संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय १|पाद ३| खण्ड १५ पाद ३ खण्ड १५ खण्ड १६ खण्ड १७ पाद ३ - खण्ड १५ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड १५ Translation - भाषांतर १ - ५५ - कुतः अयम् वकारः ।२ - ५५ - यदि तावत् संहितया निर्देशः क्रियते भ्वादयः इति भवितव्यम् ।३ - ५५ - अथ असंहितया भू-आदयः इति भवितव्यम् ।४ - ५५ - अतः उत्तरम् पठति भूवादीनाम् वकारः अयम् मङ्गलार्थः प्रयुज्यते ।५ - ५५ - माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वकारम् आगमम् प्रयुङ्क्ते ।६ - ५५ - मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च ।७ - ५५ - अध्येतारः च सिद्धार्थाः यथा स्युः इति ।८ - ५५ - अथ आदिग्रहणम् किमर्थम् ।९ - ५५ - यदि तावत् पठ्यन्ते न अर्थः आदिग्रहणेन ।१० - ५५ - अन्यत्र अपि हि अयम् पठन् आदिग्रहणम् न करोति ।११ - ५५ - क्व अन्यत्र ।१२ - ५५ - मृडमृदगुधकुषक्लिशवदवसः क्त्वा इति ।१३ - ५५ - अथ न पठ्यन्ते नतराम् अर्थः आदिग्रहणेन ।१४ - ५५ - न हि अपठिताः शक्याः आदिग्रहणेन विशेषयितुम् ।१५ - ५५ - एवम् तर्हि सिद्धे सति यत् आदिग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति च पाठः बाह्यः च सूत्रात् इति ।१६ - ५५ - किम् एतस्य ज्ञापने प्रयोजनम् ।१७ - ५५ - पाठेन धातुसञ्ज्ञा इति एतत् उपपन्नम् भवति ।१८ - ५५ - पाठेन धातुसञ्ज्ञायाम् समानशब्दप्रतिषेधः ।१९ - ५५ - पाठेन धातुसञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः वक्तव्यः ।२० - ५५ - या इति धातुः या इति आबन्तः ।२१ - ५५ - वा इति धातुः वा इति निपातः ।२२ - ५५ - नु इति धातुः नु इति प्रत्ययः च निपातः च ।२३ - ५५ - दिव् इति धातुः दिव् इति प्रातिपदिकम् ।२४ - ५५ - किम् च स्यात् यदि एतेषाम् अपि धातुसञ्ज्ञा स्यात् ।२५ - ५५ - धातोः इति तव्यादीनाम् उत्पत्तिः प्रसज्येत ।२६ - ५५ - न एषः दोषः ।२७ - ५५ - साधने तव्यादयः विधीयन्ते साधनम् च क्रियायाः ।२८ - ५५ - क्रियाभावात् साधनाभावः ।२९ - ५५ - साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यादयः न भविष्यन्ति ।३० - ५५ - इह तर्हि याः पश्य आतः धातोः इति लोपः प्रसज्येत ।३१ - ५५ - न एषः दोषः ।३२ - ५५ - अनापः इति एवम् सः ।३३ - ५५ - अस्य तर्हि वाशब्दस्य निपातस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।३४ - ५५ - अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् ।३५ - ५५ - न एषः दोषः ।३६ - ५५ - निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् ।३७ - ५५ - तत्र अनर्थकग्रहणम् न करिष्यते निपातः प्रातिपदिकम् इति एव ।३८ - ५५ - इह तर्हि त्रस्नू इति अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङादेशः प्रसज्येत ।३९ - ५५ - न एषः दोषः ।४० - ५५ - आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययस्य उवङादेशः भवति इति यत् अयम् तत्र श्नुग्रहणम् करोति ।४१ - ५५ - अस्य तर्हि दिव्शब्दस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।४२ - ५५ - अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् ।४३ - ५५ - न एषः दोषः ।४४ - ५५ - आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते दिव्शब्दात् स्वादयः इति यत् अयम् दिवः सौ औत्त्वम् शास्ति ।४५ - ५५ - न एतत् अस्ति ज्ञापकम् ।४६ - ५५ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।४७ - ५५ - किम् ।४८ - ५५ - दिव्शब्दः यत् प्रातिपदिकम् तदर्थम् एतत् स्यात् अक्षद्यूः इति ।४९ - ५५ - न वै अत्र इष्यते ।५० - ५५ - अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति ।५१ - ५५ - एवम् तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति ।५२ - ५५ - एवम् अपि अननुबन्धकः दिव्शब्दः न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते ।५३ - ५५ - परिमाणग्रहणम् च ।५४ - ५५ - परिमाणग्रहणम् च कर्तव्यम् ।५५ - ५५ - इयान् अवधिः धातुसञ्ज्ञः भवति इति वक्तव्यम् कुतः हि एतत् भूशब्दः धातुसञ्ज्ञः भविष्यति न पुनः भ्वेध्शब्दः इति१ - ८४ - यदि पुनः क्रियावचनः धातुः इति एतत् लक्षणम् क्रियेत ।२ - ८४ - का पुनः क्रिया ।३ - ८४ - ईहा ।४ - ८४ - का पुनः ईहा ।५ - ८४ - चेष्टा ।६ - ८४ - का पुनः चेष्टा ।७ - ८४ - व्यापारः ।८ - ८४ - सर्वथा भवान् शब्देन एव शब्दान् आचष्टे ।९ - ८४ - न किम् चिद् अर्थजातम् निदर्शयति एवञ्जातीयिका क्रिया इति ।१० - ८४ - क्रिया नाम इयम् अत्यन्तापरिदृष्टा ।११ - ८४ - अशक्या क्रिया पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।१२ - ८४ - सा असौ अनुमानगम्या ।१३ - ८४ - कः असौ अनुमानः ।१४ - ८४ - इह सर्वेषु साधनेषु सन्निहितेषु कदा चित् पचति इति एतत् भवति कदाचित् न भवति ।१५ - ८४ - यस्मिन् साधने सन्निहिते पचति इति एतत् भवति सा नूनम् क्रिया ।१६ - ८४ - अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनम् क्रिया ।१७ - ८४ - कथम् पुनः ज्ञायते क्रियावचनाः पचादयः इति ।१८ - ८४ - यत् एषाम् करोतिना सामानाधिकरण्यम् किम् करोति ।१९ - ८४ - पचति ।२० - ८४ - किम् करिष्यति ।२१ - ८४ - पक्ष्यति ।२२ - ८४ - किम् अकार्षीत् ।२३ - ८४ - अपाक्षीत् इति ।२४ - ८४ - तत्र क्रियावचने उपसर्गप्रत्ययप्रतिषेधः ।२५ - ८४ - क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः ।२६ - ८४ - पचति प्रपचति ।२७ - ८४ - किम् पुनः कारणम् प्राप्नोति ।२८ - ८४ - सङ्घातेन अर्थगतेः ।२९ - ८४ - सङ्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च ।३० - ८४ - अस्तिभवतिविद्यतीनाम् धातुत्वम् ।३१ - ८४ - अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा वक्तव्या ।३२ - ८४ - यथा हि भवता करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा अस्त्यादीनाम् निदर्श्यते ।३३ - ८४ - न हि भवति किम् करोति अस्ति इति ।३४ - ८४ - प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु ।३५ - ८४ - प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति ।३६ - ८४ - पचति पठति प्रकृत्यर्थः अन्यः च अन्यः च ।३७ - ८४ - प्रत्ययार्थः सः एव ।३८ - ८४ - धातोः च अर्थाभेदात् प्रत्ययान्तरेषु ।३९ - ८४ - धातोः च अर्थाभेदात् प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति ।४० - ८४ - पक्ता पचनम् पाकः इति प्रत्ययार्थः अन्यः च अन्यः च भवति ।४१ - ८४ - प्रकृत्यर्थः सः एव. कथम् पुनः ज्ञायते अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति ।४२ - ८४ - सिद्धम् तु अन्वयव्यतिरेकाभ्याम् ।४३ - ८४ - अन्वयात् व्यतिरेकात् च ।४४ - ८४ - कः असौ अन्वयः व्यतिरेकः वा ।४५ - ८४ - इह पचति इति उक्ते कः चित् शब्दः श्रूयते पच्शब्दः चकारान्तः अतिशब्दः च प्रत्ययः ।४६ - ८४ - अर्थः अपि कः चित् गम्यते विक्लित्तिः कर्तृत्वम् एकत्वम् च ।४७ - ८४ - पठति इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी पच्शब्दः हीयते पठ्शब्दः उपजायते अतिशब्दः अन्वयी ।४८ - ८४ - अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वम् च एकत्वम् च अन्वयी ।४९ - ८४ - ते मन्यामहे यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते ।५० - ८४ - यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते ।५१ - ८४ - यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी ।५२ - ८४ - विषमः उपन्यासः ।५३ - ८४ - बहवः हि शब्दाः एकार्थाः भवन्ति ।५४ - ८४ - तत् यथा इन्द्रः शक्रः पुरुहूतः पुरन्दरः, कन्दुः कोष्ठः कुशूलः इति ।५५ - ८४ - एकः च शब्दः बह्वर्थः ।५६ - ८४ - तत् यथा अक्षाः पादाः माषाः इति ।५७ - ८४ - अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति ।५८ - ८४ - न अपि ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव ।५९ - ८४ - तत्र कुतः एतत् अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा ।६० - ८४ - सामान्यशब्दाः एते एवम् स्युः ।६१ - ८४ - सामान्यशब्दाः च न अन्तरेण प्रकरणम् विशेषम् वा विशेषेषु अवतिष्ठन्ते ।६२ - ८४ - यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन् चित् विशेषे पचतिशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।६३ - ८४ - न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।६४ - ८४ - क्रियाविशेषकः उपसर्गः ।६५ - ८४ - पचति इति क्रिया गम्यते ।६६ - ८४ - ताम् प्रः विशिनष्टि ।६७ - ८४ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र धातुः उपसर्गम् व्यभिचरति यत्र न खलु तम् व्यभिचरति तत्र कथम् अध्येति, अधीते इति ।६८ - ८४ - यदि अपि अत्र धातुः उपसर्गम् न व्यभिचरति उपसर्गः तु धातुम् व्यभिचरति ।६९ - ८४ - ते मन्यामहे यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति ।७० - ८४ - कः पुनः अन्यत्र अधेः अर्थः ।७१ - ८४ - अधिः उपरिभावे वर्तते ।७२ - ८४ - इह तर्हि व्यक्तम् अर्थान्तरम् गम्यते तिष्ठति प्रतिष्ठते इति ।७३ - ८४ - तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते ।७४ - ८४ - ते मन्यामहे उपसर्गकृतम् एतत् येन अत्र व्रजिक्रिया गम्यते ।७५ - ८४ - प्रः अयम् दृष्टापचारः आदिकर्मणि वर्तते ।७६ - ८४ - न च इदम् न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति ।७७ - ८४ - तत् यथा वपिः प्रकिरणे डृष्टः छेदने अपि वर्तते केशश्मश्रु वपति इति ।७८ - ८४ - ईडिः स्तुतिचोदनायाच्ञासु दृष्टः प्रेरणे अपि वर्तते अग्निः वै इतः वृष्टिम् ईट्टे मरुतः अमुतः च्यावयन्ति इति ।७९ - ८४ - करोतिः अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे अपि वर्तते पृष्ठम् कुरु पाचौ, कुरु ।८० - ८४ - उन्मृदान इति गम्यते ।८१ - ८४ - निक्षेपणे च अपि वर्तते कटे कुरु, घटे कुरु, अश्मानम् इतः कुरु ।८२ - ८४ - स्थापय इति गम्यते ।८३ - ८४ - एवम् इह अपि तिष्ठतिः एव व्रजिक्रियाम् आह तिष्ठतिः एव व्रजिक्रियायाः निवृत्तिम् ।८४ - ८४ - अयम् तर्हि दोषः अस्तिभवतिविद्यतीनाम् धातुत्वम् इति ।१ - ७० - यदि पुनः भाववचनः धातुः इति एवम् लक्षणम् क्रियेत ।२ - ७० - कथम् पुनः ज्ञायते भाववचनाः पचादयः इति ।३ - ७० - यत् एषाम् भवतिना सामानाधिकरण्यम् भवति पचति, भवति पक्ष्यति, भवति अपाक्षीत् इति ।४ - ७० - कः पुनः भावः ।५ - ७० - भवतेः स्वपदार्थः भवनम् भावः इति ।६ - ७० - यदि भवतेः स्वपदार्थः भवनम् भावः विप्रतिषिद्धानाम् धातुसञ्ज्ञा न प्राप्नोति भेदः, छेदः ।७ - ७० - अन्यः हि भावः अन्यः हि अभावः ।८ - ७० - आतः च अन्यः भावः अन्यः अभावः इति ।९ - ७० - यः हि यस्य भावम् इच्छति सः न तस्य अभावम् यस्य च अभावम् न तस्य भावम् ।१० - ७० - पचादीनाम् च धातुसञ्ज्ञा न प्राप्नोति ।११ - ७० - यथा हि भवता क्रियावचने धातौ करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा भाववचने धातौ निदर्श्यते ।१२ - ७० - करोतिः पचाचीनाम् सर्वान् कालान् सर्वान् पुरुषान् सर्वाणि च वचनानि अनुवर्तते ।१३ - ७० - भवतिः पुनः वर्तमानकालम् च एव एकत्वम् च ।१४ - ७० - का तर्हि इयम् वाचोयुक्तिः भवति पचति, भवति पक्ष्यति, भवति अपाक्षीत् इति ।१५ - ७० - एषा एषा वाचोयुक्तिः पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति ।१६ - ७० - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथम् भवेत् अपि भवेत्, स्यात् अपि स्यात् इति ।१७ - ७० - अत्र अपि अन्यत्वम् अस्ति ।१८ - ७० - कुतः ।१९ - ७० - कालभेदात् साधनभेदात् च ।२० - ७० - एकस्य अत्र भवतेः भवतिः साधनम् सर्वकालः च प्रत्ययः ।२१ - ७० - अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः ।२२ - ७० - यावता अत्र अपि अन्यत्वम् अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः भवति इति भावः इति ।२३ - ७० - किम् कृतम् भवति ।२४ - ७० - विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा भवति ।२५ - ७० - भवेत् विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा स्यात् प्रातिपदिकानाम् अपि प्राप्नोति वृक्षः, प्लक्षः इति ।२६ - ७० - किम् कारणम् ।२७ - ७० - एतानि अपि हि भवन्ति ।२८ - ७० - एवम् तर्हि कर्मसाधनः भविष्यति भाव्यते यः सः भावः इति ।२९ - ७० - क्रिया च एव हि भाव्यते स्वभावसिद्धम् तु द्रव्यम् ।३० - ७० - एवम् अपि भवेत् केषाम् चित् न स्यात् यानि न भाव्यन्ते ।३१ - ७० - ये तु एते सम्बन्धिशब्दाः तेषाम् प्राप्नोति माता पिता भ्राता इति ।३२ - ७० - सर्वथा वयम् प्रातिपदिकपर्युदासात् न मुच्यामहे ।३३ - ७० - पठिष्यति हि आचार्यः भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति ।३४ - ७० - यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः भवति इति भावः ।३५ - ७० - किम् वक्तव्यम् एतत् ।३६ - ७० - न हि ।३७ - ७० - कथम् अनुच्यमानम् गंस्यते ।३८ - ७० - एतेन एव अभिहितम् सूत्रेण भूवादयः धातवः इति ।३९ - ७० - कथम् ।४० - ७० - न इदम् आदिग्रहणम् ।४१ - ७० - वदेः अयम् औणादिकः इञ् कर्तृसाधनः भुवम् वदन्ति इति भूवादयः इति ।४२ - ७० - भाववचने तदर्थप्रत्ययप्रतिषेधः ।४३ - ७० - भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः शिश्ये इति ।४४ - ७० - किम् च स्यात् ।४५ - ७० - अशिति इति आत्त्वम् प्रसज्येत ।४६ - ७० - तत् हि धातोः विहितम् ।४७ - ७० - इतरेतराश्रयम् च प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः ।४८ - ७० - इतरेतराश्रयम् च भवति ।४९ - ७० - का इतरेतराश्रयता ।५० - ७० - प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः ।५१ - ७० - उत्पन्ने हि प्रत्यये भाववचनत्वम् गम्यते सः च तावत् भाववचनात् उत्पन्नः ।५२ - ७० - तत् एतत् इतरेतराश्रयम् भवति ।५३ - ७० - इतरेतराश्रयाणि च न प्रकल्पन्ते ।५४ - ७० - सिद्धम् तु नित्यशब्दत्वात् अनाश्रित्य भाववचनत्वम् प्रत्ययः ।५५ - ७० - सिद्धम् एतत् ।५६ - ७० - कथम् ।५७ - ७० - नित्याः शब्दाः ।५८ - ७० - नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वम् प्रत्ययः उत्पद्यते ।५९ - ७० - प्रथमभावग्रहणम् च ।६० - ७० - प्रथमभावग्रहणम् च कर्तव्यम् ।६१ - ७० - प्रथमम् यः भावम् आह इति ।६२ - ७० - कुतः पुनः प्राथम्यम् ।६३ - ७० - किम् शब्दतः आहोस्वित् अर्थतः ।६४ - ७० - किम् च अतः ।६५ - ७० - यदि शब्दतः सनादीनाम् धातुसञ्ज्ञा न प्राप्नोति पुत्रीयति वस्त्रीयति इति ।६६ - ७० - अथ अर्थतः सिद्धा सनादीनाम् धातुसञ्ज्ञा सः एव तु दोषः भवति भाववचने तदर्थप्रत्ययप्रतिषेधः इति ।६७ - ७० - एवम् तर्हि न एव अर्थतः न एव शब्दतः ।६८ - ७० - किम् तर्हि ।६९ - ७० - अभिधानतः ।७० - ७० - सुमध्यमे अभिधाने यः प्रथमम् भावम् आह.१ - २६ - इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि ।२ - २६ - तत्र ते एव परिहाराः ।३ - २६ - तत्र इदम् अपरिहृतम् अस्तिभवतिविद्यतीनाम् धातुत्वम् इति ।४ - २६ - तस्य परिहारः ।५ - २६ - काम् पुनः क्रियाम् भवान् मत्वा आह अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा न प्राप्नोति इति ।६ - २६ - किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।७ - २६ - न ब्रूमः कारकाणि क्रिया इति ।८ - २६ - किम् तर्हि ।९ - २६ - कारकाणाम् प्रवृत्तिविशेषः क्रिया ।१० - २६ - अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने ।११ - २६ - यदि एवम् सिद्धा अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा ।१२ - २६ - अन्यथा हि कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ ।१३ - २६ - षट् भावविकाराः इति ह स्म आह भगवान् वार्ष्यायणिः जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति ।१४ - २६ - सर्वथा स्थितः इति अत्र धातुसञ्ज्ञा न प्राप्नोति ।१५ - २६ - बाह्यः हि एभ्यः तिष्ठतिः ।१६ - २६ - एवम् तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यम् द्रव्यस्य निवर्तकम् ।१७ - २६ - एवम् हि कः चित् कम् चित् पृच्छति ।१८ - २६ - किमवस्थः देवदत्तस्य व्याधिः इति ।१९ - २६ - सः आह वर्धते इति ।२० - २६ - अपरः आह अपक्षीयते इति ।२१ - २६ - अपरः आह स्थितः इति ।२२ - २६ - स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति ।२३ - २६ - अथ वा न अन्तरेण क्रियाम् भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते ।२४ - २६ - अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते ।२५ - २६ - अथ वा न अन्यत् प्र्ष्टेन अन्यत् आख्येयम् ।२६ - २६ - तेन न भविष्यति किम् करोति अस्ति इति ।१ - ३४ - अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।२ - ३४ - गतम् इति आह ।३ - ३४ - कथम् ।४ - ३४ - अयम् आदिशब्दः अस्ति एव व्यवस्थायाम् वर्तते ।५ - ३४ - तत् यथा देवदत्तादीन् समुपविष्टान् आह देवदत्तादयः आनीयन्ताम् इति ।६ - ३४ - ते उत्थाप्य आनीयन्ते ।७ - ३४ - अस्ति प्रकारे वर्तते ।८ - ३४ - तत् यथा देवदत्तादयः आढ्याः अभिरूपाः दर्शनीयाः पक्षवन्तः ।९ - ३४ - देवदत्तप्रकाराः इति गम्यते ।१० - ३४ - प्रत्येकम् च आदिशब्दः परिसमाप्यते ।११ - ३४ - भ्वादयः इति च वादयः इति च ।१२ - ३४ - तत् यदा तावत् क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः आदिशब्दः सः व्यवस्थायाम् वर्तते वा इति अत्र यः आदिशब्दः सः प्रकारे ।१३ - ३४ - भू इति एवमादयः वा इति एवम्प्रकाराः इति ।१४ - ३४ - यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः आदिशब्दः सः व्यवस्थायाम् भू इति अत्र यः आदिशब्दः सः प्रकारे ।१५ - ३४ - वा इति एवमादयः भू इति एवम्प्रकाराः इति ।१६ - ३४ - यदि तर्हि लक्षणम् क्रियते न इदानीम् पाठः कर्तव्यः ।१७ - ३४ - कर्तव्यः च ।१८ - ३४ - किम् प्रयोजनम् ।१९ - ३४ - भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः ।२० - ३४ - भूवादिपाठः कर्तव्यः ।२१ - ३४ - किम् प्रयोजनम् ।२२ - ३४ - प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः ।२३ - ३४ - प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च ।२४ - ३४ - के पुनः आणपयत्यादयः ।२५ - ३४ - आणपयति वट्टति वड्ढति इति ।२६ - ३४ - स्वरानुबन्धज्ञापनाय च ।२७ - ३४ - स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः स्वरान् अनुबन्धान् च ज्ञास्यामि इति ।२८ - ३४ - न हि अन्तरेण पाथम् स्वराः अनुबन्धाः वा शक्याः विज्ञातुम् ।२९ - ३४ - ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषाम् पाठः शक्यः अकर्तुम् ।३० - ३४ - एतेषाम् अपि अवश्यम् आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः ।३१ - ३४ - न कर्तव्यः ।३२ - ३४ - शिष्टप्रयोगात् आणपयत्यादीनाम् निवृत्तिः भविष्यति ।३३ - ३४ - सः च अवश्यम् शिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषाम् अपि विपर्यासनिवृत्त्यर्थः ।३४ - ३४ - लोके हि कृष्यर्थे कसिम् प्रयुञ्जते दृश्यर्थे च दिशिम् ।१ - ११ - उपदेशे इति किमर्थम् ।२ - ११ - अभ्रे आम्̐ अपः उद्देशे यः अनुनासिकः तस्य मा भूत् इति ।३ - ११ - कः पुनः उद्देशोपदेशयोः विशेषः ।४ - ११ - प्रत्यक्षम् आख्यानम् उपदेशः, गुणैः प्रापणम् उद्देशः ।५ - ११ - प्रत्यक्षम् तावत् आख्यानम् उपदेशः ।६ - ११ - तत् यथा अगोज्ञाय कः चित् गाम् सख्थनि कर्णे वा गृहीत्वा उपदिशति अयम् गौः इति ।७ - ११ - सः प्रत्यक्षम् आख्यातम् आह उपदिष्टः मे गौः इति ।८ - ११ - गुणैः प्रापणम् उद्देशः ।९ - ११ - तत् यथा कः चित् कम् चित् आह देवदत्तम् मे भवान् उद्दिशतु इति ।१० - ११ - सः इहस्थः पाटलिपुत्रस्थम् देवदत्तम् उद्दिशति अङ्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तुङ्गनासः चित्राभरणः ईदृशः देवदत्तः इति ।११ - ११ - सः गुणैः प्राप्यमाणम् आह उद्दिष्टः मे देवदत्तः इति ।१ - ६३ - इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् ।२ - ६३ - इत्सञ्ज्ञायाम् सर्वप्रसङ्गः ।३ - ६३ - सर्वस्य अनुनासिकस्य इत्सञ्ज्ञा प्राप्नोति ।४ - ६३ - अस्य अपि प्राप्नोति अभ्रे आम् अपः ।५ - ६३ - किम् कारणम् ।६ - ६३ - अविशेषात् ।७ - ६३ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य अनुनासिकस्य इत्सञ्ज्ञा भवति इति ।८ - ६३ - अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।९ - ६३ - किम् उच्यते अनुपादीयमाने विशेषे इति ।१० - ६३ - कथम् न नाम उपादीयते यदा उपदेशे इति उच्यते ।११ - ६३ - लक्षणेन हि उपदेशः ।१२ - ६३ - सङ्कीर्णौ उद्देशोपदेशौ ।१३ - ६३ - प्रत्यक्षम् आख्यानम् उद्देशः गुणैः च प्रापणम् उपदेशः ।१४ - ६३ - प्रत्यक्षम् तावत् आख्यानम् उद्देशः ।१५ - ६३ - तत् यथा कः चित् कम् चित् आह अनुवाकम् मे भवान् उद्दिशतु इति ।१६ - ६३ - सः तस्मै आचष्टे इषेत्वकम् अधीष्व ।१७ - ६३ - शन्नोदेवीयम् अधीष्व इति ।१८ - ६३ - सः प्रत्यक्षम् आख्यातम् आह उद्दिष्टः मे अनुवाकः ।१९ - ६३ - तम् अध्येष्ये इति ।२० - ६३ - गुणैः च प्रापणम् उपदेशः ।२१ - ६३ - तत् यथा कः चित् कम् चित् आह ग्रामन्तरम् गमिष्यामि ।२२ - ६३ - पन्थानम् मे भवान् उपदिशतु इति ।२३ - ६३ - सः तस्मै आचष्टे अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः, अमुष्मिन् हस्तवामः इति ।२४ - ६३ - सः गुणैः प्राप्यमाणम् आह उपदिष्टः मे पन्थाः इति ।२५ - ६३ - एवम् एतौ सङ्कीर्णौ उद्देशोपदेशौ ।२६ - ६३ - एवम् तर्हि इत्कार्याभावात् इत्सञ्ज्ञा न भविष्यति ।२७ - ६३ - ननु च लोपः एव इत्कार्यम् स्यात् ।२८ - ६३ - अकार्यम् लोपः ।२९ - ६३ - इह हि शब्दस्य द्व्यर्थः उपदेशः ।३० - ६३ - कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा ।३१ - ६३ - कार्यम् च इह न अस्ति ।३२ - ६३ - कार्ये च असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् ।३३ - ६३ - इदम् अस्ति इत्कार्यम् अभ्रे आम्̐ अटितः अनन्तरलक्षणायाम् इत्सञ्ज्ञायाम् सत्याम् आदितः च इति इट्प्रतिषेधः प्रसज्येत ।३४ - ६३ - सिद्धम् तु उपदेशने अनुनासिकवचनात् ।३५ - ६३ - सिद्धम् एतत् कथम् ।३६ - ६३ - उपदेशने यः अनुनासिकः सः इत्सञ्ज्ञः भवति इति वक्तव्यम् ।३७ - ६३ - किम् पुनः उपदेशनम् ।३८ - ६३ - शास्त्रम् ।३९ - ६३ - सिध्यति ।४० - ६३ - सूत्रम् तर्हि भिद्यते ।४१ - ६३ - यथान्यासम् एव अस्तु ।४२ - ६३ - ननु च उक्तम् इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् इति ।४३ - ६३ - न एषः दोषः ।४४ - ६३ - उपदेशः इति घञ् अयम् करणसाधनः ।४५ - ६३ - न सिध्यति ।४६ - ६३ - परत्वात् ल्युट् प्राप्नोति ।४७ - ६३ - न ब्रूमः अकर्तरि च कारके सञ्ज्ञायाम् इति ।४८ - ६३ - किम् तर्हि ।४९ - ६३ - हलः च इति ।५० - ६३ - तत्र अपि सञ्ज्ञायाम् इति वर्तते ।५१ - ६३ - न च एषा सञ्ज्ञा ।५२ - ६३ - प्रायवचनात् असञ्ज्ञायाम् अपि भविष्यति ।५३ - ६३ - प्रायवचनात् सञ्ज्ञायाम् एव स्यात् वा न वा ।५४ - ६३ - न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् ।५५ - ६३ - यदि न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् कल्याण्यादीनाम् इनङ् कुलटायाः वा इनङ् विभाषा न प्राप्नोति ।५६ - ६३ - इनङ् एव अत्र प्रधानम् ।५७ - ६३ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।५८ - ६३ - इह तर्हि वाकिनादीनाम् कुक् च पुत्रात् अन्यतरस्याम् इति कुक् विभाषा न प्राप्नोति ।५९ - ६३ - अत्र अपि कुक् एव प्रधानम् ।६० - ६३ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।६१ - ६३ - एवम् न च इदम् अकृतम् भवति न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति न च कः चित् दोषः भवति ।६२ - ६३ - एवम् च कृत्वा घञ् न प्राप्नोति ।६३ - ६३ - एवम् तर्हि कृत्यल्युटः बहुलम् इति एवम् अत्र घञ् भविष्यति ।१ - २६ - हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् ।२ - २६ - हलन्त्ये सर्व्प्रसङ्गः ।३ - २६ - सर्वस्य हलः इत्सञ्ज्ञा प्राप्नोति ।४ - २६ - किम् कारणम् ।५ - २६ - सर्वान्त्यत्वात् ।६ - २६ - सर्वः हि हल् तम् तम् अवधिम् प्रति अन्त्यः भवति ।७ - २६ - सिद्धम् तु व्यवसितान्त्यत्वात् ।८ - २६ - सिद्धम् एतत् ।९ - २६ - कथम् ।१० - २६ - व्यवसितान्त्यत्वात् ।११ - २६ - व्यवसितान्त्यः हल् इत्सञ्ज्ञः भवति इति वक्तव्यम् ।१२ - २६ - के पुनः व्यवसिताः ।१३ - २६ - धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः ।१४ - २६ - सिध्यति ।१५ - २६ - सूत्रम् तर्हि भिद्यते ।१६ - २६ - यथान्यासम् एव अस्तु ।१७ - २६ - ननु च उक्तम् हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् इति ।१८ - २६ - न एषः दोषः ।१९ - २६ - आह अयम् हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति ।२० - २६ - सर्वः च हल् तम् तम् अवधिम् प्रति अन्त्यः भवति ।२१ - २६ - तत्र प्रकर्षगतिः विज्ञास्यते साधीयः यः अन्त्यः इति ।२२ - २६ - कः च साधीयः ।२३ - २६ - यः व्यवसितान्त्यः ।२४ - २६ - अथ वा सापेक्षः अयम् निर्देशः क्रियते ।२५ - २६ - न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति ।२६ - २६ - ते व्यवसितम् एव अपेक्षिष्यामहे ।१ - १६ - लकारस्य अनुबन्धाज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः ।२ - १६ - लकारस्य अनुबन्धत्वेन अज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः ।३ - १६ - हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति उच्यते ।४ - १६ - लकारस्य एव तावत् इत्सञ्ज्ञा न प्राप्नोति ।५ - १६ - सिद्धम् तु लकारनिर्देशात् ।६ - १६ - सिद्धम् एतत् ।७ - १६ - कथम् ।८ - १६ - लकारनिर्देशः कर्तव्यः ।९ - १६ - हल् अन्त्यम् इत्सञ्ज्ञम् भवति लकारः च इति वक्तव्यम् ।१० - १६ - एकशेषनिर्देशात् वा ।११ - १६ - अथ वा एकशेषनिर्देशः अयम् ।१२ - १६ - हल् च हल् च हल् ।१३ - १६ - हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति ।१४ - १६ - अथ वा ल्̥कारस्य एव इदम् गुणभूतस्य ग्रहणम् ।१५ - १६ - तत्र उपदेशे अच् अनुनासिक इत् इति इत्सञ्ज्ञा भविष्यति ।१६ - १६ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति लकारस्य इत्सञ्ज्ञा इति यत् अयम् णलम् लितम् करोति ।१ - २८ - प्रातिपदिकप्रतिषेधः अकृत्तद्धिते ।२ - २८ - अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः ।३ - २८ - उदश्वित् शक्र्ट् इति ।४ - २८ - अकृत्तद्धितान्तस्य इति किमर्थम् ।५ - २८ - कुम्भकारः नगरकारः औपगवः कापटवः ।६ - २८ - इदर्थाभावात् सिद्धम् ।७ - २८ - इत्कार्याभावात् अत्र इत्सञ्ज्ञ न भविष्यति ।८ - २८ - इदम् अस्ति इत्कार्यम् तित्स्वरितम् इति स्वरितत्वम् यथा स्यात् ।९ - २८ - न एतत् अस्ति ।१० - २८ - प्रत्ययग्रहणम् तत्र चोदयिष्यति ।११ - २८ - इदम् तर्हि राजा तक्षा ।१२ - २८ - ञ्निति आद्युदात्तत्वम् यथा स्यात् ।१३ - २८ - ञ्निति इति उच्यते ।१४ - २८ - तत्र व्यपवर्गाभावात् न भविष्यति ।१५ - २८ - इदम् तर्हि स्वः ।१६ - २८ - उपोत्तमम् रिति एषः स्वरः यथा स्यात् ।१७ - २८ - स्वरितकरणसामर्थ्यात् न भविष्यति ।१८ - २८ - न्यङ्स्वरौ स्व्रितौ इति ।१९ - २८ - इह तर्हि अन्तः ।२० - २८ - उत्तमशब्दः त्रिप्रभृतिषु वर्तते ।२१ - २८ - न च अत्र त्रिप्रभृतयः सन्ति ।२२ - २८ - इह तर्हि सनुतः ।२३ - २८ - उपोत्तमम् रिति इति एषः स्वरः यथा स्यात् ।२४ - २८ - अन्तोदात्तनिपातनम् करिष्यते ।२५ - २८ - सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति ।२६ - २८ - एतत् च अत्र युक्तम् यत् इत्कार्याभावात् इत्सञ्ज्ञा न स्यात् ।२७ - २८ - यत्र इत्कार्यम् भवति भवति तत्र इत्सञ्ज्ञा ।२८ - २८ - तत् यथा आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् ।१ - २६ - विभक्तौ तवर्गप्रतिषेधः अतद्धिते ।२ - २६ - विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यम् ।३ - २६ - इह मा भूत् ।४ - २६ - किमः अत् क्वे प्रेप्सन् दीप्यसे क्व अर्धमासाः इति ।५ - २६ - सः तर्हि प्रतिषेधः वक्तव्यः ।६ - २६ - न वक्तव्यः ।७ - २६ - आचार्यप्रवृत्तिः ज्ञापायति न विभक्तौ तद्धिते प्रतिषेधः भवति इति यत् अयम् इदमः थमुः इति मकारस्ये इत्सञ्ज्ञापरित्राणार्थम् उकारम् अनुबन्धम् करोति ।८ - २६ - यदि एतत् ज्ञाप्यते इदानीम् इति अत्र अपि प्राप्नोति ।९ - २६ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।१० - २६ - इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् ।११ - २६ - इश्भावे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा ।१२ - २६ - सः एव तावत् इश्भावः न प्राप्नोति ।१३ - २६ - किम् कारणम् ।१४ - २६ - प्राक् दिशः प्रत्ययेषु इति उच्यते ।१५ - २६ - कः पुनः अर्हति इश्भावम् प्राग् दिशः प्रत्ययेषु वक्तुम् ।१६ - २६ - किम् तर्हि ।१७ - २६ - प्राक् दिशः अर्थेषु इश्भावः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः ।१८ - २६ - एवम् तर्हि तदः अपि अयम् वक्तव्यः ।१९ - २६ - तदः च मित् अचः अन्त्यात् परत्वेन न सिध्यति ।२० - २६ - ननु च अत्र अपि अत्वे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा ।२१ - २६ - तत् हि अत्त्वम् न प्राप्नोति ।२२ - २६ - किम् कारणम् ।२३ - २६ - विभक्तौ इति उच्यते ।२४ - २६ - एवम् तर्हि यकारान्तः दानीम् करिष्यते ।२५ - २६ - किम् यकारः न श्रूयते ।२६ - २६ - लुप्तनिर्दिष्टः यकारः ।१ - १२ - चुञ्चुप्चणपोः चकारप्रतिषेधः ।२ - १२ - चुञ्चुप्चणपोः चकारस्य प्रतिषेधः वक्तव्यः ।३ - १२ - केशचुञ्चुः केशचणः ।४ - १२ - इत्कार्याभावात् सिद्धम् ।५ - १२ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।६ - १२ - इदम् अस्ति इत्कार्यम् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।७ - १२ - पित्करणम् इदानीम् किमर्थम् स्यात् ।८ - १२ - पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् ।९ - १२ - पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् एतत् स्यात् ।१० - १२ - एवम् तर्हि यकारादी चुञ्चुप्चणपौ ।११ - १२ - किम् यकारः न श्रूयते ।१२ - १२ - लुप्तनिर्दिष्टः यकारः ।१ - २६ - इरः उपसङ्ख्यानम् ।२ - २६ - इरः उपसङ्ख्यानम् कर्तव्यम् रुधिर् अरुधत्, अरौत्सीत् । ३ - २६ - अवयवग्रहणात् सिद्धम् ।४ - २६ - रेफस्य अत्र हलन्त्यम् इति इत्सञ्ज्ञा भविष्यति इकारस्य उपदेशे अच् अनुनासिकः इति ।५ - २६ - अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः ।६ - २६ - अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः प्राप्नोति ।७ - २६ - भेत्ता छेत्ता ।८ - २६ - इदितः नुम् धातोः इति नुम् प्राप्नोति ।९ - २६ - यदि पुनः अयम् इदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत ।१० - २६ - तत् यथा ।११ - २६ - कुम्भीधान्यः श्रोत्रियः इति उच्यते ।१२ - २६ - यस्य कुम्भ्याम् एव धान्यम् सः कुम्भीधान्यः ।१३ - २६ - यस्य पुनः कुम्भ्याम् च अन्यत्र च न असौ कुम्भीधान्यः ।१४ - २६ - न अयम् इदिद्विधिः कुम्भीधान्यन्यायेन शक्यः विज्ञातुम् ।१५ - २६ - इह हि दोषः स्यात् ।१६ - २६ - टुनदि नन्दथुः इति ।१७ - २६ - एवम् तर्हि न एवम् विज्ञायते इकारः इत् यस्य सः अयम् इदित् तस्य इदितः इति ।१८ - २६ - कथम् तर्हि ।१९ - २६ - इकारः एव इत् इदित् इदिदन्तस्य इति ।२० - २६ - अथ वा ऋ̄कारस्य एव इदम् इर्त्वभूतस्य ग्रहणम् ।२१ - २६ - तत्र उपदेशे अच् अनुनासिकः इत् इति इत्सञ्ज्ञा भविष्यति ।२२ - २६ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इदिद्विधिः भवति इति यत् अयम् इरितः कान् चित् नुमनुषक्तान् पठति ।२३ - २६ - उबुन्दिर् निशामने ।२४ - २६ - स्कन्दिर् गतिशोषणयोः ।२५ - २६ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति इर्शब्दस्य इत्सञ्ज्ञा भवति इति यत् अयम् इरितः वा इति आह ।२६ - २६ - अथ वा अन्ते इति वर्तते ।१ - २४ - तस्यग्रहणम् किमर्थम् ।२ - २४ - इत्सञ्ज्ञकः प्रतिनिर्दिश्यते ।३ - २४ - न एतत् अस्ति प्रयोजनम् ।४ - २४ - प्रकृतम् इत् इति वर्तते ।५ - २४ - क्व प्रकृतम् ।६ - २४ - उपदेशे अच् अनुनासिकः इत् इति ।७ - २४ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।८ - २४ - अर्थात् विभक्तिविपरिणामः भविष्यति ।९ - २४ - तत् यथा ।१० - २४ - उच्चानि देवदत्तस्य गृहाणि ।११ - २४ - आमन्त्रयस्व एनम् ।१२ - २४ - देवदत्तम् इति गम्यते ।१३ - २४ - देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।१४ - २४ - आढ्यः वैधवेयः ।१५ - २४ - देवदत्तः इति गम्यते ।१६ - २४ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।१७ - २४ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।१८ - २४ - इदम् तर्हि प्रयोजनम् ।१९ - २४ - ये अनेकालः इत्सञ्ज्ञाः तेषाम् लोपः सर्वादेशः यथा स्यात् ।२० - २४ - अथ क्रियमाणे अपि च तस्यग्रहणे कथम् इव लोपः सर्वादेशः लभ्यः ।२१ - २४ - लभ्यः इति आह ।२२ - २४ - कुतः ।२३ - २४ - वचनप्रामाण्यात् ।२४ - २४ - तस्यग्रहणसामर्थ्यात् ।१ - ४० - इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् इत्प्रतिषेधात् ।२ - ४० - इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् कर्तव्यम् ।३ - ४० - णल् ।४ - ४० - अहम् पपच ।५ - ४० - क्त्वा ।६ - ४० - देवित्वा सेवित्वा ।७ - ४० - निष्ठा ।८ - ४० - शयितः शयितवान् ।९ - ४० - किम् पुनः कारणम् न सिध्यति ।१० - ४० - इत्प्रतिषेधात् ।११ - ४० - प्रतिषिध्यते अत्र इत्सञ्ज्ञा ।१२ - ४० - णल् उत्तमः णित् वा भवति ।१३ - ४० - क्त्वा सेट् न कित् भवति ।१४ - ४० - निष्ठा सेट् न कित् भवति इति ।१५ - ४० - सिद्धम् तु णलादीनाम् ग्रहणप्रतिषेधात् । सिद्धम् एतत् ।१६ - ४० - कथम् ।१७ - ४० - णलादीनाम् ग्रहणानि प्रतिषिधन्ते ।१८ - ४० - णल् उत्तमः वा णिद्ग्रहणेन गृह्यते ।१९ - ४० - क्त्वा सेट् न किद्ग्रहणेन गृह्यते ।२० - ४० - निष्ठा सेट् न किद्ग्रहणेन गृह्यते इति ।२१ - ४० - निर्दिष्टलोपात् वा ।२२ - ४० - निर्दिष्टलोपात् वा सिद्धम् एव ।२३ - ४० - अथ वा निर्दिष्टस्य अयम् लोपः क्रियते ।२४ - ४० - तस्मात् सिद्धम् एतत् ।२५ - ४० - तत्र तुस्मानाम् प्रतिषेधः ।२६ - ४० - तत्र तुस्मानाम् प्रतिषेधः वक्तव्यः ।२७ - ४० - तस्मात् तस्मिन् यस्मात् यस्मिन् वृक्षाः प्लक्षाः अचिनवम् असुनवम् अकरवम् ।२८ - ४० - न वा उच्चारणसामर्थ्यात् ।२९ - ४० - न वा वक्तव्यः ।३० - ४० - किम् कारणम् ।३१ - ४० - उच्चारणसामर्थ्यात् अत्र लोपः न भविष्यति ।३२ - ४० - अनुबन्धलोपे भावाभावयोः विप्रतिषेधात् अप्रसिद्धिः । अनुबन्धलोपे भावाभावयोः विरोधात् अप्रसिद्धिः ।३३ - ४० - न ज्ञायते केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति ।३४ - ४० - सिद्धम् तु अपवादन्यायेन ।३५ - ४० - सिद्धम् एतत् ।३६ - ४० - कथम् ।३७ - ४० - अपवादन्यायेन ।३८ - ४० - किम् पुनः इह तथा यथा उत्सर्गापवादौ ।३९ - ४० - भावः हि कार्याऋथः नन्यार्थः लोपः ।४० - ४० - कार्यम् करिष्यामि इति अनुबन्धः आसज्यते कार्याद् अन्यन् मा भूत् इति लोपः ।१ - ६३ - अथ यस्य अनुबन्धः आसज्यते किम् सः तस्य एकान्तः भवति आहोस्वित् अनेकान्तः ।२ - ६३ - एकान्तः तत्र उपलब्धेः ।३ - ६३ - एकान्तः इति आह ।४ - ६३ - कुतः ।५ - ६३ - तत्र उपलब्धेः ।६ - ६३ - तत्रस्थः हि असौ उपलभ्यते ।७ - ६३ - तत् यथा वृक्षस्था शाखा वृक्षैकान्ता उपलभ्यते ।८ - ६३ - तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् ।९ - ६३ - तत्र असरूपविधौ दोषः भवति ।१० - ६३ - कर्मणि अण् आतः अनुपसर्गे कः इति ।११ - ६३ - कण्विषये अण् अपि प्राप्नोति ।१२ - ६३ - सर्वादेशे च दोषः भवति ।१३ - ६३ - दिवः औत् सर्वादेशः प्राप्नोति ।१४ - ६३ - दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः ।१५ - ६३ - अदाब्दैपौ इति वक्तव्यम् ।१६ - ६३ - किम् पुनः कारणम् न सिध्यति ।१७ - ६३ - अनाकारान्तत्वात् ।१८ - ६३ - ननु च आत्त्वे कृते भविष्यति ।१९ - ६३ - तत् हि आत्त्वम् न प्राप्नोति ।२० - ६३ - किम् कारणम् ।२१ - ६३ - अनेजन्तत्वात् ।२२ - ६३ - अस्तु तर्हि अनेकान्तः ।२३ - ६३ - अनेकान्ते वृत्तिविशेषः ।२४ - ६३ - यदि अनेकान्तः वृत्तिविशेषः न सिध्यति ।२५ - ६३ - किति णिति इति कार्याणि न सिध्यन्ति ।२६ - ६३ - किम् हि सः तस्य इत् भवति येन इत्कृतम् स्यात् ।२७ - ६३ - एवम् तर्हि अनन्तरः ।२८ - ६३ - अनन्तरः इति चेत् पूर्वपरयोः इत्कृतप्रसङ्गः ।२९ - ६३ - अनन्तरः इति चेत् पूर्वपरयोः इत्कृतम् प्राप्नोति ।३० - ६३ - वुञ्छण् ।३१ - ६३ - सिद्धम् तु व्यवसितपाठात् ।३२ - ६३ - सिद्धम् एतत् ।३३ - ६३ - कथम् ।३४ - ६३ - व्यवसितपाठः कर्तव्यः ।३५ - ६३ - वुञ् छण् ।३६ - ६३ - सः च अवश्यम् व्यवसितपाठः कर्तव्यः ।३७ - ६३ - इतरथा हि एकान्ते अपि सन्देहः ।३८ - ६३ - अक्रियमाणे व्यवसितपाठे एकान्ते अपि सन्देहः स्यात् ।३९ - ६३ - तत्र न ज्ञायते किम् अयम् पूर्वस्य भवति आहोस्वित् परस्य इति ।४० - ६३ - सन्देहमात्रम् एतत् भवति ।४१ - ६३ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।४२ - ६३ - पूर्वस्य इति व्याख्यास्यमः ।४३ - ६३ - वृत्तात् वा ।४४ - ६३ - वृत्तात् वा पुनः सिद्धम् एतत् ।४५ - ६३ - वृद्धिमन्तम् आद्युदात्तम् दृष्ट्वा ञित् इति व्यवसेयम् ।४६ - ६३ - अन्तोदात्तम् दृष्ट्वा कित् इति ।४७ - ६३ - युक्तम् पुनः यत् वृत्तिनिमित्तकः अनुबन्धः स्यात् न अनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् ।४८ - ६३ - वृत्तिनिमित्तकः एव अनुबन्धः ।४९ - ६३ - वृत्तिज्ञः हि आचार्यः अनुबन्धान् आसजति ।५० - ६३ - उभयम् इदम् अनुबन्धेषु उक्तम् एकान्ताः अनेकान्ताः इति ।५१ - ६३ - किम् अत्र न्याय्यम् ।५२ - ६३ - एकान्ताः इति न्याय्यम् ।५३ - ६३ - कुतः एतत् ।५४ - ६३ - अत्र हि हेतुः व्यपदिष्टः ।५५ - ६३ - यत् च नाम सहेतुकम् तत् न्याय्यम् ।५६ - ६३ - ननु च उक्तम् तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति ।५७ - ६३ - असरूपविधौ तावत् न दोषः ।५८ - ६३ - आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददातिदधात्योः विभाषा इति विभाषा शम् शास्ति ।५९ - ६३ - यत् अपि उक्तम् सर्वादेशे इति ।६० - ६३ - अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति यत् अयम् शित् सर्वस्य इति आह ।६१ - ६३ - यत् अपि उक्तम् दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति ।६२ - ६३ - न कर्तव्यः ।६३ - ६३ - आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP