संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वाविंशः पटलः| षट्चक्रसारसंकेते द्वाविंशः पटलः षट्चक्रसारसंकेते विशुद्धचक्रमहापद्मविवेचनम् द्वाविंशः पटलः - षट्चक्रसारसंकेते षट्चक्रसारसंकेते योगशिक्षाविधिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल षट्चक्रसारसंकेते Translation - भाषांतर श्रीआनन्दभैरवी उवाचश्रृणु शम्भो प्रवक्ष्यामि षट्चक्रस्य फलोदयम् ।यज्ज्ञात्वा योगिनः सर्वे चिरं तिष्ठन्ति भूतले ॥१॥मूलाधारं महापद्मं चतुर्दलसुशोभितम् ।वादिसान्तं स्वर्णवर्णं शक्तिब्रह्मपदं व्रजेत् ॥२॥क्षित्यतेजोमरुद्व्योममण्डलं षट्सु पङ्कजे ।क्रमेण भावयेन्मन्त्री मूलविद्याप्रसिद्धये ॥३॥मूलपद्मोद्र्ध्वदेशे च स्वाधिष्ठानं महाप्रभम् ।षड्दलं राकिणी कर्णिकायां स्मरेद्यतिः ॥४॥षड्दलं बादिलान्तं च वर्णं ध्यात्वा सुराधिपः ।कन्दर्पवायुजा व्याप्तलिङमूले भजेद्यतिः ॥५॥तदूर्ध्वे नाभिमूले च मणिकोटिसमप्रभम् ।दशदलं योगधर्मं डदिफान्तर्थगं भजेत् ॥६॥लाकिनीसहितं रुद्रं ध्यायेद्योगादिसिद्धये ।महामोक्षपदं दृष्टवा जीवन्मुक्तो भवेद् ध्रुवम् ॥७॥बन्धूकपुष्पसङ्काशं द्लद्वादशशोभोतम् ।कादिठान्तर्णसहितमीश्वरं काकिनीं भजेत् ॥८॥तदूर्ध्वे षोडशोल्लासपदे साक्षात् सदाशिवम् ।महादेवीं साकिनीगं कण्ठे ध्यात्वा शिवो भवेत् ॥९॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP