संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चत्रिंशः पटलः| पञ्चकर्मनिरूपनम पञ्चत्रिंशः पटलः पञ्चकर्मनिरूपनम पञ्चत्रिंशः पटलः - पञ्चकर्मनिरूपनम पञ्चस्वरयोगसाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पञ्चकर्मनिरूपनम Translation - भाषांतर आनन्दभैरवी उवाचअथ वक्ष्ये महाकाल रहस्यं चातिदुर्लभम ।यस्य विज्ञानमात्रेण नरो ब्रह्मपदं लभेत् ॥१॥आकाशे तस्य राज्यञ्च खेचरेशो भवेद् ध्रुवम् ।धनएशो भवति क्षिप्रं ब्रह्मज्ञानी भवेन्नरः ॥२॥योगानामधिपो राजा वीरभद्रो यथाकविः ।विरिञ्चिगणनाथस्य कृपा भवति सर्वदा ॥३॥यः करोति पञ्चयोगं स स्यादमरविग्रहः ।धौतीयोगं प्रवक्ष्यामि यत्कृत्वा निर्मलो भवेत् ॥४॥अत्यन्तगुह्यं योगं समाधिकरणं नृणाम् ।यदि न कुरुते योगं तदा मरणमाप्नुयात् ॥५॥धौतीयोगं विना नाथ कः सिद्धयति महीतले ।सूक्ष्मात्सूक्ष्मतरं वस्त्रं द्वात्रिंशद्धस्तमानतः ॥६॥एकहस्तक्रमेणैव यः करोति शनैः शनै ।यावद् द्वात्रिंशद्धस्तञ्च तावत्कालं क्रियाञ्चरेत् ॥७॥एतत्क्रिया प्रयोगेण योगी भवति तत्क्षणात् ।क्रमेण मन्त्रसिद्धिः स्यात् कालजालवशं नयेत् ॥८॥एतन्मध्ये चासनानि शरीरस्थानि चाचरेत् ।दृढासने योगसिद्धिरिति तन्त्रार्थनिर्णयः ॥९॥सिद्धे मनौ परावाप्तिः पञ्चयोगासनेन च ।पार्श्वे चाष्टाङ्गुलं वस्त्रं दीर्घ द्वात्रिंशदीश्वर ॥१०॥एतत् सूक्ष्मं सुवसनं गृहीत्वा कारयेद् यतिः ।जितेन्द्रियः सदा कुर्याद् ज्ञानध्याननिषेवणः ॥११॥कुलीनः पण्डितो मानी विवेकी सुस्थिराशयः ।धौतीयोगं सदा सदा कुर्यात्तदैव शुचिगो भवेत् ॥१२॥अनाचारेण हानिः स्यादिन्द्रियाणां बलेन च ।महापातकमुख्यानां सङुदोषेण हानयः ॥१३॥सम्भवन्ति महादेव कालयोगं सुकर्म च ।वृद्धो वा यौवनस्थो वा बालो वा जड एव च ॥१४॥करणाद्दीर्घजीवी स्यादमरो लोकवल्लभः ।मन्त्रसिद्धिरष्टसिद्धिः स सिद्धीनामधीश्वरः ॥१५॥शनैः शनैः सदा कुर्यात् कालदोषविनाशनात् ।ह्रदयग्रन्थिभेदन सर्वावयववर्धनम् ॥१६॥तदा महाबलो ज्ञानी चारुवर्णो महाशयः ।धौतीयोगोद्भवं कामं महामरणकारणम् ॥१७॥तस्य त्यागं यः करोति स नरो देवविक्रमः ।श्वासं त्यक्त्वा स्तम्भनञ्च मनो दद्यान्महानिले ॥१८॥श्वासादीनाञ्च गणनवश्यं भावयेद् गृहे ।प्राणायामविधानेन सर्वकालं सुखी भवेत् ॥१९॥वायुपानं सदा कुर्यात् ध्यानं कुर्यात्सदैव हि ।प्रत्याहारं सदा कुर्यात् मनोनिवेशनं सदा ॥२०॥मानसादिप्रजाप्यञ्च् सदा कुर्यान्मनोलयम् ।धौतीयोगान्तरं हि नेउलीलीङ्कर्म चाचरेत् ॥२१॥नेउलीयोगमात्रेण आसने नेउलोपमः ।नेउलीसाधनादेव चिरजीवी निरामयः ॥२२॥अन्तरात्मा सदा मौनी निर्मलात्मा सदा सुखी ।सर्वदा समयानन्दः कारणानन्दविग्रहः ॥२३॥योगाभ्यासं सदा कुर्यात् कुण्डली साधनादिकम् ।कृत्वा मन्त्री खेचरत्वं प्राप्नोति नात्र संशयः ॥२४॥तत्प्रकारं प्रवक्ष्यामि सावधानावधारय ।भुक्त्वा मुद्गान्नपक्वञ्च बारैकं प्रतिपालयेत् ॥२५॥प्रपालयेत्सोदरञ्च कटिनासाविवर्जितः ।पुनः पुनश्चालनञ्च कुर्यात् स्वोदरमद्यकम् ॥२६॥कुलालचक्रवत कुर्यात् भ्रामणञ्चोदरस्य च ।सर्वाङचालनादेव कुण्डलीचालनं भवेत् ॥२७॥चालनात् कुण्डलीदेव्याश्चैतन्या सा भवेत् प्रभो ।एतस्यानन्तरं नाथ क्षालनं परिकीर्तितम् ॥२८॥नाडीनां क्षालनादेव सर्वविद्यानिधिर्भवेत् ।सर्वत्र जयमाप्नोति कालिकादर्शनं भवेत् ॥२९॥वायुसिद्धिर्भवेत्तस्य पञ्चभूतस्य सिद्धिभाक् ।तस्य कीर्तिस्त्रिभुवने कामदेवबलोपमः ॥३०॥सर्वत्रगामी स भवेदिन्दियाणां पतिर्भवेत् ।मुण्डासनं हि सर्वत्र सर्वद कारयेद् बुधः ॥३१॥ऊद्र्ध्वे मुण्डासनं कृत्वा अधोहस्ते जपं चरेत् ।यदि त्रिदिनमाकर्तुं समर्थो मुण्डिकासनम् ॥३२॥तदा हि सर्वनाड्यश्च वशीभूता न संशयः ।नाडीक्षालनयोगेन मोक्षदाता स्वयं भवेत् ॥३३॥नाडीयोगेन सर्वार्थसिद्धिः स्यान्मुण्डिकासनात् ।मुण्डासन यः करोति नेऊलि-सिद्धोगो यदि ॥३४॥नेऊलीसाधनगतो नेऊलीसाधनोत्तमः ।तदा क्षालनयोगेन सिद्धिमाप्नोति साधकः ॥३५॥नेऊलीं यो न जानाति स कथ कर्त्तुमुत्तमः ।स धीरो मानसचरो मतिमान् स जितेन्द्रियः ॥३६॥यो नेऊली योगसारं कर्त्तुमत्तमपारगः ।स चावश्य क्षालनञ्च कुर्यात् नाड्यादिशोधनात् ॥३७॥नेऊलीयोगमार्गेण नाडीक्षालनपारगः ।भवत्येव महाकाल राजराजेश्वरो यथा ॥३८॥पृथिवीपालनरतो विग्रहस्ते प्रपालनम् ।केवलं प्राणवायोश्च धारणात् क्षालनं भवेत् ॥३९॥विना क्षालनयोगेन देहशुद्धिर्नजायते ।क्षालनं नाडिकादीनां कफपित्तमलादिकम् ॥४०॥करोति यत्नतो योगी मुण्डासननिषेवणात् ।वायुग्रहणमेवं हि नेऊलीवशकालके ॥४१॥न कुर्यात् केवलं नाथ अन्यकाले सदा चरेत् ।यावन्नेऊलीं न जानति तावत् वायुं न संपिबेत् ॥४२॥बहुतरं न सङ्ग्राह्यं वायोरागमनादिकम् ।केवलं श्वासगणनं यावन्नेऊलीं न सिद्ध्यति ॥४३॥पञ्चस्वरा प्रकथिता योगिनी सिद्धिदायिका ।पञ्चस्वरसाधनादेव पञ्चवायुर्वशो भवेत् ॥४४॥प्रतापे सूर्यतुल्यः स्यात् शोकदोषापहारकः ।सर्वयोगस्थिरतरं संप्राप्य योगिराड् भवेत् ॥४५॥॥ इति श्रीरुद्रयामले उत्तरमतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे भैरवभैरवी संवादे पञ्चस्वयोगसाधनं नाम पञ्चत्रिंशः पटलः ॥३५॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP