संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथाष्टषष्टितमः पटलः| विशुद्धवर्णध्यानम् अथाष्टषष्टितमः पटलः विशुद्धवर्णध्यानम् अथाष्टषष्टितमः पटलः - विशुद्धवर्णध्यानम् विशुद्धवर्णध्यानकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विशुद्धवर्णध्यानम् Translation - भाषांतर श्रीआनन्दभैरव उवाचत्रैलोक्यरक्षणार्थाय पूजयामि तवानघे ।संसारविलयार्थाय तव श्रीचरनाम्बुजम् ॥१॥विशुद्धवर्णध्यानकथनम्महादेवि जगद्धात्रि परमानन्दवर्धिनि ।भवानि भैरवि प्राणे वर्णध्यानं वदामलम् ॥२॥श्रीआनन्दभैरवी उवाचअथ कामेश गौराङु धर्माधर्मप्रदर्शक ।इदानीं श्रृणु सर्वज्ञ महाज्ञाननिरुपणम् ॥३॥वर्णध्यानं तव स्नेहात् कथये मम रुपकम् ।अकस्मात् सिद्धिदं ध्यानं ज्ञानमात्रेण सिद्धयति ॥४॥अकारं ध्यायेऽहं हरिहरचतुर्वक्त्रविबुधैः सदा ध्येयं शुक्लं विधुमुखिवधुश्रीश्रुतिभुजम् ।विधेयं कौमारं त्रिनयनमलङ्कारजडितंकपालाब्जास्त्राहिमहितशितांशुप्रभकरम् ॥५॥अंआं बीजाढ्यां प्रभासां कनकघटमधुप्रीतिमानां विमानांशुक्लच्छायां वहन्ती श्रुतिभुजसहितां पद्मनालाख्यमालाम् ।खड्गं तां धारयन्तीं मुकुटमणिरुचिं क्रोधमाकाशदेशंनानालङ्कारदीप्तिं हिमकरकपिलावाहनीं भावयामि ॥६॥आंइं मायां भुवनस्थितां वधुयुतां श्रीषोडशीसंयुतांमायालक्षणलक्षितां त्रिजगतां विद्याभयश्रीपदाम् ।हस्ताम्भोजचतुष्टयां त्रिनयनां शूलासिमालाम्बुजांनानार्त्नजनूपुरां सुरनतां ध्याये विशुद्धाम्बुजे ॥७॥इंकोट्यर्काभासमानां कनकयमहालङ्कृतां ध्यानगम्यांईकाराकारमूर्तिं त्रिनयनकमलां वेदहास्योज्ज्वलाङीम् ।शङखाम्भोजासिघण्टासहिततनुवरां देवसिंहासनस्थांवेदस्थां वेदसिद्धां रुधिरशितयुतां बाललीलां भजामि ॥८॥ईंउकारं ब्रह्माम त्रिमुनिसहितं काञ्चनरसंहयं हंसारुढं इवरसनयुत्म मन्दिराजालवाद्यम् ।विशालं वेदास्यं शतरविसुवर्णं त्रिनयनंजताकुण्डाहलादं तरुणपुरुषं नौमि सततम् ॥९॥उंऊंकारं सर्वरुपं विधुशतजटितं काञ्चनाभं त्रिसर्गंमन्दारैर्मानसाप्तं प्रचघनरसं शुद्धसूत्राक्षमालम् ।हस्तौ द्वौ संवहन्तं फणिगणललनामालयानन्दरुपंसिद्धानामिष्टसिद्धिं कुलकमलघनं भावये षोडशारे ॥१०॥ऊंऋंकारं सप्तरेखासहितविमलया मालया शोभिताङुंमायाविस्थं प्रसन्नाननकमलवरं वारनाकारदेहम् ।पुण्य़ं यज्ञादिसिद्धं मदनशशिकलामादनं षड्भुजाढ्यंघण्टाचार्वस्त्रखड्गाममलकमलकपालाङुमेकं भजामि ॥११॥ऋंऋं बीजं चातिथीशं शितकमलमुखं शुक्लवर्णं त्रिनेत्रंमायालक्ष्मीस्वरान्तं तरुणरविकरं षड्भुजं नीलवस्त्रम् ।नानालङारशोभातरमुकुटतटं चन्द्रबिम्बस्वभावंखड्गाब्जज्ञानमुद्रामधुधर-सुगदा पाशपाणिं भजामि ॥१२॥ऋंलृंकारं स्थाणुकेशं त्रिनयनवदनाम्भोजतेजः प्रकाशंपूर्णात्मानं परेशं त्रिगुणघनमयं नीलवर्णं त्रिभावम् ।षड्बाहुं पिङुकेशामलगलितशिरोमण्डलं मालयाढ्यंवेदासिज्ञानमालाम्बुजवरगदया शोभितं भावयामि ॥१३॥लृंलृंकार शितवसनयुक्शुक्लकिरणंसुधामग्नं ध्याये हरिणनयनं वेदभुजगम् ।भुजङाम्भोजासिप्रियवरदभावं शुभकरंकरालं भूपालं सुरमुनिगणैः सेव्यमनिशम् ॥१४॥लृंएंबीजं कालवर्ण शतयुवतिगतं वेष्टितं देवमुख्यैः सूर्याभं बिन्दुसर्गं भुजयुगसहितं पद्मभालं करालम् ।सालङ्करं किरीट त्रिनयनममरं नूपुरेन्द्रुप्रकाशंझिण्टीशं शम्बरीशं प्रमथसुतगणैर्व्यापितं भावयामि ॥१५॥एंशुक्लाभं व भवार्णं त्रिवलितनयनं शुद्धबन्धूकवस्त्रंरत्नालङ्कारहारं त्रिभुवनवचनं षड्भुजं बीजसारम् ।ध्यायेऽहं षोडशारे त्रिमदनरमणे भावितं पञ्चरश्मिंयोगाद्यं भौतिकेशं गगनपथकरं वहिनजायास्वरान्तम् ॥१६॥ऐंभजे प्रणवलक्षणं शितकरं चलत्कुण्डलंचतुर्भुजविभाकरं कमलशङ्खशूलाभयम् ।अलङ्कृतकलेवरं विमलपीतवस्त्रं मुखंशुक्लांशुशतवेष्टितं मुकुटनूपुराढ्यं परम् ॥१७॥ओंध्याये चानुग्रहेशं प्रणववधवल औङ्काररुपं सुसूक्ष्मंब्रह्माद्वारप्रभेदं श्रुतिभुजललितं खड्गबाणास्त्रमालम् ।जन्तूनां कोटिकान्तिं शतरविमुकुटं क्रोधराजं महेशंरत्नालङ्कारशोभं चरलतलरिभामण्डलं सारुणाभम् ॥१८॥औंअङ्कारं बिन्दुभावं ललितदशभुजं व्याघ्रचर्माम्बराढ्यंपञ्चास्यं तं त्रिनेत्रं स्वकणकवलयं चन्द्रकोटिप्रकाशम् ।शूलास्त्रासीषु चक्रप्रतनफलगदाखेटकाम्भोजमालंध्याये चाक्रूरदेवं परशुखरपदं सारदं स्थूलसूक्ष्मम् ॥१९॥अंअःकारं श्रीविसर्गं कमलदलगतं दीनदातारमेकंशुक्लाभं कोटिसूर्यं शतभुजललितं वेदविद्यास्त्रखड्गम् ।सर्वाङारक्तधारं त्रिनयकमलानन्दितं मन्दहास्यंपञ्चाशद्वक्त्रशोभाभवतनुकिरणं कारणं भावयामि ॥२०॥अःएवं ध्यात्वा षोडशारे स्थिरचेताः प्रपूजयेत् ।वर्णरुपं शक्तियुतं लोकनाथं लोकनाथं सदाशिवम् ॥२१॥तदा प्रसन्ना बुद्धिः स्यादमरो जायतेऽचिरात् ।खेचरत्वं वाक्यसिद्धिं जलस्तम्भादिसिद्धिभाक् ॥२२॥पूर्वादिवामतो ध्यायेत कामनाभयवर्जितः ।गुप्तस्थाने ध्यानकार्यं यत्र विद्याः स्फुरन्ति ताः ॥२३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे विशुद्धवर्णध्यानं नाम अष्टषष्टितमः पटलः ॥६८॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP