आनन्दभैरवी उवाच
कृतान्तसंहारविहारभोगं
रसाप्लृतश्रीकर शङ्कर प्रभो ।
तवाज्ञयाऽहं कथयामि सिद्धये
मयागमानन्दवशाद्धि तन्त्रम् ॥१॥

प्रेमाभिलाषी सुजनो मुनीन्द्रो
जानाति तन्त्रार्थमनन्तसाधनम् ।
महाप्रभाते चरानाब्जभक्तो
गोविन्द शम्भोर्यदि भक्तिभाजनः ॥२॥

षड्‍चक्रभेदार्थविशेषसाधनं
जानाति यो वा स जनोऽतिदुर्लभः ।
स एव संसारनिषेधसाधनं
सदा विहायाचल भक्तिमाप्नुयात् ॥३॥

आनन्दभैरव उवाच
यदि वा कथिता कान्ते षड्‌दलप्रक्रिया शुभा ।
राकिण्या मिलनं देव्याः कुण्डलिन्याः पराक्रमम् ॥४॥

सार्द्ध श्रीविष्णुना कालरुपिणा बहुरुपिणा ।
शुद्धनिर्मलतत्त्वेन परिवारगणैः सह ॥५॥

न तद्धि कथितं सर्वं श्रीकृष्णस्य पराक्रमम् ।
स्तवनं देवराकिण्या सहितं कुष्णसाधनम् ॥६॥

मङुलं परमं ब्रह्मसाधनं कुलवर्द्धनम् ।
कृष्णप्रकाशस्तवनं राकिणीशक्तिसंयुतम् ॥७॥

कथयस्व महाकालि यदि स्नेहोऽस्ति मां प्रति ।
अत्यन्तगुह्यं कथनं सहस्त्र नाममङुलम् ॥८॥

अष्टोत्तरं महाविष्णो राकिण्या सहितं प्रिये ।
इदानीं राकिणीस्तोत्रं वद भामिनी कामदे ॥९॥

आनन्दभैरवी उवाच
योगेन्द्र परमानन्दसिन्धो श्रीचन्द्रशेखर ।
श्रृणुष्व राकिणीस्तोत्रं परमानन्दवर्धनम् ॥१०॥

सर्वत्र सुखदं प्रोक्तं सिद्धानामपि साधनम् ।
एतत् स्तवनपाठेन योगी योगेन्द्रभाक् भवेत् ॥११॥

वैष्णवीसाधने यस्तु पञ्चाचारं करोति वा ।
सर्वेषां साधनोत्कृष्टं जातिभ्रष्टोऽपि नो भवेत् ॥१२॥

समता शत्रुमित्रेषु कर्माकर्मसु तत्त्ववित् ।
यदि वा वैष्णवे नाथ समभावः प्रजायते ॥१३॥

पञ्चाचारक्रमेणैव सिद्धो भवति नान्यथा ।
राधादिगोपिकाभिश्च गोपवृन्दैः समन्ततः ॥१४॥

पञ्चाचारं मुदा कृत्वा सर्वेषां परिपालनम् ।
चकार कमलानाथोऽतः पञ्चाचारमाश्रयेत् ॥१५॥

पञ्चाचार क्रमेणैव चैतन्या कुण्डली भवेत् ।
कृष्णचैतन्यहेतोश्च राकिण्याश्च तथा प्रभो ॥१६॥

चैतन्याय षड्‌दलस्थदेव चैतन्यहेतुना ।
कुण्डलीवधुराकिण्याः स्तोत्रं श्रृणु कुलार्णव ॥१७॥

राकिणीराधिकास्तवम्
आन्देलिता रसनिधौ कुलचञ्चला या
माया मयो सकलदुःखविनाशवीरा ।
वीरासना स्थितिगता सुलभा मुनीनां
भव्या प्रपातु भविका कुलराकिणी माम् ॥१८॥

आनन्दसिन्धु जडिताखिलसारपाना
बाला कुलीननमिता दलषट्कुलस्था ।
काली कलामलगुणा धनिनां धनस्था
कृष्णेश्वरी समुदयं कुरु राकिणी मे ॥१९॥

या राकिणी त्रिज्गतामुदयाय चेष्टा
संज्ञामयी कुलवती कुलवल्लभस्था ।
विश्वेश्वरी स्मरहरप्रियकर्मनिष्ठा
कृष्णप्रिया मम सुखं परिपातु देवी ॥२०॥

षड्‌वर्गनाथकरपद्मनिषेविता या
राधेश्वरी प्रियकरी सुरसुन्दरी सा ।
माता कुलेशजननी जगतां मनुस्था
विद्या परा रिपुहरावत मे शरीरम् ॥२१॥

गोविन्दरामरमणी नवमालिनी या
राज्येश्वरी स्मरहरा नवकामिनी वा ।

मे षड्‌लाश्रितसुर परिपातु नित्यं
श्रीकुण्डली सुविमला कुलराकिणी सा ॥२२॥

श्रीसुन्दरी कुलपरा कुलवृन्दवन्द्या
सन्ध्याविधि प्रभवतामिकामतीर्था ।
श्रेदायिनी कुलगणामलभावदात्री
नित्यं प्रपातु विषयं कुलषद्लानाम् ॥२३॥

चैतन्यादाननिरता त्रिगुणाभिरामां
श्यामां नितम्बधृतसुन्दरत्नघण्टाम् ।
नीलाचल्स्थितकरां वरदानहस्तां
श्रीकृष्णवाम कमलोपरि पूजयामि ॥२४॥

तां राकिणी त्रिरमणीं समलापहन्त्रीं
सर्वस्थिता गगनमातरमम्बुजस्थाम् ।
पद्मासनां श्रुतिभुजां गुरुजामनन्तां
शान्तां षडम्बुजदलोपरि पूजयामि ॥२५॥

शान्तिं कृपाकपटकोपरि नाशमुक्तिं
शिवां परमवैष्णवपूजिताङि‌घ्रम् ।
राधां सुधां वरमयीं जगतां गुणस्थां
धर्मार्णवां रसदले परिपूजयामि ॥२६॥

कर्त्तीकरां सकरुणां रमणीं त्रिसर्गा
तां राकिणीमतिदयामलार्थचिन्ताम् ।
भ्रान्तिं भ्रमागमवरां स्मृतिमादिपूज्यां
भार्यां हरेरतिसुखां परिपूजयामि ॥२७॥

या कातरं निरवधिप्रणय स्ववस्था
वागीश्वरी भगवती यतिकोटिनम्रा ।
ताम्राकृति प्रकृति चेतसि रक्तवर्णा
मायामयी सुरकलावति पातु मेऽङुम् ॥२८॥

कल्पद्रुमाशयलता फलरुपिणी या
भर्गस्थिता पुरुषकोटिमुनिस्तुवन्ती ।
सा मे कुलेश्वररसं हरिहस्तपूज्या
क्षान्तिः सदा मम धनं परिपातु राधा ॥२९॥

क्षेमङ्करी वरकरी सुकरी हरिस्था
या सौकरी भवकरी त्रिपुरा महेशी ।
वायुस्थिता लयमयी स्थितिमार्गसङा
भङुप्रिया सकलका परिपातु राधा ॥३०॥

गङा निर्मलभावदा ममशिरोदेशं सदा रक्षतु
श्रीराधा कुलराकिणी मम कपालोर्ध्व महावाकप्रिया ।
मन्त्रस्था जयदा मुदा कुमुदिनी भालं भ्रुवोरन्तरं
विद्या वाग्भकुण्डलीफलवलाबाला च नेत्रत्रयम् ॥३१॥

गण्ड चण्डसरस्वती श्रुतिकुलं कैलासशैलस्थिता
मेधा टं घटवासिनी शशीमुखी सूक्ष्मातिसूक्ष्माशया ।
जिहवाग्रं चिबुकं रदावधिवहा कण्ठं गलं स्कन्धगं
स्कन्देशी दशनप्रभामलमति - वैकुण्ठधामेश्वरी ॥३२॥

नानावर्णविलासिनी मृदुरसं शम्भोर्भवानी शिवा
पृष्ठं कर्मसु पृष्ठगा गतिकरी निल्योल्बणी भास्वती ।
पार्श्व मे कुलमालिनी मम कटिं लिङुं नितम्बाम्बरं
कामाख्या धनदायिनी सकरुणा पादद्वयं पातु सा ॥३३॥

मातृक्रोधनिवारिणी मम शिवं षट्पत्रशोभाकरं
पातु श्रीचरुवासिनी कुलतरुं गौरी परानन्ददा ।
चैतन्यस्थलवासिनी मम गता गोविन्द मातृप्रिया
चैतन्यं सततं प्रपातु धरणी धात्री वरक्षेत्रगा ॥३४॥

धन्या पिङुललोचनाम्बुजमुखी चैतन्यकर्मप्रिया
सर्वत्र प्रियमाकरोतु नियतं शक्तिः क्षमाकर्तृका ।
कीर्तिस्था मम कीर्तिचक्रनिलयं लाक्षारुणा बल्वरी
नीचा चक्रनिवासिनी मम जया जीवं मुदा पातु माम् ॥३५॥

एतत्स्तोत्रं पठेन्नित्यं प्राणवायुवराशुभे ।
षट्चक्रभेदसमये सदा पाठय्‍ सुयोगिभिः ॥३६॥

कुलविन्याससमये कुलचक्रप्रवेशने ।
अवश्यं प्रपठेद्विद्वान् राकिणीराधिकास्तवम् ॥३७॥

त्रिसन्ध्यं चेदमाकुर्यात् पठित्वा च पुनः पुनः ।
ध्यात्वा भावपरो भूत्वा मुच्यते भवबन्धनात् ॥३८॥

अचलां भक्तिमाप्नोति विश्वामित्रो यथा वशी ।
पठनात् पामरो याति ब्रह्मलोकं कुलधिप ॥३९॥

एतत्पठनमात्रेण शीतलो गुणवान भवेत् ।
अप्रकाश्यमिदं स्तोत्रम सर्वान्तकविनाशनम् ॥४०॥

समभावं समाकृत्य जीवन्मुक्तो भवेद्वशी ।
पञ्चाचाररतो भूत्वा साधयेद् यदि साधनम् ॥४१॥

कुण्डलीयोगकाले च कुलाचारं न वर्जयेत् ।
कुलाचारवर्जनेन महाहानिः प्रजायते ॥४२॥

ब्राह्मणः क्षत्रियो वैश्यो वा शूद्र एव च ।
समभावं सदा कृत्वा कुलाचारं समाश्रयेत् ॥४३॥

कुण्डली पृथिवी देवी राकिणी स्वारिदेवता ।
तद्गेहगामिनी देवी राधिका राज्यकामिनी ॥४४॥

अस्याः साधनकाले च समयाचारमाश्रयेत् ।
समभावे महामोक्षे इति तन्त्रार्थनिर्णयः ॥४५॥

समभावार्थकथनं त्यक्त्वा योगी भवेत्कृती ॥४६॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे स्वाधिष्ठानराकिणीस्तोत्रं नामैकचत्वारिंशत्तमः पटलः ॥४१॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP