संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकोननवतितमः पटलः| वाराणसीपीठनाथान्तर्यजनम् अथैकोननवतितमः पटलः वाराणसीपीठनाथान्तर्यजनम् अथैकोननवतितमः पटलः - वाराणसीपीठनाथान्तर्यजनम् वाराणसीपीठनाथान्तर्यजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वाराणसीपीठनाथान्तर्यजनम् Translation - भाषांतर श्रीआनन्दभैरवी उवाचकालरुप महादेव कालकूटासवप्रिय ।इदानीं श्रृणु देवेश वाराणस्याः प्रियं पदम् ॥१॥शतकोटियोगिनीनां मण्डलं योगिसेवितम् ।तं ध्यायेत् सर्वदा योगी यदि कल्याणमिच्छति ॥२॥भ्रूमध्ये भाति सततं मण्डलाकारशोभितम् ।मातृकायन्त्ररुपं तु सर्वसारं विचिन्तयेत् ॥३॥कोटिस्वयम्भूलिङाढ्यं पुण्यकोटिफलोदयम् ।अतिसिद्धिप्रदं देशं देशनाथप्रियं पदम् ॥४॥अमलाकमलाशक्तिकोटिकोटिसमन्वितम् ।त्रिसूलोपरि पूरं तु च्छत्राकारं फलाकरम् ॥५॥वराभयकरं सिद्धं डमरुच्छत्रधारिणम् ।त्रिशूलमुद्गरद्यस्त्रखेटकादिविभूषितम् ॥७॥पञ्चमुखं दशभुजं शङ्खमालाकपालकम् ।ध्यात्वा सञ्चिन्तयेच्छम्भुं दश दिक्षु क्रमेण तु ॥८॥स्थाने स्थाने दश दश मूर्तिचिह्यं विचिन्तयेत् ।शोणाभं विद्युताभञ्च पुरीरक्षणकारणम् ॥९॥हेतुप्रियं गजारुढं वृषारुढं द्वयं द्वयम् ।अन्न चिन्तनमकृत्य पीठविद्यावशं नयेत् ॥१०॥दशकं व्याप्य तिष्ठन्ति मण्डलाकारसुक्रमात् ।अयुतं शिवलिङुं तु दश दिक्षु दश स्थले ॥११॥विचिन्तयेच्छुक्लवर्णं काञ्चनालङ्कृतोज्ज्वलम् ।पूर्वस्या दशरुपं तु चायुतावरणं प्रभुम् ॥१२॥दश नाम प्रवक्ष्यामि श्रृणु भैरवभूपते ।जटिलः काल उन्मत्तः क्रोधराजः सदाशिवेः ॥१३॥परो दधीचिनाथश्च सुवाशी प्रमथेश्वरः ।यज्ञनाथेश्वरश्वैव चायुतेश्वरवल्लभः ॥१४॥वह्रिकोणे सदा भान्ति मूर्तिमन्थ शिवा दश ।वज्रधरो महाकालः कपिलेश्वर एव च ॥१५॥पञ्चाननो योगिनाथो घर्घरेशः पिनाकधृक् ।पशुपालः क्षेमदश्च ब्रह्मनाथो दश स्मृताः ॥१६॥एते चायुतलिङेशा मूर्तिमन्तो विभान्ति च ।एतेषां ध्यानमाकृत्य पूजयेद् घृतधारया ॥१७॥चिन्तयेद् दक्षिणे पश्चाद्दशमूर्तिं शिवस्य च ।वीरः शूलेश्वरः सिद्धेश्वरः श्रीपार्वतीश्वरः ॥१८॥गणनाथैश्वरः शम्भुः प्रचण्डो दक्षयज्ञहा ।काशीपतिः पशुपतिः शिवा एते दश स्मृताः ॥१९॥अयुतानन्दलिङेशा कपालशूलधारकाः ।मूर्तिमन्तो विभान्त्यत्र शिवमण्डलमध्यगाः ॥२०॥एतान् सञ्चिन्तयेद् भक्त्या पीठक्षेत्रे च दक्षिणे ।नैऋते चिन्तयेत् पश्चात् कामाख्यः शिवलिङुकः ॥२१॥दक्षिणामूर्तिरीशानो वामनेशो मनोहरः ।वामदेवो बाणनाथो रघुवीरेश्वरस्ततः ॥२२॥कामराजेश्वरः कमकलेशो द्श ईश्वराः ।मूर्तिमन्तो विभान्त्यत्रायुतलिङेश्वराह प्रभो ॥२३॥विचिन्त्य परया भक्त्या पूजयेद् बिल्वपत्रकैः ।सर्वत्र मानसार्चा च पूर्वेक्तमूर्तिकल्पना ॥२४॥वरुणे च ततो ध्यायेन्मण्डलस्थान दश क्रमान् ।अरुणेश्वरो योगेन्द्रकाशीराजसुरान्तकाः ॥२५॥त्रिशूली वरुणेशश्च कालाख्यः कामदायकः ।कालग्निरुद्रो भद्रेशो दश रुद्राः प्रकीर्तिताः ॥२६॥शिवलिङुयुतेशाश्च सर्वशक्तिसमन्विताः ।वायुकोणे स्थिता एते रुद्राश्चायुतलिङुपाः ॥२७॥महारुद्रो वातनाथो रुद्रात्मा रौद्ररुपकः ।रुपनाथो हि हनुमान् सूर्येशो वसुधेश्वरः ॥२८॥वासुकीवल्लभः सत्यतिरेते महेश्वराः ।परिवारयुताः श्रेष्ठा महारुद्रादिवल्लभाः ॥२९॥एते पूज्याश्चिन्तनीयाः कामनाफलसिद्धये ।उत्तरे चोत्तरास्यश्च कुबेरेश्वर ईश्वरः ॥३०॥पञ्चाधारः पारमेशः परहंसप्रभाकरः ।अनन्तेशः कायरक्षो रत्नेस्वर उमापतिः ॥३१॥एकादशैते रुद्राश्च नित्यायुतगणेश्वराः ।एते पूज्या ध्यायितव्याः पूर्वोक्तमूर्तिकल्पनाः ॥३२॥ईशाने च ततो ध्यायेदीश्वरान् परमेश्वर ।ईशो वैश्वानरेशश्च विश्वमित्रेश्वरस्तथा ॥३३॥ईशानोऽपि च मायेशो बटुकेशो रमेश्वरः ।कालान्तकेशः कामाख्यो महाकामपुरीश्वरः ॥३४॥श्मशानवासिदेवेशः सर्वरुपप्रकाशकः ।एकादशैते रुद्राश्च कामपीठनिवासिनः ॥३५॥अयुतानन्दलिङेशाश्चिन्तनीयाः प्रपूजिताः ।वारानसीमध्यपीठे त्रयोदश शिवेश्वराः ॥३६॥अधोमण्डलमध्ये तु चिन्तयित्वा प्रपूजयेत् ।मृत्युञ्जयो मोक्षदश्च शिवेशो भैरवेश्वरः ॥३७॥भूतनाथो भूतकर्ता क्षेत्रपालः परापरः ।मञ्जुघोषेश्वरः कालदमनः कौशलेश्वरः ॥३८॥मुनिनाथो वर्णमाली रुद्रा भैरवरुपिणः ।एते त्रयोदशानन्दशिवरुपाः सुरेश्वराः ॥३९॥अयुतानन्दलिङेशा पूज्यमानाः सुरासुरैः ।वराभयप्रदाः पञ्चतत्त्वप्रकाशकारिणः ॥४०॥वारानस्यूर्ध्वपीठे त्रयोदश शिवान् यजेत् ।विचिन्त्य परमान्दसाधकः स्थिरचेतसा ॥४१॥ब्रह्मेशो ब्रह्मकुलेशो ब्रह्मलिङो विधीश्वरः ।ब्रह्माण्डभेदकश्चात्मारामो वक्रेश्वरस्तथा ॥४२॥बलीशो भार्गवेशश्च सदानन्देश्वरो हरः ।कृष्णेश्वरो रामनाथो रुद्रास्त्रयोदश स्मृताः ॥४३॥अयुतानन्दलिङेशा भैरवेन्द्राः प्रकीर्तिताः ।एते पूज्या महाकाल रुद्रास्त्रिभुवनेश्वराः ॥४४॥कपालीशादयो ज्ञानाज्ञेया निर्मलचेतसा ।सर्वाऽलङ्कारशोभाढ्या रत्नकुण्डलमण्डिताः ॥४५॥सृष्टिसंहारकर्तारो देवकार्ये नियोजिताः ।एतेषां ध्यानमाकृत्य पूजयेच्चित्तपुष्पकैः ॥४६॥तदा सिद्धिमवाप्नोति सत्यं सत्यं महेश्वर ।अकालतारका एते सर्वसिद्धिसमृद्धिदाः ॥४७॥आनन्दभैरवाहलाकारिणः कुलपण्डिताः ।एते रुद्राः पूजयन्ति महाविद्याः सुलक्षणाः ॥४८॥तासाम नाम प्रवक्ष्यामि क्रमशः श्रृणु भैरव ।द्रां द्रीं दश महाविद्याः पञ्चतत्त्वप्रकाशिकाः ॥४९॥सर्वसिद्धिप्रदा नाथ पूजयन्ति महीतले ।सत्यत्रेताद्वापरे च कलौ पूर्णफलप्रदाः ॥५०॥तासां नामानि वक्ष्यामि या या हि रुद्रपूजिताः ।त्रिपुरासुन्दरी देवी तथा त्रिपुरभैरवी ॥५१॥भुवनेशी चान्नपूर्णा मातङी विन्ध्यवसिनी ।छिन्नमस्ता च बगला त्रिकूटा पञ्चमी तथा ॥५२॥कालिका तारिणी देवी काशीनाथप्रपूजिताः ।तन्त्रोक्तबाह्यपूजादिरवश्यं पूजयेत् सुधीः ॥५३॥साधकः सिद्धिमाप्नोति कुलपूजाक्रमेण तु ।योगसिद्धिमवाप्नोति मासादेव न संशयः ॥५४॥भ्रूपद्मभेदने काले त्ववश्यं परिपूजयेत् ॥५५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे वाराणसीपीठनाथान्तर्यजनं नाम एकोननवतितमः पटलः ॥८९॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP