संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चाशीतितमः पटलः| श्री परनाथकवचस्य विनियोगः पञ्चाशीतितमः पटलः श्री परनाथकवचस्य विनियोगः पञ्चाशीतितमः पटलः - श्री परनाथकवचस्य विनियोगः परनाथकवचम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल श्री परनाथकवचस्य विनियोगः Translation - भाषांतर श्रीआनन्दभैरवी उवाचवरानने वरारोहे सर्वज्ञाननिदानदे ।आनन्दहृदयोल्लासे परमानन्दवर्धिनि ॥१॥कथितं कवचं पुण्यं रहस्यं चातिदुर्लभम् ।न चोक्तं ज्ञानगम्यं तु महाजाल्निसेवितम् ॥२॥परनाथस्य कवचं सार्वज्ञज्ञानसिद्धिदम् ।इदानीं वद मे यत्नादानन्दकुलभैरवी ॥३॥श्रीआनन्दभैरवी उवाचश्रूयताम योगिनीनाथ योगविद्यापते प्रभो ।परनाथस्य कवचं ज्ञानगम्यं पुरातनम् ॥४॥अतिगोप्यं योगसारं सर्वतन्त्रेषु दुर्लभम् ।इदानीं नाथ यत्नेन कथयामि परं पदम् ॥५॥अस्य श्रीपरनाथमहाकवचस्य सदाशिव ऋषिः परमात्मा देवता हसौः बीजं ज्ञानशक्तिरानन्दं कीलकं सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।ॐङ्कारं वेदबीजं मे सदा पातु शिरोधनम् ।हसौः महाप्रेतराजः कपालं पातु सर्वदा ॥६॥हाकिनीशः सहायाख्यः कामकेशगुणानि मे ।वाराणसीपुरः पातु भ्रूमध्यपरदेवता ॥७॥षं रं शं वं सदा पातु हं क्षं पातु भ्रौवोर्दलम् ।बाणलिङुं सदा पातु भ्रूपद्मयुवती मम ॥८॥कालानलः सदा पातु द्विदलस्थ्म परात्परम् ।भ्रूगहवरं सदानन्दं पातु त्रिपुरभैरवः ॥९॥अनाथलिङुः सर्वेशः पातु मे लोचनत्रयम् ।अभयो मडुलः पातु ध्रुवाख्ये लोलजिहिवकाम् ॥१०॥पञ्चाननः सदा पातु वदन्म कामसुन्दरः ।उन्मत्तभैरवेन्द्रोऽथ गण्डयुग्मं सदावतु ॥११॥हिरण्याख्यः सदा पातु दन्ताग्रालिं श्मशानगः ।महादेव्ह सदा पातु महाकाशः श्रुति मम ॥१२॥विकटाख्यो मञ्जुघोषः सदा पातु हनुस्थलम् ।प्रणवात्मा सदा पातु कण्ठं मे नीलकण्ठभृत् ॥१३॥अपराजितः शुक्लवर्णः सदा पातु महामला ।गलदेशं महाकाशं त्रिपुरा परमेश्वरी ॥१४॥मृत्युञ्जयश्च घोराख्यो विशुद्धं सर्वदाऽवतु।स्वरनीश्वरसंयुक्तान् योगीशः सर्वदाऽवतु ॥१५॥वामदेवः सदा पातु ह्रदयं परमेश्वरः ।ईश्वरः सर्वदा पातु परदेवः सदाशिवः ॥१६॥अट्टहासः सदा पातु योगिनीकोटिभिः सह ।अकालचक्रः सर्वज्ञश्चावधूतेश्वरो भुजौ ॥१७॥महाकालः सदा पातु भेरुण्डापतिरीश्वरः ।पार्श्वेदेशं सदा पातु काकिनीपरवल्लभः ॥१८॥अच्युतेशः सदा पातु कुक्षियुग्मं सदा मम ।अथर्वेशः सदानन्दः पातु पृष्ठं सुरेश्वरः ॥१९॥तपिनीपतिरीशानो वीरभद्रो यतीश्वरः ।नाभिमण्डलमापातु ममोदरमुमापतिः ॥२०॥घर्घरः पातु सततं रुद्रं राकिणिवल्लभम् ।जटाजूटधरः पातु रुद्राणीं रौद्रदेवताम् ॥२१॥नितम्बं पातु योगेन्द्रः प्रभाद्यो मे कटिस्थलम् ।स्वाधिष्ठानं सदा पातु षड्दलान्तः प्रकाशकः ॥२२॥अभयः सर्वदा पातु भर्गः पातु चतुर्दलम् ।तरुणीशः सदा पातु कुण्डलीं डाकिनीपदम ॥२३॥गुदरन्ध्रं सदा पातु पार्वतीप्रियवल्लभः ।यज्ञनाथः सदा पातु ऊरुयुग्मं स्वमन्त्रवित् ॥२४॥जङ्वायुगं सदा पातु धर्मलक्ष्मीश्वरः प्रभुः ।महाकालः पातु पादतलयुग्मं महीश्वरः ॥२५॥सर्वाङु वरदः पातु वटुकः श्रीसदाशिवः ।महारुद्रः श्रीपतीशः सदा उग्रः प्रपातु माम् ॥२६॥रणे द्यूते विवादे च शून्यागारे महाभये ।पाताले पर्वतेऽरण्ये पातु वाग्वादिनीश्वरः ॥२७॥घण्टेश्वरः शङ्कनादो मुरारीशः प्रपातु माम् ।परमानन्ददः पातु हितार्थी पथि पातु माम् ॥२८॥महाविद्यापतिः पातु प्रेतराजः प्रपातु माम् ।पुत्रं मित्रं कलंत्र बन्धुं स्वजनमेव च ॥२९॥सर्वाघारः सदा पातु लिङुरुपी महेश्वरः ।परमात्मा सदा पातु गुह्यदेशस्थदेवताम् ॥३०॥परिवारान्वितः पातु महाचन्द्रः सदाऽवतु ।मारणोच्चाटने स्तम्भे विद्वेषे पातु मोहनः ॥३१॥मोहने द्रावणे स्थैर्ये वश्ये शान्तौ सदाशिवः ।परनाथो गुरुः पातु पारिजातवनाश्रयः ॥३२॥सर्वभुक् कालरुद्रो मे सर्वत्र परिपातु माम् ।इत्येतत् कथितं सर्वसिद्धिदं कवचं शुभम् ॥३३॥परनाथस्य देवस्य सार्वज्ञज्ञानसिद्धिदम् ।कवचं दुर्लभं लोके सर्वतन्त्रेषु गोपितम् ॥३४॥यामले देवदेवेश प्रकाशितमहर्निशम् ।यः पठेदेकवारं तु स रुद्रो नात्र संशयः ॥३५॥कीर्तिश्रीकान्तिमेधायुर्बृहितो भवति ध्रुवम् ।अस्य स्मरणमात्रेण राजत्वं योगिनां पतिः ॥३६॥भवेत् कामक्रोधजेता मृत्युजेता महाकविः ।तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्तते ॥३७॥यः कण्ठे मस्तके वापि धारयेत् कवचं शुभम् ।रक्तेन चन्दनेनापि कुङ्कमेनापि वा लिखेत् ॥३८॥स भवेद् वीरपुत्रश्च महापातकोटिहा ।अनायासेन देवेश योगसिद्धिमवाप्नुयात् ॥३९॥शतमष्टोत्तरं जप्त्वा पुरश्चर्याफलं लभेत् ॥४०॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे परशिवकवचपाठो नाम पञ्चशीतितमः पटलः ॥८५॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP