संस्कृत सूची|शास्त्रः|तत्वज्ञानम्|न्यायसूत्र|प्रथमः अध्यायः| द्वितीयम् आह्निकम् प्रथमः अध्यायः प्रथमम् आह्निकम् द्वितीयम् आह्निकम् प्रथमः अध्यायः - द्वितीयम् आह्निकम् शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत. Tags : न्यायसूत्रसंस्कृत द्वितीयम् आह्निकम् Translation - भाषांतर (कथालक्षणप्रकरणम्]२.१ - प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः(वाद-लक्षणम्)२.२ - यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः(जल्प-लक्षणम्)२.३ - सः प्रतिपक्षस्थापनाहीनः वितण्डा(वितण्डा-लक्षणम्)(हेत्वाभासप्रकरणम्]२.४ - सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः(हेत्वाभास-उद्देश-सूत्रम्)२.५ - अनैकान्तिकः सव्यभिचारः(सव्यभिचार-लक्षणम्)२.६ - सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः(विरुद्ध-लक्षणम्)२.७ - यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः(प्रकरणसम-लक्षणम्)२.८ - साध्याविशिष्टः साध्यत्वात् साध्यसमः(साध्यसम-लक्षणम्)२.९ - कालात्ययापदिष्टः कालातीतः(कालातीत-लक्षणम्)(छलप्रकरणम्]२.१० - वचनविघातः अर्थविकल्पोपपत्त्या छलम्(छल-लक्षणम्)२.११ - तत् त्रिविधम् - वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति(छल-भेद-उद्देश-सूत्रम्)२.१२ - अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् अर्थान्तरकल्पना वाक्छलम्(वाक्छल-लक्षणम्)२.१३ - सम्भवतः अर्थस्य अतिसामान्ययोगात् असम्भूतार्थकल्पना सामान्यच्छलम्(सामान्यच्छल-लक्षणम्)२.१४ - धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम्(उपचारच्छल-लक्षणम्)२.१५ - वाक्छलम् एव उपचारच्छलम् तत् अविशेषात्(उपचारच्छल-पूर्वपक्ष-लक्षणम्)२.१६ - न तत् अर्थान्तरभावात्(उपचारच्छल-लक्षणम्)२.१७ - अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः(उपचारच्छल-लक्षणम्)(लिङ्गदोषसामान्यप्रकरणम्]२.१८ - साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः(जाति-लक्षणम्)२.१९ - विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्(निग्रहस्थान-लक्षणम्)२.२० - तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम्(निग्रहस्थानबहुत्व-सूत्रम्)इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम् समाप्तः च अयम् प्रथमः अध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP