संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|ब्रह्मकांड| भाग १ ब्रह्मकांड भाग १ भाग २ भाग ३ भाग ४ ब्रह्मकांड - भाग १ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग १ Translation - भाषांतर अनादिनिधनम् ब्रह्म शब्दतत्त्वं यद् अक्षरम् ।विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥१॥एकम् एव यद् आम्नातं भिन्नशक्तिव्यपाश्रयात् ।अपृथक्त्वे ऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥२॥अध्याहितकलां यस्य कालशक्तिम् उपाश्रिताः ।जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥३॥एकस्य सर्वबीजस्य यस्य चेयम् अनेकधा ।भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥४॥प्राप्त्युपायो ऽनुकारश् च तस्य वेदो महर्षिभिः ।एको ऽप्य् अनेकवर्त्मेव समाम्नातः पृथक् पृथक् ॥५॥भेदानां बहुमार्गत्वं कर्मण्य् एकत्र चाण्गता ।शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते ॥६॥स्मृतयो बहुरूपास् च दृष्टादृष्टप्रयोजनाः ।तम् एवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥७॥तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः ।एकत्विनां द्वैतिनां च प्रवादा बहुधागता ॥८॥सत्या विसुद्धिस् तत्रोक्ता विद्यैवेकपदागमा ।युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥९॥विधातुस् तस्य लोकानाम् अङ्गोपाङ्गनिबन्धनाः ।विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥१०॥आसन्नं ब्रह्मणस् तस्य तपसाम् उत्तमं तपः ।प्रथमं छन्दसाम् अङ्गम् आहुर् व्याकरणं बुधाः ॥११॥प्राप्तरूपविभागाया यो वाचः परमो रसः ।यत् तत् पुण्यतमं ज्योतिस् तस्य मार्गो ऽयम् आन्जसस् ॥१२॥अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणाद् ऋते ॥१३॥तद् द्वारम् अपवर्गस्य वाङ्मलानां चिकित्सितम् ।पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकासते ॥१४॥यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः ।तथैव लोके विद्यानाम् एसा विद्या परायनम् ॥१५॥इदम् आद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः ॥१६॥अत्रातीतविपर्यासः केवलाम् अनुपस्यति ।छन्दस्यस् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् ॥१७॥प्रत्यस्थमितभेदाया यद् वाचो रूपम् उत्तमम् ।यद् अस्मिन्न् एव तमसि ज्योतिः सुद्धं विवर्तते ॥१८॥वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् ।व्यतीत्यालोकतमसी प्रकाशं यम् उपासते ॥१९॥यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः ।शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥२०॥अथर्वणाम् अङ्गिरसां सांनाम् ऋग्यजुषस्य च ।यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥२१॥यद् एकं प्रक्रियाभेदैर् बहुधा प्रविभज्यते ।तद् व्याकरणं आगम्य परं ब्रह्माधिगम्यते ॥२२॥नित्याः शब्दार्थसंबन्धास् तत्राम्नाता महर्षिभिः ।सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥२३॥अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः ।अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः ॥२४॥कार्यकारणभावेन योग्यभावेन च स्थिताः ।धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥२५॥ते लिङ्गैश् च स्वशब्दैश् च शास्त्रे ऽस्मिन्न् उपवर्णिताः ।स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् ॥२६॥शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम् ।अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः ॥२७॥नित्यत्वे कृतकत्वे वा तेषाम् आदिर् न विद्यते ।प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते ॥२८॥नानर्थिकाम् इमां कश् चिद् व्यवस्थां कर्तुम् अर्हति ।तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥२९॥न चागमाद् ऋते धर्मस् तर्केण व्यवतिष्ठते ।ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् ॥३०॥धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः ।न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते ॥३१॥अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु ।भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥३२॥निर्ज्ञातशक्तेर् द्रव्यस्य तां तान् अर्थक्रियां प्रति ।विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥३३॥यत्नेनानुमितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः ।अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥३४॥परेषाम् असमाख्येयम् अभ्यासाद् एव जायते ।मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥३५॥प्रत्यक्षम् अनुमानं च व्यतिक्रम्य व्यवस्थिताः ।पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥३६॥आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम् ।अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते ॥३७॥अतीन्द्रियान् असंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा ।ये भावान् वचनं तेषां नानुमानेन बाधते ॥३८॥यो यस्य स्वम् इव ज्ञानं दर्शनं नातिशङ्कते ।स्थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् ॥३९॥इदं पुण्यम् इदं पापम् इत्य् एतस्मिन् पदद्वये ।आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥४०॥चैतन्यम् इव यश् चायम् अविच्छेदेन वर्तते ।आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते ॥४१॥हस्तस्पर्शाद् इवान्धेन विषमे पथि धावता ।अनुमानप्रधानेन विनिपातो न दुर्लभः ॥४२॥तस्माद् अकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥४३॥द्वाव् उपादानशब्देषु शब्दौ शब्दविदो विदुः ।एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते ॥४४॥अविभक्तो विभक्तेभ्यो जायते ऽर्थस्य वाचकः ।शब्दस् तत्रार्थरूपात्मा संबन्धम् उपगच्छति ॥४५॥आत्मभेदं तयोः के चिद् अस्तीत्य् आहुः पुराणगाः ।बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते ॥४६॥अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् ।तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥४७॥वितर्कितः पुरा बुद्ध्या क्व चिद् अर्थे निवेशितः ।करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते ॥४८॥नादस्य क्रमजातत्वान् न पूर्वो न परश् च सः ।अक्रमः क्रमरूपेण भेदवान् इव जायते ॥४९॥प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः ॥५०॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP