संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तसप्ततितमः पटलः| सदाशिवकुलचक्रनिरूपणम सप्तसप्ततितमः पटलः सदाशिवकुलचक्रनिरूपणम सप्तसप्ततितमः पटलः - सदाशिवकुलचक्रनिरूपणम योगार्थसञ्चयनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सदाशिवकुलचक्रनिरूपणम Translation - भाषांतर श्रीआनन्दभैरव उवाचइदानीं वद कौमारि सुन्दरि प्राणवल्लभे ।अशीतितमे पटले वद योगार्थसञ्चयम् ॥१॥श्रीआनन्दभैरवी उवाचश्रृणु भैरवराजेन्द्र सदाशिवादिशाकिनीम् ।द्वयोराहलायोगो हि भोगमोक्षफलायते ॥२॥आकाशपरमाणूनां विशिष्टामलचक्षुषाम् ।दर्शनं विद्युज्जडितं प्राप्नोति सहसा सुधीः ॥३॥सदाशिवकुलस्थानोपरि श्रीशाकिनीपदम् ।द्वयोर्यो हि विशिष्टज्ञो ज्ञानखेचरसिद्धये ॥४॥तत्कुलस्थानमावक्ष्ये यथावदवधारय ।षोडशाख्यदलग्रेषु मध्यमूलेषु सर्वतः ॥५॥सदाशिवकुलस्थानं चक्रराजं विचिन्तयेत् ।विचिन्त्य शतधा किं न सिद्धयति भूतले ॥६॥भूतानामधिपो भूत्वा स्थिरो भवति भूतले ।भगवन्तं महाकायं परदेवं सदाशिवम् ॥७॥चक्रस्थं चक्रबाह्यस्थं बाह्यमध्यन्तरं परम् ।पश्यत्येव महायोगी कालचक्रं ततः परम् ॥८॥अनायासेन गगनग्रन्थि भित्वा परे लयम् ।चक्रराजप्रसादेन सर्वञ्चारगो भवेत् ॥९॥द्वात्रिंशत्कठिनग्रन्थिं भित्वाकाशे खगोर्ध्वगः ।ततः परशिवानन्दचक्रं शक्त्यात्मकं ततः ॥१०॥ततो हि शब्दनिकरं परास्थानं ततः परम् ।सकलनिष्कलास्थानं बोधनीमण्डलं ततः ॥११॥तदूर्ध्वञ्चोन्मनीपीठं भित्वा च तदनन्तरम् ।भृगुपरं ततो भित्वा नादपूरं ततः परम् ॥१२॥नादान्तकं ततो भित्वा ब्रह्मविष्णुघटाकरम् ।क्रियाकरं प्राणलयं यज्ञस्थानं शिखापदम् ॥१३॥पूर्णगिरिमुड्डियानं भित्वा च स्वपदं ततः ।दुर्गस्थानं ततो भित्वा प्रकाशस्थानमेव च ॥१४॥तदूर्ध्वे पिङुलास्थानं तदूर्ध्वे तत्पदं ततः ।सुषुम्नामण्डलं भित्वा धौम्रिकोणं महालयम् ॥१५॥तदूर्ध्वे विष्णुचक्रं तु कुलालिचक्रवत्सिथतम् ।तं भित्वा कामनगरं सर्वकामफलप्रमद् ॥१७॥तदूर्ध्वे शक्रचक्रं तु तदूर्ध्वे भूमिचक्रकम् ।तदूर्ध्वे कोषचक्रं तु तदूर्ध्वे वायुचक्रकम् ॥१८॥तदूर्ध्वे वहिनचक्रं तु तदूर्ध्वेऽमृतचक्रकम् ।तदूर्ध्वे जलचक्रं तु दिवाचक्रं तदूर्ध्वेके ॥१९॥तदूर्ध्वे यामिनीचक्रं तदूर्ध्वे तारचक्रकम् ।तदूर्ध्वे धर्मचक्र तु कालचक्रं तदूर्ध्वके ॥२०॥सर्वकालं सदा व्याप्य जगत्स्थावरज्ङुमम् ।सदा तादूर्ध्वनिकरं सप्तसागरमण्डलम् ॥२१॥तदूर्ध्व भाति सततं श्रीजलान्तकमण्डलम ।तदूर्ध्वे तु महाचक्रं महापद्मवनाकरम् ॥२२॥टङ्कारोपरि संध्यायेत् सहस्त्रारे सुपङ्कजम् ।तं भित्वा ज्ञानपद्मं तु कर्णिकायां प्रपश्यति ॥२३॥प्रेतरुपमहादेवशवाकारं तु निष्क्रियम् ।अस्येरसि प्रेतबीजं सूर्यायुतसमप्रभम् ॥२४॥ऊरुमूले च तस्यापि क्रोधबीजं शतारुणम् ।तस्त्योपरि महाकालीमवश्यं परिपश्यति ॥२५॥प्रत्यालीढपदामम्बामम्बुजाक्षीं हसन्मुखीम् ।चतुर्भुजां खड्गमुण्डवराभयकराम्बुजाम् ॥२६॥त्रैलोक्यजननीं ब्रह्मरुपिणीं मुकुटोज्ज्वलाम् ।मुण्डमालां संवहन्तीं सर्वास्त्रा सर्वकारणाम् ॥२७॥अनन्तकोटिब्रह्मव्यापकरुपिणीम् ।प्रसन्नवदनां घोरां शवकर्णां करालिनीम् ॥२८॥योगीन्द्रजननीं नित्यां भवानीं भवमोचिनीम् ।विमलां निर्मलानन्दां ज्ञानान्दस्वरुपिणीम् ॥२९॥धर्मार्थकाममोक्षस्थां मुक्तकेशीं दिगम्बरीम् ।ललिता सुन्दरी श्यामां महाकालनिषेविताम् ॥३०॥महोग्रां चन्द्रघण्टानितम्बरत्नमेखलाम् ।सहस्त्रानन्तसूर्योतेजोरुपां कुलप्रियम् ॥३१॥श्मशानवासिनीं दुर्गां श्मशानालयवासिनीम् ।घोररावां महारौद्रीं कालिकां दक्षिणा पराम् ॥३२॥कर्णावतंसतां नीतशवयुग्मभयानकाम् ।घोरदंष्ट्रा करालास्यां पीनोन्नपतयोधराम् ॥३३॥शवानां करसङ्कातैः कृतकाञ्चीं प्रियंवदाम् ।सृक्कद्वय गलद्रक्तधाराविस्फुरिताननाम् ॥३४॥बालार्क मण्डलाम्भोजनयनत्रयभूषिताम् ।दन्तुरां दक्षिणव्यापिमुक्तालम्बिकुचश्रियम् ॥३५॥शवरुपमहादेवह्रदययोपरि संस्थिताम् ।शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् ॥३६॥महाकालव्यापकेन विपरीततातुराम् ।सुखप्रसन्नवदनां स्मेरारुणसरोरुहाम् ॥३७॥मधुमांसचर्वनाढ्यां वरदां मदनातुराम् ।वेदवेदाङुविद्याभिरुदारगुणसम्भवाम् ॥३८॥दैत्यदानवदर्पघ्नीं भगमालाकलेवराम् ॥३९॥चिन्तयेत् कौलिका कालीं कुलवृक्षतलस्थिताम् ।श्रीकल्पलतिकां विद्युत्कोटिमण्डितकुण्डलाम् ॥४०॥नागयज्ञोपवीताढ्यां चन्द्रार्धकृतशेखराम् ।सर्वालङ्कारयुक्ताञ्च वहनयर्कशशिलोचनाम् ॥४१॥ललज्जिहवां कामरुपां कामपीठनिवासिनीम् ।अतिसौन्दर्यवदनां धाराविस्फुरितप्रभाम् ॥४२॥कामदां सिद्धगन्धर्वदेवचारननाटकैः ।स्तूयमानां ब्रह्मविष्णुशिवशक्रमहर्षिभिः ॥४३॥सर्वदा वन्दितां कोटिजलदाभतनुप्रभाम् ।संसारतारिणीं तारां तारब्रह्मस्वरुपिणीम् ॥४४॥इन्दुनीलमणिश्रेणिशोभाविद्युत्प्रकाशिनीम् ।श्रीवासमधुरानन्दप्रियप्रेमदिगम्बरीम् ॥४५॥लज्जातीतां कुलातीतां ज्ञानातीतां निरञ्जनाम् ।क्रोधपुञ्ज समुदभूतद्वीपिचर्मकटीप्रभाम् ॥४६॥नीला-घना-बला-माया-मात्रा-मुद्रा-कलादिभिः ।सर्वदा पूजितां ध्यायेत् सहस्त्रावराम्बुजे ॥४७॥एवं ध्यात्वा महाकालीं श्यामां कामदुघां शिवाम् ।आकाशगामिनीं सिद्धिमवश्यं लभते वशी ॥४८॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे सदाशिवकुलचक्रक्रमनिरुपणे भैरवीभैरवसंवादे योगार्थसञ्चयनं नाम सप्तसप्ततितमः पटलः ॥७७॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP