संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १०| भाग १ अध्याय १० भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ अर्थशास्त्रम् अध्याय १० - भाग १ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १ Translation - भाषांतर १.०१वास्तुक.प्रशस्ते वास्तुनि नायक.वर्धकि मौहूर्तिकाः स्कन्ध.आवारम्, वृत्तं दीर्घं चतुर्.अश्रं वा भूमि.वशेन वा, चतुर्.द्वारं षट्.पथं नव.संस्थानं मापयेयुः खात.वप्र.साल.द्वार.अट्टालक.सम्पन्नं भये स्थाने च ॥१.०२मध्यमस्य_उत्तरे नव.भागे राज.वास्तुकं धनुः.शत.आयामम् अर्ध.विस्तारम्, पश्चिम.अर्धे तस्य_अन्तः.पुरम् ॥१.०३अन्तर्.वंशिक.सैन्यं च_अन्ते निविशेत ॥१.०४पुरस्ताद् उपस्थानम्, दक्षिणतः कोश.शासन.कार्य.करणानि, वामतो राज.औपवाह्यानां हस्त्य्.अश्व.रथानां स्थानम् ॥१.०५अतो धनुः.शत.अन्तराश् चत्वारः शकट.मेथी.प्रतति.स्तम्भ.साल.परिक्षेपाः ॥१.०६प्रथमे पुरस्तान् मन्त्रि.पुरोहितौ, दण्षिणतः कोष्ठ.अगारं महानसं च, वामतः कुप्य.आयुध.अगारम् ॥१.०७द्वितीये मौल.भृतानां स्थानम् अश्व.रथानां सेना.पतेश् च ॥१.०८तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥१.०९चतुर्थे विष्टिर् नायको मित्र.अमित्र.अटवी.बलं स्व.पुरुष.अधिष्ठितम् ॥१.१०वणिजो रूप.आजीवाश् च_अनु.महा.पथम् ॥१.११बाह्यतो लुब्धक.श्व.गणिनः सतूर्य.अग्नयः, गूढाश् च_आरक्षाः ॥१.१२शत्रूणाम् आपाते कूप.कूट.अवपात.कण्टकिनीश् च स्थापयेत् ॥१.१३अष्टादश.वर्गाणाम् आरक्ष.विपर्यासं कारयेत् ॥१.१४दिव.आयामं च कारयेद् अपसर्प.ज्ञान.अर्थम् ॥१.१५विवाद.सौरिक.समाज.द्यूत.वारणं च कारयेत्, मुद्रा.रक्षणं च ॥१.१६सेना.निवृत्तम् आयुधीयम् अशासनं शून्य.पालो बध्नीयात् ॥१.१७पुरस्ताद् अध्वनः सम्यक्.प्रशास्ता रक्षणानि च ।१.१७यायाद् वर्धकि.विष्टिभ्याम् उदकानि च कारयेत् ॥(स्कन्ध.आवार.प्रयाणम् - बल.व्यसन.अवस्कन्द.काल.रक्षणम्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP