संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रयस्त्रिंशः पटलः| कुलकुण्डलीकवचम् त्रयस्त्रिंशः पटलः कुलकुण्डलीकवचम् त्रयस्त्रिंशः पटलः - कुलकुण्डलीकवचम् कन्दवासिनीकवचम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुलकुण्डलीकवचम् Translation - भाषांतर श्री आनन्दभैरवी उवाचअथ वक्ष्ये महादेव कुण्डलीकवचं शुभम् ।परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् ॥१॥यत्कृत्वा योगिनः सर्वं धर्माधर्मप्रदर्शकाः ।ज्ञानिनो मानिनो धर्मा विचरन्ति यथामराः ॥२॥सिद्धयोऽप्यणिमाद्याश्च करस्थाः सरदेवताः ।एतत् कवचपाठेन देवेन्द्रा योगिराड् भवेत् ॥३॥ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः ।प्रातःकाले त्रिवारं च मध्याहने वारयुग्मकम् ॥४॥सायाहने वारमेकं तु पठेत् कवचमेव च ।पठेदेवं महायोगी कुण्डलीदर्शनं भवेत ॥५॥कुलकुण्डलीकवचस्य ब्रह्मेन्द्र ऋषिर्गायत्री छन्दः कुलकुण्डलीदेवता सर्वाभीष्टसिद्धयर्थे विनियोगः ॥कुलकुण्डलीकवचम्ॐ ईश्वरी जगतां धात्री ललिता सुन्दरी परा ।कुण्डली कुलरुपा च पातु में कुलचण्डिका ॥६॥शिरो मे ललिता देवी पातूग्राख्या कपोलकम् ।ब्रह्ममन्त्रेण पुटिता भ्रूमध्यं पातु मे सदा ॥७॥नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् ।दन्तावली विशालाक्षी ओष्ठमिष्टानुवासिनी ॥८॥कामबीजात्मिका विद्या अधरं पातु मे सदा ।लृयुगस्था गण्डयुग्मं माया विश्वा रसप्रिया ॥९॥भुवनेशी कर्णयुग्मं चिबुकं क्रोधकालिका ।कपिला मे गलं पातु सर्वबीजस्वरुपिणी ॥१०॥मातृकावर्णपुटिता कुण्डली कण्ठमेव च ।ह्रदयं कालापृथ्वी च कङ्काली पाती मे मुखम् ॥११॥भुजयुग्मं चतुर्वर्गा चण्डदोद्र्दण्डखण्डिनी ।स्कन्धयुग्मं स्कन्दमाता हालाहलगता मम ॥१२॥अङ्गुल्यग्रं कुलानन्दा श्रीविद्या नखमण्डलम् ।कालिका भुवनेशानी पृष्ठदेशं सदावतु ॥१३॥पार्श्वयुग्मं महावीरा वीरासनधराभया ।पातु मां कुलदर्भस्था नाभिमुदरमम्बिका ॥१४॥कटिदेशं पीठसंस्था महामहिषघातिनी ।लिङुस्थानं महामुद्रा भगं मालामनुप्रिया ॥१५॥भगीरथप्रिया धूम्रा मूलाधारं गणेश्वरी ।चतुर्दलं कक्ष्यपूज्या दलाग्रं मे वसुन्धरा ॥१६॥शीर्षं राधा रणाख्या च ब्रह्माणी पातु मे मुखम् ।मेदिनी पातु कमला वाग्देवी पूर्वगं दलम् ॥१७॥छेदिनी दक्षिणे पातु पातु चण्दा महतपा ।चन्द्रघण्टा सदा पातु योगिनी वारुणं दलम् ॥१८॥उत्तरस्थं दलं पातु पृथिवीमिन्द्रपालिता ।चतुष्कोणं कामविद्या ब्रह्मविद्याब्जकोणकम् ॥१९॥अष्टशूल सदा पातु सर्ववाहनवाहना ।चतुर्भुजा सदा पातु डाकिनी कुलचञ्चला ॥२०॥मेढ्रस्था मदनाधारा पातु मे चारुपङ्जम् ।स्वयम्भूलिङ चार्वाका कोटराक्षी ममासनम् ॥२१॥कदम्बवनमापातु कदम्बवनवासिनी ।वैष्णवी परमा माया पातु मे वैष्णवं पदम् ॥२२॥षड्दलं राकिणी पातु राकिणी कामवासिनी ।कामेश्वरी कामरुपा श्रीकृष्ण पीतवाससम् ॥२३॥वनमाला वनदुर्गा शङ्खं मे शङ्खिनी शिवा ।चक्रं चक्रेश्वरी पातु कमलाक्षी गदां मम ॥२४॥पद्मं मे पद्मगन्धा च पद्ममाला मनोहरा ।रादिलान्ताक्षरं पातु लाकिनी लोकपालिनी ॥२५॥षड्दले स्थितदेवांश्च पातु कैलासवासिनी ।अग्निवर्णा सदा पातु गणं में परमेश्वरी ॥२६॥मणिपूरं सदा पातु मणिमालाविभूषणा ।दशपत्रं दशवर्ण डादिफान्तं त्रिविक्रमा ॥२७॥पातु नीला महाकाली भद्रा भीमा सरस्वती ।अयोध्यावासिनी देवी महापीठनिवासिनी ॥२८॥वाग्भवाद्या महाविद्या कुण्डली कालकुण्डली ।दशच्छदगतं पातु रुद्रं रुद्रात्मकं मम ॥२९॥सूक्ष्मात् सूक्ष्मतरा पातु सूक्ष्मस्थाननिवासिनी ।राकिणी लोकजननी पातु कूटाक्षरस्थिता ॥३०॥तैजसं पातु नियतं रजकी राजपूजिता ।विजया कुलबीजस्था तवर्गं तिमिरापहा ॥३१॥मन्त्रात्मिका मणिग्रन्थिं भेदिनी पातु सर्वदा ।गर्भदाता भृगुसुता पातु मां नाभिवासिनी ॥३२॥नन्दिनी पातु सकलं कुण्डली कालकम्पिता ।ह्रत्पद्मं पातु कालाख्या धूम्रवर्णा मनोहरा ॥३३॥दलद्वादशवर्णं च भास्करी भावसिद्धिदा ।पातु मे परमा विद्या कवर्गं कामचारिणी ॥३४॥चवर्गं चारुवसना व्याघ्रास्या टङ्कधारिनी ।चकारं पातु कृष्णाख्या काकिनीं पातु कालिका ॥३५॥टकुराङी टकारं मे जीवभावा महोदया ।ईश्वरी पातु विमला मम ह्रत्पद्मवासिनी ॥३६॥कर्णिका कालसन्दर्भा योगिनी योगमातरम् ।इन्द्राणी वारूनी पातु कुलमाला कुलान्तरम् ॥३७॥तारिणी शक्तिमाता च कण्ठवाक्यं सदावतु ।विप्रचित्ता महोग्रोग्रा प्रभा दीप्ता घनासना ॥३८॥वाक्स्तम्भिनी वज्रदेहा वैदेही वृषवाहिनी ।उन्मत्तानन्दचित्ता च क्षणोशीशा भगान्तरा ॥३९॥मम षोडशपत्राणि पातु मातृतनुस्थिता ।सुरान् रक्षतु वेदज्ञा सर्व भाषा च कर्णिकाम् ॥४॥ईश्वरार्द्धसनगता प्रपायान्मे सदाशिवम् ।शाकम्भरी महामाया साकिनी पातु सर्वदा ॥४१॥भवानी भवमाता च पायाद् भ्रूमध्यपङ्कजम् ।द्विदलं व्रतकामाख्या अष्टाङासिद्धिदायिनी ॥४२॥पातु नासामखिलानन्दा मनोरुपा जगप्रिया ।लकारं लक्षणाक्रान्ता सर्वलक्षणलक्षणा ॥४३॥कृष्णाजिनधरा देवी क्षकारं पातु सर्वदा ।द्विदलस्थं सर्वदेवं सदा पातु वरानना ॥४४॥बहरुपा विश्वरुपा हाकिनी पातु संस्थिता ।हरापरशिवं पातु मानसं पातु पञ्चमी ॥४५॥षट्चक्रस्था सदा पातु षट्चक्रकुलवासिनी ।अकारादिक्षकारान्ता बिन्दुसर्गसमन्विता ॥४६॥मातृकार्णा सदा पातु कुण्डली ज्ञानकुण्डली ।देवकाली गतिप्रेमा पूर्णा गिरितटं शिवा ॥४७॥उड्डीयानेश्वरी देवी सकलं पातु सर्वदा ।कैलासपर्वतं पातु कैलासगिरिवासिनी ॥४८॥पातु मे डाकिनीशक्तिर्लाकिनी राकिणी कला ।साकिनी हाकिनी देवी षट्चक्रादीन् प्रपातु मे ॥४९॥कैलासाख्यं सदा पातु पञ्चानन तनूद्भवा ।हिरण्यवर्णा रजनी चन्द्रसूर्याग्निभक्षिणी ॥५०॥सहस्त्रदलपद्मं में सदा पातु कुलाकुला ।सहस्त्रदलपद्मस्था दैवतं पातु खेचरी ॥५१॥काली तारा षोडशाख्या मातङी पद्मवासिनी ।शशिकोटिगलद्रूपा पातु मे सकलं तमः ॥५२॥वने घोरे जले देशे युद्धे वादे श्मशानमे ।सर्वत्र गमने ज्ञाने सदा मां पातु शैलजा ॥५३॥पर्वते विविधायासे विनाशे पातु कुण्डली ।पाददिब्रह्मन्धान्तं सर्वाकाशं सुरेश्वरी ॥५४॥सदा पातु सर्वविद्या सर्वज्ञानं सदा मम ।नवलक्षमहाविद्या दशदिक्षु प्रपातु माम् ॥५५॥इत्येतत् कवचं देवि कुण्डलिन्याः प्रसिद्धिदम् ।ये पठन्ति ध्यानयोगे योगमार्गव्यवस्थिताः ॥५६॥ते यान्ति मुक्तिपदवीमैहिके नात्र संशयः ।मूलपद्मे मनोयोगं कृत्वा ह्रदासनस्थितः ।धर्मोदयां दयारुढामाकाशस्थानवासिनीम् ॥५८॥अमृतानन्दसिकां विकलां सुकलां शिताम् ।अजितां रक्तहितां विशक्तां रक्तविग्रहाम् ॥५९॥रक्तनेत्रां कुलक्षिप्तां ज्ञानाञ्जनजयोज्ज्वलाम् ।विश्वाकाराम मनोरुपां मूले धात्वा प्रपूजयेत् ॥६०॥यो योगी कुरुते एवं स सिद्धो नात्र संशयः ।रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥६१॥राज्यं श्रियमवाप्नोति राज्यहीनः पठेद्यदि ।पुत्रहीनो लभेत् पुत्रं योगहीनो भवेद्वशी ॥६२॥कवचं धारयेद्यस्तु शिखायां दक्षिणे भुजे ।वामा वामकरे धृत्वा सर्वाभीष्टमाप्नुयात् ॥६३॥स्वर्णे रौप्ये तथा ताम्रे स्थापयित्वा प्रपूजयेत् ।सर्वदेशे सर्वकाले पठित्वा सिद्धिमाप्नुयात् ॥६४॥स भूयात् कुण्डलीपुत्रो नात्र कार्या विचारणा ॥६५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिविद्याप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे कन्दवासिनीकवचं नाम स्त्रयस्त्रिंशः पटलः ॥३३॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP