संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्|मित्रलाभः| कथा २ मित्रलाभः आरंभः कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ मित्र लाभः - कथा २ हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश कथा २ Translation - भाषांतर अस्ति मगध-देशे चंपकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टांगः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालो चिंतयत्-आः ! कथम् एतन्-मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्-मित्र ! कुशलं ते ?मृगेणोक्तम्-कस् त्वम् ?स ब्रूते-क्षुद्र-बुढि-नामा जंबुको हम् । अत्रारण्ये बंधु-हीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रम् आसाद्य पुनः स-बंधुर् जीव-लोकं प्रविष्टो स्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति ।मृगेणोक्तम्-एवम् अस्तु ।ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ । तत्र चंपक-वृक्ष-शाखायां सुबुढि-नामा काको मृगस्य चिर-मित्रं निवसति । तौ दृष्ट्वा काको वदत्-सखे चित्रांग ! को यं द्वितीयः ? मृगो ब्रूते-मित्र ! अकस्माद् आगंतुना सह मैत्री न युक्ता । तन् न भद्रम् आचरितम् । तथा चोक्तम्-अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ॥५६॥तौ आहतुः--कथम् एतत् ?काकः कथयति- N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP