संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १४| भाग २ अध्याय १४ भाग १ भाग २ भाग ३ भाग ४ अर्थशास्त्रम् अध्याय १४ - भाग २ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २ Translation - भाषांतर (प्रलम्भनम्, तत्र अद्भुत.उत्पादनम्)२.०१शिरीष.उदुम्बर.शमी.चूर्णं सर्पिषा संहृत्य_अर्ध.मासिकः क्षुद्.योगः ॥२.०२कशेरुक.उत्पल.कन्देक्षु.मूल.बिस.दूर्वा.क्षीर.घृत.मण्ड.सिद्धो मासिकः ॥२.०३माष.यव.कुलत्थ.दर्भ.मूल.चूर्णं वा क्षीर.घृताभ्याम्, वल्ली.क्षीर.घृतं वा सम.सिद्धम्, साल.पृश्नि.पर्णी.मूल.कल्कं पयसा पीत्वा, पयो वा तत्.सिद्धं मधु.घृताभ्याम् अशित्वा मासम् उपवसति ॥२.०४श्वेत.बस्त.मूत्रे सप्त.रात्र.उषितैः सिद्ध.अर्थकैः सिद्धं तैलं कटुक.आलाबौ मास.अर्ध.मास.स्थितं चतुष्.पद.द्वि.पदानां विरूप.करणम् ॥२.०५तक्र.यव.भक्षस्य सप्त.रात्राद् ऊर्ध्वं श्वेत.गर्दभस्य लेण्ड.यवैः सिद्धं गौर.सर्षप.तैलं विरूप.करणम् ॥२.०६एतयोर् अन्यतरस्य मूत्र.लेण्द.रस.सिद्धं सिद्ध.अर्थक.तैलम् अर्क.तूल.पतङ्ग.चूर्ण.प्रतीवापं श्वेती.करणम् ॥२.०७श्वेत.कुक्कुट.अजगर.लेण्ड.योगः श्वेती.करणम् ॥२.०८श्वेत.बस्त.मूत्रे श्वेत.सर्षपाः सप्त.रात्र.उषित.अस्तक्र(?).मर्क..क्षीर.लवणं धान्यं च पक्ष.स्थितो योगः श्वेती.करणम् ॥२.०९कटुक.अलाबौ वली.गते गतं.अर्ध.मास.स्थितं गौर.सर्षप.पिष्टं रोम्णां श्वेती.करणम् ॥२.१०अलोजुनेति यः कीटः श्वेता च गृह.गोलिका ।२.१०एतेन पिष्तेन_अभ्यक्ताः केशाः स्युः शङ्ख.पाण्डराः ॥२.११गोमयेन तिन्दुक.अरिष्ट.कल्केन वा मर्दित.अङ्गस्य भल्लातक.रस.अनुलिप्तस्य मासिकः कुष्ठ.योगः ॥२.१२कृष्ण.सर्प.मुखे गृह.गोलिका.मुखे वा सप्त.रात्र.उषिता गुज्जाः कुष्ठ.योगः ॥२.१३शुक.पित्त.अण्ड.रस.अभ्यङ्गः कुष्ठ.योगः ॥२.१४कुष्ठस्य.प्रियाल.कल्क.कषायः प्रतीकारः ॥२.१५कुक्कुट.कोश.अतकी(?).शतावरी.मूल.युक्तम् आहारयमाणो मासेन गौरो भवति ॥२.१६वट.कषाय.स्नातः सह.चर.कल्क.दिग्धः कृष्णो भवति ॥२.१७शकुन.कण्गु.तैल.युक्ता हरि.ताल.मनः.शिलाः श्यामी.करणम् ॥२.१८ख.द्योत.चूर्णं सर्षप.तैल.युक्तं रात्रौ ज्वलति ॥२.१९ख.द्योत.गण्डू.पद.चूर्णं समुद्र.जन्तूनां भृङ्ग.कपालानां खदिर.कर्णिकाराणां पुष्प.चूर्णं वा शकुन.कङ्गु.तैल.युक्तं तेजन.चूर्णम् ॥२.२०पारिभद्रक.त्वन्.मषी मण्डूक.वसया युक्ता गात्र.प्रज्वालनम् अग्निना ॥२.२१परिभद्रक.त्वक्.तिल.कल्क.प्रदिग्धं शरीरम् अग्निना ज्वलति ॥२.२२पीलु.त्वन्.मषीमयः पिण्डो हस्ते ज्वलति ॥२.२३मण्डूक.वसा.दिग्धो_अग्निना ज्वलति ॥२.२४तेन प्रदिग्धम् अङ्गं कुश.आम्र.फल.तैल.सिक्तं समुद्र.मण्डूकी.फेनक.सर्ज.रस.चूर्ण.युक्तं वा ज्वलति ॥२.२५मण्डूक.कुलीर.आदीनां वसया सम.भागं तैलं सिद्धम् अभ्यङ्गं गात्राणाम् अग्नि.प्रज्वालनम् ॥२.२६वेणु.मूल.शैवल.लिप्तम् अङ्गं मण्डूक.वसा.दिग्धम् अग्निना ज्वलति ॥२.२७पारिभद्रक.प्पतिबला.वञ्जुल.वज्र.कदली.मूल.कल्केन मण्डूक.वसा.सिद्धेन तैलेन_अभ्यक्त.पादो_अङ्गारेषु गच्छति ॥२.२८उप.उदका प्रतिबला वञ्जुलः पारिभद्रकः ।२.२८एतेषां मूल.कल्केन मण्डूक.वसया सह ॥२.२९साधयेत् तैलम् एतेन पादाव् अभ्यज्य निर्मलौ ।२.२९अङ्गार.राशौ विचरेद् यथा कुसुम.संचये ॥२.३०हंस.क्रौञ्च.मयूराणाम् अन्येषां वा महा.शकुनीनाम् उदक.प्लवानां पुच्छेषु बद्धा नल.दीपिका रात्राव् उल्का.दर्शनम् ॥२.३१वैद्युतं भस्म.अङ्गि.शमनम् ॥२.३२स्त्री.पुष्प.पायिता माषा व्रजकुली.मूलं मण्डूक.वसा.मिश्रं चुल्लुयां दीप्तायाम् अपाचनम् ॥२.३३चुल्ली.शोधनं प्रतीकारः ॥२.३४पीलुमयो मणिर् अग्नि.गर्भः सुवर्चला.मूल.ग्रन्थिः सूत्र.ग्रन्थिर् वा पिचु.परिवेष्टितो मुख्याद् अग्नि.धूम.उत्सर्गः ॥२.३५कुश.आम्र.फल.तैल.सिक्तो_अग्निर् वर्ष.प्रवातेषु ज्वलति ॥२.३६समुद्र.फेनकस् तैल.युक्तो_अम्भसि प्लवमानो ज्वलति ॥२.३७प्लवमानानाम् अस्थिषु कल्माष.वेणुना निर्मथितो_अग्निर् न_उदकेन शाम्यति, उदकेन ज्वलति ॥२.३८शस्त्र.हतस्य शूल.प्रोतस्य वा पुरुषस्य वाम.पार्श्व.पर्शुक.अस्थिषु कल्माष.वेणुना निर्मथितो_अग्निः स्त्रियाः पुरुषस्य वा_अस्थिषु मनुष्य.पर्शुकया निर्मथितो_अग्निर् यत्र त्रिर् अपसव्यं गच्छति न च_अत्र_अन्यो_अग्निर् ज्वलति ॥२.३९चुच्चुन्दरी खञ्जरीटः खार.कीटश् च पिष्यते ।२.३९अश्व.मूत्रेण संसृष्टा निगलानां तु भञ्जनम् ॥२.४०अयस्.कान्तो वा पाषाणः कुलीर.दर्दुर.खार.कीट.वसा.प्रदेहेन द्वि.गुणः ॥२.४१नारक.गर्भः कङ्क.भास.पार्श्व.उत्पल.उदक.पिष्टश् चतुष्.पद.द्वि.पदानां पाद.लेपः ॥२.४२उलूक.गृध्र.वसाभ्याम् उष्ट्र.चर्म.उपानहाव् अभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्.योजनान्य् अश्रान्तो गच्छति ॥२.४३श्येन.कङ्क.काक.गृध्र.हंस.क्रौञ्च.वीची.रल्लानां मज्जानो रेतांसि वा योजन.शताय, सिंह.व्याघ्र.द्वीप.काक.उलूकानां मज्जानो रेतांसि वा ॥२.४४सार्ववर्णिकानि गर्भ.पतनान्य् उष्ट्रिकायाम् अभिषूय श्मशाने प्रेत.शिशून् वा तत्.समुत्थितं मेदो योजन.शताय ॥२.४५अनिष्टैर् अद्भुत.उत्पातैः परस्य_उद्वेगम् आचरेत् ।२.४५आराज्याय_इति निर्वादः समानः कोप उच्यते ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP