संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकोनषष्टितमः पटलः| ह्रत्पद्मादिवर्णध्यानम् अथैकोनषष्टितमः पटलः काकिणीस्त्रोत्रम ह्रत्पद्मादिवर्णध्यानम् अथैकोनषष्टितमः पटलः - ह्रत्पद्मादिवर्णध्यानम् काकिणीस्तोत्रविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल ह्रत्पद्मादिवर्णध्यानम् Translation - भाषांतर आद्ये प्रवालविमलेऽमलमाल्यशोभे सूक्ष्मेऽतिसूक्ष्मनिकरे करुणानिधाने ।(क) बाले वले प्रचले चपले प्रलापेयोगेशि पादकमलं कुलमाश्रयामि ॥१७॥(ख) त्वं षोडशी खरतरा खरखड्गहस्तेखड्गेश्वरी प्रखरवाक्यमाथाढ्यवक्त्रे ।म खर्जूरहाररुचिरे खलहन्त्रि तुभ्यंनित्यं नमो नम उपेन्दगिरीन्द्रसेव्ये ॥१८॥(ग) गीतानते तरुतरे प्रणमामि नित्यंगात्रेश्वरी गतिहरे गणनाथसेव्ये ।गायन्ति ते चरणपङ्कजसारगीतंरक्षाप्रचण्डकलुषादनुपेक्षणीयम् ॥१९॥(घ) दीर्घस्वरे घनवरे घनघोरनादेघोरानने नवघने घटनाघनानाम् ।घोरास्पदे घटगते घटशून्यकर्त्रित्वं काकिनी समवतु क्षितिदोषजालात् ॥२०॥ (ङ)आनुस्वरे स्मरहअरे ननु रुपविद्येसंयोगिनीप्रबलशत्रुविनाशभूते ।रक्षेऽतिरक्ष करुणां कुरु देहि मोक्षं(च) चण्डि प्रचण्डनयने चरणं भजे ते ॥२१॥(छ) छत्रप्रदे छलहरे छदवासिनी त्वंछद्मस्थिते हयदयपङ्कजदक्षयोगे ।(ज) त्वां पूजये जयधरे यदुनाथजन्योजाये जयं यदिह देहि पदं भजामि ॥२२॥(झ) झङ्के झनज्वलयतीह रिपुं पिबन्तित्वं कौशिकी सकलदेहाविशोधनी त्वम् ।(न) नित्येऽनुनासिकपदे सकलर्थदे त्वं(ञ) रक्षां कुरुष्व विपदे कुलपुञ्जगुञ्जे ॥२३॥(ट) टङ्कारगेऽट्टहसने टललेऽट्टहासे(ठ) ठाक्कारिणी सठहरा परिनिष्ठिता त्वम् ।सिंहेष्टपृष्ठनिलयेऽस्थिरयोगभावंह्रत्पद्मके कुरु सदा सकलार्थदात्रि ॥२४॥फलश्रुतिएतत्स्तोत्रं पठेद्धीमान् ध्यानन्यासपरायणः । विभाव्य स्तौति यो योगी स योगी मोक्षभागभवेत् ॥२५॥ह्रत्पङ्करुहमध्यस्थं स पश्यति जतत्त्रम् । अष्टसिद्धियुतः शीघ्रं जीवन्मुक्तो भवेन्नरः ॥२६॥॥ इति श्रीरुद्रयामले महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे काकिनीस्तोत्रविन्यासो नामोनषष्टितमः पटलः ॥५९॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP