संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय १|पाद ३| खण्ड १७ पाद ३ खण्ड १५ खण्ड १६ खण्ड १७ पाद ३ - खण्ड १७ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड १७ Translation - भाषांतर १ - १९ - अकर्मकात् इति एव ।२ - १९ - उत् तपति सुवर्णम् सुवर्णकारः ।३ - १९ - स्वाङ्गकर्मकात् च ।४ - १९ - स्वाङ्गकर्मकात् च इति वक्तव्यम् ।५ - १९ - उत्तपते पाणी ।६ - १९ - वितपते पाणी ।७ - १९ - उत्तपते पृष्ठम् ।८ - १९ - वितपते पृष्ठम् ।९ - १९ - अथ उद्भिभ्याम् इति अत्र किम् प्रत्युदाह्रियते ।१० - १९ - निष्टप्यते इति ।११ - १९ - किम् पुनः कारणम् आत्मनेपदम् एव उदाह्रियते न परस्मैपदम् प्रत्युदाहार्यम् स्यात् ।१२ - १९ - तपिः अयम् अकर्मकः ।१३ - १९ - अकर्मकाः च अपि सोपसर्गाः सकर्मकाः भवन्ति ।१४ - १९ - न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति ।१५ - १९ - यत् उच्यते न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति इति अन्तरेण अपि कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति ।१६ - १९ - तत् यथा ।१७ - १९ - नदीवहति इति अकर्मकः ।१८ - १९ - भारम् वहति इति सकर्मकः ।१९ - १९ - तस्मात् निष्टपति इति प्रत्युदाहर्तव्यम् ।१ - ७ - अकर्मकात् इति एव ।२ - ७ - आयच्छति रज्जुम् कूपात् ।३ - ७ - आहन्ति वृषलम् पादेन ।४ - ७ - स्वाङ्गकर्मकात् च ।५ - ७ - स्वाङ्गकर्मकात् च इति वक्तव्यम् ।६ - ७ - आयच्छते पाणी ।७ - ७ - आहते उदरम् इति ।१ - १५ - समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् ।२ - १५ - समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् कर्तव्यम् ।३ - १५ - संवित्ते सम्पृच्छते संस्वरते ।४ - १५ - अर्तिश्रुदृशिभ्यः च ।५ - १५ - अर्तिश्रुदृशिभ्यः च इति वक्तव्यम् ।६ - १५ - म समृत मा समृषाताम् मा समृषत ।७ - १५ - अर्ति ।८ - १५ - श्रु ।९ - १५ - संश्र्णुते ।१० - १५ - दृशि ।११ - १५ - सम्पश्यते ।१२ - १५ - उपसर्गात् अस्यत्यूह्योः वावचनम् ।१३ - १५ - उपसर्गात् अस्त्यूह्योः वा इति वक्तव्यम् ।१४ - १५ - निरस्यति निरस्यते ।१५ - १५ - समूहति समूहते ।१ - ३ - ज्योतिषाम् उद्गमने. ज्योतिषाम् उद्गमने इति वक्तव्यम् ।२ - ३ - इह मा भूत् ।३ - ३ - आक्रामति धूमः हर्म्यतलम् इति ।१ - १९ - व्यक्तवाचाम् इति किमर्थम् ।२ - १९ - वरतनु सम्प्रवदन्ति कुक्कुटाः ।३ - १९ - व्यक्तवाचाम् इति उच्यमाने अपि अत्र प्राप्नोति ।४ - १९ - एते अपि हि व्यक्तवाचः ।५ - १९ - आतः च व्यक्तवाचः कुक्कुटेन उदिते उच्यते कुक्कुटः वदति इति ।६ - १९ - एवम् तर्हि व्यक्तवाचाम् इति उच्यते ।७ - १९ - सर्वे एव हि व्यक्तवाचः ।८ - १९ - तत्र प्रकर्षगतिः विज्ञास्यते ।९ - १९ - साधीयः ये व्यक्तवाचः इति ।१० - १९ - के च साधीयः ।११ - १९ - येषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते ।१२ - १९ - न च एतेषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते ।१३ - १९ - एतेषाम् अपि वाचि अकारादयः वर्णाः व्यज्यन्ते ।१४ - १९ - आतः च व्यज्यन्ते एवम् हि आहुः कुक्कुटाः कुक्कुट् इति ।१५ - १९ - न एवम् ते आहुः ।१६ - १९ - अनुकरणम् एतत् तेषाम् ।१७ - १९ - अथ वा न एवम् विज्ञायते व्यक्ता वाक् येषाम् ते इमे व्यक्तवाचः इति ।१८ - १९ - कथम् तर्हि ।१९ - १९ - व्यक्ता वाचि वर्णाः येषाम् ते इमे व्यक्तवाचः इति ।१ - ६ - अवाद् ग्रः गिरतेः ।२ - ६ - अवाद् ग्रः इति अत्र गिरतेः इति वक्तव्यम् ।३ - ६ - गृणातेः मा भूत् ।४ - ६ - तत् तर्हि वक्तव्यम् ।५ - ६ - न वक्तव्यम् प्रयोगाभावात् ।६ - ६ - अवात् ग्रः इति उच्यते न च आपूर्वस्य गृणातेः प्रयोगः अस्ति ।१ - ८ - तृतीयायुक्तात् इति किमर्थम् ।२ - ८ - उभौ लोकौ चञ्चरसि इमम् च अमुम् च देवल ।३ - ८ - तृतीयायुक्तात् इति उच्यमाने अपि अत्र प्राप्नोति ।४ - ८ - अत्र अपि हि तृतीयया योगः ।५ - ८ - एवम् तर्हि तृतीयायुक्तात् इति उच्यते सर्वत्र च तृतीयया योगः ।६ - ८ - तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यत्र तृतीयया योगः इति ।७ - ८ - क्व च साधीयः ।८ - ८ - यत्र तृतीयया योगः श्रूयते ।१ - ११ - सा चेत् तृतीया चतुर्थ्यर्थे इति उच्यते ।२ - ११ - कथम् नाम तृतीया चतुर्थ्यर्थे स्यात् ।३ - ११ - एवम् तर्हि अशिष्टव्यवहारे अनेन तृतीया च विधीयते आत्मनेपदम् च ।४ - ११ - दास्या सम्प्रयच्छते ।५ - ११ - वृषल्या सम्प्रच्छते ।६ - ११ - यः हि शिष्टव्यवहारः ब्राह्मणीभ्यः सम्प्रयच्छति इति एव तत्र भवितव्यम् ।७ - ११ - यदि एवम् न अर्थः अनेन योगेन ।८ - ११ - केन इदानीम् तृतीया भविष्यति आत्मनेपदम् च ।९ - ११ - सहयुक्ते तृतीया स्यात् व्यतिहारे तङः विधिः ।१० - ११ - सहयुक्ते अप्रधाने इति एव तृतीया भविष्यति ।११ - ११ - कर्तरि कर्मव्यतिहारे इति आत्मनेपदम् ।१ - ६ - इह कस्मात् न भवति ।२ - ६ - स्वम् शाटकान्तम् उपयच्छति इति ।३ - ६ - अस्वम् यदा स्वम् करोति तदा भवितव्यम् ।४ - ६ - यदि एवम् स्वीकरणे इति प्राप्नोति ।५ - ६ - विचित्राः तद्धितवृत्तयः ।६ - ६ - न अतः तद्धितः उत्पद्यते ।१ - १६ - अनोः ज्ञः प्रतिषेधे सकर्मकवचनम् ।२ - १६ - अनोः ज्ञः प्रतिषेधे सकर्मकग्रहणम् कर्तव्यम् ।३ - १६ - इह म भूत् ।४ - १६ - औषधस्य अनुजिज्ञासते इति ।५ - १६ - न वा अकर्मकस्य उत्तरेण विधानात् ।६ - १६ - न वा कर्तव्यम् ।७ - १६ - किम् कारणम् ।८ - १६ - अकर्मकस्य उत्तरेण विधानात् ।९ - १६ - अकर्मकात् जनातेः उत्तरेण योगेन आत्मनेपदम् विधीयते पूर्ववत् सनः इति ।१० - १६ - प्रतिषेधः पूर्वस्य च ।११ - १६ - पूर्वस्य च अयम् प्रतिषेधः ।१२ - १६ - सः च सकर्मकार्थः आरम्भः ।१३ - १६ - कथम् पुनः ज्ञायते पूर्वय्स अयम् प्रतिषेधः इति ।१४ - १६ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।१५ - १६ - कथम् पुनः ज्ञायते सकर्मकार्थः आरम्भः इति ।१६ - १६ - अकर्मकात् जानातेः सनः आत्मनेपदवचने प्रयोजनम् न अस्ति इति कृत्वा सकर्मकार्थः विज्ञायते ।१ - ३६ - शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः ।२ - ३६ - शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदस्य अभावः ।३ - ३६ - शीयते शीयेते शीयन्ते ।४ - ३६ - किम् च भोः शदेः शित् परस्मैपदेषु इति उच्यते ।५ - ३६ - न खलु परस्मैपदेषु इति उच्यते परस्मैपदेषु तु विज्ञायते ।६ - ३६ - कथम् अनुदात्तङितः आत्मनेपदम् भावकर्मणोः आत्मनेपदम् इति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् उच्यते ।७ - ३६ - एवम् न च परस्मैपदेषु उच्यते परस्मैपदेषु च विज्ञायते ।८ - ३६ - कः पुनः अर्हति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् वक्तुम् ।९ - ३६ - किम् तर्हि ।१० - ३६ - अविशेषेण सर्वम् आत्मनेपदप्रकरणम् अनुक्रम्य शेषात् कर्तरि परस्मैपदम् इति उच्यते ।११ - ३६ - एवम् अपि परस्मैपदाश्रयः भवति ।१२ - ३६ - कथम् ।१३ - ३६ - इदम् तावद् अयम् प्रष्टव्यः ।१४ - ३६ - यदि इदम् न उच्येत किम् इह स्यात् इति ।१५ - ३६ - परस्मैपदम् इति आह ।१६ - ३६ - परस्मैपदम् इति चेत् परस्मैपदाश्रयः भवति ।१७ - ३६ - सिद्धम् तु लडादीनाम् आत्मनेपदवचनम् ।१८ - ३६ - सिद्धम् एतत् ।१९ - ३६ - कथम् ।२० - ३६ - शदेः लडादीनाम् आत्मनेपदम् भवति इति वक्तव्यम् ।२१ - ३६ - सिध्यति ।२२ - ३६ - सूत्रम् तर्हि भिद्यते ।२३ - ३६ - यथान्यासम् एव अस्तु ।२४ - ३६ - ननु च उक्तम् शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः इति ।२५ - ३६ - न एषः दोषः ।२६ - ३६ - शितः इति न एषा पञ्चमी ।२७ - ३६ - का तर्हि ।२८ - ३६ - सम्बन्धषष्ठी ।२९ - ३६ - शितः यः शदिः ।३० - ३६ - कः च शितः शदिः ।३१ - ३६ - प्रकृतिः ।३२ - ३६ - शदेः शित्प्रकृतेः इति ।३३ - ३६ - अथ वा आह अयम् शदेः शितः इति न च शदिः शित् अस्ति ।३४ - ३६ - ते एवम् विज्ञास्यामः शदेः शिद्विषयात् इति ।३५ - ३६ - अथ वा यदि अपि तावत् एतत् अन्यत्र भवति विकरणेभ्यः नियमः बलीयान् इति इह एतत् न अस्ति ।३६ - ३६ - विकरणः हि इह आश्रीयते शितः इति ।१ - ६७ - उपसर्गपूर्वनियमे अड्व्यवाये उपसङ्ख्यानम् ।२ - ६७ - उपसर्गपूर्वस्य नियमे अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् ।३ - ६७ - न्यविशत व्यक्रीणीत ।४ - ६७ - किम् पुनः कारणात् न सिध्यति ।५ - ६७ - अटा व्यवहितत्वात् ।६ - ६७ - ननु च अयम् अट् धातुभक्तः धातुग्रहणेन ग्रहीष्यते ।७ - ६७ - न सिध्यति ।८ - ६७ - अङ्गस्य हि अट् उच्यते विकरणान्तम् च अङ्गम् ।९ - ६७ - सः असौ सङ्घातभक्तः न शक्यः धातुग्रहणेन ग्रहीतुम् ।१० - ६७ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ॒ अट् क्रियताम् विकरणः इति ।११ - ६७ - किम् अत्र कर्तव्यम् ।१२ - ६७ - परत्वात् अट् आगमः ।१३ - ६७ - नित्याः विकरणाः ।१४ - ६७ - कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।१५ - ६७ - अट् अपि नित्यः ।१६ - ६७ - कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति ।१७ - ६७ - अनित्यः अट् ।१८ - ६७ - अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु ।१९ - ६७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।२० - ६७ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।२१ - ६७ - अट् क्रियताम् लादेशः इति ।२२ - ६७ - किम् अत्र कर्तव्यम् ।२३ - ६७ - परत्वात् अट् आगमः ।२४ - ६७ - नित्यः लादेशः ।२५ - ६७ - कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति ।२६ - ६७ - नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः भविष्यति ।२७ - ६७ - नित्यत्वात् लादेशस्य आत्मनेपदे अट् आगमः इति चेत् अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः ।२८ - ६७ - नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः इति चेत् एवम् उच्यते ।२९ - ६७ - अट् अपि नित्यनिमित्तः ।३० - ६७ - कृते अपि लदेशे प्राप्नोति अकृते अपि प्राप्नोति ।३१ - ६७ - अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः ।३२ - ६७ - तस्मात् उपसङ्ख्यानम् ।३३ - ६७ - तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।३४ - ६७ - न कर्तव्यम् ।३५ - ६७ - अन्तरङ्गः तर्हि लादेशः ।३६ - ६७ - न एतत् विवदामहे अन्तरङ्गः न अन्तरङ्गः इति ।३७ - ६७ - अस्तु अयम् नित्यः अन्तरङ्गः च ।३८ - ६७ - अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति ॒ विकरणाः अट् आगमः नियमः इति ।३९ - ६७ - तत् यदि सर्वतः नियमः लभ्येत कृतम् स्यात् ।४० - ६७ - तत् तु न लभ्यम् ।४१ - ६७ - अथ अपि विकरणात् अट् इति अट् लभ्येत एवम् अपि कृतम् स्यात् ।४२ - ६७ - तत् तु न लभ्यम् ।४३ - ६७ - किम् कारणम् ।४४ - ६७ - आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थम् ।४५ - ६७ - अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् ।४६ - ६७ - तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति ।४७ - ६७ - ननु च ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति ।४८ - ६७ - पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति ।४९ - ६७ - न एषः दोषः ।५० - ६७ - यत् तावत् उच्यते आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थम् इति ।५१ - ६७ - भवेत् सिद्धम् यत्र विकरणाः नित्याः आङ्गम् अनित्यम् तत्र आङ्गात् पूर्वम् विकरणाः स्युः ।५२ - ६७ - यत्र तु खलु उभयम् नित्यम् परत्वात् तत्र आङ्गम् तावत् भवति ।५३ - ६७ - यत् अपि उच्यते अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् इति ।५४ - ६७ - अस्तु अत्र आट् ।५५ - ६७ - आटि कृते साट्कस्य ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति ।५६ - ६७ - ननु च उक्तम् पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति ।५७ - ६७ - न एषः दोषः ।५८ - ६७ - चक्रकेषु इष्टतः व्यवस्था ।५९ - ६७ - अथ वा नेः इति न एषा पञ्चमी ।६० - ६७ - का तर्हि ।६१ - ६७ - विशेषणषष्ठी ।६२ - ६७ - नेः यः विशिः ।६३ - ६७ - कः च नेः विशिः ।६४ - ६७ - विशेष्यः ।६५ - ६७ - व्यवहितः च अपि शक्यते विशेषयितुम् ।६६ - ६७ - अथ वा निः अपि पदम् विशिः अपि पदम् ।पदविधिः च समर्थामाम् ।६७ - ६७ - व्यवहिते अपि सामर्थ्यम् भवति ।१ - २२ - किम् इदम् पूर्वग्रहणम् सनपेक्षम् ।२ - २२ - प्राक् सनः येभ्यः आत्मनेपद्म् उक्तम् तेभ्यः सनन्तेभ्यः अपि भवति इति ।३ - २२ - आहोस्वित् योगापेक्षम् ।४ - २२ - प्राक् एतस्मात् योगात् येभ्यः आत्मनेपदम् उक्तम् तेभ्यः सनन्तेभ्यः आत्मनेपदम् भवति इति ।५ - २२ - किम् च अतः ।६ - २२ - यदि सनपेक्षम् निमित्तम् अविशेषितम् भवति ।७ - २२ - पूर्ववत् सनः न ज्ञायते किमन्तात् भवितव्यम् ।८ - २२ - अथ योगापेक्षम् उत्तरत्र विधिः न प्रकल्पते ।९ - २२ - बुभुक्षते उपयुयुक्षते इति ।१० - २२ - यथा इच्छसि तथा अस्तु ।११ - २२ - अस्तु तावत् सनपेक्षम् ।१२ - २२ - ननु च उक्तम् निमित्तम् अविशेषितम् भवति ।१३ - २२ - निमित्तम् च विशेषितम् ।१४ - २२ - कथम् ।१५ - २२ - सनम् एव अत्र निमित्तत्वेन अपेक्षिष्यामहे ।१६ - २२ - पूर्ववत् सनः आत्मनेपदम् भवति ।१७ - २२ - कुतः सनः इति ।१८ - २२ - अथ वा पुनः अस्तु योगापेक्षम् ।१९ - २२ - ननु च उक्तम् उत्तरत्र विधिः न प्रकल्पते ।२० - २२ - विधिः च प्रक्ल्̥प्तः ।२१ - २२ - कथम् ।२२ - २२ - उत्तरत्र अपि पूर्ववत् सनः इति एव अनुवर्तिष्यते ।१ - ५० - किमर्थम् पुनः इदम् उच्यते ।२ - ५० - पूर्ववत् सनः इति शदिम्रियत्यर्थम् ।३ - ५० - शदिम्रियत्यर्थः अयम् आरम्भः ।४ - ५० - शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् मा भूत् इति ।५ - ५० - इतरथा हि ताभ्याम् सनन्ताभ्याम् आत्मनेपदप्रतिषेधः ।६ - ५० - इतरथा हि अनुच्यमाने अस्मिन् ताभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात् ।७ - ५० - शिशित्सति मुमूर्षति ।८ - ५० - कथम् पुनः पूर्ववत् सनः इति अनेन शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः शक्यः विज्ञातुम् ।९ - ५० - वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।१० - ५० - तत् यथा ॒ उशीनरवत् मद्रेषु यवाः ।११ - ५० - सन्ति न सन्ति इति ।१२ - ५० - मातृवत् अस्याः कलाः ।१३ - ५० - सन्ति न सन्ति ।१४ - ५० - एवम् इह अपि पूर्ववत् भवति न भवति इति ।१५ - ५० - न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।१६ - ५० - यथा पूर्वयोगयोः सनन्ताभ्याम् आत्मनेपदम् न भवति एवम् इह अपि शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् न भवति इति ।१७ - ५० - यदि तर्हि शदिम्रियत्यर्थः अयम् आरम्भः विधिः न प्रकल्पते ।१८ - ५० - आसिसिषते शिशयिषते ।१९ - ५० - अथ विध्यर्थः शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति ।२० - ५० - यथा इच्छसि तथा अस्तु ।२१ - ५० - अस्तु तावत् प्रतिषेधार्थः ।२२ - ५० - ननु च उक्तम् विधिः न प्रकल्पते इति ।२३ - ५० - विधिः च प्रक्ल्̥प्तः ।२४ - ५० - कथम् ।२५ - ५० - एतत् एव ज्ञापयति सनन्तात् आत्मनेपदम् भवति इति यत् अयम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधम् शास्ति ।२६ - ५० - अथ वा पुनः अस्तु विध्यर्थः ।२७ - ५० - ननु च उक्तम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति इति ।२८ - ५० - न एषः दोषः ।२९ - ५० - प्रकृतम् सनः न इति अनुवर्तिष्यते ।३० - ५० - क्व प्रकृतम् ।३१ - ५० - ज्ञाश्रुस्मृदृशाम् सनः न अनोः ज्ञः ।३२ - ५० - सकर्मकात् सनः न ।३३ - ५० - प्रत्याङ्भ्याम् श्रुवः सनः न ।३४ - ५० - शदेः शितः सनः न ।३५ - ५० - म्रियतेः लुङ्लिङोः च सनः न इति ।३६ - ५० - इह इदानीम् पूर्ववत् सनः इति सनः इति वर्तते न इति निवृत्तम् ।३७ - ५० - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् निमित्तम् अविशेषितम् भवति इति ।३८ - ५० - न एव वा पुनः अत्र शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति ।३९ - ५० - किम् कारणम् ।४० - ५० - शदेः शितः इति उच्यते न च शदिः एव आत्मनेपदस्य निमित्तम् ।४१ - ५० - किम् तर्हि ।४२ - ५० - शित् अपि निमित्तम् ।४३ - ५० - अथ अपि शदिः एव शित्परः तु निमित्तम् ।४४ - ५० - न च अयम् सन्परः शित्परः भवति ।४५ - ५० - यत्र तर्हि शित् न आश्रीयते म्रियतेः लुङ्लिङोः च इति ।४६ - ५० - अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तम् ।४७ - ५० - किम् तर्हि ।४८ - ५० - लुङ्लिङौ अपि निमित्तम् ।४९ - ५० - अथ अपि म्रियतिः एव लुङ्लिङ्परः तु निमित्तम् ।५० - ५० - न च अयम् सन्परः लुङ्लिङ्परः भवति ।१ - २७ - किम् पुनः पूर्वस्य यत् आत्मनेपददर्शनम् तत् सनन्तस्य अपि अतिदिश्यते ।२ - २७ - एवम् भवितुम् अर्हति ।३ - २७ - पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः ।४ - २७ - पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः ।५ - २७ - गुपादीनाम् न प्राप्नोति ।६ - २७ - जुगुप्सते मीमांसते इति ।७ - २७ - न हि एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः ।८ - २७ - सिद्धम् तु पूर्वस्य लिङ्गातिदेशात् ।९ - २७ - सिद्धम् एतत् ।१० - २७ - कथम् ।११ - २७ - पूर्वस्य यत् आत्मनेपदलिङ्गम् तत् सनन्तस्य अपि अतिदिश्यते ।१२ - २७ - कृञादिषु तु लिङ्गप्रतिषेधः ।१३ - २७ - कृञादिषु तु लिङ्गप्रतिषेधः वक्तव्यः ।१४ - २७ - अनुचिकीर्षति पराचिकीर्षति इति ।१५ - २७ - अस्तु तर्हि प्राक् सनः येभ्यः आत्मनेपदम् दृष्टम् तेभ्यः सनन्तेभ्यः अपि बह्वति इति ।१६ - २७ - ननु च उक्तम् पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः इति ।१७ - २७ - न एषः दोषः ।१८ - २७ - अनुबन्धकरणसामर्थ्यात् भविष्यति ।१९ - २७ - अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।२० - २७ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।२१ - २७ - यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति ।२२ - २७ - न एषः दोषः ।२३ - २७ - अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।२४ - २७ - यम् समुदायम् यः अवयवः न व्यभिचरति ।२५ - २७ - सनम् च न व्यभिचरति ।२६ - २७ - णिचम् पुनः व्यभिचरति ।२७ - २७ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य ।१ - २१ - प्रत्ययग्रहणम् णिजर्थम् ।२ - २१ - प्रत्ययस्य ग्रहणम् कर्तव्यम् ।३ - २१ - पूर्ववत् प्रत्ययात् इति वक्तव्यम् ।४ - २१ - किम् प्रयोजनम् ।५ - २१ - णिजर्थम् ।६ - २१ - णिजन्तात् अपि यथा स्यात् इति ।७ - २१ - आकुस्मयते विकुस्मयते हृणीयते महीयते इति. तत्र कः दोषः ।८ - २१ - तत्र हेतुमण्णिचः प्रतिषेधः ।९ - २१ - तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः ।१० - २१ - आसयति शाययति ।११ - २१ - सूत्रम् च भिद्यते ।१२ - २१ - यथान्यासम् एव अस्तु ।१३ - २१ - कथम् आकुस्मयते विकुस्मयते हृणीयते महीयते इति. अनुबन्धकरणसामर्थ्यात् भविष्यति ।१४ - २१ - अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।१५ - २१ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।१६ - २१ - यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति हृणीययति महीययति अत्र अपि प्राप्नोति ।१७ - २१ - अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।१८ - २१ - यम् समुदायम् यः अवयवः न व्यभिचरति ।१९ - २१ - यकम् च न व्यभिचरति ।२० - २१ - णिचम् तु व्यभिचरति ।२१ - २१ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य ।१ - २३ - कृञ्ग्रहणम् किमर्थम् ।२ - २३ - इह मा भूत् ।३ - २३ - ईहामास ईहामासतुः ईहामासुः ।४ - २३ - कथम् च अत्र अस्तेः अनुप्रयोगः भवति ।५ - २३ - प्रत्याहारग्रहणम् तत्र विज्ञायते ।६ - २३ - कथम् पुनः ज्ञायते तत्र प्रत्याहारग्रहणम् इति ।७ - २३ - इह कृञ्ग्रहणात् ।८ - २३ - इह कस्मात् प्रत्याहारग्रहणम् न भवति ।९ - २३ - इह एव कृञ्ग्रहणात् ।१० - २३ - अथ इह कस्मात् न भवति ।११ - २३ - उदुम्भाम् चकार उदुब्जाम् चकार ।१२ - २३ - ननु च आम्प्रत्ययवत् इति उच्यते न च अत्र आम्प्रत्ययात् आत्मनेपदम् पश्यामः ।१३ - २३ - न ब्रूमः अनेन इति ।१४ - २३ - किम् तर्हि ।१५ - २३ - स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति ।१६ - २३ - न एषः दोषः ।१७ - २३ - इह नियमार्थम् भविष्यति ।१८ - २३ - आम्प्रत्ययवत् एव इति ।१९ - २३ - यदि नियमार्थम् विधिः न प्रकल्पते ।२० - २३ - ईहाम् चक्रे ऊहाम् चक्रे इति ।२१ - २३ - विधिः च प्रक्ल्̥प्तः ।२२ - २३ - कथम् पूर्ववत् इति वर्तते ।२३ - २३ - आम्प्रत्ययवत् पूर्ववत् च इति ।१ - ४ - स्वराद्युपसृष्टात् इति वक्तव्यम् ।२ - ४ - उद्युङ्क्ते अनुयुङ्क्ते ।३ - ४ - अपरः आह ॒ स्वराद्यन्तोपसृष्टात् इति वक्तयम् ।४ - ४ - प्रयुङ्क्ते नियुङ्क्ते निनियुङ्क्ते ।१ - ४ - किमर्थम् विदेशस्थस्य ग्रहणम् क्रियते न समः गमादिषु एव उच्येत ।२ - ४ - समः क्ष्णुवः सकर्मकार्थम् ।३ - ४ - सकर्मकार्थः अयम् आरम्भः ।४ - ४ - अकर्मकात् इति हि तत्र अनुवर्तते१ - ७ - अनवनकौटिल्ययोः इति वक्तव्यम् ।२ - ७ - इह अपि यथा स्यात् ।३ - ७ - प्रभुजति वाससी निभुजति जानुशिरसी इति ।४ - ७ - तत् तर्हि वक्तव्यम् ।५ - ७ - न वक्तव्यम् ।६ - ७ - यस्य भुजेः अवनम् अनवनम् च अर्थः तस्य ग्रहणम् ।७ - ७ - न च अस्य भुजेः अवनम् अनवनम् च अर्थः१ - ५९ - णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः णेः आत्मनेपदविधाने अण्यन्तस्य यत् कर्म यदा ण्यन्ते तत् एव कर्म भवति तदा आत्मनेपदम् भवति इति वक्तव्यम् ।२ - ५९ - इतरथा हि सर्वप्रसङ्गः ।३ - ५९ - इतरथा हि सर्वत्र प्रसङ्गः स्यात् ।४ - ५९ - इह अपि प्रसज्येत ॒ आरोहन्ति हस्तिनम् हस्तिपकाः ।५ - ५९ - आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् ।६ - ५९ - तत् तर्हि वक्तव्यम् ।७ - ५९ - न वक्तव्यम् ।८ - ५९ - कस्मात् न भवति ॒ आरोहन्ति हस्तिनम् हस्तिपकाः ।९ - ५९ - आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् इति ।१० - ५९ - एवम् वक्ष्यामि ।११ - ५९ - णेः आत्मनेपदम् भवति ।१२ - ५९ - ततः अणौ यत् कर्म णौ चेत् ।१३ - ५९ - अण्यन्ते यत् कर्म णौ यदि तत् एव कर्म भवति ।१४ - ५९ - ततः सः कर्ता ।१५ - ५९ - कर्ता चेत् सः भवति णौ इति ।१६ - ५९ - यदि एवम् कर्मकार्यम् भवति ।१७ - ५९ - तत्र कर्मकर्तृत्वात् सिद्धम् ।१८ - ५९ - कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् वचनम् ।१९ - ५९ - कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् इदम् वक्तव्यम् ।२० - ५९ - कर्मापदिष्टौ यक्चिणौ मा भूताम् इति ।२१ - ५९ - न वा यक्चिणोः प्रतिषेधात् ।२२ - ५९ - न वा एषः दोषः ।२३ - ५९ - किम् कारणम् ।२४ - ५९ - यक्चिणोः प्रतिषेधात् ।२५ - ५९ - प्रतिषिध्येते अत्र यक्चिणौ ।२६ - ५९ - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति ।२७ - ५९ - यः तर्हि न हेतुमण्णिच् तदर्थम् इदम् वक्तव्यम् ।२८ - ५९ - तस्य कर्मापदिष्टौ यक्चिणौ मा भूताम् इति ॒ उत्पुच्छयते पुच्छम् स्वयम् एव ।२९ - ५९ - उदपुप्पुच्छत पुच्छम् स्वयम् एव ।३० - ५९ - अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन ॒ यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उप्सङ्ख्यानम् इति ।३१ - ५९ - सः च अवश्यम् प्रतिषेधः आश्रयितव्यः ।३२ - ५९ - इतरथा हि यत्र नियमः ततः अन्यत्र प्रतिषेधः ।३३ - ५९ - अनुच्यमाने हि एतस्मिन् यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात् ।३४ - ५९ - गणयति गणम् गोपालकः ।३५ - ५९ - गणयति गणः स्वयम् एव ।३६ - ५९ - आत्मनेपदस्य च ।३७ - ५९ - आत्मनेपदस्य च प्रतिषेधः वक्तव्यः ॒ गणयति गणः स्वयम् एव ।३८ - ५९ - आत्मनेपदप्रतिषेधार्थम् तु ।३९ - ५९ - आत्मनेपदप्रतिषेधार्थम् इदम् वक्तव्यम् ।४० - ५९ - गणयति गणः स्वयम् एव ।४१ - ५९ - इष्यते एव अत्र आत्मनेपदम् ।४२ - ५९ - किम् इष्यते एव आहोस्वित् प्राप्नोति अपि ।४३ - ५९ - इष्यते च प्राप्नोति च ।४४ - ५९ - कथम् ।४५ - ५९ - अणौ इत् कस्य इदम् णेः ग्रहणम् ।४६ - ५९ - यमात् णेः प्राक् कर्म कर्ता वा विद्यते ।४७ - ५९ - न च एतस्मात् णेः प्राक् कर्म कर्ता वा विद्यते ।४८ - ५९ - इदम् तर्हि प्रयोजनम् ॒ अनाध्याने इति वक्ष्यामि इति ।४९ - ५९ - इह मा भूत् ।५० - ५९ - स्मरति वनगुल्मस्य कोकिलः ।५१ - ५९ - स्मरयति एनम् वनगुल्मः स्वयम् एव ।५२ - ५९ - एतत् अपि न अस्ति प्रयोजनम् ।५३ - ५९ - कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् भवन्ति कर्तृस्थभावकः च अयम् ।५४ - ५९ - एवम् तर्हि सिद्धे सति यत् अनाध्याने इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् आत्मनेपदम् इति ।५५ - ५९ - किम् एतस्य ज्ञापने प्रयोजनम् ।५६ - ५९ - पश्यन्ति भृत्याः राजानम् ।५७ - ५९ - दर्शयते भृत्यान् राजा ।५८ - ५९ - दर्शयते भृत्यैः राजा ।५९ - ५९ - अत्र आत्मनेपदम् सिद्धम् भवति ।१ - १४ - आत्मनः कर्मत्वे प्रतिषेधः ।२ - १४ - आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः ।३ - १४ - हन्ति आत्मानम् ।४ - १४ - घातयति आत्मा इति ।५ - १४ - सः तर्हि वक्तव्यः ।६ - १४ - न वा ण्यन्ते अन्यस्य कर्तृत्वात् ।७ - १४ - न वा वक्तव्यः ।८ - १४ - किम् कारणम् ।९ - १४ - ण्यन्ते अन्यस्य कर्तृत्वात् ।१० - १४ - अन्यत् अत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता ।११ - १४ - कथम् ।१२ - १४ - द्वौ आत्मनौ अन्तरात्मा शरीरात्मा च ।१३ - १४ - अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति ।१४ - १४ - शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति ।१ - ३० - स्वरितञितः इति किमर्थम् ।२ - ३० - याति वाति द्राति प्साति ।३ - ३० - स्वरितञितः इति शक्यम् अकर्तुम् ।४ - ३० - कस्मात् न भवति याति वाति द्राति प्साति इति ।५ - ३० - कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषाम् च कर्त्रभिप्रायम् क्रियाफलम् अस्ति ।६ - ३० - ते एवम् विज्ञास्यामः ।७ - ३० - येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति तेभ्यः आत्मनेपदम् भवति इति ।८ - ३० - न च एतेषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति ।९ - ३० - तथाजातीयकाः खलु आचार्येण स्वरितञितः पठिताः येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति ।१० - ३० - अथ अभिप्रायग्रहणम् किमर्थम् ।११ - ३० - स्वरितञितः कर्त्राये क्रियाफले इति इयति उच्यमाने यम् एव सम्प्रति एति क्रियाफलम् तत्र एव स्यात् ।१२ - ३० - लूञ् लुनीते पूञ् पुनीते ।१३ - ३० - इह न स्यात् ।१४ - ३० - यज् यजते वप् वपते ।१५ - ३० - अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति ।१६ - ३० - अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि ।१७ - ३० - तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागात् तत्र सर्वत्र आभिमुख्यमात्रे सिद्धम् भवति ।१८ - ३० - कर्त्रभिप्राये क्रियाफले इति किमर्थम् ।१९ - ३० - पचन्ति भक्तकाराः ।२० - ३० - कुर्वन्ति कर्मकाराः ।२१ - ३० - यजन्ति याजकाः ।२२ - ३० - कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति ।२३ - ३० - अत्र अपि हि क्रियाफलम् कर्तारम् अभिप्रैति ।२४ - ३० - याजकाः यजन्ति गाः लप्स्यामहे इति ।२५ - ३० - कर्मकराः कुर्वन्ति पादिकम् अहः लप्स्यामहे इति ।२६ - ३० - एवम् तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारम् क्रियाफलम् अभिप्रैति ।२७ - ३० - तत्र प्रकर्षगतिः विज्ञास्यते ।२८ - ३० - साधीयः यत्र कर्तारम् क्रियाफलम् अभिप्रैति इति ।२९ - ३० - न च अन्तरेण यजिम् यजिफलम् वपिम् व वपिफलम् लभन्ते ।३० - ३० - याजकाः पुनः अन्तरेण अपि यजिम् गाः लभन्ते भृतकाः च पादिकम् इति ।१ - २९ - शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः ।२ - २९ - शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः वक्तव्यः ।३ - २९ - भिद्यते कुशूलः स्वयम् एव ।४ - २९ - छिद्यते रज्जुः स्वयम् एव ।५ - २९ - एवम् तर्हि शेषे इति वक्ष्यामि ।६ - २९ - सप्तम्या चेत् प्रकृतेः । सप्तम्या चेत् प्रकृतेः प्रतिषेधः वक्तव्यः ।७ - २९ - आस्ते शेते च्यवन्ते प्लवन्ते ।८ - २९ - सिद्धम् तु उभयनिर्देशात् ।९ - २९ - सिद्धम् एतत् ।१० - २९ - कथम् ।११ - २९ - उभयनिर्देशः कर्तव्यः ।१२ - २९ - शेषात् शेषे इति वक्तव्यम् ।१३ - २९ - कर्तृग्रहणम् इदानीम् किमर्थम् स्यात् ।१४ - २९ - कर्तृग्रहणम् अनुपराद्यर्थम् ।१५ - २९ - अनुपराद्यर्थम् एतत् स्यात् ।१६ - २९ - इह मा भूत् ।१७ - २९ - अनुक्रियते स्वयम् एव ।१८ - २९ - पराक्रियते स्वयम् एव इति ।१९ - २९ - सिध्यति ।२० - २९ - सुत्रम् तर्हि भिद्यते ।२१ - २९ - यथान्यासम् एव अस्तु ।२२ - २९ - ननु च उक्तम् शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः इति ।२३ - २९ - न एषः दोषः ।२४ - २९ - कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते ।२५ - २९ - तत् प्रकृतम् इह अनुवर्तिष्यते ।२६ - २९ - शेषात् कर्तरि कर्तरि इति ।२७ - २९ - किम् इदम् कर्तरि कर्तरि इति ।२८ - २९ - कर्ता एव यः कर्ता तत्र यथा स्यात् ।२९ - २९ - कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति ।१ - ३१ - किमर्थम् इदम् उच्यते ।२ - ३१ - परस्मैपदप्रतिषेधात् कृञादिषु विधानम् ।३ - ३१ - परस्मैपदप्रतिषेधात् कृञादिषु परस्मैपदम् विधीयते ।४ - ३१ - प्रतिषिध्यते तत्र परस्मैपदम् स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति ।५ - ३१ - अस्ति प्रयोजनम् एतत् ।६ - ३१ - किम् तर्हि इति ।७ - ३१ - तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् ।८ - ३१ - तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः ।९ - ३१ - किम् कारणम् ।१० - ३१ - अप्रतिषिद्धत्वात् ।११ - ३१ - न हि आत्मनेपदम् प्रतिषिध्यते ।१२ - ३१ - किम् तर्हि ।१३ - ३१ - परस्मैपदम् अनेन विधीयते ।१४ - ३१ - न वा द्युतादिभ्यः वावचनात् ।१५ - ३१ - न वा एषः दोषः ।१६ - ३१ - किम् कारणम् ।१७ - ३१ - द्युतादिभ्यः वावचनात् ।१८ - ३१ - यत् अयम् द्युतादिभ्यः वावचनम् करोति तत् ज्ञापयति आचार्यः न परस्मैपदविषये आत्मनेपदम् भवति इति ।१९ - ३१ - आत्मनेपदनियमे वा प्रतिषेधः ।२० - ३१ - आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः ।२१ - ३१ - स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति कर्तरि ।२२ - ३१ - अनुपराभ्याम् कृञः न इति ।२३ - ३१ - सिध्यति ।२४ - ३१ - सूत्रम् तर्हि भिद्यते ।२५ - ३१ - यथान्यासम् एव अस्तु ।२६ - ३१ - ननु च उक्तम् तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् इति ।२७ - ३१ - परिहृतम् एतत् न वा द्युतादिभ्यः वावचनात् ।२८ - ३१ - अथ वा इदम् तावत् अयम् प्रष्टव्यः ।२९ - ३१ - स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति परस्मैपदम् कस्मात् न भवति ।३० - ३१ - आत्मनेपदेन बाध्यते ।३१ - ३१ - यथा एव तर्हि आत्मनेपदेन परस्मैपदम् बाध्यते एवम् परस्मैपदेन आत्मनेपदम् बाधिष्यते ।१ - २ - बुधादिषु ये अकर्मकाः तेषाम् ग्रहणम् किमर्थम् ।२ - २ - सकर्मकार्थम् अचित्तवत्कर्तृकार्थम् वा ।१ - २३ - अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् ।२ - २३ - अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदम् वक्तव्यम् ।३ - २३ - इह अपि यथा स्यात् ॒ चेतयमाणम् प्रयोजयति चेतयति इति ।४ - २३ - यदि तर्हि अत्र अपि इष्यते अणिग्रहणम् इदानीम् किमर्थम् स्यात् ।५ - २३ - अकर्मकग्रहणम् अण्यन्तविशेषणम् यथा विज्ञायेत ।६ - २३ - अथ अक्रियमाणे अणिग्रहणम् कस्य अकर्मक्ग्रहणम् विशेषणम् स्यात् ।७ - २३ - णेः इति वर्तते ।८ - २३ - ण्यन्तविशेषणम् ।९ - २३ - तत्र कः दोषः ।१० - २३ - इह एव स्यात् ॒ चेतयमानम् प्रयोजयति चेतयति इति ।११ - २३ - इह न स्यात् ॒ आसयति शाययति इति ।१२ - २३ - सिद्धम् तु अतस्मिन् णौ इति वचनात् ।१३ - २३ - सिद्धम् एतत् ।१४ - २३ - कथम् ।१५ - २३ - अतस्मिन् णौ यः अकर्मकः तत्र इति वक्तव्यम् ।१६ - २३ - सिध्यति ।१७ - २३ - सूत्रम् तर्हि भिद्यते ।१८ - २३ - यथान्यासम् एव अस्तु ।१९ - २३ - ननु च उक्तम् अणव् अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् इति ।२० - २३ - न एषः दोषः ।२१ - २३ - अणौ इति कस्य इदम् णेः ग्रहणम् ।२२ - २३ - यस्माण् णेः प्राक् कर्म कर्ता वा विद्यते ।२३ - २३ - न च एतस्माण् णेअः प्राक् कर्म कर्ता वा विद्यते ।१ - ३ - पादिषु धेटः उपसङ्ख्यानम् ।२ - ३ - पादिषु धेटः उपसङ्ख्यानम् कर्तव्यम् ।३ - ३ - धापयते शिशुमेक समीची ।१ - ५ - किमर्थः चकारः ।२ - ५ - स्यसनोः इति एतत् अनुकृष्यते ।३ - ५ - यदि तर्हि न अन्तरेण चकारम् अनुङ्र्त्तिः भवति द्युद्भ्यः लुङि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः ।४ - ५ - अथ इदानीम् अन्तरेण अपि चकारम् अनुवृत्तिः भवति इह अपि न अर्थः चकारेण ।५ - ५ - एवम् सर्वे चकाराः प्रत्याख्यायन्ते.१ - १७ - किमर्थम् इदम् उच्यते । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP