संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १४| भाग ४ अध्याय १४ भाग १ भाग २ भाग ३ भाग ४ अर्थशास्त्रम् अध्याय १४ - भाग ४ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ४ Translation - भाषांतर (स्व.बल.उपघात.प्रतीकारह्)४.०१स्व.पक्षे पर.प्रयुक्तानां दूषी.विष.गराणां प्रतीकारः ॥४.०२श्लेष्मातक.कपित्थ.दन्ति.दन्त.शठ.गोजि.शिरीष.पाटली.बलास्योनाग.पुनर्.नवा.श्वेत.वारण.क्वाथ.युक्तम्(?) चन्दन.साला.वृकी.लोहित.युक्तं नेजन.उदकं राज.उपभोग्यानां गुह्य.प्रक्षालनं स्त्रीणाम्, सेनायाश् च विष.प्रतीकारः ॥४.०३पृषत.नकुल.नील.कण्ठ.गोधा.पित्त.युक्तं मही.राजी.चूर्णं सिन्दु.वारित.वरण.वारुणी.तण्डुलीयक.शत.पर्व.अग्र.पिण्डीतक.योगो मदन.दोष.हरः ॥४.०४सृगाल.विन्ना.मदन.सिन्दु.वारित.वरण.वारण.वली.मूल.कषायाणाम् अन्यतमस्य समस्तानां वा क्षीर.युक्तं पानं मदन.दोष.हरम् ॥४.०५कैडर्य.पूति.तिल.तैलम् उन्माद.हरं नस्तः.कर्म ॥४.०६प्रियङ्गु.नक्त.माल.योगः कुष्ठ.हरः ॥४.०७कुष्ठ.लोध्र.योगः पाक.शोषघ्नः ॥४.०८कट.फल.द्रवन्ती.विलङ्ग.चूर्णं नस्तः.कर्म शिरो.रोग.हरम् ॥४.०९प्रियङ्गु.मञ्जिष्ठात.गरला.क्षार.समधुक.हरिद्रा.क्षौद्र.योगो रज्जु.उदक.विष.प्रहार.पतन.निह्संज्ञानां पुनः.प्रत्यानयनाय ॥४.१०मनुष्याणाम् अक्ष.मात्रम्, गव.अश्वानां द्वि.गुणम्, चतुर्.गुणं हस्त्य्.उष्ट्राणाम् ॥४.११रुक्म.गर्भश् च_एषां मणिः सर्व.विष.हरः ॥४.१२जीवन्ती.श्वेता.मुष्कक.पुष्प.वन्दाकानाम् अक्षीवे जातस्य_अश्वत्थस्य मणिः सर्व.विष.हरः ॥४.१३तूर्याणां तैः प्रलिप्तानां शब्दो विष.विनाशनः ।४.१३लिप्त.ध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ॥४.१४एतैः कृत्वा प्रतीकारं स्व.सैन्यानाम् अथ_आत्मनः ।४.१४अमित्रेषु प्रयुञ्जीत विष.धूम.अम्बु.दूषणान् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP