संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षष्ठसप्ततितमः पटलः| काकिणीदेव्याः अष्टोत्तरशतनामानि षष्ठसप्ततितमः पटलः काकिणीदेव्याः अष्टोत्तरशतनामानि षष्ठसप्ततितमः पटलः - काकिणीदेव्याः अष्टोत्तरशतनामानि काकिणीकवचम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल काकिणीदेव्याः अष्टोत्तरशतनामानि Translation - भाषांतर श्रीआनन्दभैरवी उवाचकथयामि महाकाल! चात्यन्ताद्भुतमसाधनम् ।कवचं काकिनीदेव्या अष्टोत्तरशताक्षरम् ॥१॥यस्य गेहे करे शीर्षे कण्ठे च चित्तमध्यके ।भुजमध्ये च कट्यां वा धारयित्वा महीतले ॥२॥किं न सिद्धिं करोत्येव साधको योगिनीपतिः ।योगसिद्धिः क्रियासिद्धिः शिवासिद्धिस्तथा परा ॥३॥महासिद्धिः खेचरी च सुषुम्णासिद्धिरेव ।फलसिद्धिः कालसिद्धिः क्रियासिद्धिः शिवाम्बिका ॥४॥जङ्वसिद्धिः परासिद्धिः खड्गसिद्धिः सुसूक्ष्मगा ।अणिमाद्यष्टसिद्धिश्च करे तस्य स्थिरा भवेत् ॥५॥कवचं काकिनीदेव्याः सर्वसिद्धिप्रदायकम् ।अकाले वा सुकाले वा पठनाद् धर्मसञ्चयम् ॥६॥जयी धर्मसञ्चयेन जयो यत्र शिवस्ततः ।यत्र शिवा तत्र शिवः कवचात्मा द्वयं प्रियौ ॥७॥कर्तारौ तौ सदा तारौ पार्वतीपरमेश्वरौ ।कार्यकारणस्त्रष्टारौ उभौ तत्र परात्परौ ॥८॥कवचात्मकमूर्तौ च स्थातारौ प्रभवात्मकौ ।तस्य नामाक्षरं वक्ष्ये श्रृष्णुष्व भैरवेश्वर ॥९॥भैरवी भीमरुपा च विरुपा रुपविवर्जिता ।सूक्ष्मातिसूक्ष्मरुपा च स्वप्रकाशा च शाकिनी ॥१०॥चपला चञ्चला भीमा चन्द्रदेवी परापरा ।कमलाक्षी देवमाता खड्गकपालधारिणी ॥११॥गुर्वी गौरी घनच्छाया ॐकाराद्या चरुप्रिया ।छाया जया जाञ्जना च ओङ्करात्मा कलावती ॥१२॥अङ्करिणी डाकिनी च टक्तादेवी रुणप्रिया ।तारिणी स्थूलपुष्टा च दयाधर्मप्रिया नुतिः ॥१३॥परमा बुद्धिशक्तिश्च फलदा फाल्गुनी कला ।बसुधारा वासुकी च भद्रकाली भवाभवा ॥१४॥मनसा मोहिनी माता यशोदा याज्ञिका यशा ।रुपेश्वरी रणप्राणा लक्ष्मीर्लक्षणशोभिता ॥१५॥वसुप्रिया वसुरता बालरक्षा शशिप्रभा ।षडक्षरी शारदा च हरिद्रा हारमालिनी ॥१६॥लावण्यनिरता लङ्का क्षयरोगविनाशिनी ।क्षेत्रपाला च क्षेत्री च क्षत्रिया क्षेमदा क्षमा ॥१७॥क्षुन्निवृत्तिकरी क्षुब्धा क्षालनाख्या क्षराक्षरा ।अनन्ताख्या उमा दुर्गा ऋषभा ईश्वरप्रिया ॥१८॥लृकारबीजकुटस्था लृकारदीर्घजीविका ।एरण्डरण्यचामुण्डा ऐन्द्री डट्टप्रियान्तरा ॥१९॥तुनुतुण्डा ओषधी च उत्तमाधमध्यमा ।औद्वेषिणी औषधस्था अट्टहासात्मसङुता ॥२०॥अर्थदा अष्टहस्ता च अर्ककोटिमयूखगा ।अर्धनारीश्वरो अर्च्या अर्बुदास्त्रधरा समा ॥२२॥अर्चनाढ्या अर्चनास्था अराती अरुणाधरा ।अष्टोत्तराख्यममृतं पठित्वा कवचं पठेत् ॥२३॥तदा फलसमृद्धिः स्यादायुरारोग्यसाधनम् ।शाकिनीकवचस्यास्य सदाशिव ऋषिः स्मृतः ॥२४॥गायत्रीच्छन्द एवापि शाकिनी देहदेवता ।ओं श्रीं क्लीं मे शिरः पातु ब्लूँ हलूँ मे ललाटकम् ॥२५॥चक्षुषी खेचरी पातु कर्णौ मे शिवशाकिनी ।गण्डयुग्मं सदा पातु देवशाकम्भरी रमा ॥२६॥स्वाहा पातु युग्मनासां ओष्ठाऽधरं शिरोऽवतु ।द्रीं हीं श्रीं मे दन्तपङ्क्तिं जिहवाग्रं देहदेवता ॥२७॥चिबुकं कमला देवी वाग्दात्री मे कपालकम् ।वदनं कालिका पातु शब्दबीजात्मिका गलम् ॥२८॥कण्ठदेवी शाकिनी च पातु मे कण्ठपङ्कजम् ।सुरादेवी सदा पातु ह्रत्पद्मं कामरुपिणी ॥२९॥कलावती काममाला विशुद्धकम् ।सदाशिवपथं पातु लक्ष्मीर्मे नाभिपङ्कजम् ॥३०॥उल्कामुखी सदा पातु देवमाता षड्क्षरम् ।सदा पातु विष्णुपद्मं राकिणी मे दलम् ॥३१॥कटिदेशं सदा पातु भेगदा ज्ञानमोक्षदा ।मूलाधारं सदा पातु काकिनी परमेश्वरी ॥३२॥एकरुपा सदा पातु लिङाधारं विरुपिणी ।मार्कण्डपूजिता देवी मृकुण्डा मूलवासिनी ॥३३॥सदा मे पातु देवेशि अभया चारुदेशकम् ।दर्शनाख्या महादेवी लिङाधारं पदान्तारम् ॥३४॥पातु देवी हिरण्याक्षी सर्वाङु सर्वदेवता ।विधात्री सूक्ष्मरुपस्था स्थूलाङी च कृशोदरी ॥३५॥सर्वत्र सर्वदा पातु देवी शाकम्भरी मम ।ह्रत्कालिका सदा पातु सर्वाङुं सर्वदेशके ॥३६॥इति ते कथितं नाथ कवचं देवदुर्लभम् ।पठित्वा सिद्धिप्राप्नोति राजत्वं लभते नरः ॥३७॥अकस्मात् सूर्यतुल्यः स्यात् कामजेता स्वयं भवेत् ।धारणाद् देहवृद्धिः स्यादायुरारोग्यसम्पदम् ॥३८॥वायुसिद्धिकरं साक्षादमृतानन्दविग्रहम् ।अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं करोति हि ॥३९॥खेचरो योगजेता स्यादाशाक्षयकरो भवेत् ।ततः पठेत् काममन्त्रं तदन्ते ध्यानमाचरेत् ॥४०॥ॐश्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वेनक्षत्राणि रुपमाश्विनौ व्यात्तम् इष्णन्निषाणामुम्म इषाण सर्वलोकम्म इषाण ॥४१॥जपित्वा काममन्त्रं हि सर्वकामफलं लभेत् ।ततो ध्यात्वा च कवचं ध्यायेद्यः शाकिनीशिवम् ॥४२॥स वेदपारमायाति शाकिनीध्यानयोगतः ॥४३॥प्राणाख्या शुक्लपद्मे निरवधिनिलयां शाकिनीं पीतवस्त्रांसूक्ष्मां भूषातिरुदोद्भतनुचपलां चञ्चला सिद्धिलोलाम् ।हस्तैः पद्मैश्चतुर्भिः सुनयनकमलैर्भासमानां शिवाढ्यांपद्माभीतिप्रचण्डासिचसहितां शाकमातां भजामि ॥४४॥ध्यात्वा योगी श्मशाने गिरिवरकुरे डाकिनीदेशमध्ये शून्ये गर्तेवने वा गगनगृहतले शून्यगेहे सुप्रवासे ।ज्ञानात्मा यो वशी वा पठति च सततं शाकिनीदेहयोगंगङायां स्वीयगर्भे कवचमभयदं सर्वदं याति सिद्धिम् ॥४५॥ कवचं कारणैर्देवीं पूजयित्वा यथाविधि ।अकस्मात् कायसिद्धिः स्यादष्टैश्वर्यसमन्वितः ॥४६॥मोक्षमाप्नोति भावेन सुखं तस्य पदे पदे ।म्रियन्तु बालका यस्याः काकवन्ध्या च या भवेत् ॥४७॥धारयित्वा त्विमां विद्यामेतैर्दोषैर्न लिप्यते ।कण्ठे यो धारयेदेताम समरे काण्डधारिणीम् ॥४८॥अक्षयत्ववाप्नोति जीवमात्रः सदाशिवः ।गोरोजनाकुङ्कुमेन कालागुरुहरिद्रया ॥४९॥लाक्षारसैर्लेखयित्वा धारयित्वाऽमृतं लभेत् ॥५०॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे शाकिनीकवचं नाम षष्ठसप्ततितमः पटलः ॥७६॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP