संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकोनाशीतितमः पटलः| भ्रूपज्ञाननिरूणम् अथैकोनाशीतितमः पटलः भ्रूपज्ञाननिरूणम् अथैकोनाशीतितमः पटलः - भ्रूपज्ञाननिरूणम् शाकिणीमन्त्रोप्देशः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल भ्रूपज्ञाननिरूणम् Translation - भाषांतर श्रीआनन्दभैरव उवाचकथयस्व वरारोहे कामनासिद्धिमङुलम् ।अप्रकाश्यं महाज्ञानं यदि स्नेहोऽस्ति मां प्रति ॥१॥अनादिशास्त्रगोप्यं तु सर्वतन्त्रेषु गोपितम् ।सुखस्नेहकृपादृष्ट्या सर्वतत्त्वसुमङुलम् ॥२॥ज्ञानगम्यं शब्दजालं कोमलान्तःप्रकाशकम् ।आयुरारोग्यजननं धर्मार्थकाममोक्षदम् ॥३॥भ्रूपद्मद्विदलं सिद्धमुनिमण्डलसङ्कुलम् ।ज्ञानिनामात्मसिद्धान्तरुपज्ञानसमागमम ॥४॥यामलस्य महारुद्रसेवितस्य वरानने ।वद विस्तार्य यत्नेन जीवन्मुक्तिपदं यतः ॥५॥लभ्यते तत्क्षणादेव कृपया करुणामयि ।कालकूटप्रभावेण चात्मनो विस्मृतिर्गता ॥६॥तां विस्मृतिं समाकृत्य स्मृतिज्ञानं विधेहि मे ।परमानन्दनिर्वाहनिर्वाणप्रथमाङ्कुरम् ॥७॥श्रीआनन्दभैरवी उवाचवक्ष्येंऽहं द्विदलं विभाण्डकमलं कालानलव्याकुलंशोभामोहनञ्जनं सुचपलामालाकपालोज्ज्वलम् ।दीप्तिश्रेणि सुकर्णिकान्तरगतः श्रीशाकिनीवल्लभः प्राणिप्राणानिदानगः परशिवः सम्पातु सञ्चारगः ॥८॥संहारेज्ज्वल कान्तिकान्तनिकरं संहारकूपोज्ज्वलंतेजोरुपमहाशिखासुखपदं पीयूषतैलप्रियम् ।ताराधीशदिनेशतजसमयं मायापरादोद्यमं विद्यावल्लभभावसारविनुतं द्वे पत्रमित्रे भजे ॥९॥आकाशाग्रे प्रभाग्रोग्रगमनधरणीधारसारे प्रचारे श्रीनाथेशः क्षितीशः प्रचुरविधुमणिश्रेणिमालाग्रकण्ठः ।श्रीकण्ठो नीलकण्ठः प्रभवति भुवनानन्दकर्तार्थकर्ताविद्या श्रीहाकिनीशः स्फटिकमणिगृहे रक्तशक्त्या च हंसः ॥१०।\पुरो विभाति कर्णिकासुमध्यचक्रमण्डलेविशिष्टशक्तिहाकिनी तथाप दुर्गतारिणी ।यदीह भाव्यते नरैः सुमन्त्रतन्त्रगायनैस्तदा परत्वमाप्नुयादिदवि स्थिरो भवेदृते ॥११॥द्विदलकमल मध्ये हाकिनी देवमाताविभवनवकुमारी योगिनी योगसिद्धा ।यदि चरति विलिप्ता चोर्ध्वमार्गे निषण्णात्रिभुवनकरुणाभिः साधकस्य प्रसन्ना ॥१२॥जपरटिपरमन्त्रप्राणजापी मनुष्योभवति विमलचेता हाकिनीहोमदेव्याः ।मनुमपि ह्रदि नित्यं संविभाव्य प्रतिष्ठःपरपुरकुलगामी ध्यानविज्ञानपुण्यः ॥१३॥विषयमधुरतृष्णावर्जितो निर्जितारिःकुलयुगकमलान्तः सुप्रकाशस्वरुपः ।विधिकृतकुलदोषं भाति निर्जित्यं दोषंरतिपतिसमकान्तः साधको निर्णितान्तः ॥१४॥जपति मधुधनार्थं भ्रान्तिहोमोत्सवार्थंमनुजकुलवरेण्योऽन्यानि काल्या विहाय ।अयुतशतसुमन्त्रान्नाशपुञ्जाक्षराणिप्रसवति रिपुहन्ता साधको हाकिनीशः ॥१५॥परशिवनवभावप्रावणान्तः प्रवेशीद्विदलकमलशोभा कोटिसंभाषयन्ती ।निजकुलपरिदेवैर्भाव्यते भावमानैर्भवति चपलमाद्या हाकिनी सुप्रसन्ना ॥१६॥आज्ञानाम सुपङ्कजं विधुशताहलादप्रभापाटलंविद्युद्रश्मिभिरुन्नंत धवलपीठानन्दचिद्रूपदम् ।हस्ताभ्यां कनकप्रभादीप्ताभ्यां प्रकाशोज्ज्वलंहाकिन्याकलाभयाप्रचलितं ध्यायेत् परानन्दनम् ॥१७॥ध्यानज्ञानादिधाम प्रचयति जयति क्षोभितारिप्रसारीहस्ताभ्या हेमभाभ्यां तरुणरविशशीशोभिताभ्यां विधाय ।सूक्ष्मात्सूक्ष्मातिसूक्ष्मं विरचयति सुधां हाकिनी प्राप्य नाथंकोटीन्दिक्षेमान्तिप्रसभधनरसा नन्दितामभ्रपीठे ॥१८॥ध्यायेद् देवीं पराढ्यां त्रिभुवनजननीं षण्मुखीं वेदहस्तांविद्यामुद्राविरुण्डं जपवटिडमरुं धारयन्ता ज्वलन्तीम् ।चेतः शान्तिप्रदात्रीं विधुमणिमुकुरां भीषमानां समानांषट्कोणी बिन्दुमूले युगदलकमले द्वारयुग्मद्वयाढ्ये ॥१९॥एतच्चक्रस्य मध्ये सकलसुरगणाविद्युताकारदीप्ता नित्यं संभाति पार्श्ववधिकमलमहामण्डलाकारभावे ।दोषाशेषापवनाशे सकलबुधजनैः शोभिता पद्ममाला प्राणाख्या वहिनजिहवा सुखमयाविमला योगिनी योगमुख्या ॥२०॥मनोयोगचिन्हं प्रसिद्धं सुसूक्ष्मंशुभे पद्ममध्ये शिखाकारचित्तम् ।महायोनिचक्रे प्रिये कर्णिकायांशिवस्थानमुग्रं वशी वीक्ष्य शुक्लम् ॥२१॥महाविद्युताकारणं भासमानं परं ब्रह्मसूत्रप्रबोधं विनोदम् ।महाकौलमार्गं स्थिरप्राणबुद्धिः क्रमेणैव तच्चिन्तयेत् साधकेन्द्रः ॥२२॥महावेदसूत्रादिबीजप्रकाशंशतानन्दचन्द्रप्रभं भाव्यमानव् ।विभाव्याशु नाथप्रियं पञ्चचूडंमहामोक्षगामी जितक्रोधकामः ॥२३॥य एतत् स्वचित्तान्वितः साधकेन्द्रोविभुध्यानयुक्तः प्रियात्मा महात्मा ।पुरे शीघ्रगामी पराणां नराणांमुनीन्द्रः क्षितीन्द्रो महावेदवक्ता ॥२४॥द्विधा बोधविज्ञानशून्यो वरेण्योभर्वेत् सर्वदर्शी स सर्वज्ञराजः ।सदा पूर्णसिद्धिप्रसिद्धोऽरिहन्तामहासृष्टिसंहारपालादिकर्ता ॥२५॥क्षणादाविभाव्य प्रभुर्दीर्घजीवीसुधीः सर्वशास्त्रार्थवेत्ता सुमन्त्री ।महाज्ञानयुक्तो भवेदेकचित्तोबली बाणतुल्यो विधातुः प्रशस्यः ॥२६॥स्वचक्रमण्डलान्तरे त्रिकोणभूमिबिम्बकेतदन्तरे च षोडशच्छदा विभान्ति वामके ।सुपत्रके मनोहरे प्रदीपभाशिखाकृतिर्महोज्ज्वला स्फु(र)त्प्रभा चतुर्गृहं ततो बहिः ॥२७॥प्रणवाविरचनाभिः शोभितं चक्रराजंतदुपरि विलसच्छ्रीचन्द्रखण्डप्रकाशः ।तदुपरि विगलाद् बिन्दुकान्तो मकारस्तदुपरि शितनादो भाति पीयूषपुञ्जः ॥२८॥ध्यायेद्यः क्रमतः सुधीः प्रियदालीने इह क्षेत्रकेबध्वा चेतसि भावपुञ्जनिकरां श्रीनाथसेवोदिताम् ।योगीन्द्रोदितयोगशासननिरालम्बां परां सादरामध्यासान्नियतं वशी परनर उग्रां कलां पश्यति ॥२९॥तन्मध्यातः प्रकाशमतिविमलकलामादिवात्मप्रकाशामाद्यक्षे स्वप्रतिष्ठामतिसुखविभवामाश्रये स्थानसिद्धाम् ।हाकिन्याङिप्रभामण्डल कमलमहारुपलावण्यधैर्यंसौभाग्यं ध्याननिष्ठे विलसति मधुरं ध्यानमारोपयामि ॥३०॥ज्वलत्कोटिपाकृतिस्नेहजालंवहन्तं रटन्तं नवीनार्ककान्तम् ।स्फुरज्ज्योतिराकाशपृथ्वीन्दुमध्यंभवेद् वै महेन्द्रो विलोक्याशु योगी ॥३१॥इहानन्दबाह्ये परेशो हि साक्षान् महापूर्णभूतिप्रभावोऽव्ययो हि ।महावहिनचन्द्रार्कसन्मण्डलो वा महाविष्णुचक्रोपरि श्रीहरिः स्यात् ॥३२॥महाविष्णुयोगी महायोगयोगीन्दसेव्यं महेन्द्रः ।विलोक्याशुंभन्नार्थतन्त्रप्रतापं तदा तद्विशत्यत्र पञ्चत्वकाले ॥३३॥लयस्थानमाकाशवायोरतीव प्रतापप्रियस्याञ्जस्याशु पश्येत् ।महानान्दरुपं तदूर्ध्वे शिवार्धं विशालाक्षरुपं शिवाकारमानम् ॥३४॥सुशान्तं महान्तं धराकान्तलान्तं वरं दातुमुत्फुल्लहस्तारविन्दम् ।सभीतिप्रदं शुद्धबुद्धप्रबोधं दयादानकर्तारमापश्यतीह ॥३५॥गुरुणां पदाम्भोरुहाहलादलीनो जनः पश्यति प्राणनाथं परेशम् ।दिनेशं रमेशं धनेशं नरेशं स योगी निरोगी महाशुद्धवेशम् ॥३६॥स वाचां सुसिद्धिं समाप्नोति शुद्धिंवरं कामलक्ष्मीश्वत्वं महत्त्वम् न भूयात् त्रिलोके पुनर्जन्मभावः सदा गायति श्रीपतिर्नारदो वा ॥३७॥श्रीआनन्दभैरव उवाचन श्रुतं देवि कल्याणि हाकिनीकूटमन्त्रकम् ।तथा पूजाविधिं ध्यानं जपं वायुविर्गमम् ॥३८॥इत्यादियोगं स्तोत्राणि सहस्त्रनाममङुलम् ।तथा श्रीवरनाथस्य कृपया वद सुन्दरि ॥३९॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे शाकिनीमन्त्रोद्देशो नाम एकोनाशीतितमः पटलः ॥७९॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP