्रत्ययात् च तदर्थः अध्यवसीयते ।३२ - ३७ - अवश्यम् च एतत् एवम् विज्ञेयम् ।३३ - ३७ - सम्प्रतीयमानार्थलोपे हि अनवस्था ।यः हि मन्यते सम्प्रतीयमानार्थानाम् शब्दानाम् लोपः भवति इति अनवस्था तस्य लोपस्य स्यात् ।३४ - ३७ - दधि इति उक्ते बहवः अर्थाः गम्यन्ते मन्दकम् उत्तरकम् निलीनकम् इति तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।३५ - ३७ - तथा गुडः इति उक्ते मधुरशब्दस्य शृङ्गवेरम् इति उक्ते च कटुशब्दस्य ।३६ - ३७ - अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।३७ - ३७ - तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।१ - १०५ - किम् चतुर्थ्यन्तस्य तदर्थमात्रेण समासः भवति ।२ - १०५ - एवम् भवितुम् अर्हति ।३ - १०५ - चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः अविशेषात् ।४ - १०५ - चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति ।५ - १०५ - अनेन अपि प्राप्नोति ।६ - १०५ - रन्धनाय स्थाली अवहननाय उलूखलम् इति ।७ - १०५ - किम् कारणम् ।८ - १०५ - अविशेषात् ।९ - १०५ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासः भवति इति ।१० - १०५ - अनुपादीयमने विशेषे सर्वप्रसङ्गः ।११ - १०५ - बलिरक्षिताभ्याम् च अनर्थकम् वचनम् ।१२ - १०५ - बलिरक्षिताभ्याम् च समासवचनम् अनर्थकम् ।१३ - १०५ - यः हि महाराजाय बलिः महाराजार्थः सः भवति ।१४ - १०५ - तत्र तदर्थः इति एव सिद्धम् ।१५ - १०५ - यदि पुनः विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति एतत् लक्षणम् क्रियेत ।१६ - १०५ - विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् ।१७ - १०५ - विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।१८ - १०५ - अश्वघासः श्वश्रूसुरम् हस्तिविधा इति ।१९ - १०५ - अर्थेन नित्यसमासवचनम् ।२० - १०५ - अर्थ्शब्देन नित्यसमासः वक्तव्यः ।२१ - १०५ - ब्राह्मणार्थम् क्षत्रियार्थम् ।२२ - १०५ - किम् विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति अतः अर्थेन नित्यसमासः वक्तव्यः ।२३ - १०५ - न इति आह सर्वथा अर्थेन नित्यसमासः वक्तव्यः विग्रहः मा भूत् इति ।२४ - १०५ - सर्वलिङ्गता च ।२५ - १०५ - सर्वलिङ्गता च वक्तव्या ।२६ - १०५ - ब्राह्मणार्थम् पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूः इति ।२७ - १०५ - किम् अर्थेन नित्यसमासः उच्यते इति अतः सर्वलिङ्गता वक्तव्या ।२८ - १०५ - न इति आह ।२९ - १०५ - सर्वथा सर्वलिङ्गता वक्तव्या ।३० - १०५ - किम् कारणम् ।३१ - १०५ - अर्थशब्दः अयम् पुंलिङ्गः उत्तरपदार्थप्रधानः च तत्पुरुषः ।३२ - १०५ - तेन पुंलिङ्गस्य एव समासस्य अभिधानम् स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात् ।३३ - १०५ - तत् तर्हि बहु वक्तव्यम् ।३४ - १०५ - विकृतिः प्रकृत्या इति वक्तव्यम् ।३५ - १०५ - अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।३६ - १०५ - अर्थेन नित्यसमासः वक्तव्यः ।३७ - १०५ - सर्वलिङ्गता च वक्तव्या ।३८ - १०५ - न वक्तव्यम् ।३९ - १०५ - यत् तावत् उच्यते विकृतिः प्रकृत्या इति वक्तव्यम् ।४० - १०५ - न वक्तव्यम् ।४१ - १०५ - आचार्यप्रवृत्तिः ज्ञायपति विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति यत् अयम् बलिरकिषितग्रहणम् करोति ।४२ - १०५ - कथम् कृत्वा ज्ञापकम् ।४३ - १०५ - यथाजातीयकानाम् समासे बलिरक्षितग्रहणेन अर्थः तथाजातीयकानाम् समासः ।४४ - १०५ - यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण ततः बलिरकिषितग्रहणम् अर्थवत् भवति ।४५ - १०५ - यत् अपि उच्यते अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् इति ।४६ - १०५ - न कर्तव्यम् ।४७ - १०५ - अश्वघासादयः षष्ठीसमासाः भविष्यन्ति ।४८ - १०५ - यत् हि यदर्थम् भवति अयम् अपि तत्र अभिसम्बन्धः भवति अस्य इदम् इति ।४९ - १०५ - तत् यथा गुरोः इदम् गुर्वर्थम् इति ।५० - १०५ - ननु च स्वरभेदः भवति ।५१ - १०५ - चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् षष्ठीसमासे पुनः अन्तोदात्तत्वेन ण अस्ति भेदः ।५२ - १०५ - चतुर्थीसमासे अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।५३ - १०५ - कथम् ।५४ - १०५ - आचार्यप्रवृत्तिः ज्ञापयति विकृतिः चतुर्थ्यन्ता प्रकृतिस्वरा भवति न चतुर्थीमात्रम् इति यत् अयम् चतुर्थी तदर्थे अर्थे क्ते च इति अर्थग्रहणम् क्तग्रहणम् च करोति ।५५ - १०५ - कथम् कृत्वा ज्ञापकम् ।५६ - १०५ - यथाजातीयकानाम् अर्थग्रहणेन क्तग्रहणेन च अर्थः तथाजातीयकानाम् प्रकृतिस्वरत्वम् ।५७ - १०५ - यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम् ततः अर्थग्रहणम् क्तग्रहणम् च अर्थवत् भवति ।यत् अपि उच्यते अर्थेन नित्यसमासः वक्तव्यः इति ।५८ - १०५ - न वक्तव्यः ।५९ - १०५ - सर्थप्प्रत्ययः करिष्यते ।६० - १०५ - किम् कृतम् भवति ।६१ - १०५ - न च एव हि कदा चित् विग्रहः भवति ।६२ - १०५ - अपि च सर्वलिङ्गता सिद्धा भवति ।६३ - १०५ - यदि सर्थप्प्रतयः क्रियते इत्सञ्ज्ञा न प्राप्नोति ।६४ - १०५ - अथ अपि कथम् चित् इत्सञ्ज्ञा स्यात् एवम् अपि श्र्यर्थम् भ्वर्थम् इति अङ्गस्य इति इयङुवङौ स्याताम् ।६५ - १०५ - एवम् तर्हि बहुव्रीहिः भवैष्यति ।६६ - १०५ - किम् कृतम् भवति ।६७ - १०५ - भवति वै कः चित् अस्वपदविग्रहः बहुव्रीहिः ।६८ - १०५ - तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति ।६९ - १०५ - न एवम् शक्यम् ।७० - १०५ - इह हि महदर्थम् इति आत्त्वकपौ प्रसज्येताम् ।७१ - १०५ - एवम् तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः करिष्यते ।७२ - १०५ - किम् कृतम् भवति ।७३ - १०५ - न च एव कदा चित् आदेशेन विग्रहः भवति ।७४ - १०५ - अपि च सर्वलिङ्गता सिद्धा भवति ।७५ - १०५ - तत् तर्हि वक्तव्यम् ।७६ - १०५ - न वक्तव्यम् ।७७ - १०५ - योगविभागः करिष्यते ।७८ - १०५ - चतुर्थी सुबन्तेन सह समस्यते ।७९ - १०५ - ततः तदर्थार्थ ।८० - १०५ - तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति ।८१ - १०५ - इह अपि तर्हि समासः प्राप्नोति छात्राय रुचितम् छात्राय स्वदितम् इति ।८२ - १०५ - आचार्यप्रवृत्तिः ज्ञापयति तादर्थ्ये य चतुर्थी सा समस्यते न चतुर्थीमात्रम् इति यत् अयम् हितसुखग्रहणम् करोति ।८३ - १०५ - कथम् कृत्वा ज्ञापकम् ।८४ - १०५ - यथाजातीयकानाम् समासे हितसुखग्रहणेन अर्थः तथाजातीयकानम् समासः ।८५ - १०५ - यदि च तादर्थ्ये या चतुर्थी सा समस्यते न चतुर्थीमात्रम् ततः हितसुखग्रहणम् अर्थवत् भवति ।८६ - १०५ - इह अपि तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः प्राप्नोति ।८७ - १०५ - यूपाय दारु यूपदारु रथदारु ।८८ - १०५ - वावचनम् विधास्यते ।८९ - १०५ - इह अपि तर्हि विभाषा प्राप्र्नोति ।९० - १०५ - ब्राह्मणाऋथम् क्षत्रियार्थम् इति ।९१ - १०५ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति प्रकृतिविकृत्योः यः समासः तत्र तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति अन्यत्र नित्यः इति यत् अयम् बलिहितग्रहणम् करोति ।९२ - १०५ - एवम् तर्हि उदकार्थः वीवधः ।९३ - १०५ - स्थानिवद्भावात् उदभावः प्राप्नोति ।९४ - १०५ - तस्मात् न एवम् शक्यम् ।९५ - १०५ - न चेत् एवम् अर्थेन नित्यसमासः वक्तव्यः सर्वलिङ्गता च ।९६ - १०५ - न एषः दोषः ।९७ - १०५ - इदम् तावत् अयम् प्रष्टव्यः ।९८ - १०५ - अथ इह ब्राह्मणेभ्यः इति का एषा चतुर्थी ।९९ - १०५ - तादर्थ्ये इति आह ।१०० - १०५ - यदि तादर्थ्ये चतुर्थी अर्थशब्दस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।१०१ - १०५ - समासः अपि तर्हि न प्राप्नोति ।१०२ - १०५ - वचनात् समासः भविष्यति ।१०३ - १०५ - यत् अपि उच्यते सर्वलिङ्गता च वक्तव्या इति ।१०४ - १०५ - न वक्तव्या ।१०५ - १०५ - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।१ - ४ - अत्यल्पम् इदम् उच्यते भयेन इति ।२ - ४ - भयभीतभीतिभीभिः इति वक्तव्यम् ।३ - ४ - वृकात् भयम् वृकभयम् वृकात् भीतः वृकभीतः वृकात् भीतिः वृकभीतिः वृकात् भीः वृकभीः इति ।४ - ४ - अपरः आह ॒ भयनिर्गतजुगुप्सुभिः इति वक्तव्यम् ॒ वृकभयम् ग्रामनिर्गतः अधर्मजुगुप्सुः इति ।१ - ६ - शौण्डादिभिः इति वक्तव्यम् ।२ - ६ - इह अपि यथा स्यात् ।३ - ६ - अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितवः इति ।४ - ६ - तत् तर्हि वक्तव्यम् ।५ - ६ - न वक्तव्यम् ।६ - ६ - बहुवचननिर्देशात् शौण्डादिभिः इति विज्ञास्यते ।१ - ७ - ध्वाङ्क्षेण इति अर्थग्रहणम् ।२ - ७ - ध्वाङ्क्षेण इति अर्थग्रहणम् कर्तव्यम् ।३ - ७ - इह अपि यथा स्यात् ।४ - ७ - तीर्थकाकः इति ।५ - ७ - क्षेपे इति उच्यते ।६ - ७ - कः इह क्षेपः नाम ।७ - ७ - यथा तीर्थे काकाः न चिरम् स्थातारः भवन्ति एवम् यः गुरुकुलानि गत्वा न चिरम् तिष्ठति स उच्यते तीर्थकाकः इति ।१ - १२ - कृत्यैः नियोगे यद्ग्रहणम् ।२ - १२ - कृत्यैः नियोगे इति वक्तव्यम् ।३ - १२ - इह अपि यथा स्यात् ।४ - १२ - पूर्वाःणेगेयम् साम प्रातः अध्येयः अनुवाकः इति ।५ - १२ - तत् तर्हि वक्तव्यम् ।६ - १२ - न वक्तव्यम् ।७ - १२ - ऋणे इति एव सिद्धम् ।८ - १२ - इह यत् यस्य नियोगतः कार्यम् ऋणम् तस्य तत् भवति ।९ - १२ - ततः ऋणे इति एव सिद्धम् ।१० - १२ - यग्रहणम् च कर्तव्यम् ।११ - १२ - इह मा भूत् ।१२ - १२ - पूर्वाह्णे दातव्या भिक्षा इति ।१ - ९ - किम् उदाहरणम् ।२ - ९ - अवतप्तेनकुलस्थितम् ते एतत् ।३ - ९ - क्षेपे इति उच्यते ।४ - ९ - कः इह क्षेपः नाम ।५ - ९ - यथा अवतप्ते नकुलाः न चिरम् स्थातारः भवन्ति एवम् कार्याणि आरभ्य यः न चिरम् तिष्ठति स उच्यते अवतप्तेनकुलस्थितम् ते एतत् इति ।६ - ९ - क्षेपे सप्तम्यन्तम् क्तान्तेन सह समस्यते इति उच्यते ।७ - ९ - तत्र सगतिकेन सनकुलेन च समासः न प्राप्नोति ।८ - ९ - क्षेपे गतिकारकपूर्वे उक्तम् । किम् उक्तम् ।९ - ९ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।१ - ५ - किमर्थः चकारः ।२ - ५ - एवकारार्थः ।३ - ५ - पात्रेसमितादयः एव ।४ - ५ - क्व मा भूत् ।५ - ५ - परमम् पात्रेसमिताः इति ।१ - १३ - इह कस्मात् अव्ययीभावः न भवति ।२ - १३ - एका नदी एकनदी ।३ - १३ - नदीभिः सङ्ख्या इति प्राप्नोति ।४ - १३ - इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।५ - १३ - पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः. न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।६ - १३ - अथवा अव्ययीभावः क्रियताम् बहुव्रीहिः इति ।७ - १३ - बहुव्रीहिः भविष्यति विप्रतिषेधेन ।८ - १३ - भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति ।९ - १३ - आरम्भसामर्थ्यात् च अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः ।१० - १३ - परङ्कार्यत्वे च न दोषः ।११ - १३ - नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः ।१२ - १३ - सः च अवश्यम् वक्तव्यः ।१३ - १३ - सर्वम् एकनदीतरे । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP