संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १०| भाग ६ अध्याय १० भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ अर्थशास्त्रम् अध्याय १० - भाग ६ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ६ Translation - भाषांतर ६.०१पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः ॥६.०२पक्षौ कक्षाव् उरस्य्म् प्रतिग्रह इति बार्हस्प्त्यः ॥६.०३प्रपक्ष.कक्ष.उरस्या उभयोः दण्ड.भोग.मण्डल.असंहताः प्रकृति.व्यूहाः ॥६.०४तत्र तिर्यग्.वृत्तिर् दण्डः ॥६.०५समस्तानाम् अन्वावृत्तिर् भोगः ॥६.०६सरतां सर्वतो.वृत्तिर् मण्डलः ॥६.०७स्थितानां पृथग्.अनीक.वृत्तिर् असंहतः ॥६.०८पक्ष.कक्ष.उरस्यैः समं वर्तमानो दण्डः ॥६.०९स कक्ष.अतिक्रान्तः प्रदरः ॥६.१०स एव पक्ष.कक्षाभ्यां प्रतिक्रान्तो दृढकः ॥६.११स एव_अतिक्रान्तः पक्षाभ्याम् असह्यः ॥६.१२पक्षाव् अवस्थाप्य_उरस्य.अतिक्रान्तः श्येनः ॥६.१३विपर्यये चापं चाप.कुकुषिः प्रतिष्ठः सुप्रतिष्ठश् च ॥६.१४चाप.पक्षः संजयः ॥६.१५स एव_उरस्य.अतिक्रान्तो विजयः ॥६.१६स्थूल.कर्ण.पक्षः स्थूण.अकर्णः ॥६.१७द्वि.गुण.पक्ष.स्थूणो विशाल.विजयः ॥६.१८त्र्य्.अभिक्रान्त.पक्षश् चमू.मुखः ॥६.१९विपर्यये झष.आस्यः ॥६.२०ऊर्ध्व.राजिर् दण्डः सूची ॥६.२१द्वौ दण्डौ वलयः ॥६.२२चत्वारो दुर्जयः ॥६.२३इति दण्ड.व्यूहाः ॥६.२४पक्ष.कक्ष.उरस्यैर् विषमं वर्तमानो भोगः ॥६.२५स सर्प.सारी गो.मूत्रिका वा ॥६.२६स युग्म.उरस्यो दण्ड.पक्षः शकटः ॥६.२७विपर्यये मकरः ॥६.२८हस्त्य्.अश्व.रथैर् व्यतिकीर्णः शकटः पारिपतन्तकः ॥६.२९इति भोग.व्यूहाः ॥६.३०पक्ष.कक्ष.उरस्यानाम् एकी.भावे मण्डलः ॥६.३१स सर्वतो.मुखः सर्वतो.भद्रः ॥६.३२अष्ट.अनीको दुर्जयः ॥६.३३इति मण्डल.व्यूहाः ॥६.३४पक्ष.कक्ष.उरस्यानाम् असंहताद् असंहतः ॥६.३५स पञ्च.अनीकानाम् आकृति.स्थापनाद् वज्रो गोधा वा ॥६.३६चतुर्णाम् उद्धानकः काकपदी वा ॥६.३७त्रयाणाम् अर्ध.चन्द्रकः कर्कटक.शृङ्गी वा ॥६.३८इत्य् असंहत.व्यूहाः ॥६.३९रथ.उरस्यो हस्ति.कक्षो_अश्व.पृष्ठो_अरिष्टः ॥६.४०पत्तयो_अश्वा रथा हस्तिनश् च_अनुपृष्ठम् अचलः ॥६.४१हस्तिनो_अश्वा रथाः पत्तयश् च_अनुपृष्ठम् अप्रतिहतः ॥६.४२तेषां प्रदरं दृढकेन घातयेत्, दृढकम् असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, संजयं विजयेन, स्थूण.आकर्णं विशाल.विजयेन, पारिपतन्तकं सर्वतो.भद्रेण ॥६.४३दुर्जयेन सर्वान् प्रतिव्यूहेत ॥६.४४पत्त्य्.अश्व.रथ.द्विपानां पूर्वं पूर्वम् उत्तरेण घातयेत्, हीन.अङ्गम् अधिक.अङ्गेन च_इति ॥६.४५अङ्ग.दशकस्य_एकः पतिः पतिकः, पतिक.दशकस्य_एकः सेना.पतिः, तद्.दशकस्य_एको नायक इति ॥६.४६स तूर्य.घोष.ध्वज.पताकाभिर् व्यूह.अङ्गानां संज्ञाः स्थापयेद् अङ्ग.विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥६.४७समे व्यूहे देश.काल.सार.योगात् सिद्धिः ॥६.४८यन्त्रैर् उपनिषद्.योगैस् तीक्ष्णैर् व्यासक्त.घातिभिः ।६.४८मायाभिर् देव.सम्योगैः शकटैर् हस्ति.भीषणैः ॥६.४९दूष्य.प्रकोपैर् गो.यूथैः स्कन्ध.आवार.प्रदीपनैः ।६.४९कोटी.जघन.घातैर् वा दूत.व्यञ्जन.भेदनैः ॥६.५०"दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः ।६.५०शत्रुर् आटविको वा" इति परस्य_उद्वेगम् आचरेत् ॥६.५१एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।६.५१प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भ.गतान् अपि ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP