संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चसप्ततितमः पटलः| सिद्धसभावर्णनम् पञ्चसप्ततितमः पटलः सिद्धसभावर्णनम् पितामहसभावर्णनम् पञ्चसप्ततितमः पटलः - सिद्धसभावर्णनम् अकालमृत्युहरणसभावर्णनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सिद्धसभावर्णनम् Translation - भाषांतर आनन्दभैरव उवाचकथितं शारदं धाम अप्रकाश्यं फलोदयम् ।इदानीं कथय प्राणवल्लभे वरदा भव ॥१॥कण्ठाभोजे दीदृशी या सभा परममोहिनी ।गायन्ती योगिभिर्नित्यं परमानन्दवर्धिनी ॥२॥सभोत्कृष्टां सिद्धसभां वर्तय ब्रह्मवादिनि ।तदा मे सफलं ज्ञानं सफलं सारनिर्णयम् ॥३॥यदि सा कथ्यते देवि सभा सर्वप्रतिष्ठता ।श्रीआनन्दभैरवी उवाचश्रूयतां देवदेवेश सर्वानन्दप्रपूरक ॥४॥सभा ज्ञानमयी नित्या षोडशारप्रकाशिनी ।विस्तीर्णा सप्ततिं चैव योजनानां शितप्रभा ॥५॥तपसा निर्मिता लक्ष्मीर्ज्ञानमङुलमण्डिता ।राशिप्रभा खेचरी सा कैलासशिखरोपमा ॥६॥गुह्यकैरुह्यमाना सा मधुरध्वनिपूरणीं ।दिव्यहेममयैरुच्चैः पादपैरुपशोभिता ॥७॥रश्मिमती भास्वती च दिव्यगन्धमनोरमा ।शिताभ्रशिखराकारा हेमतोरणशोभिता ॥८॥दिव्यहेममयैः श्रृङैर्विद्युदिभरिव चित्रिता ।षोडशारकर्णिकाया प्रतिभा विश्वजित्वरी ॥९॥तस्यां सदाशिवो नाथो विचित्रभरणायुधः ।स्त्रीसहस्त्रावृत्तः श्रीमानास्ते ज्वलितकुण्डलः ॥१०॥दिवाकरनिभे रम्ये दिव्यास्तरणसंयुते ।दिव्यपादोपधाने च निषण्णः परमासने ॥११॥मन्दाराणामुदाराणां वनानि सुरभीणि च ।सौगन्धिकानां चादाय गन्धान् गन्धवहः शुचिः ॥१२॥नलिन्याश्चाणकाख्यायाश्चन्दनानां वनस्य च ।मनोह्रदयसंहलादी वायुस्तमुपसेवते ॥१३॥तत्र देवाः सगन्धर्वा गणैप्सरसा वृताः ।दिव्यतालेन गायन्ति गीतानि परमेश्वर ॥१४॥मिश्रकेशी च रम्भा च चित्रसेना शिचिस्मिता ।चारुनेत्रा घृताची च मेनका मुञ्जिकस्तनी ॥१५॥विश्वाची सहजन्या च प्रम्लोचा उर्वशे इरा ।वर्गा च सौरभेयी च समीची बुद्धिदा लता ॥१६॥रत्नावती महामाया कमला गन्धकेशिका ।बाणमाता महाभर्गा ज्योतिः प्रज्ञा भवाऽभवा ॥१७॥प्रभवा सम्भवा गुञ्जा साराङी सारविक्रमा ।त्रिलोचनी त्रिवेदिस्था अम्बिका सप्तशायका ॥१८॥विरला वरदा माया सिद्धा कात्यायनी तथा ।योगिनी खेचरी सिद्धा जीवाङी दीर्घलोचनी ॥१९॥रमणी च हिरण्याक्षी पद्मवक्त्रा हिरण्मयी ।एताः सहस्त्रचान्या नृत्यगेतविशारदाः ॥२०॥ईशानमुपतिष्ठन्ति गन्धर्वाप्सरसाङुणाः ।अनिशं दिव्यवादित्रैर्नृत्यगीतैश्च सा स्रभा ॥२१॥अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ।किन्नरोगगन्धर्वा नरा नाम तथा परे ॥२२॥मानभद्रोऽथ धनदः श्वेतभद्रोऽथ गुह्यकः ।काशवलो गण्डकण्डूः पत्योद्रश्च महाबलः ॥२३॥कुस्तुम्बुरुः पिशाचाश्च गजकर्णे विशानकः ।वराहकर्णस्ताम्रौष्ठः फलभक्षः फलोदकः ॥२४॥अङुचूडः शिखावर्तो हेमनेत्रो विभीषणः ।पुष्पाननः पिङुलकः शोणितोदः प्रवालकः ॥२५॥वृकवांश्चानिकेतश्च चीरवासाश्च भावतः ।भरद्वाजो वारिधरी महामायो धनञ्जयः ॥२६॥कपिलः कपिलाचार्यो महायोगी क्षमाधरः ।एते चान्ये च बहवो यक्षा शतसहस्त्रशः ॥२७॥सदा भगवती लक्ष्मीस्तथैव नलकूबरः ।तयोः परिजनाः सर्वे वारुणीमद्यकारकाः ॥२८॥अतो मधुपुरी नाम चाष्टपूरं मधुस्थलम् ।तद्बाह्ये सा सभा भाति चन्द्रकोटिसमोदया ॥२९॥अहञ्च निवसाम्यस्यां भवन्त्यन्ये च मद्विधाः ।ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयो परे ॥३०॥क्रव्यादा राक्षसाश्चान्ये गन्धर्वाश्च महाबलाः ।उपासन्ते महत्मानं तस्यां शिवदसमीश्वरम् ॥३१॥भगवान् भूतसङ्कैश्च वृतः शतसहस्त्रशः ।उमापातिः पशुपतिः शूलधृग् भगनेत्रहा ॥३२॥त्र्यम्बको रारशार्दूलो देवी च विगतक्रमाः ।वामनैर्विकटेः कुब्जैः प्रिययक्षैर्महाबलैः ॥३३॥मेदोमांसासवैरुग्रैरुग्रधन्वा महाबलः ।नानाप्रहणैर्घोरेर्घातैरिव महाजविः ॥३४॥वृतः सहायैस्तत्रास्ते सदैव श्रीसदाशिवः ।प्रकृष्टाः सततञ्चा(पि?)प्यवन्तु शम्भुपरिच्छदाः ॥३५॥गन्धर्वाणाञ्च पतयो विश्वावसुर्हाहा हुहूः ।तुम्बुरुः पर्वतश्चैव शैलूश्चच तथापरः ॥३६॥चित्रसेनश्च गतिज्ञस्तथा चित्ररथोऽपि च ।एते चान्ये च गन्धर्वाः सदाशिवमुपासते ॥३७॥विद्याधराधिपश्चैव चक्रवर्मा (हि)मानुगः ।उपासतुस्ततस्तस्यां प्रभुं धनदमीश्वरम् ॥३८॥हिमवान् पारिभद्रश्च विन्ध्यकैलासमन्दराः ।किन्नराः शतशस्तत्र ज्ञानिनामीश्वरं प्रभुम् ॥३९॥गणाश्च शतशस्तत्र भगदत्तपुरोगमाः ।द्रुमः किंपुरुषश्चैव उपाते वरदेश्वरम् ॥४०॥राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः ।सह यज्ञैः सगन्धर्वैः सह सर्वौशाचरैः ॥४१॥विभीषणश्च धर्मिष्ठ उपास्ते श्रीसदशिवम ।मलयो मन्दर्श्चैव महेन्द्रो गन्धमादनः ॥४२॥इन्द्रकीलः सनाभश्च तथा दिव्यौ च पर्वतौ ।एते चान्ये च बहवः सर्वे मेरुपुरोगमाः ॥४३॥उपासते महात्मानं सदाशिवमधीश्वरम् ।नन्दीश्वरश्च भगवान् महाकालस्तथैव च ॥४४॥शक्तं कर्णमुखाःसर्वे देव्याः परिषदास्तथा ।काष्ठभृकुटी मुखोदन्ती विजया च तपोऽधिका ॥४५॥श्वेतश्च वृषभश्चैव नर्दन्नास्ते महाबलः ।वरदं राक्षसाश्चान्ये पिशाचाश्च समासते ॥४६॥पार्षदैः संपरिवृतमुमया च महेश्वरम् ।सदा हि देवेदेवेशं शिवं त्रैलोक्यभावनम् ॥४७॥प्रणम्य मूर्ध्ना पौलस्त्यो बन्धुरुपमुमापतिम् ।ततोऽभ्यनुज्ञां सम्प्राप्य महादेवात् कुलेश्वरात् ॥४८॥आस्ते कदाचिद् भगवान् भवो धनपतेः सखा ।निधिप्रवरमुख्यौ च शङ्कपद्मधनेश्वरौ ॥४९॥सर्वान्निधीन् प्रगृह्याथ उपास्तद्वै सदाशिवम् ।समता तादृशी रम्या मया गुप्तान्तरीक्षगा ॥५०॥पितामहसभा तस्या ऊर्ध्वे भाति विभाविता ।दिक्पालानां सभाग्रे तु स्थिरविद्युत्समोदया ॥५१॥महादेवं कीर्तयिष्ये सतां कण्ठसरोरुहे ।योगिनां मौनशीलानां ध्यानसिद्धिप्रदा सभाम् ॥५२॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP