संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चाशत्तमः पटलः| विजयाभक्षणमन्त्रः पञ्चाशत्तमः पटलः विजयाभक्षणमन्त्रः चतुःपञ्चाशत्तमः पटलः - विजयाभक्षणमन्त्रः पञ्चद्रव्यदिसाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विजयाभक्षणमन्त्रः Translation - भाषांतर आनन्दभैरवी उवाचपरापराविभेदज्ञ निगूढज्ञानसाधनम् ।इदानीं श्रृणु सर्वज्ञ पञ्चद्रव्यादिसाधनम् ॥१॥पञ्चसिद्धद्रव्यशोधनकथनम्षट्चक्रपद्मभेदार्थं यत्क्रमाज्जायते क्षणात् ।अमरश्चामरा चैव सर्वसिद्धिप्रदायिका ॥२॥ब्रह्मज्ञानसाधनी च ब्रह्मानन्दस्वरुपिणी ।अमरलता तथा ध्येया दूर्वासंज्ञा प्रतिष्ठिता ॥३॥सिद्धामरा च निर्गुण्डी सर्वसिद्धिप्रदायिका ।नीलामरा ततो ग्राह्या नीलतुलसीङिता ॥४॥अमरुः समयापत्रं चामरा विल्वपत्रिका ।शिवप्रिया सदा पूज्या पूर्वोक्तावासमाश्रयेत् ॥५॥एतभक्षणमन्त्राणि श्रृणु कैलासभूपते ।ब्राह्मणी क्षत्रिया वैश्या शूद्रा चक्रमती जया ॥६॥तत्तन्मन्त्रेण संशोध्य भक्षयेन्मनुनामुना ।सर्वासाम मरादीनां भक्षणे समुदीरिता ॥७॥प्रणवं दीर्घप्रणवं कपिले ज्ञानसाधनि ।मम योगं साधयेति स्वरेण सम्पुटम् ॥८॥शाखासमूहसम्पूर्णे महौषधिनिवासिनि ।मामेकममरं देहि कुरु युग्मं ततो द्विठः ॥९॥अमराशनमन्त्राणि श्रृणुष्व पार्वतीश्वर ।यस्य स्मरणमात्रेण नरो नारायणो भवेत् ॥१०॥शिववद् विहरेल्लोके बिल्वपत्रस्य भक्षणात् ।श्रीबीजत्रमुद्धृत्य वाग्देवीत्रितयं ततः ॥११॥लक्ष्मीकामेश्वरीबीजं रमाकामत्रयं त्रयम् ।सिद्धविश्वेशि परमे निगूढतरुवासिनि ॥१२॥मामेकं ज्ञानतत्त्वेऽन्ते नियोजय युगं द्विठः ।एतन्मन्त्रेण वीरेन्द्रो विधितत्त्वाख्यमुद्रया ॥१३॥शोधयित्वा पुनर्नाथ चामरां शोधयेत्ततः ।दूर्वा देवी त्रिभुवने अमृतत्त्वप्रदायिनि ॥१४॥ग्रन्थिच्छेदभेदवारी प्रणवाद्ये परे रमा ।ततो हि विष्णुबीजञ्च किङिकणी बीजमुद्धरेत् ॥१५॥राजराजेश्वरीबीजं श्रीबीजं त्रीणि तत्परम् ।सुधाखण्डे मामिहान्ते सिद्धामरपदं लिखेत् ॥१६॥देहि देहि नमः स्वाहाशब्दमुच्चार्य शोधयेत् ।एतद्भक्षणमात्रेण चिरकालं सुखी भवेत् ॥१७॥सर्वसंयोगमात्रेण सिद्धो भवति साधकः ।सिद्धामराशोधनं तु श्रृणु श्रीचन्द्रशेखर ॥१८॥सिद्धामरा च निर्गुण्डी त्रिषु लोकेषु गोपिता ।एतत्प्रधानं मूलञ्च पत्रं वा चालयेत् सुधीः ॥१९॥मूलभावे दलं ग्राह्यं दलाभावे न मूलकम् ।आनयेत् साधकश्रेष्ठः शोभनेन दिनेन तु ॥२०॥तदा भवति सिद्धिश्च कौलानां नियमो नहि ।कौलिके सर्वसिद्धिश्च कौलिके योगसाधनम् ॥२१॥कुलाचारविहीनानां योगभोगदिकं कथम् ।विना योगेन भोगदिसञ्चयो जायते कथम् ॥२२॥योगसाधनमात्रेण भोगसाधनामालभेत् ।तद्भोगं परमं ज्ञान कालामृतनिसेवनम् ॥२३॥विषयाहलाभोगादिरनायासेन वर्धते ।शरीरिणामादिकार्य शरीरस्य प्रभो प्रियम् ॥२४॥शीतलामृतरुपाढ्यं व्यक्ताव्यक्तप्रकारकम् ।आदिसाधनमेवं हि कथितं स्नेहहेतुना ॥२५॥वल्लभ प्राणरक्षार्थे शोकार्तिवारणाय च ।पुनस्तु कथये तुभ्यं निर्गुण्डीशोधनं मनुम् ॥२६॥निर्गुण्डीशोधनमन्त्रकथनम्ॐ निर्गुण्डि महामाये महायवनिवासिनि ।आयुरारोग्यजननि ब्रह्मशब्दनिवासिनि ॥२७॥मदीयं सकलं कायं शुद्धं कुरु युगं ततः ।नान्तयुग्मं बिन्दुनादभूषितं चारुतेजसम् ॥२८॥चतुर्दशस्वरव्याप्तं (ठयुग) बिन्दुभूषितम् ।लक्ष्मीबीजत्रयं पश्चाद् रमाबीजमयं लिखेत् ॥२९॥वज्रकाय देहि देहि शब्दान्ते वहिनसुन्दरी ।एतन्मन्त्रेण संशोध्य भक्षयेत् साहकोत्तमः ॥३०॥ततोऽमरो भवेत् क्षिप्रं नात्र कार्या विचारणा ।तुलसीशोधनमन्त्रकथनम्तुलसीशोधनं वक्ष्ये श्रृणुष्व परमेश्वर ॥३१॥यत्कृत्वा च निरोगी स्याद् बलवान् विजितेन्दियः ।प्रणवं वैष्णवी देवी सत्त्वज्ञाननिवासिनि ॥३२॥कामबीजत्रयान्ते तु मां रक्ष युगलं द्विठः ।एतच्छोधनमाकृत्य भक्षणं यः करोति च ॥३३॥कायसिद्धिर्भवेत्तस्य ध्यानधारणयोगिनः ॥३४॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे सिद्धमन्त्रप्रकरणे षट्मन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे पञ्चसिद्धद्रव्यशोधनं नाम चतुःपञ्चाशत्तमः पटलः ॥५४॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP