संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथाष्टचत्वारिंशः पटलः| मृत्युंजयस्तोत्रम अथाष्टचत्वारिंशः पटलः मृत्युंजयस्तोत्रम अथाष्टचत्वारिंशः पटलः - मृत्युंजयस्तोत्रम मृत्युंजयस्तवनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मृत्युंजयस्तोत्रम Translation - भाषांतर आनन्दभैरव उवाचश्रुतं च साधनं पुण्यं महारुद्रस्य सुन्दरि ।मणिपूरे प्रकाशञ्च कथितं ज्ञाननिर्णयम् ॥१॥अकस्मात् सिद्धिसम्पत्तिं नुतिं वद महाप्रियाम् ।यस्य श्रवणमात्रेण पाठेन योगिनीवशम् ॥२॥श्रीआनन्दभैरवी उवाचपरमानन्ददेवेश योगानामधिप प्रभो ।स्तोत्रं रुद्रस्य वक्ष्यामि सारात्सारं परात्परम् ॥३॥यज्ज्ञात्वा योगिनः सर्वे षट्चक्रपरिभेदकाः ।आकाशगामिनः सर्वे र्स्वगमोक्षाभिलाषुकाः ॥४॥महादेवसमाः सर्वे देवाश्च स्वर्गभोगिनः ।सर्वरक्षाकरं स्तोत्रं ये पठन्ति निरन्तरम् ॥५॥ते यान्ति ब्रह्मसदनं सिद्धमुख्या महीतले ॥६॥ॐ भजामि शम्भुं सुखमोक्षहेतुंरुद्रं महाशक्तिसमाकुलाङुम् ।रौद्रात्मकं चारुहिमांशुशेखरंकालं गणेश सुमुखाय शङ्करम् ॥७॥मृत्युञ्जयं जीवनरक्षकं परंशिवं परब्रह्मशरीरमङुलम् ।हिमांशुकोटिच्छविमादधानंभजामि पद्मद्वयमध्यसंस्थितम् ॥८॥सर्वात्मकं कामविनाशमूलंतं चन्द्रचूडं मणिपूरवासिनम् ।चतुर्भुजं ज्ञानसमुद्रयाढ्यंपाशं मृगाक्षं गुणसूत्रव्यातम् ॥९॥धरामयं तेजसमिन्दुकोटिंवायुं जलेशं गगनात्मकं परम् ।भजामि रुद्रं कुललाकिनीगतंसर्वाङुयोगं जयदं सुरेश्वरम् ॥१०॥शुक्रं महाभीमनयं पुराणंप्राणात्मकं व्याघिविनाशमूलम् ।यज्ञात्मकं कामनिवारणं गुरुंभजामि विश्वेश्वरशङ्करं शिवम् ॥११॥वेदागमानामतिमूलदेशंतदुद्भवं भद्रहितं परापरम् ।कालान्तकं ब्रह्मसनातनप्रियंभजामि शम्भुं गगनादिरुढम् ॥१२॥शिवागमं शब्दमयं विभाकरम् भास्वत्प्रचण्डानलविग्रह ग्रहम् ।ग्रहस्थित ज्ञानकरं करालम्भजामि शम्भुं प्रकृतीश्वरं हरम् ॥१३॥छायाकरं योगकरं सुखेन्द्रंमत्तं महामत्तकुलोत्सवाढ्यम् ।योगेश्वर योगकलानिधिं विधिंविधानवक्तारमह्म भजामि ॥१४॥हेमाचलालङ्कृतशुद्धवेशं वराभयादाननिदानमूलम् ।भजामि कान्तं वनमालशोभितंचामूल पद्मामलमालिनं कुलम् ॥१५॥स्वयं पुराणं पुरुषेश्वरं गुरुंमिथ्या भयाहलादविभाविनं भजे ।भावप्रियं प्रेमकलाधरं शिवंगिरिश्वरं चारुपदारविन्दम् ॥१६॥ध्यानप्रियं ज्ञानगभीरयोगंभाग्यास्पदं भाग्यसमं सुलक्षणम् ।शूलायुधं शूलविभूषिताङुंश्रीशङ्कर मोक्षफलक्रियं भजे ॥१७॥नमो नमो रुद्रगणेभ्य एवंमृत्युञ्जयेभ्यः कुलचञ्चलेभ्यः ।शक्तिप्रियेभ्यो विजयादिभूतयेशिवाय धन्याय नमो नमस्ते ॥१८॥बाह्य त्रिशूलं वरसूक्ष्मभावंविशालनेत्रं तनुमध्यगामिनम् ।महाविपद् दुःखविनाशबीजंप्रज्ञादया कान्तिकरं भजामि ॥१९॥पुरान्तकं पूर्णशरीरिणं गुरुंस्मरारिमाद्यं निजतर्कमार्गम् ।अनादिदेवं दिवि दोषघातिनम्भजामि पञ्चाक्षरपुण्यसाधनम् ॥२०॥दिगग्बरं पद्ममुखं करस्थंस्थितिक्रियायोगनियोजनं भवम् ।भावात्मकं भद्रशरीरिणं शिवंभजामि पञ्चाननमर्कवर्णम् ॥२१॥मायामयं पङ्कजदामकोमलंदिग्व्यापिनं दण्डधरं हरेश्वरम् ।त्रिपक्षकं त्र्यक्षरबीजभावंत्रिपद्ममूलं त्रिगुणं भजामि ॥२२॥विद्याधरं वेदविधानकार्यंकायागतं नीतनिनादतोषम् ।नित्यं चतुर्वर्गफलादिमूलंवेदादिसूत्रं प्रणमामि योगम् ॥२३॥वेदानवेद्यं कुलशास्त्रविज्ञंक्रियामयं योगस्वधर्मदानम् ।भक्तेश्वरं भक्तिपरायणं वरंभक्तं महाबुद्धिकरं भजाम्यहम् ॥२४॥गतागतं गम्यगम्यभावंसमुल्लसत्मोटिकलावतंसम् ।भावात्मक भावमय सुखासुखंभजामि भर्गं प्रथमारुणप्रभम् ॥२५॥बिन्दुस्वरुपं परिवादवादिनंमध्याहनसूर्यायुतसन्निभं नवम् ।विभूतिदानं निजदानदानंदानात्मकं तं प्रणमामि देवम् ॥२६॥कुम्भापहं शत्रुनिकुम्भघातिनंदैत्यारिमीशं कुलकामिनीशम् ।प्रीत्यान्वितं चिन्त्यचिन्त्यभावंप्रभाकराहलादमहं भजामि ॥२७॥त्रिमूर्तिमूलाय जयाय शम्भवेहिताय लोकस्य वपुर्धराय ।नमो भयच्छिन्नविघातिने पते नमो नमो विश्वशरीरधारिणे ॥२८॥तपःफलाय प्रकृतिग्रहायगुणात्मने सिद्धिकराय योगिने ।नमः प्रसिद्धाय दयातुरायवाञ्छाफलोत्साहविवर्धनाय ते ॥२९॥शिवम मरमहान्तं पूर्णयोगाश्रयन्तंधरणिधरकराब्जैर्वधमानं त्रिसर्गम् ।विसम मरणघातं मृत्युपूज्यं जनेशविधिगणपतिसेव्यं पूजये भावयामि ॥३०॥एतत्स्तोत्रं पठेद् विद्वान् मुनिर्योगपरायणः । नित्यं जग्न्नाथगुरुं भावयित्वा पुनः पुनः ॥३१॥मणिपूरे वायुनिष्ठो नित्यं स्तोत्रं पठेद् यदि ।जीवन्मुक्तिश्च देहान्ते परं निर्वाणमाप्नुयात् ॥३२॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने रुद्रमृत्युञ्जयस्तवनं नाम अष्टचत्वारिंशत्तमः पटलः ॥४८॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP