संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|नवतितमः पटलः| वाराणसीपञ्चपीठपद्धतिः नवतितमः पटलः वाराणसीपञ्चपीठपद्धतिः नवतितमः पटलः - वाराणसीपञ्चपीठपद्धतिः वाराणसीपञ्चपीठपद्धतिः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वाराणसीपञ्चपीठपद्धतिः Translation - भाषांतर श्रीआनन्दभैरवी उवाचश्रृणु कान्त प्रवक्ष्यामि हाकिनीपञ्चमण्डलम् ।वाराणसीमध्यपीठे पञ्चकोणं विचिन्तयेत् ॥१॥तत्र श्रीहाकिनीदेव्याः पञ्चपीठं विचिन्तयेत् ।पञ्चपीठे पञ्चदेवं रत्नमालाविमण्डितम् ॥२॥भूतप्रेतापिशाचादियक्षदानवकोटिभिः ।वेष्टितं सर्वलोकाढ्यं पञ्चकोणं विचिन्तयेत् ॥३॥पञ्चकोणे पञ्चपीठं कामदं व्यालसिद्धिदम् ।निर्वाणसिद्धिद्म देव किमन्यत् कथयामि ते ॥४॥पञ्चकोणे पञ्चतत्त्वं पञ्चबीजं स्वमेव च ।पूर्वकोणे इन्द्रबीजं पृथिव्याकश्च त्रिकोणकम् ॥५॥तद्दक्षिणे वायुबीजं वायवीशाक्तिमण्डलम् ।वायुमुग्रवेगधरं धरणीभञ्जनाख्यकम् ॥६॥तदधो गृहपीठे च त्रिकोणमण्डलोज्ज्वले ।जलबीजं वारुणाख्यं सर्वरत्नासनस्थितम् ॥७॥शीतलं बहुरुपं तं त्रिलोकवायुभञ्जकम् ।सर्वाधस्तैजस्म रुपं वह्रिबीजं महाप्रभम् ॥८॥सर्वदा तं मूर्तिमन्तं तेजोमालासमाकुलम् ।महोग्रं सर्वभक्षञ्च जलीयदोषभञ्जकम् ॥९॥आकाशं सर्वसेषाढ्यं महाप्रलयसङुमम् ।कुम्भकाधारचक्रं तु आकाशबीजरुपिणम् ॥१०॥सर्वेषां लयसंस्थानं निर्मलं तत्त्वसिद्धदम् ।हाकिनीपञ्चपीठञ्च पञ्च प्राणान् तदन्तरे ॥११॥प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।मूर्तिमन्तो विभान्त्यत्र लोकानां मृत्युनाशनात् ॥१२॥एतेषु वायुकुण्डेषु पूजयेत् पञ्चवायवीम् ।प्राणेशी गुदगापाना समानेशी कुलान्तरा ॥१३॥उदानेशी व्यानमाता वायव्यः पञ्च पूजिताः ।पञ्चप्राणो पञ्चयोगं यः करोति कुलेश्वर ॥१४॥वायवीष्वर्पयोन्नित्य्म पञ्चतत्त्वं सुयोगवित् ।शुद्धासवं शुद्धमांसं शुद्धमीनं तथापरम् ॥१५॥शुद्धमुद्रां तथा शुद्धकुलचन्दनमर्पयेत् ।पञ्चतत्त्व्म दापयेद् यः कुलसिद्धिनिबन्धनात् ॥१६॥हाकिनीपरमायान्तुं परमभिः प्रतर्पयेत् ।वाराणसीमध्यपीठचक्रविद्या समा श्रृणु ॥१७॥वाराणसीमण्डलञ्च त्रिकोणं षोडशच्छदम् ।केशरद्वयमेवं तु पत्रे पत्रे प्रतिष्ठितम् ॥१८॥चतुष्कोणत्रयं तस्योर्ध्वे चतुर्द्वामेव च ।एतद्वाराणसीचक्र्म सर्वकामसुसिद्धिदम् ॥१९॥वाराणसीचक्रमध्ये त्रिकोनस्तान्तरे सुधीः ।प्रपञ्चगुणदुःखानि हरेच्च पञ्चकोणकम् ॥२०॥त्रिकोणस्यान्तरे ध्यात्वा किन्न सिद्धयति भूतले ।एतत्प्रकाशितं चक्र्म यो ध्यायति निरन्तरम् ॥२१॥मनोयोगसिद्धिभावं स प्राप्नोति न संशयः ।मनोयोगसिद्धिकाले सदावश्य्म विचिन्तयेत् ॥२२॥पञ्चकोणे पञ्चतत्त्व् काशीपीठे च लिङिनः ।कोटिरुपधराः एते चात्रैव भान्ति नित्यशः ॥२३॥हाकिनीमण्डलं मध्ये काश्यास्त्रिकोणन्त्रके ।हाकिनी पञ्चतत्त्वाख्यां पञ्चभूतप्रकाशिनीम् ॥२४॥पृथिवीजलरुपाञ्च तेजोरुपाञ्च वायवीम् ।गगनां क्रमतो ध्यायेद् दक्षिणावर्तसत्पथा ॥२५॥विभाव्य पञ्चमीं देवीं हाकिनीमण्डले यजेत् ।सर्वत्र ह्रान्तर्यजनं कृत्वा सिद्धिमवाप्नुयात् ॥२६॥इति वाराणसीचक्रमध्यस्थं पञ्चकोणकम् ।हाकिनीमण्डलं देवनायिकागणमण्डितम् ॥२७॥सर्वालङ्कारशोभाढ्य्म हेनमालविराजितम् ।शिवशक्त्यात्मकं चक्रं परमसिद्धिदायकम् ॥२८॥अप्रकाश्यं सर्वतन्त्रे काशितं रुद्रयामले ।षट्कोणमण्डलं वक्ष्ये हाकिन्याः शिवशक्तिगम् ॥२९॥वाराणसीमण्डलाग्रे प्रतिभाति निरन्तरम् ।शिवशक्तिमयं शुद्धचक्रराज्म विचिन्तयेत् ॥३०॥तदूर्ध्वे चोन्मनीदेशं तदूर्ध्वे बोधनीपुरम् ।मण्डलं श्रृणु यत्नेन येनान्तार्यजनं लभेत् ॥३१॥षट्कोणं कर्णिकामध्ये तदबाह्ये मण्डलाष्टकम् ।तदूर्ध्वे षोडशदलं केशरद्वयसंयुतम् ॥३२॥चतुर्द्वारं तदूर्ध्वे तु व्याप्य तिष्ठति सर्वदा ।षट्कोणमध्यदेशे तु परनाथं परान्वितम् ॥३३॥षट्कोणे सर्वदा भान्ति षट्चक्रस्थितिशक्तयः ।पतिभिः सह देवेशी डाकिनी कुण्डलीप्रिया ॥३४॥राकिणी लाकिनी देवी काकिनी शाकिनी तथा ।हाकिनी च दक्षिणतो ध्येया शिवसमीपगा ॥३५॥ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।ततः परशिवो ध्येयः स्वमुक्तिमण्डलस्थितः ॥३६॥ध्यात्वा सम्पूजयेच्चक्रे शिवशक्तिमय्म परमं ।पराशक्तिसमाक्रान्तं स्वयम्भुलिङुरुपिणम् ॥३७॥सर्वसिद्धान्तनिलयं वेदवेदाङागायनम् ।मायातीतं निर्विकल्पं स्वप्रकाशं निरञ्जनम् ॥३८॥षट्कोणान्तर्गत्म ध्यात्वा पराशक्तिसमन्वितम् ।तदूर्ध्वेऽष्टमण्डलं तु व्याप्य कोटिसहस्त्रशः ॥३९॥योगिन्यः सन्ति नित्यं तु परमानन्दसिद्धिदाः ।तदूर्ध्वे षोडशारे च भान्ति स्वरसमन्विताः ॥४०॥परा शक्तिः प्रभाकारा चतुर्द्वारे ततो लिखेत् ।अष्टवर्गक्रमेणापि सर्वसिद्धि विभावयेत् ॥४१॥सिद्धिपूजामवाप्नोति मण्डलाकारभवानात् ।मण्डलं यो महाकालभ्रूर्ध्वे ध्यायेद्यदि प्रियम् ॥४२॥महासिद्धिमवाप्नोति सत्यं सत्यं कुलेश्वर ।अनायासेन योगेन्द्र योगिनीसिद्धिमाप्नुयात् ॥४३॥एतच्चक्रं विभाव्याशु भावसिद्धिमवाप्नुयात् ।भावसिद्धिस्थित्म चक्रं मनोयोगसुसिद्धिदम् ॥४४॥अन्यच्छ्रीबोधिनीचक्रस्यादोभागे विचिन्तयेत् ।उन्मनीज्ञानचक्र्म तु सार्वसिद्धिदायकम् ॥४५॥नवकोणं बिन्दुयुक्तं प्रेतबीजं विचिन्तयेत् ।तं व्याप्य नवकोणं तु मण्डलत्रमेव च ॥४६॥षोडशार्म तद्बहिस्तु चतुर्द्वारं तु तद्बहिः ।दले दले सुरान् ध्यायेदष्टवर्गं ततो लिखेत् ॥४७॥अष्टकोणे चतुर्द्वारमण्डलस्य विभाव्य च ।उन्मनीनगरं मध्ये तन्मध्ये पररुपिणम् ॥४८॥शक्तियुक्त्म विभाव्याशु सिद्धिमिष्टां प्रयाच्छति ।पदार्थनवकं तत्र बीजयुक्तं विभावयेत् ॥४९॥तत्पदर्धान् प्रवक्ष्यामि श्रृणुष्व भैरवेश्वर । पृथिवीं जलरेखाञ्च तेजोरुपाञ्च वायवीम् ॥५०॥आकाशगामिनीं देवीम कालरुपां दिगम्बरीम् ।आत्मशक्तिं मनःशक्तिः दक्षिणावर्तयोगतः ।लिखित्वा स्वस्वबीजाढ्यां भावयेत् कुलवर्त्मना ॥५१॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशेभैरवीभैरवसंवादे वाराणसीपञ्चपीठ प्रकाशो नाम नवतितमः पटलः ॥९०॥शून्यं बाणे खयुग्माब्दे वैक्रमीये व्यये शुभे । ऊर्जे मासि सिते पक्षे पूर्णेन्दौ चन्द्रवासरे ॥समाप्तिमगमट्टीका सैषा यामलगामिनी । सुधाकरेण विहिता रुद्रयामस्योत्तरेः ॥प्रीयतेमनया देवौ पार्वतीपरमेश्वरौ । शान्तिं विधत्तां मे गेहे ददेतामाशिषं शुभाम् ॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP