संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथाष्टाशीतितमः पटलः| पराशक्तिनिर्मूलस्थाननिर्णयः अथाष्टाशीतितमः पटलः पराशक्तिनिर्मूलस्थाननिर्णयः अथाष्टाशीतितमः पटलः - पराशक्तिनिर्मूलस्थाननिर्णयः पराशक्तिनिर्मूलस्थाननिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पराशक्तिनिर्मूलस्थाननिर्णयः Translation - भाषांतर श्रीआनन्दभैरवी उवाचश्रृणुष्व परमेश त्वं दुर्लभं योगिमण्डले ।महायोगज्ञानसार्म त्रैलोक्यमङुलं शुभम् ॥१॥यस्य विज्ञानमात्रेण साधकोऽसाधकोऽपि वा ।मृत्युञ्जयो भवेज्ज्ञांनी परमानन्दरुपभाक् ॥२॥होमस्थानं शिखामध्ये दीपस्य भ्रूदलान्तरे ।परब्रह्मस्वरुपां तां शिखारुपां जगत्प्रियाम् ॥३॥स्वाहाशक्तिं तत्र नाथ विचिन्त्य मनसा सुधीः ।यः स्तुत्वा प्रत्यहं होमकर्मसिद्धि समापयेत् ॥४॥इत्येतत् परमं ज्ञानमन्यज्ज्ञानं श्रृणु प्रभो ।शिखोर्ध्वे च परा शक्तिः परंब्रहस्वरुपिणी ॥५॥उष्ट्रामुखी रक्तमुखी कोटिकालानलोपमा ।तां ध्यात्वा कुलपद्मस्य कर्णिकायां महामनाः ॥६॥मनोयोगस्थितां देवीं परमानन्ददायिनीम् ।सूक्ष्मातिसूक्ष्मभावस्थां स्थूलतिस्थूलविग्रहाम् ॥७॥कालातीतां कालरुपां कालाकालप्रकाशिनीम् ।धर्मोदयां भानुमतीं प्रबन्धकौशलेश्वरीम् ॥८॥पार्वतीं रणमातङी मतङुगमनां पराम् ।निर्वानसिद्धदां धात्रीं पञ्चतत्त्वप्रकाशिनीम् ॥९॥पञ्चमीं पञ्चमस्थाञ्च पञ्चवक्त्रप्रियंवदाम् ।पञ्चरश्मिं पञ्चमवान् शोभितां दिक्पटाम्बराम् ॥१०॥प्रवालस्थूलकोटीन्द्रनीलचन्द्रमणिस्त्रजाम् ।द्विभुजां मौनशीलाञ्च ज्ञानपुस्तकधारिणीम् ॥११॥एकाकारस्थिताम रौद्रीं परदेवीं विभाव्य च ।तच्च्तुर्दिक्षु सततं शतयोगिनीमण्डलम् ॥१२॥चक्रपङ्क्त्याकारशोभामण्डलं मण्डपस्थितम् ।तासां नामनि वक्ष्यामि श्रृणु भैरवल्लभे ॥१३॥श्मशानवासिनी दुर्गा हरिणाक्षी प्रचण्डिका ।रौद्री श्यामा योगिनी च शिवानी शिवमोहिनी ॥१४॥सुखिनी पञ्चमी बाला कुटिलाक्षी वसुन्धरा ।सुवर्णाङी पावना च पवित्रा परमानना ॥१५॥सिद्धादा मङुला भाव्या सुरति कामदा रतिः ।प्रबला विमला चमना प्रभा काञ्चनमालिनी ॥१६॥त्रिभङुदेहश्यामाङी तरुणा तरलावती ।सुलभा दुर्लभा सर्वा प्रफुल्लकमलापि वा ॥१७॥पातालमुखी गोमुण्डा घोरहासा विलासिनी ।अरुणा श्रवना मन्त्री मालती मल्लिका तथा ॥१८॥वैश्नानरी भरद्वाजा त्रिविभागा मतिः क्षुधा ।सुभद्राभाकरी लिप्ता नर्तका चिटिसुन्दरी ॥१९॥बृहन्नली भागवती विशाल विरला तथा ।मानसी वानरीग्रीवा क्रोधिनी मोहिनी तथा ॥२०॥आकर्षिणी स्तम्भिनी व त्रिजटा रुक्ममालिनी ।सप्तिका सुकला गीर्या गभीरा मुषलावती ॥२१॥बृहन्नितम्बा मोहाक्षी मन्दिरा चन्द्रिका तथा ।सिद्धा विद्याधरा हारा रतिः कैशोरधर्मिणी ॥२२॥तप्ता शान्तिर्भद्रदा च विकारी मञ्चवासिनी ।महाविद्या भवानी च तारब्रह्मस्वरुपिणी ॥२३॥मातङी बगला कृष्णा शिवा हैमवतीशरा ।समनाहरा काली कन्दर्पवनिता शुभा ॥२४॥वाराणसीश्वरी बाला कमला चारुहासिनी ।अजन्ता हिमकन्या च शर्वाणी कुलञ्चला ॥२५॥तपस्विनी राजपुत्री चोमापर्णा निरञ्जना ।आधारभूता सावित्री वाच्यावाच्या चराचरा ॥२६॥कल्क्येशी शशिवदना निर्विकल्पसुपाक्षणी ।भुवनेशी सुन्दरी च सती सिद्धिप्रदा कला ॥२७॥कृपणा पद्मवदना शब्देशी भगमालिनी ।आराधिता शोकहरा हरा हीरकमालिनी ॥२८॥हालाहलहरा हारा रती कालानलपहा ।भैरवी वीरमाता च महाभाग्यवती उमा ॥२९॥सुलभा दुर्गमाता च सुगन्धा गन्धमालिनी ।अमावास्य सिता भद्रा चारुणी सूर्यपुत्रिणी ॥३०॥दान्दा धनदा सिद्धिदायिनी भोगदायिनी ।इलावते रत्नमाला मनोयोगनिवासिनी ॥३१॥मनस्विनी मूलमाता मूलमन्त्रस्वरुपिणी ।एतासां ध्यानमाकृत्य चतुर्दिक्षु क्रमेण तु ॥३२॥विभाव्य तैजसी सर्वां तेजोमालाविनाशिनीम् ।अतिसौन्दर्यलहरीं पारिजातवनान्तरे ॥३३॥महामण्डलमध्ये तु रत्नन्ताननिर्मिते ।ग्रहस्यापि महाकालं चतुर्द्धारं विचिन्तयेत् ॥३४॥मणिकोटिविनिर्माणचतुस्तोरणभूषितम् ।मण्डपस्योर्ध्वभावे च महाचन्द्रातपं शितम् ॥३५॥शतसूर्यप्रभं कान्तं मुक्तादामविभूषितम् ।तथा मण्डपमध्योर्ध्वे वितालाङु मनोहरम् ॥३६॥तदधः स्वर्णनिर्माणच्छत्रं मणिमयं रुचिम् ।तदधः सिंहरुपाक्षि युक्तसिंहासनं परम् ॥३७॥तदूर्ध्वे प्रेतबीजं तु प्रेतलिङोपमं स्मृतम् ।प्रेतलिङापरि ध्यात्वा काञ्चनस्यापि मण्डलम् ॥३८॥महापीठं त्रिकोणं तु कर्णिकायां महाप्रभम् ।शुक्लपद्म्ण महशोभं षोडशच्छदमण्डितम् ॥३९॥षोडशस्वरसंयुक्तं केशकेषु च वर्नकान् ।दक्षिणवर्तयोगेन विद्युद्रूपं विचिन्तयेत् ॥४०॥चतुष्कोणत्रयं पश्चाच्चतुर्द्वारं मनोहरम ।तत्र संचिन्तयेद् देवीं वारुणीमत्तविग्रहाम् ॥४१॥पराम्बारुपिणीं ताराम तरुणादित्यसन्निभाम् ।चतुर्द्धरे सदा ध्यायेद् देवानां चापि मण्डलम् ॥४२॥सवाहनं दैवतं च परिवारसमन्वितम् ।इन्द्रनीलप्रभं कान्तं पूर्वद्वारेन्द्रचिन्तनम् ॥४३॥वह्रिकोणे तथा वह्रिमण्डलं सर्वतोमुखम् ।परिवारान्वितं ध्यात्वा यमलोकं तु दक्षिणे ॥४४॥यमं श्यामं महाकान्तं परिवारगणान्वितम् ।सवाहनं ततो ध्यायेनैऋतं राक्षसीं पुरीम् ॥४५॥तदुत्तरे सदा ध्यायेद् वरुणं मेषवाहनम् ।परिवारान्वितं शुक्लं भास्वरं तत्र चिन्तयेत् ॥४६॥तदुत्तरे मरुल्लोकं कृष्णसारस्ववाहनम् ।परिवारान्वितं ध्यात्वा तत्पूर्वे चिन्तयेत् ततः ॥४७॥कुबेरमुत्तद्वारि परिवारगणान्वितम् ।सवाहनं कुत्सितञ्च सर्वरत्नोपशोभितम् ॥४८॥ईशाने ईशलोकञ्च परिवारगणान्वितम् ।सवाहनं सर्वलोकपूजितं परमेश्वरम् ॥४९॥परिवारान्वितं ध्यात्वा नानावाद्यसमन्वितम् ।भेरीतुरीधुधुरीणां सहस्त्रकोटिमेव च ॥५०॥दुन्दुभिकुलितामोदगायनानन्दपूरितम् ।नानासुन्दरवाद्याध्यं पूर्वलोकं विचिन्तयेत् ॥५१॥वेणुवीणामृदङाना सहस्त्रकोटिनादितम् ।यमलोकं नैऋते च मन्त्रकोटिसमन्वितम् ॥५२॥करतालकांस्यढक्काध्वनिकोटिप्रपूरितम् ।जलेश्वरमहालोकं दुन्दुभिध्वनिमोहितम् ॥५३॥यन्त्रकोटिध्वनिश्रेणिमोहितं तत्र चिन्तयेत् ।झर्झरीपर्परीताङीस्वनादनादित्म रुचिम् ॥५४॥मरुल्लोकं तथा ध्यायेत् कुबेरस्थानमेव च ।दुन्दुभिश्रेणिढक्कादियन्त्रनादविमोहितम् ॥५५॥रागातालनृत्यगीतं मूर्तिमन्त्रं विचिन्तयेत् ।दीप्तिश्रेणिधरं कान्तं गन्धर्वनगरं ततः ॥५६॥अप्सरोभिः परिवृतं सर्वत्र नगरे सुधीः ।विचिन्तयेद् गानरसं रसिकं सर्वमङुलम् ॥५७॥सर्वलोकस्थिता शोभा शोभा सर्वविमोहिनी ।सर्वस्यान्तु समायान्तु देवर्षि यन्त्रगायकम् ॥५८॥वाद्यवाद्यकमेवं हि चिन्तयेत् परमावृतम् ।ब्रह्मर्षिमण्डलं तस्यां सर्वेषां गायनान्वितम् ॥५९॥देववर्षिसर्वविज्ञानवाक्यरत्नस्वगायनम् ।विचिन्त्यैवं विधानेन निजपीठं विचिन्तयेत् ॥६०॥पीठशक्तिं विचिन्त्याशु पीठनायकमेव च ।विचिन्त्यानन्दमग्नः स्यादचिरात् सिद्धिमाप्नुयात् ।अधो वाराणसीपीठं ध्यायेत् तत् क्रममाश्रृणु ॥६१॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे पराशक्तिनिर्मूलस्थाननिर्णयो नाम अष्टाशीतितमः पटलः ॥८८॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP