संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षष्टितमः पटलः| सुरस्तवनम् षष्टितमः पटलः सुरस्तवनम् षष्टितमः पटलः - सुरस्तवनम् ईश्वरस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सुरस्तवनम् Translation - भाषांतर आनन्दभैरव उवाचवद कान्ते परानन्दे रहस्यं कुलसुन्दरि ।यस्य विज्ञानमात्रेण भवेद् गङाधरो हरिः ॥१॥ईश्वरस्य स्तवब्रह्मपरं निर्वाणसाधनम् ।शोभा कोटियोगपतेर्योगेन्द्रस्य परापतेः ॥२॥ईश्वरं के न मानन्ति ब्रह्मविष्णुशिवादयः ।तस्य स्मरनमात्रेण महावाग्ग्मी च मृत्युजित् ॥३॥मन्त्री वेदान्तसिद्धान्तं तं भजन्ति महर्षयः ।देवा मनुष्या गन्धर्वान्तं भजन्ति महेश्वरम् ॥४॥अकालमृत्युहरणं सर्वदा सर्वतोमुखम् ।सदा तस्य स्तवं दिव्यं श्रोतुमिच्छामि शाङ्करि ॥५॥सुरस्तवनम्श्रीआनन्दभैरवी उवाचकौल त्वं श्रृणु शङ्कप्रियकरं स्तोत्रं तदीशस्य च श्रीनाथाय नमः कुलेश परमप्राणेश तुभ्यं मुदा ।सानन्दाय नमो भवाय पतये लोकेश्वरायो ॐ नमो भूतेशाय गणाधिपाय यतये श्रीशूलिने ते नमः ॥६॥कान्ताय प्रणवाय योगपतये योगेश्वरायो ॐ नमोमहारायाक्षरेश्वराय महते नित्याय नित्यं नमः ।स्वाधिष्ठानविभेदकाय हरये मूलाब्जसम्भेदिने नाभेरम्बुजभेदिने ह्रदयाम्भोदिभदकायों नमः ॥७॥कालाय प्रणवाय मायवशिने नित्यं नमो भास्वते मोक्षाय प्रमथेश्वराय कवये खट्वाङुहस्ताय ते ।भक्तिश्रीनिधये महेन्द्रखचराय मायाश्रयार्यो नमो विज्ञानाय शिवाय सूक्ष्मगतये गूढाय भूयो नमः ॥८॥सर्वज्ञाय जयाय भूतिपतये भूतेश्वराय प्रभोपञ्चास्याय हराय देवपतये गौरीश्वराय श्रिये ।भोगायान्तरगामिने हरिहरायानन्दचिद्रूपिणेकल्याणाय भगाय शुद्धमतिभिर्नित्यं नमस्ते नमः ॥९॥गोविन्दप्रियवल्लभाय विधये ब्रह्मादिकोत्पत्तये उत्पत्तिस्थितिसंह्रतिप्रकृतये बाह्याय विश्वेश्वर ।तुभ्यं काल नमो नमः प्रलययोगोल्लासिने भूभृतेविज्ञाताय गिरीन्द्रपूजित विभो भूताधिपायानिशम् ॥१०॥गौरीशाय गणार्चिताय मनसे मान्याय भूवासिनेभूतोत्साहमहीशनाथशशिचूडाय प्रधानाय ते ।नित्यं नित्यकलाकुलाय फणिचूडाय प्रबुद्धाय ते तेजःशान्तिपते सतां पतिपते निर्वाससे ते नमः ॥११॥शोभाकोटियुताय चन्द्रकिरणाहलादाय सूक्ष्माय ते तुभ्यं नाथ नमो नमः प्रणमतामानन्दसिन्धूत्सवा ।हेरम्ब श्रयकार्तिकेयजनकान्दप्रियाय प्रभोपित्रे सर्वसुखाय सर्वपतये श्रीनीलकण्ठेश्वर ॥१२॥त्रिब्रह्मार्पितभूतये सुरतये श्रीभास्वते योगिनामानन्दोदयकारिणे कुलपते ते नाथ तुभ्यं नमः ।ब्रह्मानन्दकुलाय रौप्यगिरये सौन्दर्यसंसिद्धयेसर्वानन्दकराय सम्परतरायाढ्याय सत्यं नमः ॥१३॥काशीशं कौशिकीशं सुरतरुकिरणं कारणाख्यं सुखाख्यंगौरीशं गङिरीशं गुरुमगुरुगिरिश्रेणिलिप्ताङुवङुम् ।घोषाख्यं मञ्जुघोषं घनगणघटितं घोरसङ्वट्टनादंचार्वीशं राघवेश घनह्रदि घटमीश्वरं घौटकेशम् ॥१४॥लाक्षाभाण्डं विशालो वसति तव करे करे स्थावरो जङुमो वाभूताध्यक्षो वशिष्ठः स्वपरिजनकुले सर्वदा पाहि शम्भो ।भक्तिज्ञान न दातुं चपलमलमणिश्रेणिमाला विलोलालोकाभीतो कलङ्की विधिशतमुकुटश्रीपदाम्भोरुहं ते ॥१५॥धूर्तः शौरिः प्रशन्तो विमलमधुरसामोदमानोऽप्रमत्तोमायामोहापदेवी सुरमदमदनो दानसम्मानदाता ।त्वं नाथं श्रीपदाम्भोरुहविमलतले ते कथं ना सुरक्षेपूर्वास्यो दक्षिणास्यो धनपतिवदनः पश्चिमास्यो मुनिस्त्वम् ॥१६॥भेदी सिद्धान्त विद्याधरनिधिकिरणः कारणोऽनन्तशक्तिर्यः साक्षात् कामधेनुः स च धनपतिपः सर्वभोगानुरागी ।पादाम्भोजे हि नित्यं कलगिरिसुतानाथ ते योगिपत्वंचित्तं में चञ्चलाख्यं शशिधरकिरणो वाक्पते योगसिद्धिः ॥१७॥कपर्दी श्रीखड्गासिवरगदया वेदभुजयाघनच्छायासङ्कोचरचनावशच्छद्मविजयः ।जयी जेता जायेर्जयमनुकरोतु श्रियतमोज्वलज्झंझावाते क्षणधर इह क्रोध इति मे ॥१८॥अथाऽऽज्ञा चक्रान्तर्गतविवरमाच्छन्नजटिलःप्रतिज्ञाभङुस्थकटकशतकोटिप्रकटितः ।कुठारस्ते क्रोधी कमठकटवासी कठिनहाककाराद्यं नत्वा दशकिरणमानोऽवतु सदा ॥१९॥सुधाखण्डादेव्याः स्तवनपठनेन प्रियकरंपदाम्भोजं चिति प्रचयति स्वभाग्यं कुलपते ।प्रधाने भूखण्डे जयति यदि मृत्युञ्जयपदंविनोद भूयोगं पचति सहसा प्रेमतरलः ॥२०॥यद्येवं प्रपठेदिदमनियतं कौलावलीसंयुतस्तोत्रं सारहस्यभारपरमानन्दैकचित्तस्थलम् ।योगीन्द्रावगतित्वमुक्तफलदं सर्वेश्वरत्वं पदंचन्द्रदित्यसमागतं परपदाहलादैकमात्रं लभेत् ॥२१॥ते शम्भो यदि पादाम्भोरुहमङुलवल्लिका ।पूज्यते सर्वदा योगी निर्वाणगुणसिद्धये ॥२२॥किन्न सिद्धयति भ्रूमध्ये शिवभक्तिप्रसादतः ॥२३॥॥ इति श्री रुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने अनाहत पद्मे सुरस्तवनं नाम षष्टितमः पटलः ॥६०॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP