संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकसप्ततितमः पटलः| सदाशिवमन्त्रकथनम् अथैकसप्ततितमः पटलः सदाशिवमन्त्रकथनम् अथैकसप्ततितमः पटलः - सदाशिवमन्त्रकथनम् श्रीबटुकनाथस्य पूजाविधानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सदाशिवमन्त्रकथनम् Translation - भाषांतर श्रीआनन्दभैरवी उवाचश्रूतयां देव कल्याण त्रैलोक्यविजयात्मक ।सदाशिवमनुं नाथ महापातकनाशनम् ॥१॥आयुरारोग्यफलदं सर्वशत्रुनिवारण् ।अतिगुह्यतमं ध्यानं बालिशानां सुखावहम् ॥२॥सदाशिवमन्त्रकथनम्आद्याबीज समुद्धृत्य कामबीजं तदन्तरम् ।रुद्रबीज रमाबीजं कालबीजं ततः सदा ॥३॥शिवनाथप्रियानन्दं ज्ञानं देहि युगं द्विठः ।फणिबीजं समुद्धृत्य राजराजेश्वरीमनुम् ॥४॥वैष्णवीबीजमुद्धृत्य शिवबीजं तदन्तिके ।सदाशिवाय शब्दान्ते ह्रल्लेखा वहिनसुन्दरी ॥५॥आदिबीजं समुद्धृत्य ततो वामतनुस्थिता ।शब्दबीजं मूलबीजं सदाशिव नमोऽस्तु ते ॥६॥फलश्रुतिद्विठान्तोऽयं मनुः श्रेष्ठः सर्वरत्नसमृद्धिदः ।वासुदेवसमो विद्वान् स भवेन्नात्र संशयः ॥७॥वैष्णवो वा महाशाक्तो महाशैवोऽथवा पुनः ।गृहणीयान्मनुराजेन्द्रं यत्प्रसादाच्छिवो भवेत् ॥८॥विमला वाक्यसिद्धिः स्यात्कार्य सिद्धिर्न संशयः ।शिवमन्त्रकथनम्शिवमन्त्रं प्रवक्ष्यामि येन सर्वार्थपारगः ॥९॥अकालेऽपि च योगी स्यात् कामधेनुस्वरुपवान् ।हालाहलं समुद्धृत्य ततो माहेशबीजकम् ॥१०॥श्रीबीजं धर्मबीजञ्च क्षेत्रपालमनुं तथा ।नीलकण्ठमनुं पश्चात् प्रियागुं बीजमुद्धरेत् ॥११॥शिवबीजं तदन्ते तु सदाशिवाय धीमहि ।तन्नः शिवः प्रचोशब्दाद्दयादेवं द्विठो मनुः ॥१२॥शिवपूजनम्आवाहनं पाद्यमर्घ्यमाचमनीयमन्तरम् ।गन्धपुष्पबिल्वपत्रकोटिभिः परिपूजयेत् ॥१३॥स्तोषणं पोषणं पुष्टं दारणं मारणं तथा ।सुप्तं कलहमुक्तानां पूजनं सुमहत्फलम् ॥१४॥सर्वादीन् परिपूज्याथ सद्योजातादिमर्चयेत् ।प्राणायामत्रयं कृत्वा जपेत् तद्गतमानसः ॥१५॥ध्यानकथनम्देवं पिनाकपाणिं च पञ्चवक्त्रं त्रिलोचनम् ।शूलखट्वाङुमुशललगदापाणिं महाभुजम् ॥१६॥देवदेवं महादेवं सर्वभूतात्मकं गुरुम् ।त्रैलोक्यरक्षकं शम्भुं भुजङुहारभूषितम् ॥१७॥अट्टाहासादिशक्तीनां सहस्त्रगणमण्डितम् ।वृषासनस्थं नीलेशं नीलकण्ठं सदाशिवम् ॥१८॥एवं ध्यात्वा जपेन्मन्त्रं सहस्त्रं प्रत्यहं शुचिः ।विशेषेण दिवारात्रौ समभागेन सञ्जपेत् ॥१९॥तत्रव त्र्यवकं ध्यात्वा तत्तद्रुपेण साधकः ।तद्बुध्वा पूजयित्वा च त्र्यबकं यो जपेन्नरः ॥२०॥तस्य हस्ते त्रिभुवनं हस्तामलकवद् भवेत् ।भोगमोक्षौ करे तस्य किमन्यत् साधनेन च ॥२१॥सदाशिवेन मनुना सम्पुटीकृत्य यो जपेत् ।तस्य सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते ॥२२॥प्रणवं पूर्वमुच्चार्य त्र्यबकं तदनन्तरम् ।यजामहे समुद्धृत्य सुगन्धिं पुष्टिवर्धनम् ॥२३॥उर्वारुकमिवान्ते तु बन्धनात् पदमुद्धरेत् ।मृत्योर्मुक्षीयशब्दान्ते मामृताद्वहिनसुन्दरी ॥२४॥सदाशिवेन पुटितं मन्त्रं यो जपते नरः ।स भवेत् कल्पतरुपः पूजनेनामृतं लभेत् ॥२५॥सर्वकालं सुखी भूत्वा मोक्षमाप्नोति निश्चितम् ।अन्यं त्र्यम्बकमन्त्रं तु श्रुणुष्व सर्वकामदम् ॥२६॥राज्यदं धनदं मन्त्रं महापातकनाशनम् ।शब्दब्रह्ममयं साक्षात् सर्वज्ञानं लभेद् ध्रुवम् ॥२७॥कालकूटं समुद्धृत्य मृत्युञ्जयं समुद्धरेत् ।महापातकराशिं मे हरयुग्मं ततो द्विठः ॥२८॥अन्यमन्त्रं प्रवक्ष्यामि सावधानोऽवधारय ।विद्याद्ये प्रणवं दत्वा कामबीजद्वयं द्वयम् ॥२९॥मृत्युञ्जयं क्षेत्रपालं विशुद्धेशं स्थिरं कुरु ।युगलं कामबीजान्तं देव्यन्ते वहिनसुन्दरी ॥३०॥अन्यं मन्त्रं प्रवक्ष्यामि सावधानोऽवधारय ।कामकालीयुगं पश्चात् संज्ञाबीजद्वयं ततः ॥३१॥बटुकं कामबीजञ्च षोडशारं प्रकाशय ।युगलं शक्तिकूटञ्च शिवबीजं ततो द्विठः ॥३२॥पूर्ववत् सकलं कुर्याज्जपपूजादिकं प्रभो ।सदाशिवपूजनं च ध्यानहोमादितर्पणम् ॥३३॥अन्यं मन्त्रं प्रवक्ष्यामि महादेवं समुद्धरेत् ।बटुकं क्षेत्रपालं च गणेशस्य मनुं ततः ॥३४॥कण्ठाब्जं मे सदानन्द प्रकाश युगं द्विठः ।अस्यापि ध्यानमाकृत्य जप्त्वा लक्षं समापयेत् ॥३५॥करकलितकपालः कुण्डली दण्डपाणिस्तरुणतिमिरनीलो व्यालयज्ञोपवीती ।क्रमसमयसपर्याविघ्नविच्छेदहेतुर्जयति वटुकनाथः सिद्धिदः कौलिकानाम् ॥३६॥वन्दे बालं स्फटिकसदृशं कुण्डलोल्लासवक्त्रंदिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रंहस्ताब्जाभ्यां दधतमनिशं शूलदण्डौ दधानम् ॥३७॥उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङुरागोज्ज्वलं स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।नीलग्रीवमुदारकौस्तुभधरं शीतांशुखण्डज्ज्वलंबन्धूकारुणवाससं भयहरं देवं सदा भावये ॥३८॥देवेशं बटुकं सदाशिवगुरुं त्रैलोक्यरक्षाकरंनानालङ्कृतभूषणं शशधरं बन्धूकपुष्पोज्ज्वलम् ।श्वेताश्वेतविभूषणं मणिमयं कृष्णं सनीलं शिवंदेवानामधिदैवतं सुखकरं नाथं सदा भावये ॥३९॥एवं ध्यात्वा महायोगी नीलकण्ठं सदाशिवम् ।कण्ठपद्मे स्थिरो शाकिनीदर्शनं लभेत् ॥४०॥भूत्वा महावीरनाथो मनोयोगमवाप्नुयात् ।सिद्धमन्त्रं प्रवक्ष्यामि येन सर्वत्र पारगः ॥४१॥आकाशगामिनी सिद्धिः स्तम्भनादिसुसिद्धिभाक् ।वाक्सिद्धिं कायसिद्धिञ्च जरामरणवर्जितः ॥४२॥शिवबीजं समुद्धृत्य विजयाबीजमुद्धरेत् ।कामकालीयुगान्ते तु रमात्रिकूटमुद्धरेत् ॥४३॥बीजत्रयं समुद्धृत्य (स्फें स्फें स्फें)कामनाथाय शब्दतः ।सदाशिवाय शब्दान्ते वरदाय नमो द्विठः ॥४४॥एतन्मन्त्रप्रसादेन योगी स्यान्नात्र संशयः ।अन्यं मन्त्रं प्रवक्ष्यामि यथावदवधारय ॥४५॥क्षान्तबीजं समुद्धृत्य लान्तबीजत्रयं तथा ।भवानीबीजमुद्धृत्य सङ्कट्टयुगलं ततः ॥४६॥क्रोधराजबीजयुग्मं लक्ष्मीशपतये ततः ।वरदाय ह्रत्पदान्ते कामदाय ततो द्विठः ॥४७॥अन्यं मन्त्रं प्रवक्ष्यामि येन योगी भवेन्नरः ।गगनाबीजमुद्धृत्य कामराजं समुद्धरेत् ॥४८॥मायान्ते देवदेवाय ह्रच्छिवाय द्विठो मनुः ।एतन्मन्त्रप्रसादेन किन्न सिद्धयति भूतले ॥४९॥अनायासेन योगी स्यात् किं पुनः साधनेन च ।केवलं जपमात्रेण योगी स्यान्नात्र संशयः ॥५०॥अन्यं वक्ष्ये भैरवेन्द्र प्रणवं कामराजकम् ।श्रीबीजं वहिनयुगलं रिपुहरयुगं ततः ॥५१॥सिद्धिं देहि ततः स्वाहा मन्त्रोऽयं योगिदुर्लभः ।पूर्ववद्धायानमेवं हि कृत्वाऽमरत्वश्नुते ॥५२॥अन्यं मन्त्रं प्रवक्ष्यामि येन पीठस्थिरो भवेत् ।अमादिबीजाभाष्य ततो महापदं स्मरेत् ॥५३॥कालाय विकरणाय कलान्ते तु समुद्धरेत् ।बलाय बलविकरणाय षोडशारदलं ततः ॥५४॥निवेशाय युगं वित्तं स्थापयान्ते सदाशिव ।काकिनीशाभावहिनसुन्दरीकामदो मनुः ॥५५॥एकाक्षरं प्रवक्ष्यामि येन सिद्धो मनुर्भवेत् ।क्षान्तबीजं बिन्दुयुक्तं चन्द्रबीजं तथोद्धरेत् ॥५६॥अधो दन्तयुतं कृत्वा जपेत् तद्गतमानसः ।प्रत्येकदलमध्ये तु ध्यात्वा देवं सदाशिवम् ॥५७॥अनायासेन सिद्धिः स्यात् प्राणरक्षा सदा भवेत् ।पुनरेकाक्षरं वक्ष्ये येन सिद्धयन्ति मानवाः ॥५८॥न देयं पाशवेभ्यश्च निन्दकेभ्यो विशेषतः ।शिवं चन्द्रबिन्दुयुक्तं महामन्त्रं प्रकीर्तितम् ॥५९॥अस्य साधनमात्रेण योगिनां वल्लभो भवेत् ॥६०॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे एकसप्ततितमः पटलः ॥७१॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP