संस्कृत सूची|संस्कृत साहित्य|साहित्य दर्पण| नवमः परिच्छेदः साहित्य दर्पण प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः सप्तमः परिच्छेदः अष्टमः परिच्छेदः नवमः परिच्छेदः दशमः परिच्छेदः साहित्य दर्पण - नवमः परिच्छेदः साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है। Tags : booksahitya darpanपुस्तकसंस्कृतसाहित्य दर्पण नवमः परिच्छेदः Translation - भाषांतर अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह---पदसंघटना रीतिरङ्गसंस्थाविरोषवत् ।उपकर्त्रो रसादीनां---रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् ।---सा पुनः स्याच्चतुर्विधा ॥१॥वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा ।सरीतिः ।तत्र---माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका ॥२॥अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते ।यथा---"अनङ्गमङ्गलभुवः--" इत्यादि ।रुद्रटस्त्वाह--- असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो ।वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ॥अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः ।ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः ॥३॥समासबहुला गौडी---यथा---"चञ्चद्भुज--" इत्यादि ।पुरुषोत्तमस्त्वाह--- "बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया ।रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च" ॥---वर्णैः शेषैः पुनर्द्वयोः ।समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥४॥द्वयोर्वैदर्भोगौड्योः ।यथा--- "मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे" ॥भोजस्त्वाह---"समस्तपञ्चषपदामोजः कान्तिसमन्विताम् ।मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः" ॥लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता ।यथा---"अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि" ॥कश्चिदाह---"मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा ।उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी" ॥अन्ये त्वाहुः---"गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा ।पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः" ॥क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः ॥५॥वाक्त्रदीत्यादिशब्दाद्वाच्यप्रबन्धौ . रचनादीत्यादिशब्दाद्वृत्तिवर्णौ ।तत्र वक्त्रौचित्याद्यथा--- "मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधईरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः ।कृष्णाक्रोधग्रढूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितो ऽयम्" ॥अत्र वाच्यक्रोधाद्य(न) भिव्यञ्जकत्वे ऽपि भीमसेनवक्तत्वेनोद्धता रचनादयः ।वाच्यौचित्याद्यथोदाहृते "मूर्धव्याधूयमान---" इत्यादौ ।प्रबन्धौचित्याद्यथा नाटकादौ रौद्रे ऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमासादयः ।एवमाख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः ।कथायां रौद्रे ऽपि नात्यन्तमुद्धताः ।एवमन्यदपि ज्ञेयम् ।इति साहित्यादर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP