संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|ब्रह्मकांड| भाग ३ ब्रह्मकांड भाग १ भाग २ भाग ३ भाग ४ ब्रह्मकांड - भाग ३ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ३ Translation - भाषांतर सदृशग्रहणानां च गन्धादीनां प्रकाशकम् ।निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् ॥१०१॥प्रकाशकानां भेदांश् च प्रकाश्यो ऽर्थो ऽनुवर्तते ।तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ॥१०२॥विरुद्धपरिमाणेषु वज्रादर्शतलादिषु ।पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥१०३॥तस्माद् अभिन्नकालेषु वर्णवाक्यपदादिषु ।वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते ॥१०४॥यः संयोगविभागाभ्यां करणैर् उपजन्यते ।स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः ॥१०५॥अल्पे महति वा शब्दे स्फोटकालो न भिद्यते ।परस् तु शब्दसंतानः प्रचयापचयात्मकः ॥१०६॥दूरात् प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते ।घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥१०७॥द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुताव् अपि ।कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः ॥१०८॥अनवस्थितकम्पे ऽपि करणे ध्वनयो ऽपरे ।स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव ॥१०९॥वायोर् अणूनां ज्ञानस्य शब्दत्वापत्तिर् इष्यते ।कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः ॥११०॥लब्धक्रियाः प्रयत्नेन वक्तुर् इच्च्चानुवर्तिना ।स्थानेष्व् अभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥१११॥तस्य कारणसामर्थ्याद् वेगप्रचयधर्मणः ।संनिपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः ॥११२॥अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः ।छायातपतमःशब्द- भावेन परिणामिनः ॥११३॥स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥११४॥अथायम् आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः ।व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥११५॥स मनोभावम् आपद्य तेजसा पाकम् आगतः ।वायुम् आविशति प्राणम् अथासौ समुदीर्यते ॥११६॥अन्तःकरणतत्त्वस्य वायुर् आश्रयतां गतः ।तद्धर्मेण समाविष्टस् तेजसैव विवर्तते ॥११७॥विभजन् स्वात्मनो ग्रन्थीञ् छ्रुतिरूपैः पृथग्विधैः ।प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते ॥११८॥आत्मा बुद्ध्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया ।मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम् ॥११९॥अजस्रवृत्तिर् यः शब्दः सूक्ष्मत्वान् नोपलभ्यते ।व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते ॥१२०॥तस्य प्राणे च या शक्तिर् या च बुद्धौ व्यवस्थिता ।विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते ॥१२१॥शब्देष्व् एवाश्रिता शक्तिर् विश्वस्यास्य निबन्धनी ।यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥१२२॥शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः ।तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥१२३॥(षड्गादिभेदः अ) शब्दस्यपरिणामो ऽयम् इत्य् आम्नायविदो विदुः ।छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते ॥१२४॥विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः ।छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् ॥१२५॥साध्वी वाग् भूयसी येषु पुरुषेषु व्यवस्थिता ।अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥१२६॥प्राजापत्यं महत् तेजस् तत्पात्रैर् इव संवृत्तम् ।शरीरभेदे विदुषां स्वां योनिम् उपधावति ॥१२७॥यद् एतन् मण्डलं भास्वद् धाम चित्रस्य राधसः ।तद्भावम् अभिसंभूय विद्यायां प्रविलीयते ॥१२८॥इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते ॥१२९॥आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् ।स्थानानाम् अभिघातश् च न विना शब्दभावनाम् ॥१३०॥न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते ।अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते ॥१३१॥वाग्रूपता चेत् उत्क्रामेद् अवबोधस्य शाश्वती ।न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥१३२॥सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥१३३॥सैषा संसारिणां संज्ञा बहिर् अन्तश् च वर्तते ।तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥१३४॥अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः ।तदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते काष्टकुड्यवत् ॥१३५॥लब्धाकारपरिग्रहा ।आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा ॥१३६॥एकत्वम् अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः ।पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥१३७॥षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम् ।ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते ॥१३८॥प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते ।अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥१३९॥प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् ।सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥१४०॥स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा ।तथैव रूढताम् एति तया ह्य् अर्थो विधीयते ॥१४१॥अत्यन्तम् अतथाभूते निमित्ते श्रुत्यपाश्रयात् ।दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥१४२॥अपि प्रयोक्तुर् आत्मानं शब्दम् अन्तर् अवस्थितम् ।प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते ॥१४३॥तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते ॥१४४॥प्राणवृत्तिम् अतिक्रान्ते वाचस् तत्त्वे व्यवस्थितः ।क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि ॥१४५॥वाचः संस्कारम् आधाय वाचं ज्ञाने निवेश्य च ।विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् ॥१४६॥ज्योतिर् आन्तरम् आसाद्य च्छिन्नग्रन्थिपरिग्रहः ।कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥१४७॥न जात्व् अकर्तृकम् कश् चिद् आगमं प्रतिपद्यते ।बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता ॥१४८॥अस्तं यातेषु वादेषु कर्तृष्व् अन्येष्व् असत्स्व् अपि ।श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥१४९॥ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश् चन विद्यते ।धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् ॥१५०॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP