श्रीआनन्दभैरव उवाच
कथयस्व वरारोहे मणिपूरमनुक्रमम् ।
यज्ज्ञात्वा मुनयः सर्वे चाष्टसिद्धिमप्नुयुः ॥१॥

प्रजपन् गच्छति क्षिप्रं अनायास मनाहते ।
मन्त्रार्थं मन्त्रचैतन्यं निजविग्रहरक्षणम् ॥२॥

तत्परापरग्रन्थिस्थं विचार्य वक्तुमर्हसि ।
श्रीआनन्दभैरवी उवाच
महाभैरव कालाग्ने मनुज्ञानं निशामय ॥३॥

कथयामि तव स्नेहादतिकोमलसाधनम्
मन्त्राणां मन्त्रचैतन्यं विषयानि श्रृणु प्रभो ॥४॥

मणिपूरे त्वनायासे यत्प्रसादात् स्थिरो भवेत् ।
एतत्करणमात्रेण योगी भवति निश्चितम् ॥५॥

कोटिकोटिमन्त्रजालं तदर्थकोटयः स्मृताः ।
एतन्मध्ये सारभागं कथयामि कुलार्णव ॥६॥

सर्वत्र समभावेन संस्मरन् मन्त्रमुत्तमम् ।
शरीरमपरिच्छिन्नं ब्रह्माण्डं सचराचरम् ॥७॥

मूलदिमणिपूरान्तं त्रिगुणं मनुरुपकम् ।
वर्णमालामुपादाय मुहुर्मुहुर्जपेत् सुधीः ॥८॥

पूर्णतेजोमयीं ध्यायेत् कोटिकालाग्निरुपिणीम् ।
स्वदेवतां सदा ध्यायेन्मूलदिब्रह्मरन्ध्रके ॥९॥

तन्मूर्तिमपरिच्छेन्नां गूढस्थाननिवासिनीम् ।
गभीरोर्ध्वगलानन्दां सुधासागरवासिनीम् ॥१०॥

यज्ज्ञात्वा ब्रह्मतुल्यं स्याद् ब्रह्मरन्ध्रे विभावनात् ।
मूलरन्ध्रे मुदा ध्यायेत् कोटिकालानलोज्ज्वलम् ॥११॥

ज्वलन्तं ध्यानकुर्यादूर्ध्वशिखाप्रभाकरम् ।
सुधारसमोदमुग्धं हव्याग्निदृशोज्ज्वलम् ॥१२॥

ललाटं चिन्तयेत् कान्तं पूर्णेन्दुकोटिसङुकुलम् ।
विगलद्रसपुञ्जं तु तद्रसप्रोज्ज्वलाननम् ॥१३॥

स्थिरवायुस्थिराकारं मन्त्रार्थं चेति भावयेत् ।
अथवा शुद्धसङ्काशं पूर्णब्रह्ममयूखगम् ॥१४॥

मूलादिब्रह्मन्ध्रान्तं मूलं ध्यात्वा पुनः पुनः ।
विचिन्तयेत् सूक्ष्मरुपां महागुर्वीं स्वदेवताम् ॥१५॥

मन्त्रार्थं चेति तज्ज्ञानं तज्ज्ञानान्मोक्षमाप्नुयात् ।
मन्त्रार्थज्ञानमात्रेण सिद्धिनिर्वाणमाप्नुयात् ॥१६॥

न स्थूलं नातिसूक्ष्मं गुणमयवपुषं विश्वनाथं स्वशक्तिं
स्वानन्दानन्दचित्तं कलिफलमचलं चञ्चलं शुक्लरक्तम् ।
पीनापीनादिरुपं त्रिगुणगगमनं मूलपद्मदिवक्त्रे
विश्वात्मानं कुलाख्यं मनुगुणजडितं भावयेत्सिद्धलोकः ॥१७॥

चतुःषष्टिक्षेत्रे त्रिगुणणजननीं ध्याननिपुणां
(महा) मन्त्राकारां भुवनकरुणां बोधविषये ।
महाविद्यामाद्यां मनुमयरसाच्छन्नतनुता
मवाप्यामन्दाब्धौं कुलपथि भजन्तीह रसिकाः ॥१८॥

समस्तं शून्यार्थं रजतघटनारायणमयं
विसर्गं विन्दुस्थं रविशशिकला वहिनकिरणम् ।
जगद् व्यापाराङु भवविरहितं भावजडितं
विकाराधाराह दशदलबिले स्थापयति धीः ॥१९॥

सुरासुरभयप्रदं तरुणरुपशोभाकरं
मनोहरकलेवरं सकलदेहसंज्ञापनम् ।
भजन्ति मुनयो नृपा यतय इन्द्रदेवादयो
दशच्छदनिकेतने प्रकृतिदेहमध्यस्थितम् ॥२०॥

प्रचण्डवचनाश्रय ध्वनिकलापसम्मर्दनं
महोत्कटतपः प्रियं भजति चाशुतोषं शिवम् ।
निधाय ह्रदि पङ्कजे किमपि नाभिमूलेऽपि वा
विभावगुणभावनं परिकरोति योगी महान् ॥२१॥

स्वकीयगुणसत्त्वके कठिनचित्तसंज्ञार्पणं
चतुर्भुजकलेवरे दशकलाधरेन्दीवरे ।
मनोहरहरं परमसारमाद्याक्षरं
प्रकृत्य परमेश्वरे प्रणवरुपमारोपये ॥२२॥

विविक्तमतिनिर्मलं कमलहासमाल्याश्रयं
शिवं शतकभास्करं सकलदेहमध्येऽपि वा ।
भुजायुतधर धराधरधरं हि मुद्राधरं
भजन्ति कुलकामिनीपतय ईशवेश्मास्पदा ॥२३॥

सदा चरणपङ्कजे विवहानिमुद्रात्पये
कृपामयसलक्षणं गतिगसत्वसम्भावनम् ।
सदैकगुनभावनं परमदेवदेवस्य या
त्रिलोकजननीपते रमणमेव कुर्याद्वशी ॥२४॥

एवं कृत्वा निरालम्बीविश्वासध्यानवान्नरः ।
अकस्मान्मन्त्रचैतन्यं प्राप्नोत्यर्थविनिर्णयम् ॥२५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे मन्तार्थ चैतन्यविन्यासो नाम द्विपञ्चाशत्तमः पटलः ॥५२॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP