संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चचत्वारिंशः पटलः| कालक्रमकथनम् पञ्चचत्वारिंशः पटलः कालक्रमकथनम् पञ्चचत्वारिंशः पटलः - कालक्रमकथनम् वर्णध्यानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कालक्रमकथनम् Translation - भाषांतर आनन्दभैरवी उवाचअथ कालक्रमं वक्ष्ये यत्काले योगिराड् भवेत् ।तत्कालं प्राणवायूनां निलयं सूक्ष्मसञ्चयम् ॥१॥पुनः पुनः सञ्चयने दृढो भवति संवशी ।क्रियायां सञ्चरन्त्येव योगिन्यो योगमातरः ॥२॥यत्काले यत्प्रकर्त्तव्यं भानुरुप्यकुलार्णव ।काले काले वशो याति परमात्मा निरामयः ॥३॥विना प्रयोगसारेण विना जाप्येन शङ्कर ।कः सिद्धो जायते ज्ञानी योगी भवति कुत्र वा ॥४॥अभ्यासमन्त्रयोगेन शनैर्योगी भवेन्नरः ।प्रभाते ज्ञानशौचञ्च कुण्डलीभावनादिकम् ॥५॥तन्मध्ये चापि संस्कुर्याद् योगं पञ्चामरादिकम् ।ततो मन्त्रस्नानकार्यं मस्तके जलसेचनम् ॥६॥सन्ध्यावन्दन कार्यञ्च ततः कुर्यात् पृथक् पृथक् ।तत उत्थाय सद्भूमौ शुद्धकोमलजासने ॥७॥उपविश्य सदाभ्यासी शुद्धकायासनञ्चएत् ।तत्कार्यसमये नाथ ध्यानं चैतन्यमेव च ॥८॥कुण्डलिन्याः सदा कुर्यात तन्मध्ये जपमेव च ।आसनं सुन्दरं कुर्यात् सव्यापसव्यभेदतः ॥९॥आसनादिकमाकृत्य शेषे सुस्थासनं चरेत् ।सुस्थासनं समाकृत्य चोर्ध्वपद्मासनं चरेत् ॥१०॥मस्तकाधः केशमध्ये हस्तौ दत्त्वा मनुं जपेत् ।चतुरशीतित्रिगुनमासनं भञ्जनं तथा ॥११॥प्रत्यासनं क्रमेणैव एतेषां द्विगुणं पुनः ।एतेषामासनादीनां वक्तव्या सड्ख्यका पुनः ॥१२॥अष्टाङुसाधने नाथ वक्तव्यं सर्वमासनम् ।प्राणायामं षोडशकमथ वा द्वादशादिकम् ॥१३॥स्वकर्णगोचरं कृत्वा पिबेद्वायुं सदा बुधः ।ततः समाप्य तत्कार्यं मन्त्रयोगं समभ्यसेत् ॥१४॥समाप्य मन्त्रयोगं च प्राणायामत्रयं चरेत् ।तत उत्थाय नद्यादिं विलोक्य चान्तरात्मनि ॥१५॥स्नानं कृत्त्वा महायोगी मानसादिक्रमेण तु ।तत्रैव मानसं जापं समाप्य जपमेव च ॥१६॥एकप्राणायामं कुर्यात् कृत्त्वा तीरे विशेत् सुधी ।पिधाय पीतवसनं धर्माधर्मं विचिन्तयेत् ॥१७॥ततः सन्ध्यावन्दनं च कृत्त्वा पूजाविधिं चरेत् ।सर्वत्र कुम्भकं कृत्त्वा भावयित्त्वा पुनः पुनः ॥१८॥मणिपूरे महापीठे ध्यात्वा देवीम कुलेश्वरीम् ।पूजयित्त्वा विधानेन प्राणायामं पुनश्चरेत् ॥१९॥ततः कुर्यात् साधकेन्द्रो विधिना कवचस्तवम् ।सर्वत्र प्रानसंयोगाद् योगी भवति निश्चितम् ॥२०॥अथवा कालजालानां वारणाय महर्षिभिः ।एतत् कार्यं समाकुर्याद् योगनिर्णयसिद्धये ॥२१॥विना योगप्रसादेन (न) कालः संवशो भवेत् ।कालेन योगमाप्नोति योगध्यानं स्वकालकम् ॥२२॥योगाधीनं परं ब्रह्म योगाधीनं परन्तपः ।योगाधीना सर्वसिद्धिस्तस्माद् योगं समाश्रयेत् ॥२३॥योगेन ज्ञानमाप्नोति ज्ञानान्मोक्षमवाप्नुयात् ।तत्क्रमं श्रृणु भूचक्रे सर्वसिद्धयदिसाधानम् ॥२४॥सिद्धिसाधनमन्त्रेण योगी भवति भूपतिः ।शीघ्रं राजा भवेद् योगी शीघ्रं योगी भवेद् यतिः ॥२५॥शीघ्रं योगी भवेद्विप्रो यदि स्वधर्ममाश्रयेत् ।स्वधर्मनिषठताज्ञानं सज्ज्ञानं परमात्मनः ॥२६॥तज्ज्ञानेन लभेद् योगं योगाधीनाश्च सिद्धयः ।सिद्धयधीनं परं ब्रह्म तस्माद् योगं समाश्रयेत् ॥२७॥ द्स्वधर्मनिष्ठताज्ञानं स तज्ज्ञानं समाश्रयेत् ।योगयोगद्भवेन्मोक्षो मम तन्त्रार्थनिर्णयः ॥२८॥योगी ब्रह्मा मुरारिश्च तथा योगी महेश्वरः ।तथा योगी महाकालः कौलो योगी संशयः ॥२९॥मणिपूरभेदने तु यत्नं कुर्यात् सदा बुधः ।यदि चेन्मणिपूरस्थदेवताभेदको भवेत् ॥३०॥सर्वक्षणं सुखी भूत्वा चिरं तिष्ठति निश्चितम् ।महाप्रभं सुन्दरञ्च महामोहनिघातनम् ॥३१॥मेघाभं विद्युताभं च पूर्णजोमयं परम् ।मणिभिर्ग्रथितं पद्मं मणीणां पूरमेव च ॥३२॥सूर्यकान्तै श्चन्द्रकान्तैर्वहिनकान्तैर्महोज्ज्वलैः ।इत्यादिमणिभिः सर्वं परं कान्तिगुणोदयम् ॥३३॥निविडे जलदे मेघे कोटिविद्युत्प्रभा यथा ।तत्प्रकारं भावनीयं सिद्धानां ज्ञानगोचरम् ॥३४॥अत्यन्तसूक्ष्ममार्गस्थं मणिपूर चक्रसाधनय हि योगिनाम् ।मणिभिः शोभितं पद्मं मणिपूरं तथोच्यते ॥३५॥दशकोमलपत्रैश्च समायुक्तं मनोहरम् ।डादिफान्तवर्णयुक्तं स्थिरविद्युत्समाकुलम् ॥३६॥शिवेनाधिष्ठितं पद्मं विश्वालोकनकारकम् ।आदौ वर्णरुपकाणां ध्यानं कुर्यात् स्वधामयः ॥३७॥महापद्मे मनो दत्त्वा निर्मलं परिभावयेत् ।डादिफान्ताक्षराणां च ध्यानज्ज्ञानस्थिरो भवेत् ॥३८॥मनोधैर्यमुपागम्य दिव्यभक्तिं समालभेत् ।वर्णध्यानं प्रवक्ष्यामि श्रृणुष्व परमेश्वर ॥३९॥यद्विभाव्यामरो भूत्वा चिरं तिष्ठति मानवः ।महाधैर्यक्रियां कुर्याद् वायुपानं शनैः शनैः ॥४०॥यत्र यत्र मनो याति तन्मयस्तत्क्षणाद् भवेत् ।पूर्वदिदलमारभ्य ध्यानं कुर्यात् पृथग् पृथक् ॥४१॥ डां डां डां डाकिनीन्ता डमरुवररतां पूर्व दिक्षलगतवर्णानाम् ध्यानाम् तारिणीं ताररुपांडिं डिं डिं डामरस्थां डमरुडमगृहे डङ्कडिकिं मनुस्थाम् ।डं डं डं डामरेशीं डिमिडिमिडिमिगध्वननिर्माणडोरांडों डों डों डाकडं डः प्रडुम डमुडा दाडिमामाश्रयामि ॥४२॥ढां ढां ढां गाढढक्कां वरनिकरकरां बाढ्यमाबाढमन्त्रांढिं ढिं ढिं नागरुपां भज भज विमलानन्दचित्तप्रकाशः ।श्रीं ढें ढें वज्रढूं खा खवट मटमरं स्वाहया टोंटबीजां ढों ढों ढों ढक्कढक्कः प्रियढुनकरुणाकामिनीं लाकिनी ताम् ॥४३॥बाणस्थित्यसंस्था रुचिनकरवनाकारणा वाणवाणिंवीणां वेणूत्सवाढ्यां मणिगुणकरुणां नं खटीजप्रवीणम् ।वेणुस्थानां सुमानां मणिमयपवमामन्त्रमालविलोलांसिन्दूरारक्तवर्णां तरुणघननवीनामलां भावयामि ॥४४॥तारां तारकमञ्जालविमलां तालादिसिद्धिप्रदांताङङ्कमति तेजसा मुनिमनोयोगं वहन्तीं पराम् ।तां तारां तुलसीं तुलां तनुतटां तर्कोद्भवां तान्त्रिकांश्रीसूर्यायुततेजसीं भज मनः श्रीमातरं तापसीम् ॥४५॥व्यग्रस्थां स्थानसुस्थां स्थितिपथपथिकां थार्णाकूटां थमालींगाथां योगां विपथां थमिति थमिति थं वहिनजायां स्थिरासाम् ।चन्द्रज्योत्स्नास्थलस्था स्थिरपदमथनामुज्ज्वलामासनस्थांस्थैर्यां स्थैर्याभिरामां प्रणव नव सुधाम चन्द्रवर्णां भजामि ॥४६॥द्रां द्रीं द्रूं दीर्घदंष्ट्रा दशनभयकरां साट्टहासां कुलेशींदोषच्छत्रापहन्त्रीं दिवितरणदशा दायिनीमादरस्थाम् ।श्लिष्टाहलदप्रदीप्तामखिलधनपदां दीपनीं भावयामि ॥४७॥धर्मां श्री ध्यानशिक्षां धरणिधरधराम धूमधूमावतीं तांधूस्तूराकारवक्रां कुवलयधरणीं धारयन्तीं कराब्जम् ।विद्युन्मध्यार्ककोटिज्वलनधरसुधां कोकिलाक्षीं सुसूक्ष्मां ध्यात्वा हलादैकसिद्धि धरणधनानिधिं सिद्धिविद्यां भजामि ॥४८॥नित्यं नित्यपरायणां त्रिनयनां बन्धूकपुष्पोज्ज्वलांकोट्यर्कायुतसंस्थिराम नवनवां हस्तद्वयाम्भोरुहाम् ।नानालक्षणधारणामलविधुश्रीकोटिरश्मिस्थितांसानन्दाम नगनन्दिनीं त्रिगुणगां नं नं प्रभां भावये ॥४९॥प्रीतिं प्रेममयीं परात्परतरां प्रेष्ठप्रभापूरितांपूर्णां पूर्णगुणोपरि प्रलपनां मांसप्रियां पञ्चमाम् ।व्यापारोपनिपातकापलपना पानाय पीयूषपांचित्तं प्रापय पीतकान्तवसनां पौराणिकीं पार्वतीम् ॥५०॥स्फें स्फें समें फणिवाहनाम फणफणां फुल्लारविन्दाननांफेरुणां वरघोरनादविकटास्फालप्रफुल्लेन्मुखीम् ।फं फं फं फणिकङ्क्णां फणिति फं मन्त्रैसिद्धेः फलांभक्त्या ध्यानमहं करोमि नियत् वाञ्छाफलप्राप्तये ॥५१॥विद्युताङ्कारमध्ये तु बिजलीरक्तवर्णकान् ।एवं ध्यात्वाखिलान् वर्णान्रक्तविद्युद् दलोद्यताम् ॥५२॥सदा ध्यायेत् कुण्डलिनीं कर्णिकामध्यगामिनीम् ।वरहस्तां विशालाक्षीं चन्द्रावयवलक्षणाम् ॥५३॥चारुचन्दनदिगधाङी फणिहारविभूषणाम् ।द्विभुजां कोटिकिरणां भालसिन्दूरशोभिताम् ॥५४॥त्रिनेत्रां कालरुपस्थां लाकिनीं लयकारिणीम् ।सिद्धिमार्गसाधनाय ध्यायेद् वर्णान् दश क्रमात् ॥५५॥ न्चतुर्भुजा षड्भुजां च अष्टहस्तां परापराम् ।दुर्गां दशभुजां देवी निजवाहनसुस्थिताम् ॥५६॥ म्सर्वास्त्रधारिणीम सर्वां हस्तद्वादशशोभिताम् ।चतुर्दशभुजां रौद्रीं तथा षोडशपालिनीम् ॥५७॥अष्टादशभुजां श्यामां हस्तविंशतिधारिणीम् ।एवं ध्यात्वा पूजयित्वा रुद्राणीस्तोत्रमापठेत् ॥५८॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे वर्णध्यानकथनं नाम पञ्चचत्वारिंशत्तमः पटलः ॥४५॥ N/A References : N/A Last Updated : April 27, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP